सामग्रीं त्यजन्तु

कादम्बरी — मङ्गलाचरणम्, कथाप्रशंसा, कविवंशवर्णनम्

मङ्गलाचरणम्

रजोजुषे जन्मनि सत्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे ।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥१॥

प्रजानां जन्मनि रजोजुषे सत्त्ववृत्तये स्थितौ प्रलये तमःस्पृशे सर्गास्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने अजाय नमः

  • रजोजुषे = रजः जुषते इति रजोजुट् (क्विप्), तस्मै ।
  • प्रजाः = प्रजायन्ते इति प्रजाः ।
  • सत्त्ववृत्तये = सत्त्वे वृत्तिः यस्य सः, तस्मै ।
  • तमःस्पृशे = तमः स्पृशति इति तमःस्पृक् (क्विप्), तस्मै ।
  • त्रिगुणात्मने = त्रयो गुणा एव आत्मा यस्य स, तस्मै ।
  • त्रयीमयाय = त्रयी एव त्रयीमयम् (मयट्, स्वार्थे), तस्मै ।

जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः॥२॥

बाणासुरमौलिलालिताः त्र्यम्बकपादपांसवः जयन्ति ।

  • बाणसुरमौलिलालिताः = बाणश्चासौ असुरः, बाणासुरमौलिना लालिताः ।
  • दशास्यचूडामणिचक्रचुम्बिनः = दश आस्यानि यस्य स, चूडामणीनां चक्रं, दशास्यस्य चुडामणिचक्रं चुम्बति इति (णिनि)
  • सुरासुराधीशशिखान्तशायिनः = सुरासुराणां अधीशानाम् ईशानाम्, शिखान्तेषु शायिनः अवस्थानशीलाः (णिनि) ।
  • भवच्छिदः = भवं च्छिन्दन्ति इति, भवच्छिदः (क्विप्)।
  • त्र्यम्बकपादपांसवः = त्र्यम्बकस्य पादपांसवः ।
  • जयन्ति = सर्वोत्कर्षेण वर्तते ।

जयत्युपेन्द्रस्स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया।
दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम्॥३॥

स उपेन्द्रो जयति, यो बिभित्सया दूरतः क्षणलब्धलक्ष्यया कोपारुणया दृशा एव रिपोः उरः भयात् स्वयं अस्रपाटलं चकार

  • बिभित्सया = √भिदिर् विदारणे (रु०) + सन्, तया
  • अस्रपाटलम् = रुधिरसमरक्तवर्णम् । अस्रवत् पाटलम् ।

नमामि भर्वोश्चरणाम्बुजद्वयं सशेखरैर्मौखरिभिः कृतार्चनम् ।
समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गुलि ॥४॥

सशेखरैः मौखरिभिः कृतार्चनं समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गुलि भर्वोः चरणाम्बुजद्वयं नमामि

  • सशेखरैः = शेखरेण शिक्षावस्थितमाल्येन मुकुटैः वा सहितैः ।
  • मौखरिभिः = मौखरिनामभिः प्रथितैः भूपैः ।
  • समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गुलि
    • समस्ताः सामन्ताः अधिकृताः भूपतयः, तेषां किरीटानि
    • किरीटान्येव वेदिकाः, तासु यानि विटङ्कपीठानि (रिक्तस्थानं, कपोतपालिकाभूमयः)
    • तत्र (पीठे) उल्लुठिताः अरुणाः, अङ्गुलयो यस्य, तत् चरणद्वयम्)

दुर्जननिन्दा सज्जनस्तुतिश्च

अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते ।
विषं महाहेरिव यस्य दुर्वचः सुदुःसहं सन्निहितं सदा मुखे ॥५॥

कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव ।
मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥६॥

क्वणन्तः = रटन्तः । क्वण्+शतृ (क्वण् शब्दे) ।
बन्धनशृङ्घला इव = बन्धनलोहनिगडा इव । (स्पृष्टे लोहायति हस्तम्)

सुभाषितं हारि विशत्यधो गलान्न दुर्जनस्यार्करिपोरिवामृतम् ।
तदेव धत्ते हृदयेन सज्जनो हरिर्महारत्नमिवातिनिर्मलम् ॥७॥

