सामग्रीं त्यजन्तु

मेघदूतम् — उत्तरमेघः

विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
सङ्गीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥२।१॥

ललितवनिताः = मनोहरस्त्रीकाः । प्रहतमुरजाः = तडितमृदङ्गाः । स्निग्धगम्भीरघोषं = मधुरगम्भीरगर्जनम् । मणिमयभुवः = रत्नखचितभूमयः । अभ्रंलिहाग्राः = अत्युन्नताः ।

सञ्जीवनी
विद्युत्वन्तमिति ॥ यत्रालकायां ललिता रम्या वनिताः स्त्रियो येषु ते । सह चित्रैर्वर्तन्त इति सचित्राः ॥ आलेख्याश्चर्ययोश्चित्रम् आलेख्याश्चर्ययोश्चित्रम्इत्यमरः ॥ तेन सहेति तुल्ययोगे तुल्ययोगे इति बहुव्रीहिः । वोपसर्जनस्य इति सहशब्दस्य समासः ॥ सङ्गीताय तौर्यत्रिकाय प्रहतमुरजास्ताडितमृदङ्गाः ॥ मुरजा तु मृदङ्गे स्याङ्कक्कामुरजयोरपि इति शब्दार्णवे ॥ मणिमया मणिविकारा भुवो येषु । अभ्रं लिहन्तीत्यभ्रंलिहान्यभ्रं कषाणि ॥ वहाभ्रे लिहः इति खश्प्रत्ययः । अरुर्द्विष- इत्यादिना मुमागमः ॥ अग्राणि शिखराणि येषां ते तथोक्ताः । अतितुङ्गा इत्यर्थः । प्रासादा देवगृहाणि ॥ प्रासादो देवभूभुजाम् देवभूभुजाम् इत्यमरः ॥ विद्युतोऽस्य सन्तीति विद्युत्वन्तम् । सेन्द्रचापमिन्द्रचापवन्तम् ।सेन्द्रचापमिन्द्रचापवन्तम् स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् ।तम् अन्तरन्तर्गतं तोयं यस्य तम् । तुङ्गमुन्नतं त्वां तैस्तैर्विशेषैर्ललितवनितत्वादिधर्मैस्तुलयितुं समीकर्तुमलं पर्याप्ताः ॥ अलं भूषणपर्याप्तिशक्तिवारणवाचकम् भूषणपर्याप्तिशक्तिवारणवाचकम्इत्यमरः ॥ अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युद्वनितादीनां यथासङ्ख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति । बिम्बप्रतिबिम्बभावेनेयं पर्णोपमा । वस्ततो भिन्नयोः परस्परसादृश्यादभिन्नयोरुपमानोपमेयधर्मयोः पृथगुपादानाद्विम्बप्रतिबिम्बभावः ॥

वल्लभदेवव्याख्या
यत्रालकायां प्रासादा गृहास्तैस्तैरुच्यमानधर्मैर्भवन्तं तुलयितुमलमनुकर्तुं शक्ताः । तथा हि त्वां विद्युत्वन्तं सतडित्कं तेऽपि ललितवनिताः सविलासाङ्गनाः । त्वां सेन्द्रचापं ससुरायुधं तेऽपि सचित्राः सालेख्याः । त्वां स्निग्धगम्भीरघोषं मधुरधीरध्वनितं तेऽपि संगीताय गुणनिकार्थं प्रहतमुरजा वादितमृदङ्गाः । त्वामन्तस्तोयं तेऽपि मणिमयभुवः स्फाटिकावनयः । त्वां तुङ्गमुन्नतं तेऽप्यभ्रंलिहाग्रा व्योमस्पृक्शिखराः । एवं सर्वसादृश्यम् । अभ्रं खं लेढि व्याप्नोतीत्यभ्रंलिहमग्रं येषाम् । वहाभ्रे लिहः । तुलिरदन्तोऽपि ॥

हस्ते लीलाकमलमलके बालकुन्दानुविद्धं
नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥२।२॥

लोध्रप्रसवरजसा = लोध्रपुष्पपरागेण (लोध्रस्य प्रसवः तेषां रजः) ।

सञ्जीवनी
सम्प्रति सर्वदा सर्वर्तुसम्पत्तिमाह … हस्त इति ॥ यत्रालकायां वधूनां स्त्रीणां हस्ते लीलार्थं कमलं लीलाकमलम् ॥ शरल्लिङ्गमेतत् । तदुक्तम्-‘तदुक्तम्शरत्पङ्कजलक्षणा इति ॥ अलके कुन्तले ॥ जातावेकवचनम् ॥ अलकेष्वित्यर्थः । बालकुन्दैः प्रत्यग्रमाघ्यकुसुमैरनुविद्धम् । अनुवेध ग्रन्थनम् ॥ नपुंसके भावे क्तः ॥ यद्यपि कुन्दानां शैशिरत्वमस्ति माघ्यं कुन्दम् कुन्दम्इत्यभिधानात्तथापि हेमन्ते प्रादुर्भावः शिशिरे प्रौढत्वमिति व्यवस्थाभेदेन हेमन्तकार्यत्वमित्याशयेन बालेति विशेषणम् ॥ अलकम्अलकम्इति प्रथमान्तपाठे सप्तमी प्रक्रम भङ्गः स्यात् । नाथस्तु नियतपुंलिङ्गताहानिश्चेइति दोषान्तरमाह । तदसत् । स्वभाववक्राण्यलकानि तासांतासां । निर्धूतान्यलकानि पातितमुरः कृत्स्नोऽधरः खण्डितः इत्यादिषु प्रयोगेषु नपुंसकलिङ्गतादर्शनात् ॥नपुंसकलिङ्गतादर्शनात् आनने मुखे लोघ्रप्रसवानां लोघ्रपुष्पाणां शैशिराणां रजसां परागेण ॥ प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने गर्भमोचने इति विश्वः ॥ पाण्डुतां नीता श्रीः शोभा । चूडापाशे केशपाशे नवकुर बकं वासन्तः पुष्पविशेषः । कर्णे चारु पेशल शिरीषं गैष्मः पुष्पविशेषः । सीमन्ते मस्तक केशवी ध्याम् ॥ सीमन्तमस्त्रियां मस्तकेशवीथ्या मुदाहृतम् मुदाहृतम् इति शब्दार्णवे ॥ तवोपगमः । मेवागम इत्यर्थः । तत्र जातं त्वदुपगमजम् । वार्षिकमित्यर्थः । नीपं कदम्बकुसुमम् । सर्वत्रास्तीति शेषः अस्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीतिन्यायात् । इत्थं कमलकुन्दादि तत्तत्कार्यसमाहाराभिधानादर्थात्सर्वर्तु समाहारसिद्धिः । कारणं विना कार्यस्यासिद्धेरिति भावः ॥

वल्लभदेवव्याख्या
यत्र चाङ्गनानामिदमिदमृतुषट्कजातमग्राम्यमाभरणम् । किं किमित्याह । करे लीलाकमलं विलासनलिनम् । अलकं बालैः कुन्दकुसुमैरनुविद्धं संमिश्रम् । मुखलक्ष्मीरपि लोध्रपुष्पपरागेण पाण्डुतां गौरत्वं प्रापिता । चूडापाशे नवं सरसं कुरबककुसुमम् । कर्णयो रम्यं शिरीषकुसुमम् । सीमन्ते च त्वदुपगमजं प्रावृषेण्यं नीपपुष्पम् । तद्धि वर्षासु जायते । तदेतेन तथाभूतेन कनकालङ्कारनिरासेन नागरत्वमङ्गनानामुक्तम् ॥

यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पाः
हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा
नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥२।२॥

प्रक्षिप्तम् (पश्य २।३)

आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तैः
नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यन्यस्मात् प्रणयकलहाद्विप्रयोगोपपत्तिः
वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥२।२॥

प्रक्षिप्तम् (पश्य २।३)

यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि
ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥२।३॥

उत्तमस्त्रीसहायाः = सुन्दरस्त्रीसहचराः । शनकैः = मन्दम् । रतिफलं = मदिरा (रतिः फलं यस्य, तत्) । पुष्करेषु = वाद्यभाण्डमुखेषु । आहतेषु = कुशलैः ताडितेषु सत्सु ।

सञ्जीवनी
श्लोकद्वयं प्रक्षिप्तम् ॥ यत्रेति ॥ यत्रालकायां पादपा वृक्षाः । नित्यानि पुष्पाणि येषां ते तथा । न त्वृतुनियमादिति भावः । अत एवोन्मत्तैर्भ्रमरैर्मुखराः शब्दायमानाः । नलिन्यः पद्मिन्यो नित्यानि पद्मानि यासां तास्तथा न तु हेमन्तवर्जितमित्यर्थः । अत एव हंसश्रेणीभी रचितरशनाः । नित्यं हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूरा नित्यं भास्वन्तः कलापा बर्हाणि येषां ते तथोक्ताः । न तु वर्षास्वेव । अत एव केकाभिरुत्कण्ठा उद्ग्रीवाः । प्रदोषा रात्रयो नित्या ज्योत्स्ना येषां ते । न तु शुक्लपक्ष एव । अत एव प्रतिहता तमसां वृत्तिर्व्याप्तिर्येषां ते च ते रम्याश्चेति तथोक्ताः ॥ आनन्देति ॥ यत्रालकायां वित्तेशानां यक्षाणाम् ॥यक्षाणाम् वित्ताधिपः कुबेरः स्यात्प्रभौ धनिकयक्षयोः इति शब्दार्णवे ॥ आनन्दोत्थमानन्दजन्यमेव नयनसलिलम् । अन्यैर्निमित्तैः शोकादिभिर्न । इष्टसंयोगेन प्रियजनसमागमेन साध्यान्निर्वर्तनीयात् । न त्वप्रतीकार्यादित्यर्थः । कुसुमशरजान्मदनशरजादन्यस्तापो नास्ति । प्रणयकलहादन्यस्मात्कारणाद्विप्रयोगोपपत्तिर्विरहमाप्तिरपि नास्ति । किं च यौवनादन्यद्वयो वार्धकं नास्ति ॥
यस्यामिति ॥ यस्यामलकायां यक्षा देवयोनिविशेषा उत्तमस्त्रीसहाया ललिताङ्गनासहचराः सन्तः सितमणिमयानि स्फटिकमणिमयानि चन्द्रकान्तमयानि वा । अत एव ज्योतिषां तारकाणां छायाः प्रतिबिम्बान्येव कुसुमानि तै रचितानि परिष्कृतानि ॥ ज्योतिस्ताराग्निभाज्यालादृक्पुत्रार्थाध्वरात्मसु ज्योतिस्ताराग्निभाज्यालादृक्पुत्रार्थाध्वरात्मसुइति वैजयन्ती ॥ एतेन पानभूमेरम्लानशोभत्वमुक्तम् । हर्म्यस्थलान्येत्य प्राप्य । त्वद्गम्भीरध्वनिरिव ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु ॥ पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले इत्यमरः ॥ शनकैर्मन्दमाहतेषु सत्सु ॥ एतच्च नृत्यगीतयोरप्युपलक्षणम् ॥ कल्पवृक्षप्रसूतं कल्पवृक्षस्य काङ्क्षितार्थप्रदत्वान्मध्वपि तत्र प्रसृतम् । रतिः फलं यस्य तद्रतिफलाख्यं मधु मद्यमासेवन्ते । आदृत्य पिबन्तीत्यर्थः ॥ तालक्षीरसितामृतामलगुडोन्मत्तास्थिकालाह्व्ह्यादर्विन्द्रद्रुममोरटेक्षुकदलीगुग्लुमसूनैर्युतम् । इत्थं चेन्मधुपुष्पभङ्गयुपचितं पुष्पद्रुमूलावृतं क्वाथेन स्मरदीपनं रतिफलाख्यं स्वादु शीतं मधु ॥ इति मदिरार्णवे ॥

वल्लभदेवव्याख्या
यस्यामलकायां नित्यं वरपुरन्ध्रिसहिता गुह्यकेश्वराः सौधतलान्यागत्य रतिफलं न तु कलहादिजनकं कल्पवृक्षजं मधु रसं सेवन्ते । कीदृशानि स्थलानि । सितमणिमयानि स्फटिकानि । अत एव ज्योतिश्छायास्तारावलिप्रतिबिम्बान्येव कुसुमरचना पुष्पप्रकरो येषु । कदा सेवन्ते । भवत इव गम्भीरो निर्ह्रादो ध्वनिर्येषां तेषु पुष्करेषु वाद्यमुखेष्वाहतेष्वास्फालितेषु सत्सु । तदेतेन दम्पतीनां सदासुखित्वमुक्तम् ॥

मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिः
मन्दाराणामनुतटरुहां छायया वारितोष्णाः ।
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥२।४॥

वारितोष्णाः = शमितातपाः । अमरप्रार्थिताः = देवयाचिताः ।

सञ्जीवनी
मन्दाकिन्या इति ॥ यत्रालकायाममरैः प्रार्थिताः । सुन्दर्य इत्यर्थः । कन्या यक्षकुमार्यः ॥ कन्या कुमारिकानार्योः इति विश्वः ॥ मन्दाकिन्या गङ्गायाः सलिलेन शिशिरैः शीतलैर्मरुद्भिः सेव्यमानाः सत्यः । तथाऽनुतटं तटेषु रोहन्तीत्यनुतटरुहः ॥ क्विप् ॥ तेषां मन्दाराणां छाययानतपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैरत एवान्वेष्टव्यैर्मृग्यैर्म णिभी रत्नैः सङ्क्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्यक्क्रीडन्तीत्यर्थः ॥ क्रीडोस्नुसम्परिभ्यश्च इत्यात्मनेपदम् ॥ ! रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रीडा नाम्ना गुप्तमणिः स्मृता ॥ रासकीडा गूढमणिर्गुडा गूढमणिर्गुप्त केलिस्तु लायनम् ।लायनम् पिच्छकन्दुकदण्डाद्यैः स्मृता दैशिककेलयः इति शब्दार्णवे ॥

नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान्
ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥२।५॥

अनिभृतकरेषु = चञ्चलहस्तेषु । नीवीबन्धोच्छ्वसितशिथिलं = जघनवस्त्रग्रन्थिबन्धस्य त्रुटितेन श्लथम्; वस्त्रग्रन्थिबन्धनविकासश्लथम् (नीवी एव बन्धः, तस्य उच्छ्वसितेन शिथिलम्) । क्षौमं = दुकूलम् (अधोवस्त्रम्) । रागात् आक्षिपत्सु = कामावेशात् आसक्तिवशात् वा आहरत्सु । अर्चिस्तुङ्गान् = मयूखोन्नतान् । ह्रीमूढानां = लजापराभूतानाम् । विफलप्रेरणा = निष्फलप्रक्षेपणा ।

सञ्जीवनी
नीवीति ॥ यत्रालकायामनिभृतकरेषु चपलहस्तेषु प्रियेषु । नीवी वसनग्रन्थिः ॥ नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि इति विश्वः ॥ सैव बन्धो नीवीबन्धः ॥ चूतवृक्षवदपौनरुक्त्यम् ॥ तस्योच्छ्वसितेन त्रुटितेन शिथिलं क्षौमं दुकूलं रागादा क्षिपत्स्वाहरत्सु सत्सुं ह्रीमूढानां लज्जाविधुराणाम् । बिम्बं बिम्बिकाफलम् ॥ बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले इति विश्वः ॥ बिम्बमिवाधरो यासां तासां बिम्बाधराणां स्त्रीविशेषाणाम् ॥ विशेषाः कामिनीकान्ताभीरुविम्बाधराङ्गनाः शब्दार्णवे ॥ चूर्णस्य कुङ्कुमादेर्मुष्टिः । अर्चिर्भिर्मयूखैस्तुङ्गन् ॥ अचिर्मयूखशिखयोः इति विश्वः ॥ रत्नान्येव प्रदीपानभिमुखं यथा तथा प्राप्यापि विफलप्रेरणा दीपनिर्वापिणाक्षमत्वान्निष्फलक्षेपा भवति । अत्राङ्गनानां रत्त्रपदीपनिर्वापणप्रवृत्त्या मौग्ध्यं व्यज्यते ॥ इति

वल्लभदेवव्याख्या
यत्र यक्षाङ्गनानां चन्दनादिचूर्णमुष्टिर्दीपशान्तिधिया प्रेरितो विफलो भवति निष्फलः संपद्यते । प्रद्योतकाप्रशमात् । कदाचिदन्यत्रामी पतितो भवेदित्याह । अर्चिन्तुङ्गान्महाज्वालान्रत्नप्रदीपानभिमुखमामाद्यापि । विफलत्वं त्वनश्वरत्वाद्रत्नार्चिषः । क्षेपस्तु वह्निदीपभ्रान्त्या । कदा विफल इत्याह । कामात्सुरतेच्छया चपलपाणिषु प्रियेष्वम्बरमपहरत्सु । कीदृशं वासः । नीवीवन्धस्योच्चयसंयमनस्योच्छूननेन विकासेन शिथिलमदृढम् । ततश्चापलात्तदपहारः । अतश्च लज्जाव्याकुलत्वात्तासां चूर्णादिभिर्मणिदीपप्रशमनेच्छा ॥

नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीः
आलेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गैः
धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥२।६॥

यद्विमानाग्रभूमीः = यत्प्रासादोपरिभूमिकाः, सप्तभूमिकभवनानाम् उपरीभागः । अनुकृतिनिपुणाः = अनुकरणदक्षाः । जर्जराः = विशीर्णाः । निष्पतन्ति = निर्गच्छन्ति ।

सञ्जीवनी
नेत्रेति ॥ हे मेघ , नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना ॥ मातरिश्वा सदागतिः इत्यमरः ॥ यस्या अलकाया विमानानां सप्तभूमिकभवनानामग्रभूमीरुपरिभूमिका नीताः प्रापिताः । त्वामेव दृश्यन्त इति त्वादृशः । त्वत्सदृशा इत्यर्थः ॥ त्यदादिषु दृशोऽनालोचने कञ्च इति कञ्प्रत्ययः ॥ जलमुचो मेघाः । आलेख्यानां सचित्राणाम् ॥ चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः इति शब्दार्णवे ॥ नवजलकणैर्दोषं स्फोटनमुत्पाद्य सद्यः शङ्कास्पृष्टा इव सापराधत्वाद्भयाविष्टा इव शङ्का वितर्कभययोः इति शब्दार्णवे ॥ धूमोद्गारस्य धूम निर्गमस्यानुकृतानुकरणे निपुणाः कुशला जर्जरा विशीर्णाः सन्तो जालनमार्गैर्गवाक्षरन्धैर्निष्पतन्ति निष्क्रामन्ति ॥ यथा केनचिदन्तःपुरसञ्चारवता दूतेन गूढवृत्त्या रहस्यभूमिं प्रापितास्तत्र स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः साशङ्काः क्लृप्तवेशान्तरा जाराः क्षुद्रमार्गैर्निष्क्रामन्ति तद्वदिति ध्वनिः । प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा ॥

