सामग्रीं त्यजन्तु

साङ्ख्यदर्शनम्

मङ्गलम्

अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां स्वरूपाः।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगां नुमस्तान्॥
कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये।
पञ्चशिखाय तथेश्वरकृष्णायैते नमस्यामः ॥
नास्ति साङ्ख्यसमं ज्ञानं, नास्ति योगसमं बलम् ।
अत्र वः संशयो मा भूत, ज्ञानं साङ्ख्यं परं स्मृतम् ॥

  • सांख्यम् – सं + √ख्या (प्रकथने) + टाप् = संख्या, संख्या + अण् (तस्येदम्) = साङ्ख्यम् ।
  • सांख्यम्
    • संख्यायन्ते गणयन्ते येन तत्सांख्यम्।
    • संख्यायते प्रकृतिपुरुषान्यथाख्यातिरूपः अवबोधस्सम्यज्ज्ञायते येन तत्सांख्यमिति ।
    • सङ्ख्यया चर्चा विचारणा इत्यमरः ।
    • सङ्ख्यायाः वर्णनं यत्र क्रियते तत्साङ्ख्यमिति। सम्यक् ज्ञानम् इत्यर्थः।
    • सम्यक् ख्यायते प्रकाश्यते वस्तुतत्वम् अनया इति संख्या, सम्यक् ज्ञानं तस्यां प्रकाशमानम् आत्मतत्त्वं तत् सांख्यम् इत्युच्यते। (श्रीधरस्वामिटीका)
  • परम्परा
    • महर्षिः कपिलः ⇒ आसुरिः ⇒ पञ्चशिखः ⇒ पतञ्जलिः ⇒ जैगीषब्यः ⇒ वार्षगण्यः ⇒ विन्ध्यवासी ⇒ जनकः ⇒ पराशरः ⇒ व्यासः ⇒ ईश्वरकृष्णः
  • ग्रन्थाः
    • सांख्यसूत्राणि [६ अध्यायाः, ५२४ सूत्राणि] (महर्षिः कपिलः)
    • सांख्यकारिका [७० कारिकाः] (ईश्वरकृष्णः)
    • साङ्ख्यतत्त्वकौमुदी (वाचस्पतिमिश्रः)
    • साङ्ख्यप्रवचनभाष्यम् (विज्ञानभिक्षुः)
    • षष्टीतन्त्रम् (पञ्चशिखः)
  • मूलविषयाः
    • दुःखम्, पञ्चविशतिः तत्त्वानि, पुरुषः, प्रकृतिः, चतुर्दशलोकाः, पुरुषबहुत्त्वम्, भूतेन्द्रियाणि, प्रत्ययसर्गः, सत्कार्यवादः, प्रमाणानि ।

दुःखम्

flowchart LR
    D["दुःखम्"]
    Atma["आध्यात्मिकम्"]
    Bhuta["आधिभौतिकम्"]
    Daiva["आधिदैविकम्"]
    D --> Atma
    D --> Bhuta --> BhAttr["मानुषः, पशुः, मृगः, पक्षिः,<br>सरीसृपः, स्थाबरः, निमित्तम्"]
    D --> Daiva --> DAttr["यक्षः, राक्षसः, विनायकः (अपदेवः), ग्रहः"]

    Sh["शारीरम्"]
    Mana["मानसम्"]
    Atma --> Sh --> ShaAttr["वातः, पित्तः, श्लेष्मः"]
    Atma --> Mana --> ManaAttr["कामः, क्रोधः, लाभः,<br>मोहः, भयम्, ईर्ष्या,<br>विषादः, विषयविशेषः"]

पञ्चविशतिः तत्त्वानि

  • पुरुषः
  • प्रकृतिः
  • महत्
  • अहङ्कारः
  • मनः
  • पञ्चतन्मात्राणि (शब्दः, स्पर्शः, रूपम्, रसः, गन्धः)
  • पञ्चभूतानि (आकाशः, वायुः, तेजः, आपः, पृथ्वी)
  • कर्मेन्द्रियाणि (वाक्, पाणि, पादः, पायुः, उपस्थः)
  • ज्ञानेन्द्रियाणि (कर्णः, त्वक्, चक्षुः, जिह्वा, नासिका)
flowchart TD