हारि = हरति इति ताच्छील्ये णिनि ।
अर्करिपोः = राहोः ।
प्रयोगः → धत्ते हृदयेन ।

कथाप्रशंसा

स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् ।
रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव ॥८॥

स्फुरत्कलालापविलासकोमला शय्यां स्वयम् अभ्युपागता अभिनवा कथा वधूः इव रसेन जनस्य हृदि कौतुकाधिकं रागं करोति ।
कलालापविलासकोमला = कलश्च (मधुरः) चासौ आलापः, तस्य विलासः (माधुर्यं), तेन कोमला ।
रागं = प्रीतिम् ।
शय्या = शय्या स्यात्छयनीयेऽपि गुम्फनेऽपि च योषिति (मेदिनी) ।

हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः ।
निरन्तरश्लेषघनाः सुजातयो महास्रजश्चम्पककुड्मलैरिव ॥९॥

पक्षद्वयम् – स्रक्, कथा च ।
नवैः = अम्लानैः, नूतनैः ।
उज्ज्वलदीपकोपमैः = विशददीपसदृशैः, स्फुटदीपकोपमालङ्कारयुक्तैः । (शृङ्गारः शुचिरुज्ज्वलः इत्यमरः)
सुजातयः = सुन्दरमालतीपुष्पयुक्ताः, सुन्दरच्छन्दोविशेषयुक्ताः ।
उपपादिताः = निर्मैताः, रचिताः ।
निरन्तरश्लेषघनाः = अविच्छेदसङ्घटननिबिडाः, अविच्छेदश्लेषालङ्कारप्रचुराः ।
(निरन्तरम् = निर्गतम् अन्तरं यस्मिन् यस्माद्वा)

प्रपितामहप्रशंसा

बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणी सताम् ।
अनेकगुप्तार्चितपादपङ्कजः कुबेरनामांश इव स्वयंभुवः ॥१०॥

  • जगद्गीतगुणः – गीताः गुणाः यस्य स, जगति गीतगुणः, जगद्गीतहुणः ।

उवास यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे ।
सरस्वती सोमकषायितोदरे समस्तशास्त्रस्मृतिबन्धुरे मुखे ॥११॥

  • श्रुतिशान्तकल्मषे = श्रुतिभिः शान्तं नष्टं कल्मषं पापं यस्य तत्, तस्मिन् ।
  • समस्तशास्त्रस्मृतिबन्धुरे = सम्पूर्णशास्त्रधर्मशास्त्रसुन्दरे । (बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः इति विश्वः)
  • पुरोडाशपवित्रिताधरे = पुरोडाशेन यज्ञद्रव्येन पवित्रितौ अधरौ यस्य तत्, तस्मिन् ।
  • सोमकषायितोदरे = सोमेन कषायितम् उदरं यस्य तत्, तस्मिन् ।

जगुर्गृहेऽभ्यस्त समस्तवाङ्मयैः ससारिकैः पञ्जरवर्तिभिः शुकैः।
निगृह्यमाणा बटवः पदे पदे यजूंषि सामानि च यस्य शङ्किताः॥१२॥

  • जगुः = गै लिट् । (आदेच उपदेशेऽशिति इति आत्वं, ततः जगौ जगतुः जगुः इत्यादयः, ददौ इव)
  • निगृह्यमाणाः = निग्रहो निर्भर्त्सनं तेन त्रास्यमानाः ।

पितामहप्रशंसा

हिरण्यगर्भो भुवनाण्डकादिव क्षपाकरः क्षीरमहार्णवादिव ।
अभूत्सुपर्णो विनतोदरादिव द्विजन्मनामर्थपतिः पतिस्ततः ॥१३॥

विवृण्वतो यस्य विसारि वाङ्मयं दिने दिने शिष्यगणा नवा नवाः ।
उषस्सु लग्नाः श्रवणेऽधिकां श्रियं प्रचक्रिरे चन्दनपल्लवा इव ॥ १४॥

