सामग्रीं त्यजन्तु

अभिज्ञानशाकुन्तलम् — द्वितीयोऽङ्कः (आश्रमनिवेशः)

(ततः प्रविशति विषण्णो विदूषकः)
विदूषकः – (निःश्वस्य)
भो दिष्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि । अयं मृगोऽयं वराहोऽयं शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपच्छायासु वनराजिष्वाहिण्ड्यते अटवीतोऽटवी । पत्रसङ्करकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते । अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगगजानां च शब्देन रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे दास्याः पुत्रैः शाकुनिकलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि । एतावतापि मे पीडा न संवृत्ता यतः अयं गण्डस्योपरि विस्फोटकः/पिटकः संवृत्तः । ह्यः किलास्मास्ववहीनेषु तत्रभवता मृगानुसारेणाश्रमपदं प्रविष्टेन तापसकन्यका शकुन्तला ममाधन्यतया दृष्टा । साम्प्रतं नगरगमनाय मनः कथामपि न करोति । एवमेव चिन्तयतः मे प्रभाताऽक्ष्णोः रजनी । का गतिः यावदेनं कृताचारपरिग्रहं प्रियवयस्यं पश्यामि ।
(इति परिक्रम्यावलोक्य च)
एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत इत एवागच्छति प्रियवयस्यः । भवतु । अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय ।
(इति दण्डकाष्ठमवलम्ब्य स्थितः)
(ततः प्रविशति यथानिर्दिष्टपरिवारो राजा)

वनराजिषु = विपिनपङ्क्तिषु । आहिण्ड्यते = परिभ्रम्यते । अनियतवेलम् = अनिश्चितसमयं, विषमसमयम्, अकालम् (अविद्यमाना नियता वेला यत्र) । शूल्यमांसम् = bbq । प्रतिबोधितः = जागरितः, निद्रादरिद्रीकृतः । अवहीनेषु = पश्चात् विश्लिष्टेषु । प्रभाता = व्युष्टा, गतेति । रजनी रात्रिः । कृताचारपरिग्रहं = कृताह्निकम्, विहितः स्नातसन्ध्योपासनादेः प्रतिकर्मप्रसाधनं येन स तम् (कृतः आचारस्य परिग्रहः येन, तम्) ।

राजा

कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥२।१॥

कामं = यथेच्छा । प्रिया = प्रीणातीति प्रिया । सुलभा = सुखप्राप्या । तद्भावदर्शनाश्वासि (मनः) = तदनुरागनिश्चयात्कृताश्वासम् (भावनाः = मय्यनुरागसूचकाः स्निग्धवीक्षण-मन्दगमनचेष्टाविशेषादयः । आश्वसिति तच्छीलं यस्य तद् आश्वासि, आश्वासयुक्तम्) । प्रार्थना = अनुरागः । रतिं = प्रीतिं कुरुते, सुखं जनयति । अकृतार्थे = अकृतकृत्ये (स्त्रीपुरुषयोः मिथः संयोजनमेव कामस्यार्थः) ।

(स्मितं कृत्वा) एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।

प्रार्थयिता = कामिजनः । आत्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः = आत्मना अभिप्रायेण सम्भाविता (कल्पिता) इष्टजनस्य चित्तवृत्तिः (मनोव्यापारः) येन स । विडम्ब्यते = परिहास्यते, परिहासास्पदं भवति ।

स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥२।२॥

स्निग्धं = सस्नेहम् । गुरुतया = भारत्वात्, दुर्वहतया । विलासाद् = अङ्गविकारात्, स्वाभाविकशृङ्गारक्रियाविशेषात् । उपरुद्धया = वारितगमनया । सासूयम् = भ्रूभङ्गादिजनितया ईर्ष्यया सह । मत्परायणम् = मद्विषयकानुरागाविष्करणतत्परम् । स्वताम् = आत्मीयताम् ।

