सामग्रीं त्यजन्तु

शास्त्रपरिचयः

काव्यं काव्यशास्त्रं च ।

काव्यम् इत्यस्य नानाव्याख्याः वर्तते (यथा वाक्यं रसात्मकं काव्यम्) । सामान्यः अर्थस्तु अलौकिकी आह्लादकरी रचना । यथा मेघदूतम्, कादम्बरी, अभिज्ञानशाकुन्तलम्, इत्यादयः । इमानि लक्ष्यग्रन्थाः उच्यन्ते ।

लक्ष्यग्रन्थेषु विद्यमानानि तत्त्वानि, प्रक्रियाः, कविसमयं बोधनयन्ति लक्षणग्रन्थाः । कावेषु वर्तमानानि लक्षणानि कानि, कथं तानि अवगन्तव्यानि, के तत्र दोषाः, रसः इत्युक्ते किं, कतिविधाः रसाः, काव्येषु भेदः इत्यादिकं सर्वम् अपि साहित्यशास्त्रस्य क्षेत्रम् । साहित्यदर्पणः, काव्यप्रकाशः, काव्यादर्शः, इत्यादयः सर्वेऽपि लक्षणग्रन्थाः । साहित्यकाराः प्राचीनानां कृतीः दृष्ट्वा आलोचयन्ति स्म - अत्र को विशेषः, किमर्थम् एषः वाक्यविन्यासः मनोहरः, इत्यादिकम् । ततः तत्त्वानि प्रतिपादयन्ति ।

ग्रन्थविभागः

  • लक्ष्यग्रन्थाः (कुमारसम्भवम्)
  • लक्षणग्रन्थाः (काव्यप्रकाशः)

काव्यभेदाः

  • पद्यम् – छन्दोबद्धा पदावली पद्यम्। (सा०द० ६।३१४)
  • गद्यम् – वृत्तबन्धोज्झितं गद्यम् (सा०द० ६।३३०)
  • चम्पूः – गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते। (सा०द० ६।३३६)

गद्यप्रभेदाः

  • गद्यकाव्यभेदाः

    • कथाः (काल्पनिकविषयः)
    • आख्यायिकाः (ऐतिहासिकविषयः)
  • गद्यकाव्यभेदाः (शैल्यनुगुणम्)

    • मुक्तकम् (समासरहितम्)
    • वृत्तगन्धि
    • उत्कालिकाप्रायम्
    • चूर्णकम् (अल्पसमाससहितम्)

साहित्यशास्त्रस्य नामान्तराणि

  • काव्यालङ्कारः
  • अलङ्कारशास्त्रम्
  • काव्यशास्त्रम्
  • साहित्यशास्त्रम्
  • क्रियाकल्पः
  • काव्यमिमांसा

साहित्यशास्त्रसम्प्रदायाः

काव्ये कस्य प्राधान्यम् इत्यत्र मतभेदः वर्तते आचार्याणाम् । अधोलिखिताः मुख्याः सम्प्रदायाः । रससम्प्रदायो नाम यत्र रसः एव काव्यस्य आत्मा इति प्रतिपादितम् ।

  • रससम्प्रदायः (भरतमुनिः)
  • अलङ्कारसम्प्रदायः* (भामहः)
  • रीतिसम्प्रदायः (वामनः)
  • ध्वनिसम्प्रदायः (आनन्दवर्धनः)
  • वक्रोक्तिसम्प्रदायः (कुन्तकः)
  • औचित्यसम्प्रदायः (क्षेमेन्द्रः)

  *अत्र प्रसिद्धः कश्चन जयदेवस्य श्लोकः (अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती ।...)

प्रसिद्धाः कवयः

उपमा कालिदासस्य भारवेरर्थगौरवम्।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः॥

कविः कालः मुख्याः कृतयः
वाल्मीकिः ~1500 BC – 1000 BC श्रीमद्रामायणम्
व्यासाचार्यः ~1000 BC – 500 BC महाभारतम्, १८ पुराणि
भासः ~400 BC – 300 BC स्वप्नवासवदत्तम्, प्रतिज्ञायौगन्धरायणम्, उरुभङ्गम् (१३ रूपकाणि)
कालिदासः ~100 BC – 400 AD ऋतुसंहारम्, कुमारसम्भवम्, मेघदूतम्, रघुवंशम्, मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम्
अश्वघोषः ~100 AD बुद्धचरितम्, सौन्दरनन्दम्, शारिपुत्रप्रकरणम्
विष्णुशर्मा ~300 BC – 300 AD पञ्चतन्त्रम्
विशाखदत्तः ~400 AD – 500 AD मुद्राराक्षसम्, देवीचन्द्रगुप्तम्
सुबन्धुः ~350 AD – 620 AD वासवदत्ता (गद्यकाव्यम्)
भारविः ~550 AD किरातार्जुनीयम्
दण्डी ~600 AD – 650 AD दशकुमारचरितम्, अवन्तिसुन्दरीकथा
बाणभट्टः ~600 AD – 650 AD हर्षचरितम्, कादम्बरी, चण्डीशतकम्, पार्वतीपरिणयम्
भर्तृहरिः ~600 AD – 650 AD नीतिशतकम्, श्रृङ्गारशतकम्, वैराग्यशतकम्
माघः ~700 AD शिशुपालवधम्
भवभूतिः ~700 AD – 750 AD महावीरचरितम्, मालतीमाधवम्, उत्तररामचरितम्
शूद्रकः ~700 AD – 800 AD मृच्छकटिकम्
नारायणपण्डितः ~800 AD – 1000 AD हितोपदेशः
श्रीहर्षः ~1150 AD नैषधीयचरितम्, खण्डनखण्डखाद्यम्
अम्बिकादत्तव्यासः 1858 – 1900 AD शिवराजविजयम्

प्रसिद्धाः साहित्यकाराः / आलङ्कारिकाः

साहित्यकारः / आचार्यः कालः मुख्याः कृतयः
भरतमुनिः ~200 BC – 200 AD नाट्यशास्त्रम्
भामहः ~600 AD काव्यालङ्कारः
दण्डी ~600 AD – 650 AD काव्यादर्शः
वामनः ~800 AD काव्यालङ्कारसूत्रवृत्तिः
आनन्दवर्धनः ~850 AD ध्वन्यालोकः, अर्जुनचरितम्, विषमबाणलीला, देवीशतकम्, तत्त्वालोकः (वेदान्तविषयकः दार्शनिकग्रन्थः)
कुन्तकः ~950 AD – 1000 AD वक्रोक्तिजीवितम्
अभिनवगुप्तः ~950 AD – 1025 AD अभिनवभारती, ध्वन्यालोकलोचनम्
क्षेमेन्द्रः ~1025 AD – 1066 AD औचित्यविचारचर्चा, कविकण्ठाभरणम्, सुवृत्ततिलकम्
मम्मटाचार्यः ~1100 AD काव्यप्रकाशः
रुय्यकः ~1150 AD अलङ्कारसर्वस्वम्
जयदेवः ~1200 AD चन्द्रालोकः
विश्वनाथकविराजः ~1350 AD साहित्यदर्पणः
अप्पय्यदीक्षितः ~1550 AD – 1625 AD कुवलयानन्दः, चित्रमीमांसा, वृत्तिवार्तिकम्
पण्डितराजजगन्नाथः ~1650 AD रसगङ्गाधरः, भामिनीविलासः