वल्लभदेवव्याख्या
यत्र भवद्विधा मेघाश्चित्रेषु नवजलकणैर्नाशं विधाय जर्जरत्वाद्धूमोद्गारानुकृत्या धूमप्रसरसादृश्येन निपुणं प्रवीणं प्रासादजालैर्गवाक्षविवरैर्निष्पतन्ति निर्यान्ति । उत्प्रेक्षते । चित्रनाशेन शङ्कास्पृष्टा इव शङ्किता यथा । सशङ्कैर्हि सपराधत्वाद्व्याजेन पलाय्यते । कोदृशा जलदाः । यस्यामलकायां विमानाग्रभूमीर्नेत्रा वोढ़ा प्रेरकेण सततगतिना वायुना नीता अपवाहिताः । नयतीति नेता तेन । अतश्च वर्षणादालेख्यबाधः । जर्जराः खण्डा म्लानाः ॥

यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानां
अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥२।७॥

प्रियतमभुजालिङ्गनोच्छ्वासितानां = प्रियतमबाहुनिपीडनप्रशिथिलीकृतानाम् । व्यालुम्पन्ति = अपनुदन्ति । त्वत्संरोधापगमविशदैः = भवदावरणराहित्यनिर्मलैः । स्फुटजललवस्यन्दिनः = स्वच्छजलकणस्राविणः । तन्तुजालावलम्बाः = वितानालम्बिसूत्रपुञ्जाधाराः ।

सञ्जीवनी
यत्रेति ॥ यत्रालकायां निशीथेऽर्धरात्रे ॥ अर्धरात्रनिशीथौ द्वौ इत्यमरः ॥ तत्संरोधस्य मेघावरणस्पापगमेन विशदैर्निर्मलैश्चन्द्रपादैश्चन्द्ररश्मिभिः ॥ पादा रश्म्यङ्गितुर्याशां रश्म्यङ्गितुर्याशां इत्यमरः ॥ स्फुटजललवस्यन्दिन् उल्बणाम्बुकण स्फुटजललवस्यन्दिन् उल्बणाम्बुकण स्राविणस्तन्तुजालावलम्बा वितानलम्बिसूत्रपुञ्जाधाराः । तद्गुणगुम्फिता इत्यर्थः । चन्द्रकान्ताश्चन्द्रकान्तमणयः । प्रियतमानां भुजैरालिङ्गनेषूच्छ्वासितानां प्रशिथिलीकृतानाम् । श्रान्त्या जलसेकाय वा शिथिलतालिङ्गनानामिति यावत् । स्त्रीणां सुरतजनितामङ्गग्लानिं शरीरखेदम् । अवयवानां ग्लानतामिति यावत् ।यावत् व्यालुम्पन्त्यनुदन्ति ॥

वल्लभदेवव्याख्या
यत्र पुर्यां स्त्रीणां कामिनीनां सुरतजनितामङ्गग्लानिं चन्द्रकान्तमणयो व्यालुम्पन्ति प्रशमयन्ति । कीदृशीनाम् । प्रियतमभुजालिङ्गनोच्छ्वासितानां भर्तृभुजबन्धनपीडितानाम् । कीदृशाश्चन्द्रकान्ताः । तन्तुजालेष्ववलम्बन्त इति तन्तुजालावलम्बाः । तथा त्वत्संरोधापगमविशदैर्भवदावरणनिवृत्तिनिर्मलैश्चन्द्रपादैः शशिकिरणैः द्योतिताः स्राविताः । स्फुटजललवस्यन्दिनः प्रकटतोयकणमुचः । अतश्चाङ्गग्लानिहरत्वम् ॥

अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैः
उद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् ।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥२।८॥

अक्षय्यान्तर्भवननिधयः = अप्रमेयभवनाभ्यन्तरघननिचयाः । रक्तकण्ठैः = मधुरस्वरैः । वारस्त्री = अभिसारिका, वेश्या, गणिका । निर्विशन्ति = अनुभवन्ति ।

सञ्जीवनी
अक्षय्येति । यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः ॥ क्षय्यजय्यौ शक्यार्थेशक्यार्थे इति निपातः । ततो नञ्समासः ॥ भवनानामन्तरन्तर्भवनम् ॥ अव्ययं विभक्ति- इत्यादिनाव्ययीभावः ॥ अक्षय्या अन्तर्भवने निधयो येषां ते तथोक्ताः ॥ यथेच्छाभोगसम्भावनार्थमिदं विशेषणम् ॥ विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां ते तथोक्ताः ॥ वारस्त्री गणिका वेश्या रूपाजीवाथसा जनैः । सत्कृता वारमुख्या स्यात्स्यात् इत्यमरः ॥ बद्धालापाः सम्भावितसंलापाः कामिनः कामुकाः प्रत्यहमहन्यहनि ॥ अव्ययं विभक्ति- इत्यादिना समासः ॥ रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सुन्दरकण्ठध्वनिभिर्धनयतियशः कुबेरकीर्तिमुद्रायद्भिरुच्चैर्गायनशीलैः । देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ॥ किन्नरैः सार्धं सह । विभ्राजस्येदं वैभ्राजम् । वैभ्राजमित्याख्या यस्य तद्वै भ्राजाख्यम् ॥ विभ्राजेन गणेन्द्रेण त्रातं वैभ्रा जमाख्यया इति शम्भुरहस्ये ॥ चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं ब्राह्योद्यानं निर्विशन्त्यनुभवन्ति ॥

गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरश्छिन्नसूत्रैश्च हारैः
नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥२।९॥

अलकपतितैः = चूर्णकुन्तलस्खलितैः । कर्णविभ्रंशिभिः = श्रोत्रस्खलितैः । स्तनपरिसरश्छिन्नसूत्रैः = उरोजस्थलत्रुटिततन्तुभिः । नैशः = रात्रिसम्बन्धी (मार्गः) ।

सञ्जीवनी
गतीति ॥ यत्राकायां कामिनीनामभिसारिकाणाम् । निशि भवो नैशो मार्गः सवितुरुदये सति गत्या गमनेनोत्कम्पश्चलनं तस्माद्धेतोरलकेभ्यः पतितैर्मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां पत्रलतानां छेदैः खण्डैः । पतितैरिति शेषः ॥ तथा कर्णेभ्यो विभ्रश्यन्तीति कर्णविभ्रंशीनि तैः कनकस्य कमलैः ॥ षष्ट्या विवक्षितार्थलाभे सति मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसन्धैयम् ॥ तथा मुक्ताजालै मौक्तिकसरैः । शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः प्रदेशस्तत्र छिन्नानि सूत्राणि येषां तैर्हारैश्च सूच्यते ज्ञाप्यते । मार्गपतितमन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत इत्यर्थः ॥

वल्लभदेवव्याख्या
यत्राभिसारिकाणां नैशो मार्गः प्रभातेऽमीभिः सूच्यते कथ्यतेऽनुमीयते वा । कः । स्तनजघनभरेण गत्युत्कम्पात्केशच्युततैर्मन्दारकुसुमैः । कर्णभ्रष्टैश्च कनकललितैः क्लृप्तच्छेद्यै रचितविच्छित्तिविशेषैः । तथा मुक्तामणिषु लग्नः स्तनपरिमलः कुचामोदो येषां तच्छिन्नसूत्रैर्मुक्ताहारैश्च । तदेतेन भ्रष्टाभरणाग्रहणेन समृद्धिरुक्ता । छेदनीयं छेद्यं पत्रलतादि । क्लृप्त शब्दे कृषो रो लः ॥

मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ।
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघैः
तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥२।१०॥

सभ्रूभङ्गप्रहितनयनैः = भ्रूभङ्गयुक्तव्यापृतनेत्रैः । कामिलक्ष्येषु = कामुकशरव्येषु । अमोघैः = अनिष्फलैः । चतुरवनिताविभ्रमैः = निपुणललनाविलासैः । सिद्धः = निष्पन्नः । आरम्भः = कामिजनविजयव्यापारः, कार्यम् ।

सञ्जीवनी
मत्वेति ॥ यत्रालकायां मन्मथः कामः । धनपतेः कुबेरस्य सखेति धनपतिसखः ॥ राजाहः सखिभ्यष्टच्सखिभ्यष्टच्। तं देवं महादेव साक्षाद्वसन्तं सखि स्नेहान्निजरूपेण वर्तमानं मत्वा ज्ञात्वा भयाद्भाले क्षणभयात्षट्पदा एव ज्या मौर्वी यस्य तं चापं प्रायः प्राचुर्येण न वहति न बिभर्ति । कथं तर्हितस्य कार्यसिद्धिरताह -सभ्रूभङ्गेति ॥ तस्य मन्मथस्यारम्भः कामिजनविजयव्यापारः सभ्रूभङ्ग प्रहितानि प्रयुक्तानि नियुक्तानि नयनानि दृष्टयो येषु तैस्तथोक्तैः कामिन एव लक्ष्याणि तेष्वमोधैः । सफल प्रयोगैरित्यर्थः ॥ मन्मथचापोऽपि क्वचिदपि मोघः स्यादिति भावः ॥ चतुराश्च ता वनिवाश्च तासां विभ्रमैर्विलासैरेव सिद्धो निष्पन्नः । यदनर्थङ्करं पाक्षिकफलं च तत्प्रयोगाद्वरं निश्चितसाधनप्रयोग इति भावः ॥ कचधार्यं देहधार्यं परिधेयं विलेपनम् ।विलेपनम् चतुर्धा भूषणं प्राहुः स्त्रीणामन्यच्च दैशिकम् ॥ इति रसाकरे ।

वल्लभदेवव्याख्या
यत्र पुर्यां साक्षादासीनं हरमवेत्य स्मरः षट्पदज्यं षटपदमौर्वीकं धनुः प्रायेण भयान्नादत्ते । स्वव्यापारान्न कुरुत इत्यर्थः । कथं तर्हि मिथुनेष्वन्योन्यं प्रेमेत्याह । तस्य कामचापस्यारम्भो व्यापारः प्रवीणाङ्गनाविलासैरेव संपद्यते । कीदृशः । कामिलक्ष्येषु सभ्रूभङ्गानि प्रहितानि क्षिप्तानि नयनानि येषु । तथामोघैरवन्ध्यैः कार्यकारिभिः । तदेतेन युवतिप्रावीण्यमुक्तम् ॥

वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं
पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्यां
एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥२।११॥

विभ्रमादेशदक्षं = विलासोपदेशसक्षमम् । चरणकमलन्यासयोग्यं = पादपद्मप्रयोगोचितम् । अबलामण्डनं = रमणीप्रसाधनम् । लाक्षारागम् = अलक्तकम् ।

सञ्जीवनी
वास इति ॥ यस्यामलकायां चित्रं नानावर्णं वासो वसनम् । परिधेयमण्डनमेतत् । नयनयोर्विभ्रमाणामादेश उपदेशे दक्षम् । अनेन विभ्रमद्वारा मधुनो मण्डनत्वमनुसन्धेयम् । तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम् । मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम् । उभयं चेत्यर्थः ॥ इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् । तथा चरणकमलयोर्न्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति रागो रञ्जकद्रव्यं लाक्षैव रागस्तं लाक्षारागं च ॥ चकारोऽङ्गरागादिविलेपनमण्डनोपलक्षणार्थः ॥ सकलं सर्वम् । चतुर्विधमपीत्यर्थः । अबलामण्डनं योषित्प्रसाधनजातमेकः कल्पवृक्ष एव सूते जनयति । न तु नानासाधनसम्पादन प्रयास इत्यर्थः ॥

तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥२।१२॥

कृतकतनयः = कृत्रिमसुतः । आगारं = भवनम् । उपान्ते = समीपे । हस्तप्राप्यस्तबकनमितः = पाणिलभ्यगुच्छनम्रीभूतः ।

सञ्जीवनी
इत्थमलकां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह … तत्रेति ॥ तत्रालकायां धनपतिगृहान्कुबरगृहादुत्तरेणोत्तरस्मिन्नदूरदेशे ॥ एनवन्यतरस्यामन्दूरेऽपञ्चम्याः इत्येनप्प्रत्ययः । एनपा द्वितीया इति द्वितीया ॥ गृहाः पुंसि च भूम्न्येव इत्यमरः ॥ अथवा उत्तरेण इति नैनप्प्रत्ययान्तं किन्तु तोरणेन इत्यस्य विशेषणं तृतीयान्तम् ॥ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बहिद्वारं तेन लक्षितमित्यर्थः ॥ अस्माकमिदमस्मदीयम् ॥ वृद्धाच्छः इति पक्षे छप्रत्ययः ॥ अगारं गृहम् । सुरपतिधनुश्चारुणा मणिमयत्वादभ्रं कषत्वाच्चेन्द्रचापसुन्दरेण तोरणेन बहिर्द्वारेण दूरालक्ष्यं दृश्यम् । अनेनाभिज्ञान दूरतएव ज्ञातुं शक्यमित्यर्थः ॥ अभिज्ञानान्तरमाहयस्यागारस्योपान्ते प्राकारान्तः पार्श्वदेशे मे मम कान्तया वर्धितः पोषितः कृतकतनयः कृत्रिम सुतः । पुत्रत्वेनाभिमन्यमान इत्यर्थः ॥ हस्तेन प्राप्यैर्हस्तावचेयैः स्तबकैर्गुच्छैर्नमितः ॥ स्यादुच्छकस्तु स्तबकः इत्यमरः ॥ बालो मन्दारवृक्षः कल्पवृक्षोऽस्तीति शेषः ॥

वल्लभदेवव्याख्या
तत्रैवंविधायामलकायां धनपतिगृहानुत्तरेण राजराजवेश्मान्युत्तरेण तदस्माकमगारं गृहम् । अभिज्ञानान्याह । शक्रचापरम्येण तोरणेन दूरादपि दृश्यम् । यस्य चोपान्ते निकटे बालो मन्दारवृक्षोऽस्ति । कीदृशः । मदीयया प्रियया सेकादिना पोषितः । यतः कृतकतनयः पुत्रीकृतः । बालत्वाच्च करग्राह्यैर्गुच्छैर्नम्रीभूतः । उत्तरेणेत्येनबन्तः । तद्योगे च गृहानित्येनपा द्वितीया । पञ्चम्यन्तः पाठस्त्वनार्यः ॥

वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा
हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः ।
यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥२।१३॥

विकचकमलैः = विकसितपद्मैः । आध्यास्यन्ति = (उत्कण्ठापूर्वकं) स्मरिष्यन्ति । व्यपगतशुचः = दुःखरहितः । छन्ना = आच्छादिताः ।

सञ्जीवनी
इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाह … वापीति ॥ अस्मिन्मदीयागारे मरकतशिलाभिर्बद्धः सोपानमार्गो यस्याः सा तथोक्ता । विदुरे भवा वैदूर्याः ॥ विदूराञ्यः इति यप्रत्ययः ॥ वैदूर्याणां विकारा वैदूर्याणि ॥ विकारार्थेऽण्प्रत्ययः ॥ स्निग्धानि वैदूर्याणि नालानि येषां तैर्हैमैः सौवर्णैर्विकचकमलैश्छन्ना वापी च । अस्तीति शेषः ॥ यस्या वाप्यास्तोये कृतवसत्यः कृतनिवासा हंसास्त्वां मेघं प्रेक्ष्यापि व्यपगतशुचो वर्षाकालेऽपि व्यपगतकलुषजलत्वाद्वीतदुःखाः सन्तः सन्निकृष्टं सन्निहितम् । सुगममपीत्यर्थः । मानसं मानससरो नाध्यास्यन्ति नोत्कण्ठया स्मरिष्यन्ति ॥ आध्यानमुत्कण्ठास्मरणम् आध्यानमुत्कण्ठास्मरणम् इति काशिकायाम् ॥

वल्लभदेवव्याख्या
अभिज्ञानान्तराण्याह … अस्मिन्नस्मद्गृहे वापी पद्मिनी विद्यते । कीदृशी । मरकतमणिशिलाभिर्बद्धो रचितः सोपानमार्गो यस्याः । तथा स्निग्धैर्वैडूर्यमणिभिरेव नालो दण्डो येषां तैर्हंसैः सौवर्ण: पद्ममुकुल: स्यूता प्रोता संबद्वा । वाप्यां हि पद्मैर्भाव्यम् । यस्याश्च तोये कृतवसतयो हंसास्त्वामपि प्रेक्ष्य वर्षासमयेऽपि निकटमपि मानसं सरो न ध्यास्यन्ति न समरिष्यन्ति। यतो व्यपगतशुचः । तत्रैवोपद्रवाभावान्निर्दुःखाः । हेमशब्दो रजतादिः ॥

तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥२।१४॥

पेशलैः = सुन्दरैः । कनककदलीवेष्टनप्रेक्षणीयः = सौवर्णकदलीपादपपरिवेषदर्शनीयः । उपान्तस्फुरिततडितं = प्रान्तविलसिताचिराभम् । कातरेण = व्याकुलेन ।

सञ्जीवनी
तस्या इति ॥ तस्या वाप्यास्तीरे पेशलैश्चारुभिः ॥ चारौ दक्षे च पेशलः इत्यमरः ॥ इन्द्रनीलै रचितशिखरः । इन्द्रनीलमणिमयशिखर इत्यर्थः । कनककदलीनां वेष्टनेन परिधिना प्रेक्षणीयो दर्शनीयः क्रीडाशैलः । अस्तीति शेषः ॥ हे सखे,सखे उपान्तेषु प्रान्तेषु स्फुरितास्ताडितो यस्य तत्तथोक्तम् ॥ इदं विशेषणं कदलीसाम्यार्थमुक्तम् ॥ इन्द्रनीलसाम्यं तु मेघस्य स्वाभाविकमित्यनेन सूच्यते ॥ त्वां प्रेक्ष्य मद्गेहिन्याः प्रिय इति हेतोः ॥ तस्य शैलस्य मद्गृहिणीप्रियत्वाद्धेतोरित्यर्थः ॥ कातरेण भीतेन चेतसा भयं चात्र सानन्दमेव । वस्तूनामनुभूतानां तुल्यश्रवणदर्शनात् । श्रवणात्कीर्तनाद्वापि सानन्दा भीर्यथा भवेत् ॥ इति रसाकरे दर्शनात् ॥ तमेव क्रीडाशैलमेव स्मरामि ॥ एवकारो विषयान्तरव्यवच्छेदार्थः । सदृशवस्त्वनुभवादिटार्थस्मृतिर्जायते इत्यर्थः । अत एवात्र स्मरणाख्योऽलङ्कारः । तदुक्तं - सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते इति ॥ निरुक्तकारस्तु त्वां तमेव स्मरामि इति योजयित्वा मे शैलत्वारोपमाचष्टे । तदसङ्गतम् । अद्र्याकारारोपस्य पुरोवर्तिन्यनुभवात्मकत्वेन स्मरतिशब्दप्रयोगानुपपत्तेः ॥ शैलत्वभावनास्मृतिरित्यपि नोपपद्यते । भावनायाः स्मृतित्वे प्रमाणाभावादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विसदृशेऽपि शालग्रामे हरिभावनादर्शनादिति ॥

वल्लभदेवव्याख्या
यस्या वाप्यास्तीरे एवंविधः क्रीडाशैलोऽस्ति । कीदृशः । पेशलैमनोज्ञैरिन्द्रनीलैर्मणिभिर्निचितशिखरो बद्धशृङ्गः । कनकमयीनां च कदलीलतानां वेष्टनेन परिवलनेन प्रेक्षणीयो रम्यः । अतश्च मत्प्रियायाः कान्त इति निकटोन्नमितशतह्रदं भवन्तमालोक्य सादृश्यात्तमेवाद्रिं कातरेणाधीरेण मनसा स्मरामि। सादृश्यात्प्रियत्वाच्च स्मरणम् । कातरत्वं तु विरहवशात् । शेषत्वाविवक्षया तमित्यधीगर्थेति पष्ठ्यभावः ॥

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥२।१५॥

कुरबकवृतेः = कुरबकपादपावरणस्य । चलकिसलयः = चञ्चलपल्लवः । दोहदच्छद्मना = दोहदव्याजेन ।

सञ्जीवनी
रक्तेति ॥ अत्र क्रीडाशैले कुंरबका एव वृतिरावरणं यस्य तस्य । मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्थातिमुक्तलतागृहस्य ॥ अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता इत्यमरः ॥ प्रत्यासन्नौ सन्निकृष्टौ चलकिसलयश्चञ्चलपल्लवः । अनेन वृक्षस्य पादताडनेषु प्राञ्जलित्तुं व्यज्यते । रक्ताशोकः । रक्तविशेषणं तस्य स्मरोद्दीपकत्वादुक्तम् । प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुतिद्धिकरः श्वेतो रक्तोऽत्रस्मरखर्थनः ॥ इत्यशोककल्पे दर्शनात् ॥ कान्तः कमनीयः केसरो बकुअथ केसरे । बकुलो बञ्जुलः इत्यमरः ॥ स्त इति शेषः ॥ एकस्तयोरन्यतरः । प्राथमिकत्वादशोक इत्यर्थः ॥ मया संह व सख्याः । स्वप्रियाया इत्यर्थः ॥ वामपादाभिलाषी । दोहदच्छद्मनेत्यत्रापि सम्बन्धनीयम् ॥ स चाहं च । अभिलाषेणावित्यर्थः ॥ अन्यः केसरः । दोहदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम् ॥ तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया ॥ इति शब्दार्णवे ॥ तस्य छद्मना व्याजेन ॥ कपटोस्स्त्री व्याजदम्भोषधयःछद्मकैतवे व्याजदम्भोषधयःछद्मकैतवे इत्यमरः ॥ अस्यास्तव सख्या वदनमदिरां गण्डूषमद्यं काङ्क्षति ॥ मया सहेत्यत्रापि सम्बन्धनीयम् ॥ अशोकबकुलयोः श्रीपादताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः ॥ स्त्रीणां स्पर्शात्प्रिङ्गुर्विकसति नकुलः सीधुगण्डूषसेकात्पादाघातादशोकस्तिलक कुरबकौ वीक्षणालिङ्गनाभ्याम् । मन्दारो नर्मवाक्यात्पटु मृदु हसनाच्चम्पको वक्त्रवाताच्चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः ।

वल्लभदेवव्याख्या
अत्र केलिपर्वते रक्ताशोककेसरतरू पल्लवितौ स्तः । कुरबकवृक्षैर्वृतिर्वर्णिका कण्ठी यस्य तस्य माधवीलतामण्डपस्य प्रत्यासन्नौ सविधौ । ययोश्चैकोऽशोकस्तव सख्या मद्गेहिन्या वामपादाभिलाषी । चरण प्रहारानुग्रहेण तस्य विकामात् । मया सह । अहमपि सपराधस्तदीयं पादप्रहारमभिलषामीत्यर्थः । अपरो बकुलो दोहदेच्छद्मना सेकाभिलाषव्याजेनास्या मत्प्रेयस्या वदनमदिरां काङ्क्षति । तरुणीमुखासवसेकेन तस्य विकासात् । मया सह । अहमपि तदीयां वदनमदिरां काङ्क्षामीत्यर्थः । अशोकादीनां प्रशस्तत्वादुपादानम् ॥१५॥

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः
मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥२।१६॥

शिञ्जा = chime । अनतिप्रौढवंशप्रकाशैः = तरुणवेणुकान्तिभिः । शिञ्जावलयसुभगैः = ध्वनियुक्तकङ्कणरम्यैः । तालैः = करतलवादनैः ।

सञ्जीवनी
तन्मध्य इति ॥ किं चेति चार्थः ॥ तन्मध्ये तयोवृक्षयोर्मध्ये नतिमीढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैस्तरुणवेणुस च्छायैर्मणिभिर्मरकतशिलाभिर्मूले बद्धा । कृतवेदिकेत्यर्थः ॥ स्फटिकं स्फटिकमयं फलकं पीठं यस्याः सा । काञ्चनस्य विकारः काञ्चनी सौवर्णी वासयष्टिर्निवासदण्डः । अस्तीति शेषः ॥ शिञ्जा भूषणध्वनिः ॥ भूषणानां तु शिञ्जितंशिञ्जितं इत्यमरः ॥ भिदादित्वादङ् ॥ शिञ्जिधातुरयं तालव्यादिर्न तु दन्त्यादिः ॥ शिञ्जाप्रधानानि वलयानि तैः सुभगा रम्यास्तैस्तालैः करतलवादनैर्मे मम कान्तया नर्तितो वो युष्माकं सुहृत्सखा नीलकण्ठो मयूरः ॥ मयूरो बर्हिणो बर्हि नीलकण्ठो भुजङ्गभुक् भुजङ्गभुक् इत्यमरः ॥ दिवस विगमे सायङ्काले यां यष्टिकामध्यास्ते । यष्टयामास्त इत्यर्थः ॥ अधिशीङ्ग्स्थासां कर्म इति कर्मत्वाद्वितीया ॥ वत्रागारम्वत्रागारम् इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तुवर्णनादुदात्तालङ्कारः । तदुक्तम्-‘तदुक्तम्उदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते वर्ण्यते इति ॥ न चैषा स्वभावोक्तिर्भाविकं वा तत्र यथास्थितवस्तुवर्णनात् । अत्र तु कविप्रतिभोत्थापितसम्भाव्यमानैश्वर्यशालिवस्तुवर्णनादारोपितविषयत्वमिति ताभ्यामस्य भेदः इत्यलङ्कार सर्वस्वकारः ।

वल्लभदेवव्याख्या
तयोरशोककेसरयोर्मध्ये क्रीडाबर्हिणः सौवर्णो वामार्थं यष्टिदण्डोऽस्ति । कीदृशी । स्फटिकमयं फलकं पीठं यस्याः सा । मूलभागे च मणिभिर्नता संबद्धा । कैः । अनतिप्रौढा नातिपक्वा ये वंशा वेणवस्तद्वत्प्रकाशैर्द्योतमानैस्तत्सवर्णः । मरकतैरित्यर्थः । ते हि वंशवर्णाः । यां च यष्टिं दिनान्ते युष्माकं सुहृन्नीलकण्ठो मयूरोऽध्यास्ते श्रयते । कीदृशः । मत्कान्तया शिञ्जानकनककटकमनोहरैर्तालैर्वाद्यैर्नर्तितः । शिञ्जेरात्मनेपदित्वाच्छिञ्जदिति प्रयोगः प्रमादजः । अनित्यो वानुदात्तेदात्मनेपदविधिः ॥

एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥२।१७॥

हृदयनिहितैः = चित्तसन्निहितैः । द्वारोपान्ते = द्वारपार्श्वयोः । क्षामच्छायं = क्षीणशोभम् । सूर्यापाये = दिवसकरविरहे, अस्तङ्गते । लक्ष्येथाः = निश्चिनुयाः । अभिख्यां = शोभाम् ।

सञ्जीवनी
एभिरिति ॥ हे साधो नपुण । साधुः समर्थो निपुणो वा इति काशिकायाम् । हृदयनिहितैः । अविस्मृतैरित्यर्थः ॥ एभिः पूर्वोक्तैर्लक्षणैस्तोरणादिभिरभिज्ञानैर्दारोपान्ते ॥ एकवचनमविवक्षितम् ॥ द्वारपार्श्वयोरित्यर्थः ॥ लिखिते वपुषी आकृती ययोस्तौ तथोक्तौ शङ्खपद्म नाम निधिविशेषौ ॥ निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः इत्यमरः ॥ दृष्ट्वा च नूनं सत्यमधुनेदानीम् ॥ अधुना इति निपातः ॥ मद्वियोगेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपरमात्क्षीणकान्ति भवनं मद्गृहं लक्षयेथा निश्चिनुयाः । तथाहि । सूर्यापाये सति कमलं पद्मं स्वामात्मीयामभिरूपां शोभाम् ॥ अभिख्या नामशोभयोः इत्यमरः ॥ न पुष्यति नोपचिनोति खलु । सूर्यविरहितं पद्ममिव पतिविरहितं गृहं न शोभत इत्यर्थः ।

वल्लभदेवव्याख्या
हे साधो पूर्वोक्तैरेतैश्चिह्नैश्चित्तस्थापितैर्मद्वेश्म त्वया लक्षणीयं बोद्धव्यम् । किं च द्वारपार्श्वे शङ्खपद्यौ निधी लिखितवपुषौ दृष्ट्वा लक्ष्यम् । कीदृशम् । इदानीं मद्विरहेण क्षामच्छायं कृशशोभम् । यस्माद्रवेरस्तमये नलिनं नैव निजां श्रियं पुष्णाति वर्धयति ॥

गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः
क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ।
अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥२।१८॥

कलभतनुतां = लघुताम् । शीघ्रसम्पातहेतोः = आशुप्रवेशार्थम् । अमल्पाल्पभासं = कन्दमन्दप्रकाशाम् । विद्युदुन्मेषदृष्टिम् = चपलाप्रकाशदृष्टिम् । खद्योतालीविलसितनिभां = ज्योतिरिङ्गणपङ्क्तिस्फुरणतुल्याम् ।

सञ्जीवनी
निजगृहनिश्चयानन्तरं कृत्यमाह … गत्वेति ॥ हे मेघ , शीघ्रसम्पात एव हेतुस्तस्य । शीघ्रप्रवेशार्थमित्यर्थः ॥ षष्ठी हेतुप्रयोगे हेतुप्रयोगे इति षष्ठी ॥ सम्पातः पतने वेगे प्रवेशे वेदसंविदे वेदसंविदे इति शब्दार्णवे ॥ सद्यः सपदि कलभस्य करिपोतस्य तनुरिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथिते तस्यास्तीरेतस्यास्तीरे इत्यादिना पूर्वोद्दिष्टे रम्यसानौ । निषीदनयोग्य इत्यर्थः । क्रीडाशैले निषण्ण उपविष्टः सन् । अल्पाल्पाऽल्पप्रकारा भाः प्रकाशो यस्यास्ताम् ॥ प्रकारे गुणवचनस्य इति द्विरुक्तिः ॥ खद्योतानामाली तस्या विलसितेन स्फुरितेन निभां समानां विद्युदुन्मेषो विद्युत्प्रकाशः स एव दृष्टिस्तां भवनस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टां कर्तुमर्हसि । यथा कश्चित्किचिदन्विष्यन्वचिदुन्नते स्थित्वा शनैः शनैरतितरां द्राघीयसीं दृष्टिमिष्टदेशे पातयति तद्वदित्यर्थः ॥

वल्लभदेवव्याख्या
ततस्त्वं पूर्वोक्ते रम्यसानौ क्रीडाद्राववस्थितः सन्नस्मद्वेश्माभ्यन्तरपतितां विद्युदुन्मेषदृष्टिं तडिदुद्योतनमेव दृशं कर्तुमर्हसि । यथा तां पश्यसीति भावः । किं कृत्या । तत्क्षणं कलभतनुतामिभशिशुपेलवत्वं क्षिप्रगमनार्थ प्राप्य । महति हि देहे व्यथा जायते । कीदृशीं दृष्टिम् । अल्पाल्पा कृशप्राया भाः कान्तिर्यस्यास्ताम् । अत एव च खद्योताल्या ज्योतिर्मालिश्रेण्या यद्विलसितं स्फुरणं तत्सदृशीम् ॥

तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः ॥२।१९॥

तन्वी = कृशाङ्गी । श्यामा = युवतिः । क्षामा = क्षीणा । श्रोणीभाराद् = जघनगौरवात् ।

सञ्जीवनी
सम्प्रति दृष्टिपात फलस्याभिज्ञानं श्लोकद्वयेनाह … तन्वीति ॥ तन्वी कृशाङ्गी । न तु पीवरी ॥ श्लक्ष्णं दभ्रं कृशं तनुतनु इत्यमरः ॥ वोतो गुणवचनात् गुणवचनात्इति ङीष् ॥ श्यामा युवतिः ॥ श्यामा यौवनमध्यस्था इत्युत्पलमालायाम् ॥ शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः ॥ शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु शैलवृक्षाग्रकक्षापुलककोटिषु इति विश्वः ॥ शिखरिणो दशना दन्ता यस्याः सा । एतेनास्या भाग्यवत्त्वं पत्यायुष्करत्वं च सूच्यते । तदुक्तं सामुद्रिके ‘स्निग्धाः समानरूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् ॥ ताम्बूलरसरक्तेऽपि स्फुटमासः समोदयाः । दन्ताः शिखरिणी यस्या दीर्घ जीवति तत्प्रियः ॥ इति ॥ पक्वं परिणत बिम्बं बिम्बिकाफलमिवाधरोष्ठो यस्याः सा पक्वबिम्बाधरोष्ठी ॥ शाकपार्थिवादित्वान्मध्यमपदलोपी समासः इति वामनः ॥ नासिकोदरौष्ठ- इत्यादिना ङीष् ॥ङीष् मध्ये क्षामा । कृशोदरीत्यर्थः । चकितहरिण्याः प्रेक्षणानीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता ॥ एतेनास्याः पद्मिनीत्वं व्यज्यते । तदुक्तं रतिरहस्ये पद्मिनीलक्षणप्रस्तावे-‘पद्मिनीलक्षणप्रस्तावेचकितमृगदृशाभे प्रान्तरक्ते च नेत्रे नेत्रे इति ॥ निम्ननाभिर्गम्भीरनाभिः ॥ अनेन नारीणां नाभिगाम्मीर्यान्मदनातिरेकः इति कामसूत्रार्थः सूच्यते । श्रोणीभारादलसगमना मन्दगामिनी । न तु जङ्घादोषात् ॥जङ्घादोषात् स्तनाभ्यां स्तोकनम्रदवनता । न तु वपुर्दोंषात् ॥वपुर्दोंषात् युवतय एव विषयस्तस्मिन्युवतिविषये । युवतीरधिकृत्येत्यर्थः । धातुर्ब्रह्मण आद्या सृष्टिः प्रथमशिल्पमिव स्थितेत्युत्प्रेक्षा ॥ प्रथमनिर्मिता युवतिरियमेवेत्यर्थः ॥ प्रायेण शिल्पिनां प्रथमनिर्माणे प्रयत्नातिशयवशाच्छिल्पनिर्मागसौष्ठवं दृश्यत इत्याद्यविशेषणम् । तथा चास्मिम्प्रपञ्चे न कुत्राप्येवंविधं रमणीयं रमणीरत्नेष्वस्तीति भावः । तदेवम्भूता या स्त्री तत्रान्तर्भवने स्यात् ।स्यात् तत्र निधसेदित्यर्थः । तामित्युत्तरश्लोकेन सम्बन्धः ॥
तामिति ॥ सहचरे सहचारिणि । अनेन वियोगासहिष्णुत्वं व्यज्यते । मयि दूरीभूते दूरस्थिते सति । सहचरे चक्रवाके दूरीभूते सति चक्रवाकीं चक्रवाकवधूमिव ॥ जातेरस्त्रीविषयादयोपधात् जातेरस्त्रीविषयादयोपधात् इति ङीष् ॥ङीष् परिमितकथां परिमितवाचम् ।परिमितवाचम् एकामेकाकिनीं स्थितां तामन्तर्भवनगतां मे द्वितीयं जीवितं जानीथाः । जीविततुल्यां मत्प्रेयसीमवगच्छेरित्यर्थः । तन्वी इत्यादिपूर्वलक्षणैरिति शेषः ॥ लक्षणानामन्यथाभावभ्रममाशङ्कयाह -गाढेति ॥ गाढोत्कण्ठां प्रवलविरहवेदनाम् । रागे त्वलब्धविषये वेदना महती तु या । संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः ॥ इत्यभिधानात् ॥ बालां गुरुषु विरहमहत्स्वेषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु शिशिरेण शिशिरकालेन मथितां पद्मिनीं वा पद्मिनीमिव ॥ इववद्वायथाशब्द इति दण्डी ॥ अन्यरूपां पूर्वविपरीताकारां जातां मन्ये । हिमहतपद्मिनीव विरहेणान्यादृशी जातेति तर्कयामीत्यर्थः । एतावता नेयमन्येति भ्रमितव्यमिति भावः ॥

वल्लभदेवव्याख्या
तत्र वेश्मनि येवंविधाङ्गनानां भवेत्ता त्वं मम जीवितं द्वितीयं बहिश्चरं जानीथाः । मद्भार्यां बुध्येथाः । कीदृशी । या तन्वी कृशाङ्गी । श्यामैकवारप्रसूता । तरुणीत्यर्थः । शिखरदशना तीक्ष्णदन्ता । पक्वं यद्विम्बफलं तद्वदधरो यस्याः सा । मध्ये क्षामा कृशोदरी । चकितहरिणप्रेक्षणो त्रस्तकुरङ्गनयना । निम्ननाभिरतुन्दिला । श्रोणीभारान्नितम्बभारादलसगमना मन्थरयाता । स्तनाभोगेन च स्तोकं मनाङ्नम्रा नता । किं बहुना । युवतिविषये नारीमध्ये वेधसः आद्या सृष्टिरिव । आदौ ह्यनुद्वेगाद्रम्यं निर्माणं भवति । तां कीदृशीम् । परिमितकथां पेशलभाषिणीम् । मयि सहचरे पत्यौ दूरीभूते दूरस्थिते सति चक्रवाकीमिवैकां केवलाम् । यां च बालाममीषु गाढोत्कण्ठादुःसहेष्वहःसु व्रजत्सु शिशिरदग्धां कमलिनीमिव विरूपां संपन्नां मन्ये जाने । वाशब्द इवार्थे । तां जानीथाः इत्येतदपेक्षयात्र सर्वत्र द्वितीया ॥

तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वाऽन्यरूपाम् ॥२।२०॥

परिमितकथां = परिमितभाषिणीम् । गाढोत्कण्ठां = तीव्रौत्सुक्याम् ।

नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया
निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वाद्
इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥२।२१॥

प्रबलरुदितोच्छूननेत्रं = अविरेतरोदनोच्छ्वसितनयनम् , अविच्छिन्नरोदनशोफसहितनेत्रम्। हस्तन्यस्तं = करनिहितम् । असकलव्यक्ति = असम्पूर्णदर्शनम् । बिभर्ति = धारयति ।

सञ्जीवनी
नूनमिति ॥ प्रबलरुदितेनोच्छूने उच्छ्वसिते नेत्रे यस्य तत् ॥ उच्छूनेति श्वयतेः कर्तरि क्तः ॥ ओदितश्च इति निष्ठानत्वम् । वचिस्वपि- इत्यादिना सम्प्रसारणम् । सम्प्रसारणाच्च इति पूर्वरूपत्वम् । हलः इति दीर्घः ॥ च्छ्वोः शूडनुनासिके च इत्यूठादेशे कृते रूपसिद्धिरिति वर्तमानसामीप्यप्रक्रिया प्रामादिकीत्युपेक्ष्या । तथा सति धातोरिकारस्य गत्यभावादूठा देशे च्छ्वोरन्त्यसेन विशेषणाच्चेति ॥ एतेन विषादो व्यज्यते । निःश्वासानामशिशिरतयान्तस्तापोष्णत्वेन भिन्नवर्णो विच्छायोऽधरोष्ठो यस्य तत् ।तत् हस्ते न्यस्तं हस्तन्यस्तम् । -एतेन चिन्ता व्यज्यते ॥ लम्बालकत्वात्संस्काराभावलम्बमानकुन्तलत्वाद सकलव्यक्त्यसम्पूर्णाभिव्यक्ति तस्याः प्रियाया मुखं त्वदनुसरणेन त्वदुपरोधेन । मेघानुसरणेनेति यावत् । क्लिष्टकान्तेः क्षीणकान्तेरिन्दोर्दैन्यं शोच्यतां बिभर्ति । नूनमिति वितर्के ॥ नूनं तर्केऽर्थनिश्चये तर्केऽर्थनिश्चये इत्यमरः ॥ पूर्ववत्तथापि न भ्रमितव्यमिति भावः ॥

वल्लभदेवव्याख्या
तस्या वक्तुं निश्चितं त्वदुपसरणक्लिष्टकान्तेर्भवत्संपर्ककदर्थितशोभस्य शशिनो दैन्यं बिभर्ति विच्छायतां धत्ते । यतोऽसकलव्यक्ति न तथा प्रकटम् । कुतः । लम्बालकत्वात् । न हि विरहिणी केशान्संमार्जयति । कीदृशं तत् । प्रबलेनाविच्छिन्नेन रुदितेनोच्छूने नेत्रे यस्य । तथा श्वासपरंपराया उष्णत्वाद्भिन्नवर्णो नष्टकान्तिरधरो यस्य । हस्तन्यस्तं करविधृतम् ॥

आलोके ते निपतति पुरा सा बलिव्याकुला वा
मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां
कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२।२२॥

बलिव्याकुला = पूजनव्यापृता । विरहतनु = वियोगकृशम् । आलोके = दृष्टिपथे ।

सञ्जीवनी
सर्वविरहिणीसाधारणानि लक्षणानि सम्भावनयोत्प्रेक्ष्या णीत्याह आलोके इत्यादिभिस्त्रिभिः । आलोकेति ॥ हे मेघ , सा मत्प्रिया । बलिषु नित्येषु प्रोषितागमनार्थेषु च देवताराधनेषु व्याकुला व्यापृता वा । विरहेण तनु कृशं भावगम्यम् । तत्कार्यस्यादृष्टचरत्वात्सम्प्रति सम्भावनयोत्प्रेक्ष्यमित्यर्थः । मत्सादृश्यं मदाकारसाम्यम् । मत्प्रतिकृतिमित्यर्थः । यद्यपि सादृश्यं नाम प्रसिद्धवस्त्वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षितमितरथा लेख्यत्वासम्भवात् । अक्षय्यकोशे आलेख्येऽपि च सादृश्यम्सादृश्यम्इत्यभिधानात् ॥ लिखन्ती क्वचित्फलकादौ विन्यस्यन्ती वा चित्रदर्शनस्य विरहिणीविनोदोपायत्वादिति भावः ॥ एतच्च कामशास्त्रसंवादेन सम्यग्विवेचितमस्माभी रघुवंश सञ्जीविन्यां सादृश्यप्रतिकृतिदर्शनैः प्रियायाः इत्यत्र । मधुरवचनां मञ्जुभाषिणीम् । अतएव पञ्जरस्थाम् । हिंस्रेभ्यः कृतसंरक्षणामित्यर्थः । सारिकां स्त्रीपक्षिविशेषाम् । हे रसिके, भर्तुः स्वामिनः स्मरसि कच्चित् ॥ कच्चित्कामप्रवेदने इत्यमरः ॥ भर्तारं स्मरति किमित्यर्थः ॥ अधीगर्थदशां कर्मणि इति कर्मणि पष्ठी ॥ स्मरणे कारणमाह-हि यस्मात्कारणात्वं तस्य भर्तुः । प्रीणातीति प्रिया ॥ इगुपधज्ञाप्रीकिरः कः इति कप्रत्ययः ॥ अतः प्रेमास्पदत्वात्स्मर्तुमर्हसीति भावः । इत्येवं पृच्छती वा ॥ वाशब्दो विकल्पे ॥ उपमायां विकल्पे वा इत्यमरः ॥ तवालोके दृष्टिपथे पुरा निपतति । सद्यो निपतिष्यवीत्यर्थः ॥ स्यात्मबन्धे पुरातीते निकटागामिके पुरा इत्यमरः ॥ यावत्पुरानिपातयोर्लट् यावत्पुरानिपातयोर्लट्इति लट् ॥

वल्लभदेवव्याख्या
मत्प्रियैवंविधा तवालोके दर्शनपथे पुरा निपतत्यचिराद्यास्यते । एवंविधान्व्यापारान्कुर्वतीं तां द्रक्ष्यसीत्यर्थः । कीदृशी । बलिव्याकुला देवपूजातत्परा । मम सादृश्यमनुकारं विरहवशात्तनु दुर्बलं भावगम्यं चित्तस्थितं लिखन्ती वा । मञ्जुवादिनी सारिकां पञ्जरस्थां पृच्छन्ती वा । किमित्याह । हे निभृते विनीते कच्चिद्भर्तुः स्मरसि मत्पतिं ध्यायसि । यस्मात्त्वं तस्यातीव प्रिया । पुरा निपततीति यावत्पुरानिपातयोर्लट् ॥

उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचिद्
भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥२।२३॥

मूर्च्छनां = स्वरारोहावरोहक्रमम् ।

सञ्जीवनी
उत्सङ्गेति ॥ हे सौम्य साधो, मलिनवसने । प्रोषिते मलिना कृशा इति शास्त्रादित्यर्थः ॥ उत्सङ्ग ऊरौ वीणां निक्षिप्य । मम गोत्रं मन्नामाङ्किं यस्मिंस्तन्मद्रोत्राङ्कं मन्नामाङ्कं यथा तथा ॥ गोत्रं नाम्नि कुलेऽपि च इत्यमरः ॥ विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानार्हं प्रबन्धादि ॥ गीतम्गीतम्इति पाठे स एवार्थः ॥ उद्दातुमुच्चैर्गातुं कामो यस्याः सा ॥ तुं काममनसोरपि इति मकारलोपः ॥ देवयोनित्वाद्गान्धारग्रामेण गातुकामेत्यर्थः । तदुक्तं षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ॥ इति ॥ तथा नयनसलिलैः प्रियतमस्मृतिजनितैरश्रुभिराद्री तन्त्रीं कथञ्चित्कृच्छ्रेण सारयित्वा । आर्द्रत्वापहरणाय करेण प्रमृज्यान्यथा कणनासम्भवादिति भावः । भूयो भूयः पुनः पुनः स्वयमात्मना कृतामपिम् ।कृतामपिम् विस्मरणानहमपीत्यर्थः । मूच्र्छनां स्वरारोहावरोहक्रमम् ।स्वरारोहावरोहक्रमम् स्वराणां स्थापनाः सान्ता मूर्च्छनाः सप्त सप्त हि इति सङ्गीतरत्नाकरे ॥ विस्मरन्ती वा । आलोके ते निपतति इति पूर्वेणान्वयः ॥ विस्मरणं चात्र दयितगुणस्मृतिजनितमूर्च्छावशादेव ॥ तथा च रसरत्नाकरे - वियोगायोगयोरिष्टगुणानां कीर्तनात्स्मृतेः । साक्षात्कारोऽथवा मूच्छ दशधा जायते तथा ॥ इति ॥ मत्सादृश्यमित्यादिना मनःसङ्गानुवृत्तिः सूचिता ॥

वल्लभदेवव्याख्या
धूसराम्बरेऽङ्के वीणां निधाय गेयमुद्गातुकामा वा । सालोके ते निपततीति सम्बन्धः । कीदृशं गेयम् । मम गोत्रं नामाङ्कचिह्नं यस्य । विरचितानि पदानि शब्दा यस्य । पदस्थो हि स्वरसंघातो गेयम् । मदीयनामान्वितमित्यर्थः । अस्रुभिर्नेत्रजलैरार्द्राः क्रूतास्तन्त्रीः क्लेशेन सारयित्वा योजयित्वा स्वयमपि दत्तां मूर्छनां मारणां विस्मरन्ती । चेतमोऽस्वास्थ्यात् ॥

शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥२।२४॥

पश्य "मत्वा देवं धनपतिसखं --" (२।१२) हृदयनिहितारम्भः = चित्तसङ्कल्पितं प्रक्रमम् ।

सञ्जीवनी
तस्य तत आरभ्य निश्चितस्यावधेरन्तस्य शेषान्गतावशिष्टान्मासान्देहलीदत्तपुष्पैः ॥ देहली द्वारस्याधारदारु ॥ गृहावग्रहणी देहली इत्यमरः ॥ तत्र दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तैर्गणनया एको द्वावित्यादिसङ्ख्यानेन भुवि भूतले विन्यस्यन्ती वा । पुष्पविन्यासैर्मासान्गणयन्तीं वेत्यर्थः ॥ यद्वा हृदये निहितो मनसि सङ्कल्पित आरम्भ उपक्रमो यस्य तम् । अथवा हृदयनिहिता आरम्भ चुम्बनादयो व्यापारा यस्मिंस्तं मत्सङ्गं मत्सम्भोगरतिमास्वादयन्तीं वा । आलोके ते निपतति इति पूर्वेण सम्बन्धः ॥ ननु कथमयं निश्चय इत्याशङ्कामर्थान्तरन्यासेन परिहरति । प्रायेण बाहुल्येनाङ्गनानां रमण विरहेष्वेते पूर्वोक्ता विनोदाः कालयापनोपायाः । एतेन सङ्कल्पावस्थोक्ता । तदुक्तं - सङ्कल्पो नाथविषये मनोरथ उदाहृतः इति ॥ त्रिभिः कुलकम् ॥

वल्लभदेवव्याख्या
गमनदिवसात्प्रवृत्तो योऽवधिर्वर्षाख्यस्तस्य शेषान्मासानवनौ भुवि विन्यस्यन्ती स्थापयन्ती । कैः । देहल्यां द्वारविशेषे द्वारपूजार्थं दत्तैः पुष्पैर्या गणना तया । रेखापदेषु पुष्पाणि दत्त्वेत्यर्थः । हृदयनिहितारम्भं मनोरथरचितं मत्संगमं वास्वादयन्त्यनुभवन्ती । कथमवगच्छस्येतादृशान्व्यापारान्कुर्वतीत्याह । यम्मादिष्टवियोगे विरहिणीनां प्रायेणैवंविधा एव विनोदाः केलयो भवन्ति ॥

सव्यापारामहनि न तथा पीडयेन्मद्वियोगः
शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे
तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥२।२५॥

निर्विनोदां = निर्व्यापाराम् ।

सञ्जीवनी
सव्यापारामिति ॥ हे सखे,सखेअहनि दिवसे सव्यापारां पूर्वोक्तबलिचित्रलेखनादिव्यापारवतीं ते सखीं स्वप्रियां मद्वियोग मद्विरहस्तथा तेन प्रकारेण ॥ प्रकारवचने थाल्थाल् इति थाल्प्रत्ययः ॥ न पीडयेत् । यथा रात्राविति शेषः ॥ किं तु रात्रौ निर्विनोदां निर्व्यापारां ते सखीं गुरुतरा शुग्यस्यास्तां गुरुतरशुचमतिदुर्भरदुःखां शङ्के तर्कयामि ॥ शङ्का वितर्कभययोः इति शब्दार्णवे ॥ अतो निशीथेऽर्धरात्र उन्निद्रामुत्सृष्टनिद्राम् । अवनिरेव शयनं शय्या यस्यास्ताम् ॥ नियमार्थं स्थण्डिलशायिनीम् । साध्वीं पतिव्रताम् ॥ साध्वी पतिव्रता इत्यमरः ॥ अतो नान्यथा शङ्कितव्यमिति भावः । वां त्वत्सखीं मत्सन्देशैर्मद्वार्ताभिरलं पर्याप्तं सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य ॥ सखा धात्री च पितरौ मित्रदूतशुकादयः । सुखयन्तीष्टकथनमुखोपायैर्वियोगिनीम् ॥ इति रत्नाकरे ॥ दूतश्चायं मेघ इति भावः ॥ अनेन जागरावस्थोक्ता ॥

वल्लभदेवव्याख्या
तां सखीमुन्निद्रा सतीं त्वमत: कारणान्निशीथेऽर्धरात्रे मत्संदेशैः सुखयितुं पश्येर्न तु दिवसे । कुत इत्याह । सव्यापारत्वादहनि तां विरहो न तथा दुःखयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चित्रव्यापारादिवर्जिताम् । अत एव गुरुतरशुचमतिदुःखिताम् । कोदृशीं ताम् । एवंविधामेकां वेणीं कठोरपरुषात्कपोलफलकादघटितकरजेन पाणिना मारयन्तीमालोकार्थमपास्यन्तीम् । कीदृशीं वेणीम् । याद्ये प्रथमे विरहदिवसे वियोगदिने चूडाशेखरमपास्य तया वेष्टिता । या च नष्टशोकेन मया मोचमीया । एवं ह्येष विरहाचारः । स्नेहाभावाच्च स्पर्शे क्लिष्टां परुषाम् । त्वं कीदृशः । अवनी भुवि न तु खट्टायां यच्छयनं तल्पे तस्यासन्ने निकटे वातायने गवाक्षे तिष्ठति यः स तथोक्तः ॥

आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वां
प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या
तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥२।२६॥

आधिक्षामां = मनोव्यथाकृशाम् । इच्छारतैः = अभीष्टसुरतैः । सन्निषण्णैकपार्श्वां = निहितान्यतरपार्श्वाम् ।

सञ्जीवनी
पुनस्तामेव विशिनष्टि आधिक्षामाम्आधिक्षामाम्इत्यादिभिश्चतुर्भिः । आधिक्षामामिति ॥ आधिना मनोव्यथया क्षामां कृशाम् ॥कृशाम् पुंस्याधिर्मानसी व्यथा इत्यमरः ॥ क्षायतेः कर्तरि क्तः ॥ क्षायो मः इति निष्ठातकारस्य मकारः ॥ विरहे शयनं तस्मिन्विरहशयने । पल्लवादिरचित इत्यर्थः । सन्निषण्णमेकं पार्श्वे यस्यास्ताम् ।यस्यास्ताम् अत एव प्राच्याः पूर्वस्या दिशो मूले । उदयगिरिप्रान्त इत्यर्थः ॥ प्राचीग्रहणं क्षीणावस्थाद्योतनार्थम् । मूलग्रहणं दृश्यतार्थम् ॥ कलामात्रं कलैव शेषो यस्यास्तां हिमांशोस्तनुं मूर्तिमिव स्थिताम् । तथा या रात्रिर्मया सार्धमिच्छया कृतानि रतानि तैः ॥ शाकपार्थिवादित्वान्मध्यमपदलोपी समासः ॥ क्षण इव नीता या पिता तां तज्जातीयामेव रात्रिं विरहेण महतीं महत्त्वेन प्रतीयमानामुष्णैरश्रुभिर्यापयन्तीम् ॥ यातेर्ण्यन्ताच्छतृप्रत्ययः ॥ अर्तिह्री - इत्यादिना पुगागमः ॥ स एव कालः सुखिनामल्पः प्रतीयते । दुःखिनां तु विपरीत इति भावः । एतेन कार्श्यावस्थोक्ता ॥

वल्लभदेवव्याख्या
अन्यच्च कोदृशीं ताम् । आधिक्षामां चित्तपीडाकृशाम् । अत एव यादृशे तादृशे विरहशयने संनिकीर्णं क्षिप्तमेकं पार्श्वं यया । अतश्चामावस्यायां प्राचीमूले पूर्वदिङ्मुखे कलामात्रशेषां हिमांशोश्चन्द्रमसे मूर्तिमिवेत्युपमा । तथा निद्रामभिलषन्तीम् । किमर्थम् । मया सह कथं नाम स्वप्ने समागमो घटेतेति । नयनसलिलोत्पीडेन नेत्राम्बुपूरेण रुद्धावकाशां निवृत्तप्रसराम ॥

पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान्
पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव ।
चक्षुः खेदात् सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं
साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥२।२७॥

पादान् = किरणान् । सन्निवृत्तं = परावृत्तम् । सलिलगुरुभिः = अश्रुदुर्भरैः ।

सञ्जीवनी
पादानिति ॥ जालमार्ग प्रविष्टान्गवाक्षविवरगतान मृताशशिरानिन्दोः पादानरश्मीन्पूर्वप्रीत्या पूर्वस्नेहेन । पूर्ववदानन्दकरा भविष्यन्तीति बुद्धयेति भावः । अभिमुखं यथा तथागतं तथैव सन्निवृत्तं यथागतं तथैव प्रतिनिवृत्तम् । तदा तेषामतीव दुःसहत्वादिति भावः । चक्षुर्दृष्टिं खेदात्सलिलगुरुभिरश्रुवुर्भरः पक्ष्मभिश्छादयन्तीम् ।पक्ष्मभिश्छादयन्तीम् अतएव साभ्रे दुर्दिनेऽङ्ह्नि दिवसे नप्रबुद्धां मेघावरणादविकसितां नसुप्तामहरित्यमुकुलिताम् ॥ उभयत्रापि नञर्थत्य नशब्दस्य सुप्सुपेति समासः ॥ स्थलकमलिनीमिव स्थिताम् ।स्थिताम् एतेन विषयद्वेषाख्या षष्ठी दशा सूचिता ॥

वल्लभदेवव्याख्या
सबाष्पत्वाद्गुरुभिर्दुःसहेः पक्ष्मभिर्लोमभिः खेदाच्चक्षुराच्छादयन्तीं स्थगयन्तीम् । कीदृशम् । पीयूषशीतलान्वातायनप्रविष्टामिन्दोः पादान्किरणान्पूर्वप्रीत्या संमुखं गतं प्रसृतम् । ततो मद्विरहेण खेदकारित्वात्तथैव संनिवृत्तम् । यद्वदेव रभसाद्गतं तद्वदेव प्रत्यागतमित्यर्थः । अतश्चाक्ष्णोः स्थगनान्न प्रबुद्धां न सुप्ताम् । नेत्रनिमीलनात्प्रबोधाभावो निद्राभावश्च स्वापशून्यतया । अतश्च साभ्रेऽहनि स्थलकमलिनीमिवेत्युपमा । सा हि साभ्रत्वान्न प्रबुद्धा दिनवशाच्च न सुप्ता । पूर्वेवात्र वाक्यत्रये क्रिया ॥

निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोगः कथमुपनमेत् स्वप्नजोऽपीति निद्रां
आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥२।२८॥

अधरकिसलयक्लेशिना = अधरोष्ठपल्लवपीडकेन । आगण्डलम्बं = कपोलप्रापि । नयनसलिलोत्पीडरुद्धावकाशाम् = अश्रुसमूहावरुद्धस्थानां, दुष्प्राप्यामित्यर्थः ।

सञ्जीवनी
निःश्वासेति ॥ शुद्धस्नानात्तैलादिरहितस्नानात्परुषं कठिनस्पर्श नूनमागण्डलम्बम् ॥ सुप्पोति समासः ॥ अलकं चूर्णकुन्तलान् ॥ जातावेकवचनम् ॥ अधरकिसलयं केशयति क्लिश्नातीति वा वेन तथोक्तेन । उष्णेनेत्यर्थः ॥ क्लिश्यतेर्ण्यन्तात्किलिश्नातेरण्यन्ताद्वा ताच्छील्ये णिनिः ॥ निःश्वासेन विक्षिपन्तीं चालन्तीं तथा स्वप्नजोऽपि स्वप्नावस्थाजन्योऽपि । साक्षात्सम्भोगासम्भवादिति भावः । मत्सम्भोगः कथं केनापि प्रकारेणोपनयेत् । आगच्छेदित्याशयेनेति शेषः ॥ इतिनैवोक्तार्थत्वादप्रयोगः । प्रयोगे चापौनरुक्त्यम्चापौनरुक्त्यम् इत्यालङ्कारिकाः ॥ प्रार्थनायां लिङ् ॥ नयनसलिलोत्पीडेनाश्रुप्रवृत्त्या रुद्धावकाशामाक्रान्तस्थानाम् । दुर्लभाभित्यर्थः । निद्रामाकाङ्क्षन्तीम् ।निद्रामाकाङ्क्षन्तीम् स्नेहातुरत्वादिति भावः ॥ अत्राश्रुविसर्जनेन लज्जात्यागो व्यज्यते ॥

वल्लभदेवव्याख्या
दीर्घोष्णत्वादोष्ठपल्लवदाहिनोच्छ्वासेनालकं नूनमुत्क्षिपन्तीमपास्यन्तीम् । कीदृशम् । शुद्धस्नानात्पानीयमात्राभिषेकेण परुषं रूक्षम् । यदि हि सा मङ्गलार्थं कदाचित्स्नाति तत्सुरभितैलामलकादिशून्येन तोयमात्रेण । आगण्डं लम्बत इत्यागण्डलम्बं कपोलस्रस्तम् । तथा मया सहेच्छारतैर्या निशा क्षणवदतिवाहिता तामेवोष्णैर्बाष्पैर्विरहशय्यायां रोदनेन मासमिव यापयन्तीं नयन्तीम् ॥

आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीं
गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥२।२९॥

अयमितनखेन = अकर्तितकररुहेण । सारयन्तीम् = अपसारयन्तीम् ।

सञ्जीवनी
आद्य इति ॥ आद्ये विरहदिवसे दाम मालां हित्वा त्यक्त्वा या शिखा बद्धा ग्रथिता शापस्यान्ते विगलितशुचा वीतशोकेन मयोद्वेष्टनीयां मोचनीयां स्पर्शक्लिष्टाम् । स्पर्शे सति मूल केशेषु सव्यथामित्यर्थः । कठिना च सा विषमा निम्नोन्नता च ताम् ॥ खञ्जकुब्जादिवदन्यतरस्य प्राधान्यविवक्षया विशेषणं विशेष्येण बहुलम्बहुलम्इति समासः ॥ एकवेणीमेकीभूतवेणीम् ॥ पूर्वकाल - इत्यादिनाः तत्पुरुषः ॥ तां शिखाम् । अयमिता अकर्तितोपान्ता नखा यस्य तेन करेण गण्डाभोगात्कपोलविस्तारादसकृन्मुहुर्मुहुः सारयन्तीमपसारयन्तीम् । तां पश्य इति पूर्वेण सम्बन्धः । असकृत्सारणाच्चित्तविभ्रमदशा सूचिता ॥

वल्लभदेवव्याख्या
तां सखीमुन्निद्रा सतीं त्वमत: कारणान्निशीथेऽर्धरात्रे मत्संदेशैः सुखयितुं पश्येर्न तु दिवसे । कुत इत्याह । सव्यापारत्वादहनि तां विरहो न तथा दुःखयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चित्रव्यापारादिवर्जिताम् । अत एव गुरुतरशुचमतिदुःखिताम् । कोदृशीं ताम् । एवंविधामेकां वेणीं कठोरपरुषात्कपोलफलकादघटितकरजेन पाणिना मारयन्तीमालोकार्थमपास्यन्तीम् । कीदृशीं वेणीम् । याद्ये प्रथमे विरहदिवसे वियोगदिने चूडाशेखरमपास्य तया वेष्टिता । या च नष्टशोकेन मया मोचमीया । एवं ह्येष विरहाचारः । स्नेहाभावाच्च स्पर्शे क्लिष्टां परुषाम् । त्वं कीदृशः । अवनी भुवि न तु खट्टायां यच्छयनं तल्पे तस्यासन्ने निकटे वातायने गवाक्षे तिष्ठति यः स तथोक्तः ॥

सा संन्यस्ताभरणमबला पेशलं धारयन्ती
शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् ।
त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं
प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥२।३०॥

पेशलं = कोमलम् । संन्यस्ताभरणं = परित्यक्ताभूणम् । अश्रम् = अश्रु ।

सञ्जीवनी
सेति ॥ अबला दुर्बला संन्यस्ताभरणं कृशत्वात्परित्यक्ताभरणमसकृदनेकशो दुःखदुःखेन दुःखप्रकारेण ॥ प्रकारे गुणवचनस्य इति द्विर्भावः ॥ शय्योत्सङ्गे निहितं पेशलं मृदुलं गात्रं शरीरं धारयन्ती वहन्ती ॥ अनेनात्यन्ताशक्त्या मूर्च्छावस्था सूच्यते ॥ सा त्वत्सखी त्वामपि नवजलमयं नवाम्बुरूपमस्रं बाष्पमवश्यं सर्वथा मोचयिष्यति ॥ द्विकर्मसु पचादीनामुपसङ्ख्यानम् पचादीनामुपसङ्ख्यानम् इति मुचेः पचादित्वाद्विकर्मकत्वम् ॥ तथाहि । प्रायः प्रायेणार्द्रान्तरात्मा मृदुहृदयः । मेघस्तु द्रवान्तःशरीरः । सर्वः करुणा करुणामयी वृत्तिरन्तःकरुणावृत्तिर्यस्य स करुणावृत्तिर्भवति । हि यस्मात् ।यस्मात् अस्मिन्नवसरे सर्वथा त्वया शीघ्रं गन्तव्यमनन्तरदशापरिहारायेति सन्दर्भाभिप्रायः ॥ ननु किमिदमादिमां चक्षुःप्रीतिमुपेक्ष्यावस्थान्तराण्येव तत्रभवान्कविरादृतवान् । उच्यते सम्भोगो विप्रलम्भश्चद्विधा श‍ृङ्गार उच्यते । संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियुक्तयोः ॥ पूर्वानुरागमानाख्यप्रवास करुणात्मना । विमलम्भश्चतुर्धात्र प्रवासस्तत्र च त्रिधा ॥ कार्यतः सम्भ्रमाच्छापादस्मिन्काव्ये तु शापजः । प्रागसङ्गतयोर्यूनोः सति पूर्वानुरञ्जने ॥ चक्षुः मीत्यादयोऽवस्था दश स्युस्तत्क्रमोयथा । दृङ्गनःसङ्गसङ्कल्पा जागरः कृशता रतिः ॥ हीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश । पूर्वसङ्गतयोरेव प्रवास इति कारणात् ॥ न तत्रापूर्ववच्चक्षुः प्रीतिरुत्पत्तिमर्हति । सत्सङ्गस्य तु सिद्धस्याप्यविच्छेदोऽत्र वर्ण्यते ॥ अन्यथा पूर्ववद्वाच्या इति तावद्वयवस्थितः । वैयर्थ्यादादिमां हित्वा वैरस्यादन्तिमां तथा ॥ हृत्सङ्गादीरिहाचष्ट कविरष्टाविति स्थितिः । मत्सादृश्यं लिखन्तीति पद्येऽस्मिन्प्रतिपादिता ॥ चक्षुःप्रीतिरिति मोक्तं निरुत्तरकृताननम् । चक्षुःप्रीतिर्भवेच्चित्रेष्वदृष्टचरदर्शनात् ॥ यथा मालविकारूपमग्निमित्रस्य पश्यतः । प्रोषितानां च भर्तृणां क्व दृष्टादृष्टपूर्वता ॥ अथ तत्रापि सन्देहे सङ्कलत्राणि पृच्छतु । किम्भर्तृप्रत्यभिज्ञा स्यात्किं वैदेशिकभावना ॥ प्रवासादागतेस्वस्मिन्नित्यलं कलहैर्व्वथा इति ॥

वल्लभदेवव्याख्या
साबला कृशाङ्गीदृशं देहं वहन्ती निश्चेतनमपि त्वां नतजलमयमस्रमवश्यं त्याजयिष्यति । कीदृशं गात्रम् । पेलवं कृशं सुकुमारम् । अत एव संन्यस्ताभरणं त्यक्तमण्डनम । तथा तल्पपृष्ठे निक्षिप्तमप्यतिक्लेशेन बिभ्रती । यद्येवंविधा सा किमित्यहं रोदिमीत्याह । यस्माद्य आर्द्रान्तरात्मा सरसचित्तः स सर्वः प्रायेण करुणावृत्तिः कृपाशीलो भवति । त्वं च सजलत्वादार्द्रान्तरः । करुणा कृपैव वृत्तिर्व्यापारो यस्य स करुणावृत्तिः । कृपार्थवृत्तेः करुणाशब्दस्य भाषितपुंस्कत्वाभावान्न पुंवद्भावः । दुःखदुःखेनेत्याधिक्ये निर्वचनम् । दुहेरिव मुचेरपि विकर्मकत्वात्त्वामस्रं मोचयिष्यतीति ॥

जाने सख्यास्तव मयि मनः संभृतस्नेहमस्माद्
इत्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥२।३१॥

संभृतस्नेहम् = परिपूर्णानुरागम् । इत्थंभूताम् = उक्तप्रकारप्राप्ताम् । सुभगंमन्यभावः = सुभगमानिता ।

सञ्जीवनी
नन्वीदृशीं दशामापन्नेति कथं त्वया निश्चितमत आह … जान इति ॥ हे मेघ , तव सख्या मनो मयि सम्भृतस्नेहं सञ्चितानुरागं जाने । अस्मात्स्नेहज्ञानकारणात्प्रथमविरहे । प्रथमग्रहणं दुःखातिशयद्योतनार्थम् । तां त्वत्सखीमित्थम्भूतां पूर्वोक्तावस्थामापन्नां तर्कयामि ॥ ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राह -वाचालमिति ॥ सुभगमात्मानं मन्यत इति सुभगम्मन्यः ॥ आत्ममाने खश्च इति खश्प्रत्ययः । अरुर्द्विषद्-अरुर्द्विषद् इत्यादिना मुमागमः ॥ तस्य भावः सुभगंमन्यभावः । सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः ॥ स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् बहुगर्ह्यवाक्इत्यमरः ॥ आलजाटचौ बहुभाषिणि इत्यालच्प्रत्ययः ॥ किं तु हे भ्रातः मयोक्तं यत् यत्आधिक्षामाम्आधिक्षामाम्इत्यादि तन्निखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्यक्षम् ।प्रत्यक्षम् भविष्यतीति शेषः ॥

वल्लभदेवव्याख्या
तस्या भवद्वयस्याया यतो मयि मनः संभृतस्नेहमतिप्रीतिमदतः कारणादित्थं भूतामेवंविधां दशामवाप्तां तामहमाद्यवियोगे तर्कयाम्युत्प्रेक्षे । न च स्नेह एव त्वयि तस्या नास्तीति वक्तुं युज्यत इत्याह । सुभगमिष्टमात्मानं मन्यते सुभगंमन्यः । तद्भावो मां नैव वाचालं यत्किंचनभाषिणं कुरुते । तस्माद्यत्तव मयोक्तमेतदशेषं तवाचिरात्प्रत्यक्षम् । अवश्यं त्वमेवंविधां तो द्विदिनैर्द्रक्ष्यसीत्यर्थः ॥

रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥२।३२॥

रुद्धापाङ्गप्रसरम् = अवरुद्धनेत्रप्रान्तगमनम् । अञ्जनस्नेहशून्यं = कज्जलस्निग्धत्वहीनम् । प्रत्यादेशात् = परित्यागात् ।

सञ्जीवनी
रुद्धेति ॥ अलकै रुद्धा अपाङ्गयोः प्रसरा यस्य तत्तथोक्तम् । अञ्जनेन स्नेहः स्त्रैग्ध्यं तेन शून्यम् । स्त्रि ग्धाञ्जनरहितमित्यर्थः । अपि च किं च मधुनो मद्यस्य प्रत्यादेशान्निराकरणात् । परित्यागादित्यर्थः ॥ प्रत्यादेशो निराकृतिः इत्यमरः ॥ विस्मृतो भ्रूविलासो भ्रूभङ्गो येन तत् । नयनस्य रुद्धापाङ्गप्रसरत्वादिकं विरहसमुत्पन्नमिति भावः । त्वय्यासन्ने सति । स्वकुशलवार्ताशंसिनीति शेषः । उपर्यूर्ध्वभागे स्पन्दते स्फुरन्तीत्युपरिस्पन्दि । तथा च निमित्तनिदाने –‘स्पन्दान्मूर्ध्नि च्छत्रलाभं ललाटे पट्टमंशुकम् । इष्टप्राप्तिं दृशोर्ध्वमपाङ्गे हानिमादिशेत् ॥ इति ॥ मृगाक्ष्यास्त्वत्सख्या नयनम् । वाममिति शेषः । वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणः । दाने देवादिपूजायां स्पन्देऽलङ्करणेऽपि च ॥ इति स्त्रीणां वामभागमाशस्त्यात् ॥ मीनक्षोभान्मीन चलनाचलस्य कुवलयस्य श्रियाः शोभायास्तुलां सादृश्यमेष्यतीति शङ्के तर्कयामि ॥

वल्लभदेवव्याख्या
भवति निकटस्थे सति तस्या हरिणनयनाया नेत्रमपरिस्पन्दित्वादनिमेषोत्पलनचटुलोत्पलशोभामाम्यं प्राप्स्यतीत्याशङ्के संभावयामीति शुभसूचनमत्र । स्त्रीणां हि वामातिक्षिस्फुरणमानन्दमासन्नमाह । कीदृशं नयनम् । लम्बैरलकैरुद्धापाङ्गप्रसरं निवृत्तकटाक्षक्षेपम् । शोकाच्चाञ्जनस्नेहेन रहितम् । तथा मद्यम्य वर्जनाद्विस्खलितभ्रूविनामम ॥

वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः
मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां
यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥२।३३॥

हस्तसंवाहनानां = करनिपीडनानाम् । मुच्यमानं = परिहीयमानम् । कररुहपदैः = नखचिह्नैः । चलत्वं = स्फुरणम् ।

सञ्जीवनी
वाम इति ॥ मदीयैः कररुहपदैर्नखपदैः ॥ पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्नखरोऽस्त्रियाम् इत्यमरः ॥ मुच्यमानः परिहीयमाणः । नखाङ्करहित इत्यर्थः । ऊर्वोर्नखपदास्पदत्वं तु रतिरहस्ये - कण्ठकुङ्क्षि कुचपार्श्वभुजोरुश्रोणिसक्थिषु नखास्पदमाहुः इति ॥ चिरपरिचितं चिराभ्यस्तं मुक्ताजालं मौक्तिकसरमयं कटिभूषणं दैवगत्या दैववशेन त्याजितः । सम्प्रति नखपदोष्माभावेन शीतोपचारस्य तस्य वैयर्थ्यादिति भावः ॥ त्यजतेर्ण्यन्तात्कर्मकर्तरिक्तः । द्विकर्मसु पचादीनां चोपसङ्ख्यानमिष्यतेचोपसङ्ख्यानमिष्यते इति पचादित्वाद्विकर्मकत्वम् ॥ सम्भोगान्ते मम हस्तसंवाहनान्नां हस्तेन मर्दनानाम् ॥ संवाहनं मर्दनं स्यात्स्यात्इत्यमरः ॥ समुचितो योग्यः ॥ सरसो रसार्द्रः परिपक्वो न शुष्कश्च स एव विवक्षितः । तत्रैव पाण्डिमसम्भवात् । स चासौ कदलीस्तम्भश्च स एव गौरः पाण्डुरः ॥ गौरः करीरे सिद्धार्थे शुके पीतेऽरुणेऽपि च इति मालतीमालायाम् ॥ अस्याः प्रियाया वाम ऊरुश्चलत्वं स्पन्दनं यास्यति प्राप्स्यते ॥ ऊरोः स्पन्दाद्रतं विद्यादूर्वोः प्राप्तिं सुवाससः इति निमित्तनिदाने ॥

वल्लभदेवव्याख्या
त्वय्यामन्ने वामो वोरुरस्याश्चलत्वं यास्यति स्फुरिष्यति । वाशब्दो नयनस्पन्दापेक्षया विकल्पे । कीदृशोऽसौ । मामकैर्नखक्षतैर्वर्ज्यमानः । नित्याभ्यस्तं च मौक्तिककलापं विधिवैधुर्यात्त्याजित उपेक्षितः । शैत्यार्थं हि तत्र तस्य करणमभूत् । तथा सुरतसमाप्तौ मम करोपमर्दनयोग्यः । अभिनवकदलीकाण्डवच्च गौरः श्वेतः ॥

तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद्
अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित्
सद्यःकण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥२।३४॥

सहस्व = सहेथाः, मर्षय, प्रतीक्षिष्यसे । स्तनितविमुखः = गर्जितपराङ्मुखः । गाढोपगूढम् = दृढालिङ्गनम् । कण्ठच्युतभुजलताग्रन्थि = गलभ्रष्टबाहुव्रततिबन्धनम् ।

सञ्जीवनी
तस्मिन्निति ॥ हे जलद, तस्मिन्काले त्वदुपसर्पणकाले सा मत्प्रिया लब्धं निद्रासुखं यया तादृशी स्याद्यदि स्याच्चेत् । एनां निद्राणामन्वास्य । पश्चादासित्वेत्यर्थः ॥ उपसर्गवशात्सकर्मकत्वम् ॥ स्तनितविमुखो गर्जितपराङ्मुखो निःशब्दः सन् । अन्यथा निद्राभङ्गः स्यादिति भावः । याममात्रं प्रहरमात्रम् ॥ द्वौ यामप्रहरौ समौ इत्यमरः ॥ सहस्व प्रतीक्षस्व ॥ प्रार्थनायां लोट् ॥ शक्तयोरेकवारसुरतस्य यामावधिकत्वात्स्वमेऽपि तथा भवितव्यमित्यभिप्रायः । तथा च रतिसर्वस्वे - एकवारावधिर्यामो रतस्य परमो मतः । चण्डशक्तिमतोर्यूनो रुद्भट क्रमवतिनोः ॥ इति ॥ यामसहनस्य प्रयोजनमाह- मा भूदिति ॥ अस्याः प्रियायाः प्रणयिनि प्रेयसि मयि कथञ्चित्कृच्छ्रेण स्वप्नलब्धे सति । गाढोपगूढं गाढालिङ्गनम् ॥गाढालिङ्गनम् नपुंसके भावे क्तः ॥ सद्यस्तत्क्षणं कण्ठाच्च्युतः स्रस्तो भुजलतयोर्ग्रन्थिर्बन्धो यस्य तन्मा भून्मास्तु । कथञ्चिल्लब्धस्यालिङ्गनस्य सद्यो विघातो मा भूदित्यर्थः । न चात्र निद्रोक्तिः तामुन्निद्राम् तामुन्निद्राम्इति पूर्वोक्तेन निद्राच्छेदेन विरुध्यते पुनः सप्तम्याद्यवस्थासु पाक्षिकनिद्रासम्भवात् ॥ तथा च रसरत्नाकरे - आसक्ती रोदनं निद्रा निर्लज्जानर्थवाग्भ्रमः । सप्तमादिषु जायन्ते दशाभेदेषु वासुके इति

वल्लभदेवव्याख्या
हे जलद तस्मिन्कालेऽर्धरात्रसमये प्रिया चेत्सुप्ता भवेत्तदेनामन्वास्य सेवित्वा त्यक्तगर्जितस्त्वं क्षणमात्रं सहस्व प्रतीक्षेथाः । मा स्म तां बोधयः । किमर्थमित्याह । मयि प्रेयसि कथंचिद्दैवात्स्वप्नासादिते सति तस्या गाढोपगूढं दृढालिङ्गनं सद्यस्तत्क्षणं कण्ठच्युतभुजलताग्रन्थि गलभ्रष्टबाहुवल्लीपाशं मा भूत् । आश्लेषविच्छेदो मा स्म भवदित्यर्थः । नूनं मा मामालिङ्गितमात्मना स्वप्ने द्रक्ष्यति । उपगूढशब्दो भावे । अन्वासनं सेवनम् । यथा । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजमिति । स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इति च ॥

तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥२।३५॥

प्रत्याश्वस्तां = गतक्लमाम् । स्तिमितनयनां = निश्चललोचनाम् ।

सञ्जीवनी
तामिति ॥ तां प्रियां स्वस्य जलकणिकाभिर्जलनिन्दुभिः शीतलेनानिलेनोत्थाप्य प्रबोध्य । एतेन तस्याः प्रभुत्वाद्व्यजनानिलसमाधियन्यते । यथाह भोजराजः – मृदुभिर्मर्दनैः पादे शीतलैर्व्यजनैः स्तनौ । श्रुतौ च मधुरैगतईर्निद्रातो बोधयेत्प्रभुम् बोधयेत्प्रभुम्इति ॥ अभिनवैर्नूतनैमालतीनां जालकैः समं जातीमुकुलैः सह ॥ सुमना मालती जातिः इति । साकं सत्रा समं सह इति । क्षारको जालकं क्लीबे कलिका कोरकः पुमान् पुमान्इति चामरः ॥ प्रत्याश्वस्तां सुस्थिताम् ।सुस्थिताम् अन्यञ्च पुनरुच्छ्वसिताम् ॥ श्वसेः कर्तरि क्तः । उगितश्च इति चकारादित्प्रतिषेधः ॥ एतेनास्याः कुसुमसौकुमार्यं गम्यते ॥ त्वत्सना त्वत्सहिते ॥ सनाथं प्रभुमित्याहुः सहिते चित्ततापिनि इति शब्दार्णवे ॥ गवाक्षे स्तिमितनयनां कोऽसाविति विस्मयान्निश्चलनेत्रां मानिनीं मनस्विनीम् । जनानौचित्यासहिष्णुमित्यर्थः । विद्युद्गर्भोऽन्तःस्थो यस्य स विद्युद्गर्भः । अन्तर्लीनविद्युत्क इत्यर्थः ॥ गर्भोऽपवनकेऽन्तस्थे गर्भोऽग्नौ कुक्षिणोऽर्भके इति शब्दार्णवे ॥ दृष्टिप्रतिघातेन वक्तुर्मुखावलोकन प्रतिबन्धकत्वान्न विद्युता द्योतितव्यमिति भावः । धीरो धैर्यविशिष्टश्च सन् । अन्यथाशीलत्वादिनैतदनाश्वासनप्रसङ्गादिति भावः । स्तनितवचनैः स्तनितान्यवे वचनानि तैर्वक्तुं प्रक्रमेथा उपक्रमस्व ॥ विध्यर्थे लिङ् ॥ मोपाभ्यां समर्थाभ्याम् समर्थाभ्याम्इत्यात्मनेपदम् ॥

वल्लभदेवव्याख्या
ततः सुप्तां तां मनस्विनीं निजोदकबिन्दुभिस्तुषारेण समीरणेनोत्थाप्य गम्भीरगर्जितैर्नैव वचसा वक्तुं प्रकमेथाः प्रारभेथाः । कीदृशीम् । शीतवातसंस्पर्शात्समाश्वस्तां मालतीजालकैः सह । सा हि प्रभाते विकसति । तथा भवदधिष्ठितत्वाद्विद्युद्गर्भे तडित्वति वातायने दिदृक्षया क्षिप्तचक्षुषम् ॥

भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं
तत्संदेशैर्हृदयनिहितैरागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥२।३६॥

प्रोषितानां = प्रवासिना। मन्द्रस्निग्धैः = गम्भीरमधुरैः। श्राम्यतां = खिद्यमानानाम् ।

सञ्जीवनी
इत्यात्मनेपदम् सम्प्रति दूतस्य श्रोतृजनाभिमुखीकरणचातुरीमुपदिशति भर्तुरिति ॥ विधवा गतभर्तृका न भवतीत्यविधवा सभईङ्का । हे अविधवे । अनेन भर्तृजीवनसूचनादनिष्टाशङ्कां वारयति । मां भर्तुस्तव पत्युः मित्रं मित्रं प्रियसुहृदम् । तत्रापि हृदयनिहितैर्मनसि स्थापितैस्तत्सन्देशैस्तस्य भर्तुः सन्देशैस्त्वत्समीपमागतम् । भर्तुः सन्देशकथनार्थमागतमित्यर्थः । अम्बुवाहं मेघं विद्धि जानीहि ॥ न केवलमहं वार्ताहरः किन्तु घटकोऽपीत्याशयेनाह । योऽम्बुवाहो मेघो मन्द्रस्निग्धैः स्निग्धगम्भीरैर्ध्वनिभिर्गजितैः करणैः अबलानां स्त्रीणां वेणयस्तासां मोक्षे मोचन उत्सुकानि पथि श्राम्यतां श्रान्तिमापन्नानां प्रोषितानां प्रवासिनाम् । पान्थानामित्यर्थः । वृन्दानि सङ्घांस्त्वरयति । पान्योपकारिणो मे किमुवक्त सुहृदुपकारित्वमिति भावः ॥

वल्लभदेवव्याख्या
किं वच्यामीत्याह… हे अविधवे पतिवति भावत्कस्य पत्युर्मित्रं प्रियमम्बुवाहं जीमूतं मां त्वं विद्धि जानीहि । तत्संदेशान्मनसि निहितात्तदीयं संदेशं चेतसि गृहीत्वा त्वन्निकटं प्राप्तम् । यश्चाम्बुवाहो मार्गे श्राम्यतां खेदं भजतां प्रोषितानां प्रवासिनां कदम्बकानि मन्द्रस्निग्धैर्मधुरारूक्षैर्गर्जितैस्त्वरयति प्रेरयति गृहाय । यतोऽबलानां कान्तानां वेणिमोक्षणे कबर्युन्मोचन उत्सुकान्युत्कानि । मेघालोके हि विरहो दुःसहः । यस्त्वरयतीत्यम्बुवाहापेक्षया पुंस्त्वं प्रथमपुरुषनिर्देशश्च । मित्रास्मदपेक्षया तु दुर्घटमेतत्स्यात् ॥

इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव ।
श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिनीनां
कान्तोदन्तः सुहृदुपनतः सङ्गमात्किंचिदूनः ॥२।३७॥

उत्कण्ठोच्छ्वसितहृदया = औत्सुक्यविकसितचित्ता । कान्तोदन्तः = वल्लभवृत्तान्तः । सुहृदुपनतः = मित्रोपहृतः ।

सञ्जीवनी
भर्तृसख्यादिज्ञापनस्य फलमाह … इतीति ॥ इत्येवमाख्याते सति पवनतनयं हनूमन्तं मैथिलीव सीतेव सा मत्प्रिया । उन्मुख्युत्कण्ठयौत्सुक्येनोच्छ्वसितहृदया विकसितचित्ता सती त्वां वीक्ष्य सम्भाव्य सत्कृत्य च । अस्माद्भर्तृमैत्रीज्ञापनात्परं सर्वं श्रोतव्यम् । अवहिताऽप्रमत्ता सती श्रोष्यत्येव ॥ अत्र सीताहनूमदुपाख्यानादस्याः पातिव्रत्यं मेघस्य दूतगुणसम्पत्तिश्च व्यज्यते । तद्गुणास्तु रसाकरे - ब्रह्मचारी बली धीरो मायावी मानवर्जितः । धीमानुदारो निःशङ्को वक्ता दूतः स्त्रियां भवेत् ॥ इति ॥ ननु वार्तामात्रश्रवणादस्याः को लाभ इत्याशङ्कयार्थान्तरमुपन्यस्यति हे सौम्य साधो, सीमन्तिनीनां वधूनाम् ॥ नारी सीमन्तिनी वधूः इत्यमरः ॥ सुहृदा सुहृन्मुखेनोपनतः प्राप्तः सन् । सुहृत्पदं विप्रलम्भशङ्कानिवारणार्थम् । कान्तस्योदन्तो वार्ता कान्तोदन्तः ॥ वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्स्यात्इत्यमरः ॥ सङ्गमात्कान्तसम्पर्कात्किञ्चिदून ईषदूनस्तद्वदेवानन्दकारीत्यर्थः ॥

वल्लभदेवव्याख्या
इत्थं त्वयोक्ते सति सा त्वामुद्वक्त्रा दृशा दृष्ट्वा धिया चोपपद्यते तद्दूतस्वमस्येति संभाव्य विचार्यातः परमवहितैकाग्राकर्णयिष्यति । यस्मात्पुरंध्रीणां मित्रेणानीतः कान्तोदन्तो वल्लभवृत्तान्तः संगमात्किंचिदूनः । प्रियसमागमे समाश्वासोत्पादात्प्रियसंगमनिभ इत्यर्थः । कमिव का वीक्ष्येत्याह । पवनतनयं हनूमन्तं मैथिली सीता यथा पूर्वं दृष्टवती दूतं च संभावितवती । उत्कठ्योच्छ्वसितं मुक्तोच्छ्वासं हृदयं यस्याः सा तथोक्ता ॥

तामायुष्मन् मम च वचनादात्मनश्चोपकर्तुं
ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ।
अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः
पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥२।३८॥

पूर्वाभाष्यं = प्रथमं प्रष्टव्यम् ।

सञ्जीवनी
सम्प्रति सन्दिशति । तामिति । हे आयुष्मन् ॥ प्रशंसायां मतुप् ॥ परोपकारश्लाघ्यजीवितेत्यर्थः । मम वचनं प्रार्थनावचनं तस्माच्चात्मनःस्वस्यापकर्तुं च । परोपकारेणात्मानं कृतार्थयितुमित्यर्थः ॥ उपकारक्रियां प्रति कर्मत्वेऽपि तस्यापकरोतीत्यादिवत्सम्बन्धमात्रविवक्षायामात्मन इति षष्ठी न विरुध्यते । यथा भारविः-‘सा लक्ष्मीरुपकुरुते यया परेषां परेषां इति । तथा श्रीहर्षश्च - साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् । न कुतूहलिकस्य मनश्चरितं च महात्मनां श्रोतुम् ॥ इति । तथा च क्वचित्कचिद्वितीयादर्शनात्सर्वस्य तथा इति नाथवचनमनाथवचनमेव ॥ तां प्रियामेवं ब्रूयात् ।ब्रूयात् भवानिति शेषः ॥ किमित्याह -हे अबले, तव सहचरो भर्ता रामगिरोश्चत्रकूटस्याश्रमेषु तिछतीति रामगिर्याश्रमस्थः सन्नव्यापन्नः । न मृत इत्यर्थः । अमरणे हेतुमाह -वियुक्तो वियोगं प्राप्तो दुःखी संस्त्वाँ कुशलं पृच्छति ॥ दुह्यादित्वात्पृच्छतोर्द्वकर्मकत्वम् ॥ तथाहि । सुलभविपदामयत्त्नसिद्धविपत्तीनां प्राणिनामेतदेव कुशलमेव पूर्वभाष्यमेतदेव प्रथममवश्यं प्रष्टव्यम् ॥प्रष्टव्यम् कृत्याश्च इत्यावश्यकार्थे ण्यत्प्रत्ययः ॥

वल्लभदेवव्याख्या
आयुष्मान्भवान्मदीयेन वचमा स्वयं चोपकर्तुं तामित्थं ब्रूयाद्वदेत् । यथा तव सहचरः पतिश्चित्रकूटासीनोऽव्यापन्नो जीवस्त्वां कुशलं पृच्छतीति । किमित्युभयगतकुशलकथनमेवादावित्याह । यस्मात्सुप्रापवि पत्तीनां शरीरिणामेतदेव पूर्वाशास्यं प्रथमाकाङ्क्षणीयं यत्स्वास्थ्यं नाम । आयुष्मानिति वचने कर्तृपदं न त्वामन्त्रणम् । ब्रूयादिति प्रथमपुरुषप्रयोगात् । आशास्यशब्देऽनुपसर्गाधिकारादेतिस्तुशासव्रिति क्यवभावः ॥

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं
सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥२।३९॥

समधिकतरोच्छ्वासिना = अतिशयितोर्ध्वश्वासयुतेन । प्रतनु = अतिकृशम् । तनुना = क्षीणेन ।

सञ्जीवनी
अङ्गेनेति ॥ किं च । दूरवर्ती दूरस्थः । न चागन्तुं श क्यत इत्याह । वैरिणा विरोधिना विधिना देवैने रुद्धमार्गः प्रतिबद्धवर्त्मा स ते सहचरः । तनुना कृशेन गाढतप्तेनात्यन्तसन्तप्तेन सास्रेण साश्रुणा । उत्कण्ठा वेदनास्य जातोत्कण्ठितस्तेनोत्कण्ठितेन ॥ तदस्य सञ्जातम्-सञ्जातम् इत्यादिनेतच्प्रत्ययः । उत्कण्ठतेर्वा कर्तरि क्तः ॥ समधिकतरमधिकमुच्छ सितीति समधिकतरोच्ङ्गासी तेन । दीर्घनिःश्वासिनेत्यर्थः ॥ ताच्छील्ये णिनिः ॥ अङ्गेन स्वशरीरेण मतनुं कृशं तप्तं वियोगदुःखेन सन्तप्तमश्रुद्रुतमश्रुविन्नम् । अनेत्राम्बु रोदनं चास्रमश्रु च इत्यमरः ॥ अविरतोत्कण्ठमविच्च्छिन्नवेदनमुष्णोच्छ्वासं तीव्रानिःश्वासम् ॥ तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं समं स्मृतम् स्मृतम्इति हलायुधः ॥ अङ्गं त्वदीयं शरीरं तैः स्वसंवेद्यैः सङ्कल्पैर्मनोरथैर्विंशति । एकीभवतीत्यर्थः । अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थत्वमुक्तम् ॥

वल्लभदेवव्याख्या
तव प्रेयान्दरवर्ती संकल्पैरुत्कण्ठावशादङ्गेनाङ्गं विशति वपुषा त्वद्देहं प्रवेष्टुमिच्छति । त्वयैक्यं यियासतीत्यर्थः । भिन्नयोश्चैक्यं सारूप्याद्भवतीति तयोरङ्गयोस्तनु च तनुनेति पृथग्विशेषणैः सादृश्यकथनेन ममानुरागतामाह । अयं द्रवतीत्यनुद्रम् । पचादित्वादच् । कम्पादात्मना नायातीत्याह । विधुरेण विधिना रुद्धवर्त्मा । वियोगस्य वर्षभोग्यत्वात् । तनु च तनुनेति चार्थाभावात्प्रतनु तनुतेति पठनीयम् ॥

शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्
कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्टः
त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥२।४०॥

सञ्जीवनी
सम्प्रति स्वावस्थानिवेदनाय मस्तौति शब्दाख्येयमिति ॥ हे अबले, यस्ते प्रियः सखीना पुरस्तादग्र आननस्पर्शे त्वन्मुखसम्पर्के लोभाद्गार्ध्न्यात् ।लोभाद्गार्ध्न्यात् अधरपानलोभादित्यर्थः । शब्दाख्येयं शब्देन रवेणाख्येयमुच्चैर्वाञ्च्यमपि यत्तत् ।यत्तत् वचनमपीति शेषः । कर्णे कथयितुं लोलो लालसोऽभूत्किल ॥ लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि च इति यादवः ॥ श्रवणविषयं कर्णपथमतिक्रान्तः । तथा लोचनाभ्यामदृष्टः । अतिदूरत्वाद्द्द्रष्टुं श्रोतुं च न शक्य इति भावः । स ते प्रियः । त्वामुत्कण्ठया विरचितानि पदानि सुप्तिङन्तशब्दा वाक्यानि वा यस्य तत्तथोक्तम् ॥ पदं शब्दे च वाक्ये च इति विश्वः ॥ इदं वक्ष्यमाणं श्यामास्वङ्ग- म्म्इत्यादिकं मन्मुखेनाह । मन्मुखेन स एव नूत इत्यर्थः ॥ सादृश्यप्रतिकृतिस्वप्नदर्शन तदङ्गस्पृष्टस्पर्शाख्यानि चत्वारि विरहिणां विनोदस्थानानि । तथा चोक्तं गुणपताकायां - वियोगावस्थासु प्रियजन सदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपनतवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितमनसां कोऽपि गदितः ॥ इति ॥

वल्लभदेवव्याख्या
स तव प्रियो मन्मुखेनेदं वक्ष्यमाणं त्वामाह ब्रवीति । स कः । यत्किल शब्दाख्येयं प्रकटवाच्यं तदपि सखीसंनिधाने व्याजं विधाय यस्तव कर्णे वक्तुं लोलः साकाङ्क्ष आसीत् । कुतो हेतोः । आननस्पर्शलोभात् । कर्णे कथनं हि तस्य त्वन्मुखस्पर्शसुखानुभवाय । कीदृशः सः । श्रवणविषयमतिकान्तोऽप्राप्तः । दूरस्थत्वात् । अत एव लोचनानामगम्यो नेत्रैर्द्रष्टुमशक्यः । उत्कण्ठया विरचितानि पदानि शब्दा यत्रेति कथनविशेषणम् ॥

श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्
हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥२।४१॥

बर्हभारेषु = पिच्छनिचयेषु । प्रतनुषु = अल्पासु ।

सञ्जीवनी
तत्र सदृशवस्तुदर्शनमाह श्यामास्विति ॥ श्यामासु प्रियङ्गुलतासु ॥ श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली इत्यमरः ॥ अङ्गं शरीरमुत्पश्यामि । सौकुमार्यादिसाम्यादङ्गमिति तर्कयामीत्यर्थः । तथा चकितहरिनां प्रेक्षणे ते दृष्टिपातं शशिनि चन्द्रे वक्त्रच्छायां मुखकान्विम् । तथा शिखिनां बर्हिणां बर्हभारेषु बर्हसमूहेषु केशान् । प्रतनुषु स्वल्पासु नदीनां वीचिषु ॥ अत्र वीचीनां विशेषणोपादाने नानुक्तगुणग्रहो दोषः । भ्रूसाम्यनिर्वाहाय महत्त्वदोषनिराकरणार्थत्वात्तस्येति । तदुक्तं रसरत्नाकरे - ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे । विशेषणादिदोषस्य नास्त्यनुक्तगुणग्रहः ॥ इति ॥ भ्रूविलासान् ॥ भ्रूपताकाः इति पाठे भ्रुवः पताका इवेत्युपमितसमासः ॥ उत्पश्यामीति सर्वत्र सम्बध्यते ॥ तथापि नास्ति मनोनिरृतिरित्याशयेनाह -हन्तेति ॥ हन्त विषादे ॥ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः इत्यमरः ॥ हे चण्डि कोपने ॥ चण्डस्त्वत्यन्तकोपनः इत्यमरः । गौरादित्वात् ङीष् ॥ उपमानकथनमात्रेण न कोपितव्यमिति भावः । क्वचिदपि कस्मिन्नयेकस्मिन्वस्तुनि ते तव सादृश्यं नास्ति । अतो न निर्व्वणोमीत्यर्थः । अनेनास्याः सौन्दर्यमनुपममिति व्यज्यते ॥

वल्लभदेवव्याख्या
हे भीरु कातरे तव सारूप्यमेकस्थं कष्टं क्वचिदपि न विद्यते । यदालोक्यात्मानं समाश्वासयेयम् । तथा हि श्यामालतामु तवाङ्गमुत्प्रेक्षे । तद्वत्तनुत्वात् । चकित हरिणप्रेक्षणे च दृष्टिपातम् । त्रस्तसारङ्गवच्चटुलावलोकनात् । एवमुत्तरत्र यथायथं योज्यम् । कपोलकान्तिं मृगाङ्क उत्पश्यामि । मयूराणां कलापाटोपेषु कचभरम् । सूक्ष्मसरित्कल्लोलेषु भ्रूविलासान् । भीर्वित्यन्वर्थं नाम नारीणाम् । संज्ञापूर्वको विधिर नित्य इति ह्रस्वगुणाभावः ॥

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायां
आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥२।४२॥

उपचितैः = प्रवृद्धैः । अस्रैः = नयनवारिभिः । आलुप्यते = आच्छाद्यते । कृतान्तः = दैवम् ।

सञ्जीवनी
सम्प्रति प्रतिकृतिदर्शनमाह त्वमिति ॥ हे प्रिये,प्रियेप्रणयेन प्रेमातिशयेन कुपितां कुपितावस्थायुक्तां त्वाम् ।त्वाम् त्वत्प्रतिकृतिमित्यर्थः । धातवो गैरिकादयः ॥ धातुर्वातादिशब्दादिगैरिकादिष्वजादिषु धातुर्वातादिशब्दादिगैरिकादिष्वजादिषुइति यादवः ॥ त एव रागा रञ्जकद्रव्याणि ॥ चित्रादिरञ्जकद्रव्ये लाक्षादी प्रणयेच्छयोः । सारङ्गादौ च रागःस्यादारुण्ये रञ्जने पुमान् पुमान्इति शब्दार्णवे ॥ तैर्धातुरागैः । शिलायां शिलापट्ट आलिख्य निर्मायात्मानं मामः । मत्प्रतिकृतिमित्यर्थः । ते तव । चित्रगताया इत्यर्थः । चरणपतितं कर्तुं तथा लेखितुं यावदिच्छामि तावदिच्छासमकालं मुहुरुपचितैः प्रवृद्धैरसैरश्रुभिः कर्तृभिः ॥ अस्मश्रुणि शोणितेशोणिते इति विश्वः ॥ मे दृष्टिरालुप्यते । आव्रियत इत्यर्थः । ततो दृष्टिप्रतिबन्धनालेखनं प्रतिबध्यत इति भावः । किम्बहुना क्रूरो घातुकः ॥ नृशंसो घातुकः क्रूरः इत्यमरः ॥ कृतान्तो दैवम् ॥दैवम् कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु यमसिद्धान्तदैवाकुशलकर्मसुइत्यमरः ॥ तस्मिअपि चित्रेऽपि ॥ नावावयोः ॥ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थ योवनावौ इति नावादेशः ॥ सङ्गमं सहवासं न सहते । सङ्गम लेखनमप्यावयोरसहमानं दैवमावयोः सङ्ग न सहत इति किमु वक्तव्यमित्यपिशब्दार्थः ॥

वल्लभदेवव्याख्या
भवतीं प्रणयकुपितां प्रीत्या कपितां धातुरागैः सिन्दूरादिरागैर्दृषत्स्वालिख्य प्रार्थनयात्मानं तव पादगतं कर्तुं यावदिच्छामि तावत्त्वदाकारस्य स्मरणाद्बाष्परसकृदुपचितैवृद्धैश्चक्षुषी ममाच्छाद्येते । अतश्च वक्तुं लोलः साकाङ्क्ष आसीत् । कुतो हेतोः । आननस्पर्शलोभात् । कर्णे कथनं हि तस्य त्वन्मुखस्पर्शसुखानुभवाय । कीदृशः सः । श्रवणविषयमतिकान्तोऽप्राप्तः । दूरस्थत्वात् । अत एव लोचनानामगम्यो नेत्रैर्द्रष्टुमशक्यः । उत्कण्ठया विरचितानि पदानि शब्दा यत्रेति कथनविशेषणम् ॥

मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोः
लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥२।४३॥

आकाशप्रणिहितभुजं = शून्यप्रसारितबाहुम् । निर्दयाश्लेषहेतोः = प्रगाढालिङ्गनाय (निर्दयः = गाढः) । अश्रुलेशाः = नयनाम्बुकणाः । स्वप्नसन्दर्शनेषु = स्वप्नानुभवेषु ।

सञ्जीवनी
अधुना स्वप्नदर्शनमाह मामिति ॥ सुप्तस्य विज्ञानं स्वप्न ॥ स्वप्नः सुप्तस्य विज्ञानम्विज्ञानम् इति विश्वः ॥ सन्दर्शनं संवित् ॥ दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्ष्णि संविदि इति शब्दार्णवे ॥ स्वप्नसन्दर्शनानि स्वप्नज्ञानानि ॥ चूतवृक्षादिवत्सामान्यविशेषभावेन सहप्रयोगः ॥ तेषु मया कथमपि महता प्रयत्नेन लब्धाया गृहीतायाः । दृष्टाया इति यावत् ॥ ते तव निर्दयाश्लेषो गाढालिङ्गनं स एव हेतुस्तस्य । निर्दयाश्लेषार्थमित्यर्थः ॥ षष्ठी हेतुप्रयोगे हेतुप्रयोगे इति षष्ठी ॥ आकाशे निर्विषये प्रणिहितभुजं प्रसारितबाहुं मां पश्यन्तीनां स्थलीदेवतानां मुक्ता मौक्तिकानीव स्थूला अश्रुलेशा बाष्पविन्दवस्तरुकिसलयेषु । अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्वन्यते । बहुशो न पतन्तीति न । किन्तु पतन्त्येवेत्यर्थः ॥ निश्चये नञ्द्वयप्रयोगः । तथा चाधिकारसूत्रम् –‘चाधिकारसूत्रम्स्मृतिनिश्चयसिद्धार्थेषु नञ्द्वयप्रयोगः सिद्धः इति । महात्मगुरु देवानामश्रुपातः क्षितौ यदि । देशभ्रंशो महद्दुःखं मरणं च भवेदुवम् ॥ इति क्षितौ देवताश्रुपातनिषेधदर्शनाद्यक्षस्य मरणभावसूचनार्थं तरुकिसलयेषु पतन्तीत्युक्तम् ॥

वल्लभदेवव्याख्या
हे सति गुणवति तव स्वप्ने दैववशात्प्राप्ताया गाढालिङ्गनायाकाशे शून्य एव प्रसारितभुजं मां वीक्षमाणानां वनदेवतानां द्रुमपल्लवेषु मौक्तिकपृथवो वाष्पकणा असकृत् खलु न पतन्ति । अपि तु भ्रश्यन्त्येव । तादृशीं मे दशामालोक्य ता अपि कृपया रुदन्तितरामित्यर्थः ॥

भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां
ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः
पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥२।४४॥

क्षीरस्रुतिसुरभयः = देवदारुक्षीरनिष्यन्दसुगन्धशालिनः । तुषाराद्रिवाताः = हिमालयानिलाः ।

सञ्जीवनी
इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह भित्वेति ॥ देवदारुदुमाणां किसलयपुटान्पल्लवपुटान सद्यो भित्त्वा । तत्क्षीरसुतिसुरभयस्तेषां देवदारुद्रुमाणां क्षीरस्रुतिभिः क्षीरनिष्यन्दैः सुरभयः सुगन्धयः । तुषाराद्रिजातत्वे लिङ्गमिदम् । ये वाता दक्षिणेन दक्षिणमार्गेण ॥ तृतीय विधाने प्रकृत्यादिभ्य उपसङ्ख्यानात्तृतीया । समेन धावतीतिवत् । तत्रापि करणत्वस्य प्रतीयमानत्वात् । कर्तृकरणयोरेव तृतीया इति भाष्यकारः ॥ प्रवृत्ताश्चलिताः । हे गुणवति सौशील्यसौकुमार्यादिगुणसम्पन्ने ,सौशील्यसौकुमार्यादिगुणसम्पन्ने ते तुषाराद्रिवाताः पूर्वं प्रागेभिर्वातैस्तवाङ्गं स्पृष्टं भवेद्यदि । किलेति सम्भावितमेतदिति बुद्धयेत्यर्थः ॥ वार्ता सम्भाव्ययोः किल इत्यमरः ॥ मयालिङ्गयन्त आश्लिष्यन्ते ॥ अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्गन्यन्त इत्यभिधानम् । यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोष इति वदन्निरुक्तकारः स्वयमेवोन्मत्तप्रलापीत्युपेक्षणीयः ॥

वल्लभदेवव्याख्या
हे गुणवति शीलान्विते सरलतरूणां तत्क्षणं पल्लवकवाटानुपमृद्य तद्द्रुमसम्बन्धिक्षीरस्रुतिसुगन्धयो ये हिमालयानिला दक्षिणेन प्रवृत्ता अस्यां दिशि वातुं प्रस्तुतास्ते मयाक्षिप्यन्ते । किमर्थम् । यदि किलैभिर्मारुतैः सहवासात्कदाचित्त्वदीयं शरीरं स्पृष्टं भवेत् । अतश्च । वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृशेः । बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । दक्षिणेनेत्येनबन्तः ॥

संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥२।४५॥

त्रियामा = रात्रिः । दुर्लभप्रार्थनम् = अप्राप्यमनोरथम् । गाढोष्माभिः = अतितीव्राभिः (मन्दातपविघातः इति विवक्षितः) । अशरणम् = अनाथम् ।

सञ्जीवनी
सङ्क्षिप्येतेति ॥ दीर्घा यामाः प्रहरा यस्यां सा दीर्घयामा । विरहवेदनया तथा प्रतीयमानेत्यर्थः । त्रियामा रात्रिः ॥ आद्यन्तयोरर्धयामयोर्दिन व्यवहारात्रियामा इति क्षीरस्वामी ॥ क्षण इव कथं केन प्रकारेण सङ्क्षिप्येत लघुक्रियेत । अहरपि सर्वावस्थासु । सर्वकालेष्वित्यर्थः । मन्दमन्दो मन्दप्रकारः ॥ प्रकारे गुणवचनस्य इति द्विरुक्तिः । कर्मधारयवदुत्तरेषु कर्मधारयवदुत्तरेषु इति कर्मधारयवद्भावात्सुपो लुक् ॥ मन्दमन्दातपमत्यल्प सन्तापं कथं स्यात् । न स्यादेव । हे चटुलनयने चञ्चलाक्षि, इत्थमनेन प्रकारेण दुर्लभप्रार्थनमप्राप्यमनोरथं मे मम चेतो गाढोष्माभिरतितीव्राभिस्त्वद्वियोगव्यथाभिरशरणमनाथं कृतम् ॥

वल्लभदेवव्याख्या
हे चञ्चललोचने गाढोष्माभिस्तीव्रसन्तापाभिस्त्वद्विरहचिन्ताभिर्मम मन इत्थं दुर्लभप्रार्थनं कृतम् । यद्यद्दुष्प्रापं तत्तदभिन्नलषामीत्यर्थः । तथा हि दीर्घप्रहरास्त्रियामा निशा निमेष इव कथं नाम संक्षिप्येरन्गच्छेयुः । तथा ग्रीष्ममध्याह्नादिष्वपि सकलासु दशासु दिनमतिमृदुरविप्रभं कथं स्यादिति । एतच्च दुर्लभम् । न हि निखिला क्षणदा क्षणवत्क्षीयते । न च दिनं सर्वदा मन्दातपं भवति । गाढोष्माभिरिति डावुभाभ्यामन्यतरम्याम । संक्षिप्येरन्निति कर्मकर्तरि ॥

नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे
तत् कल्याणि त्वमपि नितरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥२।४६॥

नेमिः (स्त्री०) = प्रधिः (पु०) । बहु विगणयन् = अधिकं विचारयन् । एकान्ततः = नियमेन ।

सञ्जीवनी
न च मदीयदुर्दशाश्रवणाद्भेतव्यमित्याह नन्विति ॥ नन्वित्यामन्त्रणे ॥ प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननुननु इत्यमरः ॥ ननु प्रिये बहु विगणयापान्तेः सत्येवमेवं करिष्यामीत्यावर्तयन्नात्मानमात्मनैव स्वेनैव ॥ प्रकृत्यादिभ्य उपसङ्ख्यानम्उपसङ्ख्यानम्इति तृतीया ॥ अवलम्बे धारयामि । यथाकथञ्चिज्जीवामीत्यर्थः । तत्तस्मात्कारणात् । कल्याणि सुभगे ,सुभगेत्वत्सौभाग्येनैव जीवामीति भावः ॥ बड्वादिभ्यश्च इति ङीष् ॥ त्वमपि नितरामत्यन्तं कातरत्वं भीरुत्वं मा गमः मा गच्छ ॥ न माङच्चोगेमाङच्चोगे इत्यडागमाभावः ॥ तादृक्सुखिनोरावयोरीदृशि दुःखे कथं न विभेमीत्याशङ्कयाह -कस्येति ॥ कस्य जनस्यात्यन्तं नियतं सुखमुपनतं प्राप्तमेकान्ततो नियमन दुःखं वोपनतम् । किं तु दशावस्था चक्रस्य रथाङ्गस्य नेमिस्तदन्तः ॥ चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्थात्प्रधिः पुमान् पुमान् इत्यमरः ॥ तस्याः क्रमेण परिपाव्या ॥ क्रमः शक्तौ परीपाट्याम्परीपाट्याम्इति विश्वः ॥ नीचैरध उपरि च गच्छति प्रवर्तते । एवं जन्तोः सुखदुःखे पर्यावर्तेते इत्यर्थः ॥

वल्लभदेवव्याख्या
आत्मावस्थां प्रतिपाद्य संप्रति कर्तव्यतामाह । हे कन्याणि भद्रे तवापि नन्वात्मानं बहुविधं विगणयञ्जानन्स्वयमेव नावलम्बे न । अपि त्ववलम्ब एव । पामीत्यर्थः । तत्त्वमपि प्रिये कातरत्वमधैर्यं सुतरामत्यर्थं मा गमो मा यासीः । यस्मात्कस्य संसारिणो नित्यं सुखमुपनतं घटितमेकान्ततो नियमेन दुःखं वा । यत एताः सुखासुखरूपा दशा अवस्थाश्चक्रनेमिवत्कदाचिन्नीचैर्गच्छन्त्यधो यान्ति कदाचिच्चोपरि पृष्ठे । रथाङ्गधारा हि भ्रमन्ती क्रमेणाध उपरि च याति । तदुक्तम् । सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो न प्रहृष्येत शोचेत् ॥ नन्वभिमुखीकरणे । मा गम इति लृदित्वादङ् ॥

शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
शेषान्मासान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥२।४७॥

निर्वेक्ष्यावः = भोक्ष्यावहे । क्षपासु = रात्रिसु ।

सञ्जीवनी
न च निरवधिकमेतदुःखमित्याह शापान्त इति ॥ पाणौ शार्ङ्गं यस्य स तस्मिञ्शार्ङ्गपाणी विष्णौ ॥ सप्तमीविशेषणे -सप्तमीविशेषणे इत्यादिना बहुवीहिः । प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः ॥ भुजगः शेष एव शयनं तस्मादुत्थिते सति मे शापान्तः शापावसानम् । भविष्यतीत्तिशेषः । शेषानवशिष्टांश्चतुरो मासान् । मेघदर्शनप्रभृति हरिबोधनदिनान्तमित्यर्थः । दशदिवसाधिक्यं त्वत्र न । विवक्षितमित्युक्तमेव । लोचने मीलयित्वा निमील्य गमय । धैर्येणातिवाहयेत्यर्थः । पश्चादनन्तरं त्वं चाहं चावाम् ॥चावाम् त्यदादीनि सर्वैर्नित्यम् सर्वैर्नित्यम्इत्येकशेषः ॥ त्यदादीनां मिथो द्वन्द्वे यत्परं तच्छिष्यतेतच्छिष्यते इत्यस्मदः शेषः ॥ विरहे गुणितमेवमेवं करिष्यातीति मनस्यावर्तितम् । तं तम् ॥तम् वीप्सायां द्विरुक्तिः ॥ आत्मनोरावयोरभिलाषं मनोरथम् ।मनोरथम् परिणताः शरच्चन्द्रिका यासां तासु क्षपासु रात्रिषु ॥ निर्वेक्ष्यावो भोक्ष्यावहे ॥ विशतेर्लृट् ॥ निर्वेशो भृतिभोगयोः इत्यमरः ॥ अत्र कैश्चित् नभोनभस्ययोरेव वार्षिकत्वात्कथमाषाढादिचतुष्टयस्य वार्षिकत्वमुक्तमिति चोदयित्वर्तुत्रयपक्षाश्रयणादविरोधः इति पर्यहारि तत्सर्वमसङ्गतम् । अत्र गतशेषाश्चत्वारो मासा इत्युक्तं कविना न तु ते वार्षिका इति । तस्मादनुक्तोपालम्भ एव । यच्च नाथेओक्तं कथमाषाढा दिचतुष्टयात्परं शरत्कालः इति । तत्राप्याकार्तिकसमाप्तेः शरत्कलानुवृत्तेः परिणतशरच्चन्द्रिकास्वित्युक्तम् ।परिणतशरच्चन्द्रिकास्वित्युक्तम् न तु तदैव शरत्प्रादुर्भाव उक्तइत्यविरोध एव ॥

वल्लभदेवव्याख्या
कार्त्तिकशुक्लद्वादश्यां भुजगशयनाच्छेषतल्पादुत्थिते शार्ङ्गपाणौ हरौ मम शापान्तो भविष्यति । तदैव वर्षस्य परिपूर्णत्वात् । अतश्चाद्यारभ्य मासचतुष्टयं लोचने मीलयित्वा यथाकथंचिद्गमयातिवाहय । ततः पश्चात्संयोगे मति चिरकालगुणितं तीक्ष्णं तं तं नानाविधमात्मनो अभिलाषं कामं परिपक्वशरदज्योत्स्नासु निशास्वावां निर्वेक्ष्याव उपभुञ्जावहे । लोचननिमीलनेनात्र यथातथात्वं लक्ष्यते ॥

भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा ।
सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे
दृष्टः स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥२।४८॥

कितवः = धूर्तः । सान्तर्हासम् = सगूढहासम् ।

सञ्जीवनी
सम्प्रति तस्या मेघवञ्चकत्वशङ्कानिरासायातिगूढमभिधेयमुपदिशति भूय इति ॥ हे अबले, भूयः पुनरप्याह । त्वद्भर्ता मन्मुखेनेति शेषः । मेघवचनमेतत् ।मेघवचनमेतत् किमित्यत आहपुरा पूर्वम् । पुराशब्दश्चिरातीते ॥ स्यात्प्रबन्धे चिरातीते निकटागामि पुरा इत्यमरः ॥ शयने मे कण्ठलग्नापि त्वम् । गले बद्धस्य कथमपि गमनं न सम्भवेदिति भावः । निद्रां गत्वा किमपि । केन वा निमित्तेनेत्यर्थः । सस्वनं सशब्दम् ।सशब्दम् उच्चैरित्यर्थः । रुदती सती विप्रबुद्धा । आसीदिति शेषः । असकृद्बहुशः पृच्छतः । रोदन हेतुमिति शेषः । मे मम । हे कितव, त्वं कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तर्हासमन्दहासं यथा तथा कथितं चेति । त्वद्भर्ता भूयञ्चाहेति योजना ।

वल्लभदेवव्याख्या
स त्वप्रिय एतदुक्त्वा पुनरपि स्वामिदमाह । यथा पूर्वं भवती तल्पे मामालिङ्ग्य सुप्ता केनापि निमित्तेन सशब्दं रुदती विप्रबुद्धा विनिद्रा जाता । ततो रोदनहेतुमसकृत्पृच्छतो मम त्वयोक्तम् । हे कितव धूर्त कामपि वनितां रमयन्भवान्स्वप्ने मयावलोकितः । अत ईर्ष्याकोपेनाहमरुदमिति ॥

एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
मा कौलीनादसितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगाद्
इष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥२।४९॥

असितनयने = कृष्णनयने । कौलीनात् = लोकापवादान्निमितात् । उपचितरसाः = उपबृंहितरसाः । प्रेमराशीभवन्ति = स्नेहपुञ्जीभवन्ति (आलोकनाभिलाषौ रागस्नेहौ ततः प्रेमा । रतिशृङ्गारौ योगे वियोगतो विप्रलम्भश्च ॥) । स्नेहान् = प्रणयान् ।

सञ्जीवनी
एतस्मादिति । एतस्मात्पूर्वोक्तात् । अभिज्ञायतेऽनेनेत्यभिज्ञानं लक्षणं तस्य दानात्प्रापणान्मां कुशलिनं क्षेमवन्तं विदित्वा ज्ञात्वा । हे चकितनयने,चकितनयनेकुले जनसमूहे भवात्कौलीनाल्लोकमवादात् । एतावता कालेन परासुनो चेदागच्छतीति जनप्रवादादित्यर्थः ॥ स्यात्कौलीनं लोकवादे युद्धे पश्चहिपक्षिणाम्पश्चहिपक्षिणाम्इत्यमरः ॥ मयि वि षयेऽविश्वासिनी मरणशङ्किनीं मा भूर्न भव ॥ भवतेर्लुङ । न माङयोगेमाङयोगे इत्यडागमप्रतिषेधः ॥ न च दीर्घकालविप्रकर्षात्पूर्वस्नेहनिवृत्तिराशङ्कयेत्याह - स्नेहानिति ॥ किमपि किञ्चिन्निमित्तम् ॥ न विद्यत इति शेषः । स्नेहान्मीतीविरहे सत्यन्योन्यविप्रकर्षे सति ध्वंसिनो विनश्वरानाहुः । तत्तथा न भवतीत्यभिप्रायः । किन्तु ते स्नेहा अभोगाद्दिर हे भोगाभावाद्धेतोः ॥ प्रसज्जप्रतिषेधेऽपि नञ्समास इष्यते ॥ इष्टे वस्तुनि विषयेम् । उपचितो रसःस्वादो येषु त उपचितरसाः सन्तः । मवृद्धवृष्णा इत्यर्थः ॥ रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः इति विश्वः ॥ प्रेमराशीभवन्ति । वियोगासहिष्णुत्वमापद्यन्त इत्यर्थः ॥ स्नेह प्रेम्णोरवस्थाभेदाद्भेदः । तदुक्तं - आलोकनाभिलाषौ रागस्ने हौततः प्रेमा । रतिश‍ृङ्गारौ योगे वियोगता विप्रलम्भश्च ॥ इति । तदेव स्फुटीकृतं रसाकरे - प्रेमादिदृक्षारम्येषु तच्चिन्ता त्वभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्ने हस्तत्वणक्रिया ॥ तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम् ।रतिस्तत्सहवर्तनम् श‍ृङ्गारस्तत्समः क्रीडा संयोगः सप्तधा क्रमात् ॥क्रमात् इति ॥ इत्थं स्वकुशलं सन्दिश्य तत्कुशलसन्देशानयनमिदानीं याचते

वल्लभदेवव्याख्या
हे कुवलयाक्ष्येतस्मादभिज्ञानदानान्मां स्वस्थमवेत्य कौलीनाल्लोकापवादमात्रान्मयि त्वमविश्वासिनी निष्प्रत्यया मा भूः । तदेव कौलीनमाह । किमपि कुतोऽपि हेतोः स्नेहान्विरहह्रासिनो वियोगे तनूभवतो जना प्राहुः । यथा । प्रीतिः प्रवासाश्रयादिति । एतच्चायुक्तम् । यस्मात्ते स्नेहा अभोगाद्धेतोरिष्टे वस्तुनीप्सितेऽर्थ उपचितरसाः सन्तः प्रेम्णो राशीभवन्ति प्रीतिमयाः संपद्यन्ते । हृदयवल्लभविषये वियोगवशात्सहस्रगुणः स्नेहः संपद्यत इत्यर्थः । त्वयि च मम या प्रीतिस्तां त्वमेव जानासि । कौलीनं लोकापवादः ॥

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥२।५०॥

साभिज्ञानप्रहितकुशलैः = सलक्षणप्रेषितक्षेमैः ।

सञ्जीवनी
आश्वास्येति ॥ प्रथमविरहेणोदग्रशोकां तीव्रदुःखां ते सखीमेवं पूर्वोक्तरीत्याश्वास्योपजीव्य त्रिनयनस्य ध्यम्बकस्य वृषेण वृषभेणोत्खाता अवदारिताः कूटाः शिखराणि यस्य तस्मात् ॥ कूटोऽस्त्री शिखरं श‍ृङ्गम्श‍ृङ्गम् इत्यमरः ॥ शैलात्कैलासादाशु निवृत्तः सन्प्रत्यावृत्तः सन्साभिज्ञानं सलक्षणं यथातथा प्रहितं प्रेषितं कुशलं येषु तैस्तस्यास्त्वत्सख्या वचोभिर्ममापि प्रातः कुन्दप्रसवमिव शिथिल दुर्बलं जीवितं धारयेथाः स्थापय । प्रार्थनायां लिङ् ॥

कच्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥२।५१॥

धीरतां = धैर्यं निःशब्दत्वमित्यर्थः । प्रत्यादेशात् = निराकृतेः (अथवा प्रतिवचनम्) । कल्पयामि = समर्थये । प्रदिशसि = ददासि । प्रत्युक्तं = प्रतिवचनम् । ईप्सितार्थक्रियैव = अभीष्टार्थसम्पादनम् ।

सञ्जीवनी
सम्प्रति मेघस्य प्रार्थनाङ्गीकारं प्रश्नपूर्वकं कल्पयति कच्चिदिति ॥ हे सौम्य साधो, इदं मे बन्धुकृत्यं बन्धुकार्यम् ॥बन्धुकार्यम् देवदत्तस्य गुरुकुलमितिवत्प्रयोगः ॥ व्यवसितं कच्चित्करिष्यामीति निश्चितं किम् ॥ कच्चित्काममवेदने कच्चित्काममवेदने इत्यमरः ॥ अभिप्रायज्ञापनं कामप्रवेदनम् ॥ न चतूष्णीम्भावादनङ्गीकारं शङ्के यतस्ते स एवोचित इत्याह प्रत्यादेशात्करिष्यामि इति प्रतिवचनात् ॥ उक्तिराभाषणं वाक्यमादेशो वचनं वचः इति शब्दार्णवे ॥ भवतस्तव धीरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु । तर्हिकथमङ्गीकारज्ञानं तत्राह -याचितः सन्निःशब्दोऽपि निर्गजितोऽपि । अप्रतिजानानोऽपीत्यर्थः । चातकेभ्यो जलं प्रदिशसि ददासि । युक्तं चैतदित्याहहि यस्मात्सतां सत्पुरुषाणां प्रणयिषु याचकेषु विषय ईप्सितार्थक्रियैवापेक्षितार्थसम्पादनमेव प्रत्युक्तं प्रतिवचनम् । क्रिया केवल मुत्तरमित्यर्थः ॥ गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥ इति भावः ॥

वल्लभदेवव्याख्या
इत्थं संदेशमुक्त्वा प्रार्थनामभ्युपगमयितुमाह … हे सोम्य प्रियदर्शनैतन्मित्रकार्य कच्चिद्भवता व्यवसितमंगीकृतं मम । अवश्यमत्र त्वया व्यवसायवता भाव्यम् । प्रत्याख्यातुमत्र तव धैर्यं न लक्षयामि । तथा हि त्वमर्थितः सन्नब्रुवन्नपि चातकेभ्यस्तोयं वितरसि । यस्मान्महतामर्थिष्वभिमानार्थसंपादनमेव प्रतीपवचनम् । महान्तो हि कर्मणा ब्रुवन्ति न वचमा ॥

एतत् कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
इष्टान् देशान् विचर प्रावृषा संभृतश्रीः
मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥२।५२॥

अनुचितप्रार्थनावर्तिनः = असमीचीनयाचनाशीलस्य । विधुरः = प्रियाविप्रयोगाद् व्याकुलः । प्रावृषा = वर्षाकालेन । संभृतश्रीः = प्रवृद्धलक्ष्मीकः ।

सञ्जीवनी
सम्प्रति स्वापराधसमाधानपूर्वकं स्वकार्यस्यावश्यं करणं प्रार्थयमानो मेघं विसृजति … एतदिति ॥ हे जलद, सौहार्दात्सुहृद्भावात् ॥ हद्भगसिन्ध्वन्ते पूर्वपदस्य च इत्युभयपदवृद्धिः ॥ विधुरो वियुक्त इति हेतोर्वा ॥ विधुरं तु प्रविश्लेषे प्रविश्लेषे इत्यमरः ॥ मयि विषयेऽनुक्रोशबुद्धया करुणाबुद्ध्या वा । अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति सन्देशं मे हर इत्येवंरूपा तत्र वर्तिनो निर्बन्धात्परस्य मे ममैतत्सन्देशहरणरूपं प्रियं कृत्वा सम्पाद्य प्रावृषा वर्षाभिः ॥ स्त्रियां प्रावृट् स्त्रियां गति वर्षाः इत्यमरः ॥ सम्भृतश्रीरुपचितशोभः सन् । इष्टान्स्वाभिलषितान्देशान्विचर । यथेष्टदेशेषु विहरेत्यर्थः ॥ देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् ह्यकर्मणाम्इति वचनात्कर्मत्वम् ॥ एवं मद्दत्क्षणमपि स्वल्पकालमपि ते तव विद्युता । कलत्रेणेति शेषः । विप्र योगो विरहो मा भून्मास्तु ॥ माङित्याशिषि लुङ् ॥ अन्ते काव्यस्य नित्यत्वात्कुर्यादाशिषमुत्तमाम् । सर्वत्र व्याप्यते विद्वानायकेच्छानुरूपिणीम् ॥ इति सारस्व तालङ्कारे दर्शनात्काव्यान्ते नायकेच्छानुरूपोऽयमाशीर्वादः प्रयुक्त इत्यनुसन्धेयम् ॥

वल्लभदेवव्याख्या
स एवमुक्त्वाशिषमाह … हे जलधरानुचितप्रार्थनावर्त्मनोऽननुरूपयाच्ञामार्गस्य ममैतत्संदेशहरणलक्षणं प्रियं विधाय ततस्त्वं वर्षाकालेऽर्जितदेहोन्नतिरभिमतं स्थानं वचर भ्रम । कुतो विधाय । स्नेहेन प्रीत्या । स्नेहाभावश्चेद्विधुरो दुःखितोऽयमिति मयि कृपाधिया वा । किं बहुना । एवमनेन प्रकारेण मद्वत्तवापि निमेषमपि तडित्प्रियया विरहो मा भूदिति भद्रम् ॥

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः सङ्गीताय प्रहत… मन्दाक्रान्ता —
हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्… मन्दाक्रान्ता —
यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पाः हंसश्रेणीरचितरशना… मन्दाक्रान्ता —
आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तैः नान्यस्तापः कुसुम… मन्दाक्रान्ता —
यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुस… मन्दाक्रान्ता —
मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिः मन्दाराणामनुतटरु… मन्दाक्रान्ता —
नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतक… मन्दाक्रान्ता —
नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीः आलेख्यानां नवजलकणैर्… मन्दाक्रान्ता —
यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानां अङ्गग्लानिं स… मन्दाक्रान्ता —
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैः उद्गायद्भिर्धनपतिय… मन्दाक्रान्ता —
गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पत्रच्छेदैः कनककमलै… मन्दाक्रान्ता —
मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भ… मन्दाक्रान्ता —
वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलय… मन्दाक्रान्ता —
तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश… मन्दाक्रान्ता —
वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा हैमैश्छन्ना विकचकमलैः… मन्दाक्रान्ता —
तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवे… मन्दाक्रान्ता —
रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरबकवृते… मन्दाक्रान्ता —
तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिः मूले बद्धा मणिभिरनति… मन्दाक्रान्ता —
एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपु… मन्दाक्रान्ता —
गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः क्रीडाशैले प्रथमकथिते… मन्दाक्रान्ता —
तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहर… मन्दाक्रान्ता —
तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे… मन्दाक्रान्ता —
नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःश्वासानामशिशि… मन्दाक्रान्ता —
आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु व… मन्दाक्रान्ता —
उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विर… मन्दाक्रान्ता —
शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि ग… मन्दाक्रान्ता —
सव्यापारामहनि न तथा पीडयेन्मद्वियोगः शङ्के रात्रौ गुरुतरशुचं… मन्दाक्रान्ता —
आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वां प्राचीमूले तनुमिव क… मन्दाक्रान्ता —
पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान् पूर्वप्रीत्या गतम… मन्दाक्रान्ता —
निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात् परुषमल… मन्दाक्रान्ता —
आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितश… मन्दाक्रान्ता —
सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद्द… मन्दाक्रान्ता —
जाने सख्यास्तव मयि मनः संभृतस्नेहमस्माद् इत्थंभूतां प्रथमविर… मन्दाक्रान्ता —
रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो… मन्दाक्रान्ता —
वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः मुक्ताजालं चिरपरिचित… मन्दाक्रान्ता —
तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स… मन्दाक्रान्ता —
तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर… मन्दाक्रान्ता —
भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्संदेशैर्हृदय… मन्दाक्रान्ता —
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितह… मन्दाक्रान्ता —
तामायुष्मन् मम च वचनादात्मनश्चोपकर्तुं ब्रूया एवं तव सहचरो र… मन्दाक्रान्ता —
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमव… मन्दाक्रान्ता —
शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् कर्णे लोलः कथयित… मन्दाक्रान्ता —
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शश… मन्दाक्रान्ता —
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायां आत्मानं ते चरणपति… मन्दाक्रान्ता —
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोः लब्धायास्ते कथमपि मया… मन्दाक्रान्ता —
भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुत… मन्दाक्रान्ता —
संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि… मन्दाक्रान्ता —
नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे तत् कल्याणि त्वमपि नि… मन्दाक्रान्ता —
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान् गमय चत… मन्दाक्रान्ता —
भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि र… मन्दाक्रान्ता —
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने म… मन्दाक्रान्ता —
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयनवृषो… मन्दाक्रान्ता —
कच्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्… मन्दाक्रान्ता —
एतत् कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे सौहार्दाद्वा विधु… मन्दाक्रान्ता —