  • छात्रगणाः श्रवणे (आकर्णने) लग्नाः (अर्थपतेः) श्रियं (शोभाम्) अधिकां प्रचक्रिरे, चन्दनपल्लवाः (अङ्गनानां) श्रवणे (कर्णे) लग्नाः तासां शोभां कुर्वन्ति ।
  • पल्लवोऽस्त्री किसलयमित्यमरः ।
  • विसारि - विसरणशीलः (ताच्छील्ये णिनि) ।

विधानसंपादितदानशोभितैः स्फुरन्महावीरसनाथमूर्तिभिः ।
मखैरसंख्यैरजयत्सुरालयं सुखेन यो यूपकरैर्गजैरिव ॥१५॥

  • विधानसंपादितदानशोभितैः = विधानेन सम्पादितं, तच्च तद्दानम् तेन शोभिताः तैः (दानं गजमदे त्यागे इति विश्वमेदिन्यौ) । यज्ञपक्षे त्यागेन शोभितैः, गजपक्षे गजमदेन शोभितैः (खाद्यविधिविहितमदशोभासम्पन्नैः)।
  • स्फुरन्महावीरसनाथमूर्तिभिः = स्फुरन्तश्च ते महावीराः, तैः सनाथाः, तादृशी मूर्तिर्येषां, तैः । (यज्ञपक्षे) दीप्यमानमखाग्नियुक्तस्वरूपैः, (गजपक्षे) सञ्चलनमहाभटशरीरयुक्तैः ।
  • मखैः = यज्ञैः ।

पितृप्रशंसा

स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिनाम् ।
अवाप मध्ये स्फटिकोपलोपमं क्रमेण कैलासमिव क्षमाभृताम् ॥१६॥

  • क्षमाभृताम् – क्षमां बिभर्ति, तेषां (पर्वतानाम्) । क्षान्तिगुणयुक्तानाम् । क्षितिक्षान्त्योः क्षमा ।
  • उपलः प्रस्तरे रत्ने शर्करायां तु योषिति ।

महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विषः ।
द्विषन्मनः प्राविविशुः कृतान्तरा गुणा नृसिंहस्य नखाङ्कुशा इव ॥१७॥

  • नखाङ्कुराः इति पाठान्तरम् ।
  • कृतान्तराः = कृतमन्तरं यैः, ते ।
  • कलङ्कमुक्तेन्दुकलामलत्विषः = कलङ्केन मुक्तः, स चासौ इन्दुः, तस्य कलाः अमला त्विट् येषां ते ।
  • नृ – ना, नरौ, नरः ।
  • पूर्णोपमा ।

दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः ।
चकार यस्याध्वरधूमसञ्चयो मलीमसः शुक्लतरं निजं यशः ॥१८॥

  • यस्य अध्वरधूमसञ्चयः निजं यशः शुक्लतरं चकार ।
  • अलीकं = मस्तकम् (नानार्थः) ।
  • अध्वरधूमसञ्चयः = यज्ञधूमसमूहः ।
  • तमालम् = वृक्षविशेषस्य पर्णः ।

कविप्रशंसा

सरस्वतीपाणिसरोजसम्पुटप्रमृष्टहोमश्रमशीकराम्भसः ।
यशोंऽशुशुक्लीकृतसप्तविष्टपात्ततः सुतो बाण इति व्यजायत॥१९॥

  • सरस्वतीपाणिसरोजसम्पुटप्रमृष्टहोमश्रमशीकराम्भसः = शारदाकरकमलसंश्लेषप्रोञ्छितहवनपरिश्रमस्वेदजलस्य ।
    • पाणिः सरोजम् इव पाणिसरोजम्, तस्य सम्पुटम् । सरस्वत्याः पाणिसरोजसम्पुटम् सरस्वतीपाणिसरोजसम्पुटम्
    • होमे श्रमः, तस्य शीकराम्भांसि होमश्रमाशीकराम्भांसि ।
      • शीकरम् जलकणः (स्वेदबिन्दुः) एव अम्भः शीकराम्भः (मयूरव्यंसकादिः) ।
    • सरस्वतीपाणिसरोजसम्पुटेन प्रमृष्टानि होमश्रमशीकराम्भांसि यस्य सः सरस्वतीपाणिसरोजसम्पुटप्रमृष्टहोमश्रमशीकराम्भः, तस्मात् ।
  • यशोंऽशुशुक्लीकृतसप्त‌विष्टपात् = कीर्तिकिरणशुभ्रीकृतसप्तलोकात् ।
    • यशसः अंशुभिः किरणैः शुक्लीकृतानि सप्त विष्टपानि लोकाः येन सः, तस्मात् ।

