मुखपृष्ठम् · ⬆ उत्तररामचरितम् · ← · →
उत्तररामचरितम् — षष्ठोऽङ्कः (कुमारप्रत्यभिज्ञानम्)¶
(ततः प्रविशति विमानेनोज्ज्वलं विद्याधरमिथुनम्)
विद्याधरः – अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलहप्रचण्डयोरुद्द्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तविलसितानि । तथा हि प्रिये! पश्य ।
विकान्तविलसितानि = वीरचरितानि (शूरो वीरश्च विक्रान्त इत्यमरः) ।
झणज्झणितकङ्कणक्वणितकिङ्किणीकं धनु- र्ध्वनद्गुरुगुणाटनीठत करालकोलाहलम् ।
वितत्य किरतोः शरानविरतं पुनः शूरयो- विचित्रमभिवर्तते भुवन भीममायोधनम् ॥६।१॥
जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि ।
स्तनयित्नोरिवामन्ददुन्दुभेर्दुन्दुभायितम् ॥६।२॥
स्तनयित्नोरिव = गर्जन्मेघस्येव ।
तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकमनीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः ।
विकचितैः = विकसितैः । संहतिः = समूहः । निकरस्य = समूहस्य ।
विद्याधरी – तत्किमिति पुनरकाण्डविस्फुरिततडिच्छटाकडारमिवाम्बरं झटिति संवृत्तम्?
विस्फुरिता = विद्योतिता । तडित्छटाः = विद्युत्प्रभाः । ताभिः कडारम् = पिङ्गलवर्णम् ।
विद्याधरः – तत्किं नु खल्वद्य ?
त्वष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्ज्वलः ।
पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥६।३॥
त्वष्टृ = विश्वकर्मण् ।
(विचिन्त्य) आं ज्ञातम् । जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरूपमाग्नेयमस्त्रम, यस्यायमग्निवच्छटासम्पातः । सम्प्रति हि ।
अवदग्धकर्बरितकेतुचामरैरपयातमेव हि विमानमण्डलैः ।
दहति ध्वजांशुकपटावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥४॥
आश्चर्यम्! प्रवृत्त एवायमुचण्डवज्रखण्डावस्फोटपटुरवस्फुलिङ्गगुरुरुतालतुमुललेलिहानोज्ज्वलज्वालासंभारभैरवो भगवानुषर्बुधः । प्रचण्डश्चास्य सर्वतः सन्पातः । तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि (तथा करोति)
विद्याधरी – दिष्टया एतेन विमलमुक्ताशैलशीतलस्निग्भमसृणमांसलेन नाथदेहस्पर्शेनानन्दमन्दमुकुलितघूर्णमानलोचनाया अल्पोदित एवान्तरितो मे सन्तापः ।
विद्याधरः – अयि! किमत्र मया कृतम् ? अथवा ।
न किश्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥६।५॥
विद्याधरी – कथमविरलविलोलधूर्णमानविद्युल्लताविलासमण्डीतैर्मत्तयूररकण्ठश्यामलैरवस्तीयते नभस्तलं जलधरैः ?
विद्याधरः – हन्त। कुमार लवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः । कथमविरलप्रवृत्तवारिधारासंपातैः प्रशान्तमेव पावकास्त्रम् ।
विद्याधरी – प्रियं मे, प्रियं मे ।
विद्याधरः – हन्त भोः! सर्वमतिमात्रं दोषाय । यत्प्रलयवातावलिक्षोभगम्भीरगुलुगुलायमानमेघमेदुरान्धकारनीरन्द्रनद्धमिव एकवारविश्वग्रसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरुद्धसर्वद्वारंनारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो! साधु! स्थाने वायव्यमस्त्रमीरितम् । यतः –
ईरितम् = प्रयुक्त, क्षिप्तम् ।
विद्याकल्पेन मरुता मेघानां भूयसामपि ।
ब्रह्मणीव विवर्तानां कापि प्रविलयः कृतः ॥६।६॥
विद्याधरी – नाथ! क इदानीमेष ससंभ्रमोत्क्षिप्तकरभ्रमदुत्तरीयाञ्चलो दूरत एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोरन्तरे विमानवरमवतारयति ?