विदूषकः – (तथा स्थित एव) भो वयस्य न मे हस्तपादं प्रसरति तद्वाङ्मात्रेण जापयिष्यामि । जयतु जयतु भवान् ।
राजा – कुतोऽयं गात्रोपघातः ।
विदूषकः – कुतः? किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि ।

अक्ष्याकुलीकृत्य = नेत्रयोरङ्गुलिप्रवेशं कृत्वा अक्षिण्योः आकुलीकरणम् ।

राजा – न खल्ववगच्छामि ।
विदूषकः – भो वयस्य यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः प्रभावेण ननु नदीवेगस्य ।

वेतसः = वानीरः । कुब्जलीलां = वक्रक्रीडाम् । विडम्बयति = अनुकरोति, नम्रीभवति ।

राजा – नदीवेगस्तत्र कारणम् ।
विदूषकः – ममापि भवान् ।
राजा – कथमिव ।
विदूषकः – एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः सङ्क्षोभितसन्धिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसीद मे । एकाहमपि तावद्विश्रम्यताम् ।

आकुलप्रदेशे = सघनवनक्रूरश्वापदसञ्चारदुर्गमे । वनचरवृत्तिना = राजोचितदेहसंस्कारवर्जं वनात् वनम् आहिण्डता । सङ्क्षोभितसन्धिबन्धानाम् = सम्यक्चलिताङ्गसंयोगबन्धनानाम् । अनीशः = अक्षमः ।

राजा – (स्वगतम्) अयं चैवमाह । ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः ।
कुतः ।

मृगयाविक्लवं = आखेटकविह्वलं, मृगयाविषये शिथिलादरम् ।

न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः ॥२।३॥

अधिज्यम् = आरोपितमौर्वीम् । आहितसायकं = संयोजितबाणम् । धनुः = कोदण्डम् । नमयितुम् = व्यापारयितुम् । प्रियायाः = दयितायाः । विलोकितानि = दृष्टयः, अवलोकितानि । मुग्धविलोकितोपदेशः = रम्यदृष्टिशिक्षा ।

विदूषकः – (राज्ञो मुखं विलोक्य) अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत् ।
राजा – (सस्मितम्) किमन्यत् । अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि ।

अनतिक्रमणीयम् = अनुलङ्घनीयम् ।

विदूषकः – चिरं जीव ।
(इति गन्तुमिच्छति)
राजा – वयस्य तिष्ठ । सावशेषं मे वचः ।

सावसेषम् = अवशिष्टम् ।

विदूषकः – आज्ञापयतु भवान् ।
राजा – विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन भवितव्यम् ।

सहायेन = सहयोगिना ।

विदूषकः – किं मोदकखण्डिकायाम् । तेन ह्ययं सुगृहीतः क्षणः ।

मोदकखण्डिकायाम् = मोदकभक्षणमहोत्सवे, मोदकानां शकलीकरणे (खण्डनं ग्रासपरिणामम्) ।

राजा – यत्र वक्ष्यामि । कः कोऽत्र भोः ।
(प्रविश्य)
दौवारिकः – (प्रणम्य) आज्ञापयतु भर्त्ता ।
राजा – रैवतक, सेनापतिस्तावदाहूयताम् ।
दौवारिकः – तथा ।
(इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य)
एष आज्ञावचनोत्कण्ठो भर्ता यतो दत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः ।

आज्ञावचनोत्कण्ठः = आदेशदानसमुत्सुकः । दत्तदृष्टिः = कृतनेत्रव्यापारः, अवलोकयन् ।

सेनापतिः – (राजानमवलोक्य)
दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः –

दृष्टदोषा = भूरिदोषजननी । गुणः = अलङ्कृतिः ।

अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं रविकिरणसहिष्णुः स्वेदलेशैरभिन्नम् ।
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥२।४॥

अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं = सततकार्मुकमौर्व्याः सङ्घर्षणेन कठोरपूर्वकायः । रविकिरणसहिष्णुः = आदित्यतेजःसहनशीलम् । स्वेदलेशैरभिन्नम् = श्रमबिन्दुभिः अप्रतिहतम् । अपचितं = कृशम् । व्यायत्वात् = मृगयाव्यापारव्यायामात् । प्राणसारं = बलाधानम् । नागः = गजः । बिभर्ति = धारयति ।

(उपेत्य) जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते ।
राजा – मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन ।
सेनापतिः – (जनान्तिकम्) सखे स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये ।

स्थिरप्रतिबन्धः = अविचलितविरोधी । चित्तवृत्तिं = मनोव्यापारम् ।

(प्रकाशम्) प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम् ।

वैधेयः = मूढः । निदर्शनम् = दृष्टान्तः, प्रमाणम् ।

मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥२।५॥

मेदश्छेदकृशोदरं = वसायाः अल्पीभावेन क्षीणमुदरं यस्मिन्, तत् मेदोविनाशतनुतरोदरम् । विनोदः = विहारः, क्रीडा, विनुद्यते कालः इति विनोदः । धन्विनां = धानुष्कानाम् । उत्कर्षः = कुशलता, धनुर्विद्योन्नतिः । व्यसनं = दोषाधायकम् ।

विदूषकः – अपेहि रे उत्साहहेतुक । अत्रभवान्प्रकृतिमापन्नः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णर्क्षस्य कस्यापि मुखे पतिष्यसि ।

अपेहि = अपध्वंस, दूरीभव । नरनासिकालोलुपस्य = मनुष्यघ्राणलिप्सोः । जीर्णर्क्षस्य = वृद्धभल्लुकस्य । आहिण्डमानः = भ्रमन् ।

राजा – भद्र सेनापते आश्रमसन्निकृष्टे स्थिताः स्मः । अतस्ते वचो नाभिनन्दामि । अद्य तावत् ।

अभिनन्दामि = प्रशंसामि ।

गाहन्तां महिषा निपानसलिलं श‍ृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्धं क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥२।६॥

निपानसलिलम् = आहावजलम् । ताडितम् = उत्फालितम् । गाहन्ताम् = आलोडयन्तु, निर्भयत्वात् यथेच्छं क्रीडन्तु । छायाबद्धकदम्बकम् = आतपरहिते स्थाने बद्धयूथम्, कदम्बकं नाम मण्डलाकारेणावस्थानम् । रोमन्थं = चर्वितचर्वणम्, उद्गलितशष्पादिकवलचर्वणम् । अभ्यस्यतु = मुहुर्मुहुः करोतु । विश्रब्धं = निशङ्कम् । पल्वले = अल्पसरोवरे । शिथिलज्याबन्धं = शिथिलः ज्याबन्धः यस्य, तत् । मुस्ताक्षतिः = मुस्ताख्यतृणविशेषस्य उत्पाटानम् ।

सेनापतिः – यत्प्रभविष्णवे रोचते ।
राजा – तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य ।

उपरुन्धन्ति = परिपीडयन्ति । निवर्तय = परावर्तय, आगमय ।

शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति ॥२।७॥

गूढं = प्रच्छन्नम् । दाहात्मकं = शीघ्रकार्यकारिफलं, दाहजनकं लक्षणया दाहस्वाभवम् । तेजोऽभिभवात् = अन्येषां तेजसां समाक्रमणात् ।

सेनापतिः – यदाज्ञापयति स्वामी ।
विदूषकः – ध्वंसतां त उत्साहवृत्तान्तः ।
(निष्क्रान्तः सेनापतिः)
राजा – (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयावेशम् । रैवतक त्वमपि स्वं नियोगमशून्यं कुरु ।

नियोगं = स्वाधिकारं, कर्तव्यम् । अशून्यम् = अरिक्तं, सम्पन्नम् ।

परिजनः – यद्देव आज्ञापयति ।
(इति निष्क्रान्तः)
विदूषकः – कृतं भवता निर्मक्षिकम् । साम्प्रतमेतस्मिन्पादपच्छायाविरचितवितानसनाथे शिलातले निषीदतु भवान्यावदहमपि सुखासीनो भवामि ।