    Pu["पुरुषः"]
    Pr["मूलप्रकृतिः<br><small>(गुणानां साम्यावस्था)</small>"] --> Mt["महत्"] --> Ah["अहङ्कारः"]
    Ah -- "सत्त्वम्" --> Mn["मनः"]
    Ah -- "रजः" --> Ji["ज्ञानेन्द्रियाणि"]
    Ah -- "रजः" --> Ki["कर्मेन्द्रियाणि"]
    Ah -- "तमः" --> Pt["तन्मात्राणि"] --> Pb["भूतानि"]

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥

  • जगतो मूलकारणीभूता प्रकृतिः मूलप्रकृतिः। कार्यहीना अविकृतिः। महदहङ्कारो पञ्चतन्मात्राणि चेति महदाद्याः सप्त। कारणानि कार्याणि च प्रकृतिविकृतयः इति। पञ्चभूतानि एकादशेन्द्रियाणि च षोडशविकारः। कार्य विकारः इत्युच्यते। न प्रकृतिः न विकृतिः पुरुषः।

पुरुषः, प्रकृतिः, सम्बन्धः

पुरुषः

संघातपरार्थत्वात्, त्रिगुणादिविपर्ययादधिष्ठानात्।
पुरुषोऽस्ति भोक्तृभावात्, कैवल्यार्थं प्रवृत्तेश्च ॥

पुरुषबहुत्वम्
जननमरणकरणानां, प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं, त्रैगुण्यविपर्ययाच्चैव ॥

प्रकृतिः

  • प्रकृतिः = अव्यक्तः, प्रधानम् ।

सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः।

सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धेः ।
महदादि तच्च कार्य प्रकृतिस्वरूपं विरूपं च ॥

प्रकृतिपुरुषयोः सम्बन्धः

पुरुषस्य दर्शनार्थ कैवल्यार्थ तथा प्रधानस्य ।
पङ्गन्धवदुभयोरपि संयोगस्ततकृतः सर्गः ॥

प्रमाणानि

  • दृष्टम् – प्रतिविषयाध्यवसाय दृष्टम्। अध्यवसासः प्रत्यक्षम्।
  • अनुमानम् – लिङ्गलिङ्गिपूर्वकं ज्ञानम् अनुमानम्। (लिङ्गं = हेतुः, लिङ्गि = साध्यम्) ।
  • आप्तवचनम् – आप्तश्रुतिः आप्तवचनम्।

सत्कार्यवादः

कार्यं कारणे विद्यते ।

सत्कार्यवादे हेतवः –
असदकरणाद् उपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥सां० का० ९॥

  • असदकरणात् (असतः सन्नोत्पद्यते) ।
  • उपादानग्रहणात् (कार्ये कारणस्य सत्ता, उपादनत्वेन) ।
  • सर्वसम्भवाभावात् (आम्रबीजात् नारीकेलवृक्षो न भवति) ।
  • शक्तस्य शक्यकरणात् (आम्रबीजात् आम्रवृक्ष एवोत्पद्यते, नान्यत्) ।
  • कारणाभावात् (कार्यं कारणात् न सम्भिन्नम्) ।

प्रत्ययसर्गः

प्रत्ययसर्गः नाम बुद्धेः परिणामः (मानसिकी सृष्टिः)। यथा महाभूतानां सर्गः 'भौतिकसर्गः' उच्यते, तथैव बुद्धेः भावानाम्, वृत्तीनाम्, अवस्थानां च सर्गः 'प्रत्ययसर्गः' इति कथ्यते। सत्त्वरजस्तमसाम् अङ्ग-अङ्गिभावेन (गुणवैषम्यविमर्दात्) अस्य प्रत्ययसर्गस्य ५० भेदाः भवन्ति।
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्धाख्यः ।
गुणवैषम्यविमर्दात् तस्य भेदास्तु पञ्चाशत् ॥

भेदः सङ्ख्या स्वरूपम् मोक्षे भूमिका
विपर्ययः ५ अज्ञानम् / मिथ्याज्ञानम् बन्धकः (त्याज्यः)
अशक्तिः २८ इन्द्रियबुद्धिवैकल्यम् बाधकः (हेयः)
तुष्टिः ९ भ्रमपूर्णः तात्कालिकसन्तोषः वञ्चकः (अतिक्रमणीयः)
सिद्धिः ८ तत्त्वज्ञानम् / विवेकख्यातिः मोक्षसाधकः (उपादेयः)