विद्याधरः – (दृष्ट्वा) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः ।
शान्तं महापुरुषसंगदितं निशम्य तद्रौरवात्समुपसंहृतसम्प्रहारः ।
शान्तो लवः, प्रणत एव च चन्द्रकेतुः, कल्याणमस्तु सुतसंगमनेन रामः॥
तदितस्तावदेहि ।
(इति निष्क्रान्तौ)
॥ इति मिश्रविष्कम्भकः ॥
(ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च)
रामः – (पुष्पकादवतरन्)
दिनकरकुलचन्द्र! चन्द्रकेतो! सरभसमेहि दृढं परिष्वजस्व ।
तुहिनशकलशीतलैस्तवाङ्गः शममुपयातु ममापि चित्तदाहः ॥६।८॥
(उत्थाप्य सस्नेहानं परिष्वज्य) अप्यनामयं नूतनदिव्यास्त्रयोधनस्य तव ?
चन्द्रकेतुः – अभिवादये! कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन । तद्विज्ञापयामि मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तातः ।
अनरालसाहसम् = अनरालम् अकुटिलम्, साहसं दुष्करं कर्म, यस्य तम् ।
रामः – (लवं निरूप्य) दिष्टया अतिगम्भीरमधुरकल्याणाकृतिरयं वयस्यो वत्सस्य ।
श्रातुं लोकानिव परिणतः कायवानस्त्रवेदः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्थ गुप्त्यै ।
सामर्थ्यानामिव समुदयः, सञ्चयो वा गुणाना- माविर्भूय स्थित हव जगत्पुण्यनिर्माणराशिः ॥९॥
लवः – (स्वगतम्) अहो! पुण्यानुभावदर्शनोऽयं महापुरुषः ।
आश्वास इव भक्तीनामेकमायतनं महत् ।
प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥६।१०॥
आश्चर्यम्!
विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन- स्तदौद्धत्यं कापि प्रजति, विनयः प्रह्वयति माम् ।
झटित्यस्मिन्दृष्टे किमिति परवानस्मि, यदि वा महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥६।११॥
प्रह्वयत्ति = नमयति । शिखरिणी वृत्तम् ॥
रामः – तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपस्नेहयति च कुतोऽपि निमित्तादन्तरात्मानम् ? अथवा स्नेहश्च निमित्तसव्यपेक्ष इति विप्रतिषिद्धमेतत् ।
एकपदे = एकस्मिन्क्षणे (अव्ययपदमेतत्) । निमित्तसव्यपेक्षः = निमित्तेन = कारणेन, सव्यपेक्षः व्यपेक्षायुक्तः । विप्रतिषिद्धं = विशेषेण विरुद्धम् (स्वाभाविकोऽसौ प्रणयो न कमपि हेतुमपेक्षत इति भावः) ।
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते ।
विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥६।१२॥
व्यतिषजति = परस्परसंलग्नान् करोति (वि+अति+√षञ्ज् सङ्गे) । प्रीतयः = स्नेहाः । बहिरुपाधीन् = (बाह्यधर्मान् पुत्रमित्रकलत्रत्वादिहेतूनिति भावः) । न संश्रयन्ते = स्वोत्पादकत्वेन नाऽपेक्षन्त इति भावः । उद्गते = उदिते सति ।
अर्थान्तरन्यासोऽलङ्कारः । मालिनी वृत्तम् ॥
लवः – चन्द्रकेतो! क एते ?
चन्द्रकेतुः – प्रियवयस्य! ननु तातपादाः।
लवः – ममापि धर्मतस्तथैव, यतः प्रियवयस्येति भवतोक्तम् । किन्तु चत्वारः किल भवन्त्येवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथापुरुषाः। तद्विशेषं ब्रूहि ।
एवंव्यपदेशभागिनः = तातपादेतिपदभाजः ।
चन्द्रकेतुः – ज्येष्ठतात इत्यवेहि ।
लवः – (सोल्लासम्) कथं रघुनाथ एव ? दिष्टया सुप्रभातमद्य, यदयं देवो दृष्टः । (सविनयं निर्वर्ण्य) तात! प्राचेतसान्तेवासी लवोऽभिवादयते ।
रामः – आयुष्मन्! एह्येहि । (इति सस्नेहमालिङ्ग्य) अयि वत्स! कृतमत्यन्तविनयेन । अङ्गेन मामपरिश्लथं परिरम्भस्व ।
परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः ।
नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः ॥६।१३॥
आर्या छन्दः ॥
लवः – (स्वगतम्) ईदृशो मां प्रत्यमीषामकारणस्नेहः । मया पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः । (प्रकाशम्) मृष्यन्तां त्विदानीं लवस्य बालिशतां तातपादाः ।
अकारणस्नेहः = निर्हेतुकः प्रेमा । आयुधपरिग्रहः = शस्त्रधारणम् । मृष्यन्ताम् = सहन्ताम् ।
रामः – किमपराद्धं वत्सेन!