वितानः = canopy, awning । निषीदतु = उपविशतु ।

राजा – गच्छाग्रतः ।
विदूषकः – एतु भवान् ।
(इत्युभौ परिक्रम्यौपविष्टौ)
राजा – माधव्य अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न दृष्टम् ।

अनवाप्तचक्षुःफलः = अनधिगतनयनसाफल्यः ।

विदूषकः – ननु भवानग्रतो मे वर्तते ।
राजा – सर्वः कान्तमात्मीयं पश्यति । अहं तु तां एवाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।

कान्तं = मनोरमं, दर्शनीयम् । आत्मीयं = स्वं स्वकीयं जनं वा । ललामं = रमणीयम्, श्रेष्ठं, रत्नम्, आभूषणम् । आश्रमललामभूतां = तपोवनालङ्कारभूताम् ।

विदूषकः – (स्वगतम्) भवतु । अस्यावसरं न दास्ये ।
(प्रकाशम्) भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते ।

अभ्यर्थनीया = (विवाहार्थं) प्रार्थनीया । दृश्यते = प्रतीयते ।

राजा – सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।

सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥२।८॥

विदूषकः – (विहस्य) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्तिण्यामभिलाषो भवेत्तथा स्त्रीरत्नपरिभोगिणः भवत इयमभ्यर्थना ।

उद्वेजितस्य = विरक्तस्य । परिभोगः = उपभोगः (विशिष्य मैथुनम्) । अभ्यर्थना = इच्छा ।

राजा – न तावदेनां पश्यसि येनैवमवादीः ।
विदूषकः – तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।

विस्मयं = कौतुकम् ।

राजा – वयस्य किं बहुना ।

चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥२।९॥

विभुत्वं = सामर्थ्यं, निर्माणकौशलम् । वपुः = लोकोत्तरसौन्दर्यशालि अतुलसौन्दर्यसारसमुज्ज्वलं शरिरम् । अनुचिन्त्य मे = मुहुर्मुहुरनुसन्धाय स्थितस्य मम । चित्रे = आलेख्ये, फलकादौ । निवेश्य = विभाव्य, आकृतिसमर्पणप्रकारेण विलिख्य । परिकल्पितसत्त्वयोगा = प्रठिष्ठापितस्य प्राणस्य सम्बन्धः यस्याः (परिकल्पितस्य सत्त्वस्य योगः यस्याः सा) । रूपोच्चयेन = सौन्दर्यसमूहेन । कृता = प्रादुर्भूता । अपरा = अद्वितीया, विलक्षणा ।

विदूषकः – यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ।

प्रत्यादेशः = तिरस्कारः, प्रत्याखानं, निराकरणम् ।

राजा – इदं च मे मनसि वर्तते ।

अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥२।१०॥

कररुहैः = नखैः । किसलयं = पल्लवः । आस्वादितः = रसनाविषयीकृतः । अलूनम् = अच्छिन्नम्, अत्रोटितम् ।

विदूषकः – तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि तपस्विन इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति ।
राजा – परवती खलु तत्रभवती । न च सन्निहितोऽत्र गुरुजनः ।

परवती = पराधीना ।

विदूषकः – अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः ।

अन्तरेण = विषये ।

राजा – निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु

अप्रगल्भः = कौशलशून्यः (अनुरागप्रकाशनकौशलशून्यः) । निसर्गाद् = प्रकृत्या ।

अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥२।११॥

संहृतम् = निवर्तितं, गोपितम् । अन्यनिमित्तकृतोदयं = अन्यहेतुकविहिताविर्भावम् (कथान्तरव्याजेन [हसितम्]) । विनयवारितवृत्तिः = लज्जावरुद्धप्रसरः । विवृतः = प्रकटीकृतः । संवृतः = गोपायितः, निगूहितः ।