विपर्ययः

एते अविद्यादयः पञ्चक्लेशाः अपि उच्यन्ते –

  • तमः (अविद्या) – अनात्मनि (प्रकृत्यादौ) आत्मबुद्धिः।
  • मोहः (अस्मिता) – अणिमाद्यष्टसिद्धीः प्राप्य, तास्वेव मोक्षबुद्धिः ।
  • महामोहः (रागः) – शब्दादिषु पञ्चविषयेषु आसक्तिः ।
  • तामिस्रः (द्वेषः) – शब्दादिपञ्चविषयाणां प्रतिघाते (विघ्ने) सति उत्पन्नः क्रोधः ।
  • अन्धतामिस्रः (अभिनिवेशः) – प्राप्तेषु विषयेषु मरणभयं वा विनाशभयम् ।

अशक्तिः

इन्द्रियाणां तथा बुद्धेः असमर्थता वा वैकल्यम् 'अशक्तिः' इति उच्यते।

११ इन्द्रियवैक्ल्यानि

  • ५ ज्ञानेन्द्रियबाधः (बाधिर्यम्, अन्धत्वम्, मूकत्वम् इत्यादयः)
  • ५ कर्मेन्द्रियबाधः (पङ्गुत्वम्, क्लैब्यम् इत्यादयः)
  • १ मनसो वैकल्यम् (उन्मादः/भ्रमः)

१७ बुद्धिवैकल्यानि

  • तुष्टीनाम् (९) सिद्धीनां च (८) विपर्ययात् (सप्तदश विपर्ययाः असिद्धयः अतुष्टयश्च) उत्पन्नाः बुद्धिबाधाः ।

तुष्टिः

तुष्टिः नाम तात्कालिकः सन्तोषः। एषा मोक्षाय अनुकूला इव दृश्यते, किन्तु वास्तविकी सिद्धिः न भवति, अतः सा अपि बन्धहेतुः एव। अस्याः द्वौ मुख्यविभागौ स्तः—

आध्यात्मिकी तुष्टिः –

  • प्रकृतिः (अम्भः) – केवलं प्रकृतेः उपासना कार्यवती, विवेकज्ञानं स्वयमेव भविष्यति इति चिन्तनम्।
  • उपादानम् (सलिलम्) – प्रकृत्युपासना मा भूत्, संन्यासेन एव मोक्षः इति चिन्तनम्।
  • कालः (मेघः: – संन्यासेन अपि न, कालेन एव मोक्षः भविष्यति इति प्रतीक्षा।
  • भाग्यम् (वृष्टिः) – भाग्यात् एव मोक्षः लप्स्यते इति सन्तोषः।

बाह्यतुष्टिः – विषयाणाम् (शब्द-स्पर्श-रूप-रस-गन्धानाम्) अर्जन-रक्षण-क्षय-भोग-हिंसादोषाणां दर्शनात् विरक्तिः। एतेषां पञ्चानां नामानि— पारम्, सुपारम्, पारापारम्, अनुत्तमाम्भः, उत्तमाम्भः च इति।

सिद्धिः

सिद्धिर्नाम ज्ञानप्राप्तिः, सफलता । मोक्षस्य साक्षात् साधनं विवेकज्ञानम् एव 'सिद्धिः' इत्युच्यते।

  • मुख्या सिद्धिः – दानम् (रम्यकम्) । विवेकज्ञानस्य विशुद्धिः, येन दुःखत्रयात् अत्यन्तनिवृत्तिः भवति।

गौण्यः सिद्धयः

  • ऊहः (ऊहम्) – तर्क-विचार-चिन्तनैः तत्त्वज्ञानप्राप्तिः।
  • शब्दः (शब्दः) – वेदादिशास्त्रश्रवणेन ज्ञानप्राप्तिः।
  • अध्ययनम् (तारम्) – शास्त्रस्य विधिवत् अध्ययनेन ज्ञानम्।
  • सुहृत्प्राप्तिः (रसिकम्) – सद्गुरु-सत्पुरुष-सङ्गेन तत्त्वज्ञानम्।
  • दुःखविघातः - आध्यात्मिकः (प्रमोदम्) – आध्यात्मिकदुःखस्य निवृत्तिः।
  • दुःखविघातः - आधिभौतिकः (मुदितम्) – आधिभौतिकदुःखस्य निवृत्तिः।
  • दुःखविघातः - आधिदैविकः (मोदमानम्) – आधिदैविकदुःखस्य निवृत्तिः।