द्विजेन तेनाक्षतकण्ठकौठ्यया महामनोमोहमलीमसान्धया ।
अलब्धवैदग्ध्यविलासमुग्धया धिया निबद्धेयमतिद्वयी कथा ॥२०॥

  • अक्षतकण्ठकौठ्यया = अक्षतं कण्ठस्य कौण्ठ्यं यस्याः सा, तया ।
  • महामनोमोहमलीमसान्धया = अत्यन्तचित्तवक्लव्य-मलिन-सदसत्प्रतिपादनासमर्थया ।
    • मनसः मोहः, महान् चासौ मनोमोहः, तेन मलीमसा अन्धा, तया। मूर्छा तु कश्मले मोहः ।
  • अलब्धवैदग्ध्यविलासमुग्धया = अप्राप्तवैदुष्यचातुर्यमूढया, नितान्तकोमलयेत्यर्थः ।
  • अतिद्वयी = द्वयीम् अतिक्रान्ता । (द्वयी = बृहत्कथा, वासवदत्ता)

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
रजोजुषे जन्मनि सत्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे वंशस्थम् यथासंख्यम्
जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः वंशस्थम् समुच्चयः
जयत्युपेन्द्रस्स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया वंशस्थम् उत्प्रेक्षा, तद्गुणः
नमामि भर्वोश्चरणाम्बुजद्वयं सशेखरैर्मौखरिभिः कृतार्चनम् वंशस्थम् संसृष्टिः, उपमा, रूपकम्
अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते वंशस्थम् उपमा
कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव वंशस्थम् उपमा
सुभाषितं हारि विशत्यधो गलान्न दुर्जनस्यार्करिपोरिवामृतम् वंशस्थम् उपमा
स्फुरत्कलालापविलासकोमला करोति रागं हृदि कौतुकाधिकम् वंशस्थम् उपमा, श्लेषः
हरन्ति कं नोज्ज्वलदीपकोपमैर्नवैः पदार्थैरुपपादिताः कथाः वंशस्थम् उपमा, श्लेषः
बभूव वात्स्यायनवंशसंभवो द्विजो जगद्गीतगुणोऽग्रणी सताम् वंशस्थम् उत्प्रेक्षा
उवास यस्य श्रुतिशान्तकल्मषे सदा पुरोडाशपवित्रिताधरे वंशस्थम् परिकरः
जगुर्गृहेऽभ्यस्त समस्तवाङ्मयैः ससारिकैः पञ्जरवर्तिभिः शुकैः वंशस्थम् अतिशयोक्तिः
हिरण्यगर्भो भुवनाण्डकादिव क्षपाकरः क्षीरमहार्णवादिव वंशस्थम् मालोपमा
विवृण्वतो यस्य विसारि वाङ्मयं दिने दिने शिष्यगणा नवा नवाः वंशस्थम् उपमा
विधानसंपादितदानशोभितैः स्फुरन्महावीरसनाथमूर्तिभिः वंशस्थम् शाब्द्युपमा
स चित्रभानुं तनयं महात्मनां सुतोत्तमानां श्रुतिशास्त्रशालिना… वंशस्थम् उपमा
महात्मनो यस्य सुदूरनिर्गताः कलङ्कमुक्तेन्दुकलामलत्विषः वंशस्थम् —
दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः वंशस्थम् विषमम्, रूपकम्
सरस्वतीपाणिसरोजसम्पुटप्रमृष्टहोमश्रमशीकराम्भसः वंशस्थम् संसृष्टिः, अतिशयोक्तिः
द्विजेन तेनाक्षतकण्ठकौठ्यया महामनोमोहमलीमसान्धया वंशस्थम् संसृष्टिः