चन्द्रकेतुः – अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन ।
प्रतापाविष्करणम् = प्रतापस्य सामर्थ्यस्य, आविष्करणं प्रकाशनम्। वीरायितं = वीरवदाचरितम् ।
रामः – नन्वयमलङ्कारः क्षत्रियस्य ।
न तेजस्तेजस्वी प्रसृतमपरेषां विषहते ।
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः किमाग्नेयो ग्रावा निकृत देव तेजांसि वमति १॥६।१४॥
प्रकृतिनियतत्वात् = स्वभावव्याप्तत्वात् । अकृतकः = अकृत्रिमः (अनागन्तुक इति भावः) । ग्रावा = प्रस्तरः (सूर्यकान्तमणिरिति भावः) । निकृत इव = तिरस्कृत इव ।
चन्द्रकेतुः – अमर्षोप्यस्यैव शोभते महाबीरस्य । पश्यन्तु हि तातपादाः! प्रियवयस्य नियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि।
रामः – (सविस्मयखेदं निर्वर्ण्य । स्वगतम्) अहो! वत्सस्य ईदृशः प्रभावः ? (प्रकाशम्) वत्स! संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो! निर्व्यापारतया विलक्षाणि सान्त्वय बलानि ।
सान्त्वय = समाश्वासय । बलानि = सैन्यानि । विलक्षाणि = विस्मितान्वितानि ।
लवः – (प्रणिधानं नाटयति)
चन्द्रकेतुः – यथा निर्दिष्टम् ।
(इति निष्कान्तः)
लवः – तात! प्रशान्तमस्त्रम्!
रामः – सरहस्यप्रयोगसंहारजृम्भकास्त्राणि दिष्टया वत्सस्यापि सम्पद्यन्ते ।
ब्रह्मादयो ब्रह्महिताय तप्त्वा परः सहस्रं शरदस्तपांसि ।
एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥
अथैतामस्त्रमन्त्रोपनिषदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्सरपरिचर्यानिरतायान्तेवासिने कौशिकाय प्रोवाच । स भगवान् मामिति गुरुपूर्वानुक्रमः । कुमारस्य कुतः सम्प्रदायः ? इति पृच्छामि ।
लवः – स्वतः प्रकाशान्यावयोरस्त्राणि ।
रामः – (विचिन्त्य) किं न संभाव्यते ? प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात् । द्विवचनं तु कथम् ?
लवः – भ्रातरावावां यमौ ।
रामः – स तर्हि द्वितीयः क ?
(नेपथ्ये)
दण्डायन!
आयुष्मतः किल लवस्य नरेन्द्रसैन्यै- रायोधनं ननु किमात्थ ? सखे! तथेति ।
अद्यास्तमेतु भुवनेषु च राजशब्दः क्षत्रस्य शस्त्रशिखिनः शममद्ययान्तु ॥६।१६॥
रामः –
अथ कोऽयमिन्द्रमणिमेचकच्छविर्ध्वनिनैव बद्धपुलकं करोति माम् ।
नवनीलनीरधरधीरगर्जितक्षणबद्धकुडमलकदम्बडम्बरम् ॥६।१७॥
लवः–अयमसौ मम ज्यायानार्यः कुशो नाम भरताश्रमात्प्रतिनिवृत्तः ।
रामः – (सकौतुकम्) तर्हि वत्स! इत एवैतमाह्वयायुष्मन्तम् ।
लवः – यदाज्ञापयति ।
(इति निष्क्रान्तः)
(ततः प्रविशति कुशः)
कुशः – (सक्रोधं कृतधैर्यं धनुरास्फाल्य)
दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादामनो- र्दृप्तानां दमनाय दीपितनिजक्षत्रप्रतापाग्निभिः ।
आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥१८॥
(विकटं परिक्रामति)
विकटं = विषमम् । परिक्रामति = परितः पादविक्षेपं करोति ।
रामः – कोऽप्यस्मिन् क्षत्रियपोतके पौरुषातिरेकः । तथाहि –
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद् गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥
लवः – (उपसृत्य) जयत्वार्यः ।
कुशः – नन्वायुष्मन्! किमियं वार्ता युद्धं युद्धमिति ?
लवः – यकिञ्चिदेतत् । आर्यस्तु दृप्तं भावमुत्सृज्य विनयेन वर्तताम् ।
कुशः – किमर्थम् ?
लवः – यदत्र देवो रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता ।
कुशः – आशंसनीय पुण्यदर्शनः स महात्मा । किन्तु स कथमस्माभिरुपगन्तव्यः इति सम्प्रधारयामि ।
सम्प्रधारयामि = निश्चिनोमि ।
लवः – यथैव गुरुस्तथोपसदनेन ।
कुशः – कथं हि नामैतत् ?
लवः – अत्युदान्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते । तेन संबन्धेन धर्मतस्तात एवायं राजर्षिः ।
कुशः – सम्प्रत्यवचनीयो राजन्येऽपि प्रश्रयः ।
प्रश्रयः = प्रणयः (प्रश्रयप्रणयसमौ इत्यमरः ) । उपतिष्ठते = सङ्गच्छते, 'उपाद् देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम्' इति
सङ्गतिकरण आत्मनेपदम् ।
(उभौ परिक्रामतः)
लवः – पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसंभाव्यमानविविघलोकोत्तरसुचरितातिशयम् ।
कुशः – (निर्वर्ण्य)
अहो प्रासादिक रूपमनुभावश्च पावनः ।
स्थाने रामायणकविर्देवीं वाचमवीवृधत् ॥६।२०॥
(उपसृत्य) तात! प्राचेतसान्तेवासी कुशोऽभिवादयते ।
रामः – एह्येयायुष्मन्!
अमृताध्मातजीमू स्निग्घसंहननस्य ते ।
परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः ॥६।२१॥
(परिष्वज्य स्वगतम्) तत्किमित्ययं च दारकः
अङ्गादङ्गात्सृत इव निजः स्नेहजो देहसारः प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः ।
सान्द्रानन्दक्षुभितहृदयप्रसवेणावसिक्तो गाढाऽऽश्लेषः स हि मम हिमच्योतमाशंसतीव ॥६।२२॥
सान्द्रानन्दक्षुभितहृदयप्रत्रवेण = सान्द्रः निबिडः, यः आनन्दः प्रमोदः, तेन क्षुभितं प्राप्तक्षोभम्, यद्धृदयं, तस्य प्रस्रवेण द्रवेण, अवसिक्तः = आर्द्रीकृतः ।
लवः – ललाटन्तपस्तपति घर्माशुः । तदत्र सालवृक्षच्छायायां मुहूर्तमासनपरिग्रहं करोतु तातः ।
ललाटन्तपः = ललाटं तपतीति, भालतापकः ('असूर्यललाटयोर्दृशितपोः' इति खश्) ।
रामः – यदभिरुचितं वत्सस्य ।
(सर्वे परिक्रम्य यथोचितमुपविशन्ति)
रामः – (स्वगतम्)
अहो! प्रश्रययोगेऽपि गतिस्थित्यासनादयः ।
साम्राज्यशंसिनो भावाः कुशस्य च लवस्य च ॥६।२३॥
प्रश्रययोगे = प्रश्रयस्य विनयस्य, योगे सम्बन्धे ।
वपुरवियुतसिद्धा एव लक्ष्मीविलासाः प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति ।
अमलिनमिव चन्द्रं रश्मयः स्वे यथा वा विकसितमरविन्दं बिन्दवो माकरन्दाः ॥६।२४॥
भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि ।
कठोरपारावतकण्ठमेचकं वपुर्वृषस्कन्धसु बन्धुरांसयोः ।
प्रसन्नसिंहस्तिमितं च वीक्षितं ध्वनिश्च माङ्गल्यमृदङ्गमांसलः ॥६।२५॥
(निपुणं निरूपयन्) अये! न केवलमस्मद्वंशसंवादिन्याकृतिः –
अस्मद्वंशसंवादिनी = अस्मद्वंशसंवादः (अस्मत्कुलसादृश्यम्) अस्ति यस्याः सा ।
अपि जनकसुतायास्तच्च तथानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।
ननु पुनरिव तम्मे गोचरीभूतमक्ष्णो- रभिनवशतपत्रश्रीमदास्यं प्रियायाः ॥६।२६॥
शुक्लाच्छदन्तच्छविसुन्दरीयं सैवोष्ठमुद्रा स च कर्णपाशः ।
नेत्रे पुनर्यद्यपि रक्तनीले तथापि सौभाग्यगुणः स एव ॥६।२७॥
(विचिन्त्य) तदेतत्प्राचेतसाध्युषितमरण्यं, यत्र किल देवी परित्यक्ता इयं चानयोराकृतिर्वयोऽनुभावश्च । यत्स्वतःप्रकाशान्यस्त्राणीति च । तत्रापि स्मरामि खलु तदपि चित्रदर्शनप्रासङ्गिकं शस्त्राभ्यनुज्ञानं प्रबुद्धं स्यात् । न ह्यसाम्प्रदायिकान्यस्त्राणि पूर्वेषामपि शुश्रुम । अयं विस्मयसम्प्लवमानसुखदुःखातिशयो हृदयस्य मे विप्रलम्भः । यमाविति च भूयिष्ठमात्मसंवादः । जीवद्वयापत्यचिह्नो हि देव्या गर्भिणीभाव आसीत् । (सास्रम्)
विप्रलम्भः = विप्रलम्भशृङ्गारः, विप्रयोगः ।
परां कोटिं स्नेहे परिचय विकासादधिगते रहो विस्रब्धाया अपि सहजलज्जाजडदृशः ।
मयैवादौ ज्ञातः करतलपरामर्शकलया द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥६।२८॥
(रुदित्वा) तत्किमेतौ पृच्छामि केनचिदुपायेन ?
लवः – तात! किमेतत् ?
बाष्पवर्षेण नीतं वो जगन्मङ्गलमाननम् ।
अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥६।२९॥
अवश्यायावसितस्य = अवश्यायैः तुषारैः, अवसिक्तस्य कृतसेकस्य (अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् इत्यमरः) ।
कुशः – अयि वत्स!
विना सीतादेव्या किमिव हि न दुःखं रघुपतेः प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति ।
स च स्नेहस्तावानयमपि वियोगो निरवधिः किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥६।३०॥
रामः – (स्वगतम्) अये, तटस्थ आलापः । कृतं प्रश्नेन । मुग्धहृदय! कोऽयमाकस्मिकस्ते सम्प्लवाधिकारः ? एवं निर्मित्रहृदयावेगः शिशुजनेनाप्यनुकम्पितोऽस्मि । भवतु तावदन्तरयामि (प्रकाशम्) वत्सौ! 'रामायण रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य तत्कौतूहलेन यत्किंचिच्छ्रेोतुमिच्छामि ।
आकस्मिकः = अकस्माद्भवः, निष्कारण इति भावः । संप्लवाधिकारः = दुरगमनाधिकृतिः दुर्लभविषयमनोरथायासः किमर्थ इति यावत् ।
कुशः – कृत्स्न एव सन्दर्भोऽस्माभिरावृत्तः, स्मृतिप्रत्युपस्थितौ तावदिमौ बालचरितस्यासाते द्वौ श्लोकौ ।
रामः – उदीरयतं वत्सौ!
कुशः –
प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत ॥६।३१॥
तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् ।
हृदयं त्वेव जानाति प्रीतियोगं परस्परम् ॥६।३२॥
रामः – कष्टमतिदारुणो हृदयमर्मोद्धातः । हा देवि! एवं किलैतदासीत्! अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनस्तावकाः संसारवृत्तान्ताः ।
हृदयमर्मोद्धातः = हृदयमेव मर्म सन्धिस्थानम्, तस्य उद्घातः प्रहारः । संसारवृत्तान्ताः = संसारोदन्ताः । निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनः = निरन्वयः निःसम्बन्धः, आकस्मिकः, अहेतुकः, यो विपर्यासः अवस्थान्तरम् (दशाविपरिणामः), तेन ये विप्रलम्भस्मृती = वियोगस्मरणे, तत्पर्यवसायिनः तद्विषयतामात्रवन्तः पर्यवस्यन्ति परिणमन्ति इति ।
क तावानानन्दो निरतिशयविस्रम्भबहुलः क वाऽन्योन्यप्रेम ? क व नु गहनाः कौतुकरसाः ।
सुखे वा दुःखे वा क नु खलु तदैक्यं हृदययो- स्तथाप्येष प्राणः स्फुरति, न तु पापो विरमति ॥६।३३॥
प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः ।
य एव दुःसहः कालस्तमेव स्मारिता वयम् ॥६।३४॥
तदा किचित्किञ्चित्कृतपदमहोभिः कतिपयै- स्तदेतद्विस्तारि स्तनमुकुलमासीन्मृगदृशः ।
वयःस्नेहाकूतव्यतिकरघनो यत्र मदनः प्रगल्भव्यापारः स्फुरति हृदि मुग्धश्च वपुषि ॥३५॥
वयःस्नेहाकूतव्यतिकरघनः = वयसः अवस्थायाः तारुण्यस्येति भावः, स्नेहस्य अनुरागस्य, आकूतस्य विशिष्टविषयाभिप्रायस्य, व्यतिकरः सम्बन्धः, तेन घनः = सान्द्रः । प्रगल्भव्यापारः = प्रगल्भः प्रौढः, व्यापारः = क्रिया, यस्य सः तादृशः ।
लवः – अयं तु चित्रकूटवर्त्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः –
त्वदर्थमिव विन्यस्तः शिलापट्टोऽयमायतः ।
यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥६।३६॥
रामः – (सलज्जास्मितस्नेहकरुणम्) अति हि नाम मुग्धः शिशुजनः विशेषतस्त्वरण्यचरः । हा देवि! स्मरसि वा तस्य तत्समयविस्रम्भातिप्रसङ्गस्य ?
तत्समयविस्रम्भातिप्रसङ्गस्य = तत्समये त्वदर्थमित्यादिश्लोककथनकाले, यो विस्रम्भः आवामृतेऽत्र कोऽपि नास्तीति ज्ञानजन्यो विश्वासः, तेन योऽतिप्रसङ्गः भोगातिमात्रता ।
श्रमाम्बुशिशिरीभवत् प्रसृतमन्दमन्दाकिनी- मरुत्तरलितालकाकुलललाटचन्द्रद्युति ।
अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥६।३७॥
(स्तम्भित इव स्थित्वा, सकरुणम्) अहो नु खलु भोः ।
स्तम्भितः = जातस्तम्भः ।
चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः प्रवासे चाश्वासं न खलु न करोति प्रियजनः ।
जगज्जीर्णारण्यं भवति च कलत्रे ह्युपरते कुकूलानां राशौ तदनु हृदयं पच्यत इव ॥६।३८॥
पच्यते = दह्यते । राशौ = समूहे ।
(नेपथ्ये)
वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः सहैवारुन्धत्या शिशुकलहमाकर्ण्यं सभयाः ।
जराग्रस्तैर्गात्रैरथ खलु सुदूराश्रमतया चिरेणागच्छन्ति त्वरितमनसो विश्लथजटाः ॥६।३९॥
रामः – कथं भगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव । कथं खलु ते द्रष्टव्याः ? (सकरुणं विलोक्य) तातजनकोऽप्यत्रैवायात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः ।
सम्बन्धस्पृहणीयताप्रमुदितैर्ज्येष्ठैर्वसिष्ठादिभि- र्दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः सङ्गमम् ।
पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे दीर्ये किं न सहस्रधाऽहमथवा रामेण किं दुष्करम् ॥६।४०॥
(नेपथ्ये)
भो भोः! कष्टम् ।
अनुभावमात्रसमवस्थितश्रियं सहसैव वीक्ष्य रघुनाथमीदृशम् ।
प्रथमप्रबुद्धजनकप्रबोधिता विधुराः प्रमोहमुपयान्ति मातराः ॥६।४१॥
रामः –
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।
तत्राप्यकरुणे पापे वृथा वः करुणा मयि ॥६।४२॥
यावत्संभावयामि । (इत्युतिष्ठति)
कुशलवौ – इत इतस्तातः ।
(सकरुणं परिक्रम्य निष्क्रान्ताः सर्वे)
॥ इति षष्ठोऽङ्कः ॥