विदूषकः – न खलु दृष्टमात्रस्य तवाङ्कं समारोहति ।
राजा – मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो भावस्तत्रभवत्या । तथा हि ।

मिथः = रहसि । शालीनतया = अधृष्टतया । आविष्कृतः = प्रकटितः ।

दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥२।१२॥

अकाण्डे = अनवसरे, अकारणम् । क्षतः = सव्रणः । विवृत्तवदना = परावृत्तानना, परावृत्तमुखा (मत्सम्मुखीना) । असक्तम् = अलग्नम् ।

विदूषकः – तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि ।
राजा – सखे तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः ।

परिज्ञातम् = अभिज्ञातम् ।

विदूषकः – कोऽपरोऽपदेशो युष्माकं राज्ञाम् । नीवारषष्ठभागमस्माकमुपहरन्त्विति ।
राजा – मूर्ख अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि विहायाभिनन्द्यते । पश्य ।

यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् ।
तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥२।१३॥

(नेपथ्ये)
हन्त सिद्धार्थौ स्वः ।

सिद्धार्थौ = निष्पन्नप्रयोजनौ ।

राजा – (कर्णं दत्त्वा) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
(प्रविश्य)
दौवारिकः – जयतु जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ ।

प्रतिहारभूमिम् = द्वारप्रदेशम् ।

राजा – तेन ह्यविलम्बितं प्रवेशय तौ ।
दौवारिकः – एष प्रवेशयामि ।
(इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य)
(उभौ राजानं विलोकयतः)
प्रथमः – अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवा उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः ।

उपपन्नम् = उचितम् ।

अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यःशब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥२।१४॥

अध्याक्रान्ता = स्वीकृता । सञ्चिनोति = सङ्गृह्णाति । वशीनः = संयमिनः, जितेन्द्रियस्य । रक्षायोगात् = प्रजापालनात् (रक्षैव योगः उपायः, तस्मात्) ।

द्वितीयः – गौतम अयं स बलभित्सखो दुष्यन्तः ।
प्रथमः – अथ किम् ।
द्वितीयः – तेन हि

नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥२।१५॥

नगरपरिघप्रांशुबाहु = पुरद्वारार्गलदीर्घपीवरभुजदण्डः । धरित्रीम् = पृथिवीम् । उदधिश्यामसीमां = समुद्रमेखलाम् । भुनक्ति = पालयति । समितिषु = युद्धेषु । आशंसन्ते = सम्भावयन्ति, प्रार्थयन्ति, निश्चिन्वन्ति । बद्धवैराः = वद्धद्वेषाः ।

उभौ – (उपगम्य) विजयस्व राजन् ।
राजा – (आसनादुत्थाय) अभिवादये भवन्तौ ।
उभौ – स्वस्ति भवते ।
(इति फलान्युपहरतः)
राजा – (सप्रणामं परिगृह्य) आज्ञापयितुमिच्छामि ।
उभौ – विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते ।

आश्रमसदाम् = आश्रमवासिनाम् । इहस्थः = अत्र समागतः ।

राजा – किमाज्ञापयन्ति ।
उभौ – तत्रभवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न इष्टिविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति ।

असान्निध्यात् = अनुपस्थितिकारणात् । इष्टिविघ्नं = यज्ञबाधाम् । सनाथीक्रियताम् = सस्वामिकं क्रियताम् । सरथिद्वितीयेन = सूतसहायेन ।

राजा – अनुगृहीतोऽस्मि ।
विदूषकः – (अपवार्य) एषेदानीमनुकूला तेऽभ्यर्थना ।
राजा – (स्मितं कृत्वा) रैवतक मद्वचनादुच्यतां सारथिः । सबाणासनं रथमुपस्थापयेति ।
दौवारिकः – यद्देव आज्ञापयति ।
(इति निष्क्रान्तः)
उभौ – (सहर्षम्)

अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥२।१६॥

पूर्वेषां = पूर्वजानाम् । अनुकारिणि = अनुवर्तिनि । आपन्नाभयसत्रेषु = विपन्नानाम् अभयरूपयज्ञेषु । दीक्षिताः = कृतसङ्कल्पाः ।

राजा – (सप्रणामम्) गच्छतां पुरो भवन्तौ । अहमप्यनुपदमागत एव ।
उभौ – विजयस्व
(इति निष्क्रान्तौ)
राजा – माधव्य अप्यस्ति शकुन्तलादर्शने कुतूहलम् ।
विदूषकः – प्रथमं सपरिवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ।

परिवाहम् = जलौघः ।

राजा – मा भैषीः । ननु मत्समीपे वर्तिष्यसे ।
विदूषकः – एष राक्षसाद्रक्षितोऽस्मि । (प्रविश्य)
दौवारिकः – सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञप्तिहरः करभक आगतः ।

अपेक्षते = प्रतीक्षते । आज्ञप्तिहरः = सन्देशवाहकः ।

राजा – (सादरम्) किमम्बाभिः प्रेषितः ।
दौवारिकः – अथ किम् ।
राजा – ननु प्रवेश्यताम् ।
दौवारिकः – तथा ।
(इति निष्क्रम्य करभकेण सह प्रविश्य)
एष भर्ता । उपसर्प ।
करभकः – जयतु जयतु भर्ता । देव्याज्ञापयति । आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र दीर्घायुषावश्यं सम्भावनीयेति ।
राजा – इतस्तपस्विकार्यम् । इतो गुरुजनाज्ञा । द्वयमप्यनतिक्रमणीयम् । किमत्र प्रतिविधेयम् ।
विदूषकः – त्रिशङ्कुरिवान्तरा तिष्ठ ।
राजा – सत्यमाकुलीभूतोऽस्मि ।

आकुलीभूतः = व्याकुलः, अनाकुलः आकुलः सम्पद्यते ।

कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्रोतः स्रोतोवहो यथा ॥२।१७॥

प्रतिहतम् = अवरोधं प्राप्तम्, निरुद्धप्रवाहम् । स्रोतः = प्रवाहः । स्रोतोवहः = नद्याः ।

(विचिन्त्य)
सखे त्वमम्बया पुत्र इति प्रतिगृहीतः । अतो भवानितः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति ।

प्रतिगृहीतः = अङ्गीकृतः । प्रतिनिवृत्य = प्रत्यावृत्य ।

विदूषकः – न खलु मां रक्षोभीरुकं गणयसि ।
राजा – (सस्मितम्) कथमेतद्भवति सम्भाव्यते ।
विदूषकः – यथा राजानुजेन गन्तव्यं तथा गच्छामि ।
राजा – ननु तपोवनोपरोधः परिहरणीय इति सर्वाननुयात्रिकांस्त्वयैव सह प्रस्थापयामि ।

अनुयात्रिकान् = सहगतान् सैनिकान् ।

विदूषकः – (सगर्वम्) तेन हि युवराजोऽस्मीदानीं संवृत्तः ।
राजा – (स्वगतम्) चपलोऽयं बटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । भवतु । एनमेवं वक्ष्ये ।
(विदूषकं हस्ते गृहीत्वा । प्रकाशम्) वयस्य ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य ।

क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥२।१८॥

परोक्षमन्मथः = अज्ञातकामकथः । एधितः = पालितः, वर्द्धितः ।

विदूषकः – अथ किम् ।
(इति निष्क्रान्ताः सर्वे)
॥ इति द्वितीयोऽङ्कः ॥

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि — —
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया यातं यच्च… — —
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु — —
अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं रविकिरणसहिष्णुः स्वेदलेशैरभि… — —
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष… — —
गाहन्तां महिषा निपानसलिलं श‍ृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्… — —
शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः — —
सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् — —
चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृ… — —
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु नवमनास… — —
अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् — —
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदान… — —
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् — —
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि त… — —
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नां नगरपरिघ… — —
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि — —
कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः — —
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः — —