सामग्रीं त्यजन्तु

अभिज्ञानशाकुन्तलम् — तृतीयोऽङ्कः (मेलनम्)

अथ विषकम्भकः । (ततः प्रविशति कुशानादाय यजमानशिष्यः)
शिष्यः – अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि ।

का कथा बाणसन्धाने ज्याशब्देनैव दूरतः ।
हुङ्कारेणेव धनुषः स हि विघ्नानपोहति ॥३।१॥

अपोहति = निरस्यति ।

यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि ।
(परिक्रम्यावलोक्य च । आकाशे)
प्रियंवदे कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते ।
(श्रुतिमभिनीय)
किं ब्रवीषि । आतपलङ्घनाद्बलवदस्वस्था शकुन्तला तस्याः शरीरनिर्वापणायेति । तर्हि यत्नादुपचर्यताम् । सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि ।
(इति निष्क्रान्तः)
॥ इति विष्कम्भकः ॥

(ततः प्रविशति कामयमानावस्थो राजा)
राजा – (सचिन्तं निःश्वस्य)

जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥३।२॥

परवती = पराधीना । निवर्तयितुम् = अपसारयितुं, परावर्तयितुं, दूरीकर्तुम् ।

(मदनबाधां निरूप्य)
भगवन्कुसुमायुध त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः । कुतः ।

विश्वसनीयाभ्यां = विश्वस्ताभ्याम् । अतिसन्धीयते = प्रतार्यते । कामिजनसार्थः = सर्वकामुकजनसमूहः ।

तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखैस्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥३।३॥

(सखेदं परिक्रम्य)

परिक्रम्य = किञ्चिद् चलित्वा ।

क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं विनोदयामि ।

संस्थिते = समाप्ते । विनोदयामि = क्लेशमपहरामि । खिन्नम् = आयासश्रान्तम् । आत्मानं = शरीरम् ।

(निःश्वस्य)
किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् । यावदेनामन्विष्यामि ।
(सूर्यमवलोक्य)
इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । तत्रैव तावद्गच्छामि ।
(परिक्रम्य संस्पर्शं रूपयित्वा)
अहो प्रवातसुभगोऽयमुद्देशः ।

शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥३।४॥

कणवाही = लेशान् शीकरान् वहति तच्छीलः (कणान् वहति, तच्छीलः) । अविरलम् = अनवच्छिन्नम्, निरन्तरम्, दृढम् । एतेन प्रदेशस्य कामिजनसेवनयोग्यत्वं पवनस्य सुरभित्वं, मन्दत्वं, शीतलत्वं च ध्वनितम् ।

(परिक्रम्यावलोक्य च)
अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे सन्निहितया शकुन्तलया भवितव्यम् । तथा हि ।

परिक्षिप्ते = परिच्छन्ने ।

अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥३।५॥

अभ्युन्नता = समुन्नता । जघनगौरवात् = श्रोणीपुरोभागभारात् ।

यावद्विटपान्तरेणावलोकयामि ।
(परिक्रम्य तथा कृत्वा । सहर्षम्)
अये लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां विश्रम्भकथितानि ।

सकुसुमास्तरणं = पुष्पास्तीर्णम् । विश्रम्भकथितानि = निशङ्कालापं, रहस्यवार्ताः ।

(इति विलोकयन्स्थितः)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
सख्यौ – (उपवीज्य । सस्नेहम्) हला शकुन्तले अपि सुखयति ते नलिनीपत्रवातः ।
शकुन्तला – किं वीजयतो मां सख्यौ ।
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः)
राजा – बलवदस्वस्थशरीरा शकुन्तला दृश्यते ।
(सवितर्कम्) तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते ।
(साभिलाषं निर्वर्ण्य) अथवा कृतं सन्देहेन ।

स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु ॥३।६॥

स्तनन्यस्तोशीरं = पयोधरोत्सङ्गनिविष्टवीर्णमूलम् (उशीरो नाम वनस्पतिविशेषस्य मूलम्)। मनसिजनिदाघप्रसरयोः = कामग्रीष्मवेगयोः । कामं = यद्यपि ।

प्रियंवदा – (जनान्तिकम्) अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्य पर्युत्सुकेव शकुन्तला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् ।

पर्युत्सुका = उत्कण्ठिता । आतङ्कः = सन्तापपीडा ।

अनसूया – सखि ममापीदृश्याशङ्का हृदयस्य । भवतु । प्रक्ष्यामि तावदेनाम् ।
(प्रकाशम्) सखि प्रष्टव्यासि किमपि । बलवान्खलु ते सन्तापः ।
शकुन्तला – (पूर्वार्धेन शयनादुत्थाय) हला किं वक्तुकामासि ।
अनसूया – हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि । कथय किन्निमित्तं ते सन्तापः । विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य ।

अनभ्यन्तरे = अज्ञातरहस्ये । विकारं = रोगकारणम् । अनारम्भः = उपक्रमो न सम्भवति । प्रतीकारस्य = उपायस्य, चिकित्सायाः ।

राजा – अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वाभिप्रायेण मे दर्शनम् ।

अनुगतः = अनुसरति ।

शकुन्तला – (आत्मगतम्) बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ।

अभिनिवेशः = आग्रहः ।

प्रियंवदा – सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
राजा – अवितथमाह प्रियंवदा । तथा हि

क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥३।७॥

क्षामक्षामकपोलम् (आननम्) = अतिकृशगण्डस्थलम् । प्रकामविनतौ = अत्यन्तनम्रौ ।

शकुन्तला – सखि कस्य वान्यस्य कथयिष्यामि । किन्त्वायासयित्रीदानीं वां भविष्यामि ।

आयासयित्री = क्लेशदायिनी ।

उभे – अत एव खलु निर्बन्धः । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ।

निर्बन्धः = आग्रहः, हठः, अभिनिवेशः । स्निग्धजनसंविभक्तं = स्नेहास्पदविभागेन । सह्यवेदनं = सहनीयानुभूतिः, मर्षणीयाघातम् ।

राजा –

पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥३।८॥

आधिहेतुं = मानसिकक्लेशकारणम् । श्रवणकातरतां = श्रवणे भीरुताम् । विवृत्य = परावृत्य ।

शकुन्तला – सखि यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः ।
(इत्यर्धोक्ते लज्जां नाटयति)
उभे – कथयतु प्रियसखी ।
शकुन्तला – तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ।

एतदवस्था = इयं स्थितिः यस्या, सा ।

राजा – (सहर्षम्) श्रुतं श्रोतव्यम् ।

स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥३।९॥

तपात्यये = निदाघावसाने ।

शकुन्तला – तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चतं मे तिलोदकम् ।

अनुकम्पनीया = दयनीया ।

राजा – संशयच्छेदि वचनम् ।

संशयच्छेदि = संशयनिवर्तकम् ।

प्रियंवदा – (जनान्तिकम्) अनसूये दूरगतमन्मथाऽक्षमेयं कालहरणस्य । यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् ।

दूरगतमन्मथा = अतिभूमिं प्राप्तः कामदेवः यस्यां, सा । ललामभूतः = अलङ्कारभूतः । अभिनन्दितुं = समर्थयितुम् ।

अनसूया – तथा यथा भणसि ।

तथा यथा भणसि = यथा त्वं वदसि ।

प्रियंवदा – (प्रकाशम्) सखि दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते ।

अभिनिवेशः = स्नेहबन्धः, निश्चयः, आग्रहः ।

राजा – किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।

विशाखे = तारकाविशेषयुगलम् ।

अनसूया – कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं सम्पादयावः ।

निभृतं = गूढं, प्रच्छन्नरूपेण ।

प्रियंवदा – निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।
अनसूया – कथमिव ।
प्रियंवदा – ननु स राजर्षिरस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते ।

प्रजागरकृशः = रात्रिजागरणक्षीणः ।

राजा – सत्यमित्थम्भूत एवास्मि । तथा हि

इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥३।१०॥

भुजन्यस्तापाङ्गप्रसारिभिः = हस्ततलन्यस्तनयनान्तनिर्गतैः । अशिशिरैः = उष्णैः । अनभिलुलितज्याघाताङ्कं = (अभिलुलितं grazed)।

प्रियंवदा – (विचिन्त्य) हला मदनलेखोऽस्य क्रियतां तं सुमनोगोपितं कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि ।

मदनलेखः = प्रेमपत्रम् । अपदेशेन = व्याजेन, व्यपदेशेन ।

अनसूया – रोचते मे सुकुमारः प्रयोगः किं वा शकुन्तला भणति ।

सुकुमारः प्रयोगः = कोमलः (सुकरः, निरपायश्च) उपक्रमः (उपक्रमो नाम उपायः, योजना)

शकुन्तला – किं नियोगो वां विकल्प्यते ।

नियोगः = आज्ञा ।

प्रियंवदा – तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत्किमपि ललितपदबन्धनम् ।

उपन्यासपूर्वं = प्रसङ्गानुकूलम् (पूर्वमुपन्यासम्)। ललितपदबन्धनम् = माधुर्यादिगुणप्रधानं स्वाभिप्रायप्रकाशकं पद्यम् ।

शकुन्तला – हला चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् ।

अवधीरणाभीरुकम् = अवज्ञाभीतम् ।

राजा – (सहर्षम्)

अयं स ते तिष्ठति सङ्गमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् ।
लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ॥३।११॥

अवधीरणां = तिरस्कारम् । दुरापः = दुर्लभः ।

सख्यौ – अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति ।

शरीरनिर्वापयित्रीं = शरीराय शान्तिदात्रीं, कामादिसन्तापशमनकारिणीम् । पटान्तेन = अञ्चलेन ।

शकुन्तला – (सस्मितम्) नियोजितेदानीमस्मि ।
(इत्युपविष्टा चिन्तयति)
राजा – स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । यतः

विस्मृतनिमेषेण = निमेषशून्येन, अनाकलितपक्ष्मपातेन, निर्निमिषेण ।

उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥३।१२॥

कण्टकितेन = रोमाञ्चितेन । प्रथयति = प्रकटयति ।

शकुन्तला – हला चिन्तितं मया गीतवस्तु । असन्निहितानि पुनर्लेखनसाधनानि ।
प्रियंवदा – एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ।

निक्षिप्तवर्णम् = उत्कीर्णाक्षरम् ।

शकुन्तला – (यथोक्तं रूपयित्वा) हला श‍ृणुतमिदानीं सङ्गतार्थं न वेति ।

सङ्गतार्थं = युक्तार्थं, समुचितार्थम् ।

उभे – अवहिते स्वः ।
शकुन्तला – (वाचयति)

तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि ।
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङ्गानि ॥३।१३॥

निर्घृण = निर्दय । वृत्तमनोरथायाः = उत्पन्नाभिलाषायाः ।

राजा – (सहसोपसृत्य)

तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥३।१४॥

तनुगात्रि = कृशाङ्गि । ग्लपयति = ग्लानं करोति, श्रीविहीनं विधत्ते ।

सख्यौ – (विलोक्य सहर्षमुत्थाय) स्वागतमविलम्बिनो मनोरथस्य ।
(शकुन्तलाऽभ्युत्थातुमिच्छति)
राजा – अलमलमायासेन ।

सन्दष्टकुसुमशयनान्याशु क्लान्तविसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥३।१५॥

सन्दष्टकुसुमशयनानि = संश्लिष्टपुष्पशय्यासनानि । क्लान्तविसभङ्गसुरभीणि = ग्लपितशयनीयपुष्पाणि ।

अनसूया – इतः शिलातलैकदेशमलङ्करोतु वयस्यः ।
(राजोपविशति । शकुन्तला सलज्जा तिष्ठति)
प्रियंवदा – द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर्मां पुनरुक्तवादिनीं करोति।

पुनरुक्तवादिनीं = पुनरुक्तभाषणशीलाम्, आवृत्तिव्यापृताम् ।

राजा – भद्रे नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।
प्रियंवदा – आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष वो धर्मः ।

विषयनिवासिनः = स्वदेशवासिनः ।

राजा – नास्मात्परम् ।
प्रियंवदा – तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितमस्या अवलम्बितुम् ।

आरोपिता = प्रापिता । अभ्युपपत्त्या = अनुग्रहेण । अवलम्बितुम् = आलस्यं विहाय, अविलम्बितुम् ।

राजा – भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि ।
शकुन्तला – (प्रियंवदामवलोक्य) हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ।

अन्तःपुरविरहपर्युत्सुकस्य = अन्तःपुरवर्तिस्त्रीजनवियोगोत्कण्ठितस्य । उपरोधेन = विवशीकरणेन ।

राजा – सुन्दरि

इदमनन्यपरायणमन्यथा हृदयसन्निहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥३।१६॥

मदिरेक्षणे = हे चञ्चलनयने (मदिरे ईक्षणे यस्याः सा, सम्बुद्धौ; मत्तकारिणी) । समर्थयसे = युक्त्या साधयसे । अनन्यपरायणं = त्वदेकपणयप्रवणम् ।

अनसूया – वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय ।

श्रूयन्ते = आकर्ण्यन्ते । बन्धुजनशोचनीया = प्रियजनशोच्या । निर्वाहय = निवर्तय ।

राजा – भद्रे किं बहुना

परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्रवसना चोर्वी सखी च युवयोरियम् ॥३।१७॥

समुद्रवसना ऊर्वी = सागरपर्यन्ता पृथिवी (समुद्रः एव वसनं यस्याः, सा) । परिग्रहबहुत्वे = भार्याबहुत्वे ।

उभे – निर्वृते स्वः ।

निर्वृते = सुखिते ।

प्रियंवदा – (सदृष्टिक्षेपम्) अनसूये एष इतो दत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि । संयोजयाव एनम् ।

उत्सुकः = मातृदर्शनस्तनपानादौ उत्कण्ठितः ।

(इत्युभे प्रस्थिते)
शकुन्तला – हला अशरणास्मि । अन्यतरा युवयोरागच्छतु ।

अन्यतरा = एकतरा ।

उभे – पृथिव्या यः शरणं स तव समीपे वर्तते ।
(इति निष्क्रान्ते)
शकुन्तला – कथं गते एव ।
राजा – अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते ।

आराधयिता = भक्तः, सेवकः ।

किं शीतलैः क्लमविनोदिभिरार्द्रवातान्सञ्चारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥३।१८॥

करभोरु = करभौ इव ऊरू यस्याः, सा (सम्बुद्धौ) । क्लमविनोदिभिः = सन्तापहारिभिः । संवाहयामि = मर्दयामि । अङ्के = क्रोडे, उत्सङ्गे ।

शकुन्तला – न माननीयेष्वात्मानमपराधयिष्ये ।
(इत्युत्थाय गन्तुमिच्छति)
राजा – सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था ।

अनिर्वाणः = अपरिणतः, अशान्ततापः ।

उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥३।१९॥

अनिर्वाणो दिवसः = अपरिणतमहः । परिबाधापेलवैः = विरहबाधाकदर्थितैः । पेलवं = दुर्बलं, कोमलम् ।

(इति बलादेनां निवर्तयति)
शकुन्तला – पौरव रक्ष विनयम् । मदनसन्तप्तापि न खल्वात्मनः प्रभवामि ।

मदनसन्तप्ता = कामपीडिता । न आत्मनः प्रभवामि = स्वस्य प्रभुः नास्मि ।

राजा – भीरु अलं गुरूजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य ।

गान्धर्वेण विवाहेन बह्व्योः राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥३।२०॥

अभिनन्दिताः = अनुमोदिताः ।

शकुन्तला – मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।

अनुमानयिष्ये = अनुमतिं कारयिष्ये ।

राजा – भवतु । मोक्ष्यामि ।
शकुन्तला – कदा ।
राजा –

अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥३।२१॥

(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन)
(नेपथ्ये)
चक्रवाकवधुके आमन्त्रयस्व सहचरम् । उपस्थिता रजनी ।

आमन्त्रयस्व = आपृच्छस्व ।

शकुन्तला – (ससम्भ्रमम्) पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । तद्विटपान्तरितो भव ।

उपालम्भाय = ज्ञानाय ।

राजा – तथा ।
(इत्यात्मानमावृत्य तिष्ठति)
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च)
सख्यौ – इत इत आर्या गौतमी ।
गौतमी – (शकुन्तलामुपेत्य) जाते अपि लघुसन्तापानि तेऽङ्गानि ?
शकुन्तला – आर्ये अस्ति मे विशेषः ।

विशेषः = परिवर्तनम् ।

गौतमी – अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति ।
(शिरसि शकुतलामभ्युक्ष्य) वत्से परिणतो दिवसः । एहि उटजमेव गच्छामः ।

अभ्युक्ष्य = अभिषिञ्च्य । परिणतः = अस्तं गतः ।

(इति प्रस्थिताः)
शकुन्तला – (आत्मगतम्) हृदय प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते साम्प्रतं सन्तापः ।

सुखोपनते = अनायासप्राप्ते ।

(पदान्तरे स्थित्वा । प्रकाशम्) लतावलय सन्तापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय ।

परिभोगाय = सम्भोगाय ।

(इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः)
राजा – (पूर्वस्थानमुपेत्य । सनिःश्वासम्) अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः । मया हि

मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥३।२२॥

अंसविवर्ति = स्कन्धपरिवर्तनशीलम् । पक्ष्मलाक्ष्याः = प्रशस्तरोमवत्याः (पक्ष्मले अक्षिणी यस्याः, तस्याः) ।

क्व नु खलु सम्प्रति गच्छामि । अथवा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि ।
(सर्वतोऽवलोक्य)

तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः ।
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥३।२३॥

शरीरलुलिता = देहपरिवर्तनेन मृदिता । आसज्यमानेक्षणः = संसक्तलोचनयुगलः ।

(आकाशे)
राजन्

सायन्तने सवनकर्मणि सम्प्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः सन्ध्यापयोदकपिशाः पिशिताशनानाम् ॥३।२४॥

सवनकर्मणि = यज्ञकार्ये । प्रयस्ताः = इतस्ततः विक्षिप्ताः । पिशिताशनानाम् = dracula, blood-drinker ।

राजा – अयमहमागच्छामि ।
(इति निष्क्रान्तः)
॥ इति तृतीयोऽङ्कः ॥

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः — —
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् — —
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं दृश्यते मद… — —
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् — —
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् — —
स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः साबाधं किमपि क… — —
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्… — —
पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् — —
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः — —
इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्ग… — —
अयं स ते तिष्ठति सङ्गमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् — —
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः — —
तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि — —
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव — —
सन्दष्टकुसुमशयनान्याशु क्लान्तविसभङ्गसुरभीणि — —
इदमनन्यपरायणमन्यथा हृदयसन्निहिते हृदयं मम — —
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे — —
किं शीतलैः क्लमविनोदिभिरार्द्रवातान्सञ्चारयामि नलिनीदलतालवृन… — —
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् — —
गान्धर्वेण विवाहेन बह्व्योः राजर्षिकन्यकाः — —
अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन — —
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् — —
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं क्लान्तो मन्मथले… — —
सायन्तने सवनकर्मणि सम्प्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस… — —