वैशेषिकदर्शनम्¶
- विशेषम् अधिकृत्य कृतं दर्शनम् (विशेषः ठक्, इति वैशेषिकम्)
- शासनात् संशनात् शास्त्रम् ।
सूत्रकारः – कणादमुनिः भाष्यकारः - प्रशस्तपादः न्यायकन्दली – श्रीधरः किरणावली & न्यायकुसुमाञ्जलिः -उदयनाचार्यः
औलूक्ल्यदर्शनम् कणान् अत्ति इति कणादः ।
शास्त्रस्य त्रिधा प्रवृत्तिः । उद्देशः, लक्षणं, परीक्षा । नाम्ना वस्तुसङ्कीर्तनम् उद्देशः । असाधारणधर्मः लक्षणम् । लक्षणस्य लक्षणमुपपद्यते न वा इति प्रमाणैः अवधारणं परीक्षा ।
लक्षणप्रमाणाभ्यां वस्तुसिद्धिः ।
पदार्थाः¶
- सप्तपदार्थाः
- द्रव्यम्, गुणः, कर्म, सामान्यम्, विशेषः, समवायः, अभावः ।
- नव द्रव्याणि
- पृथिवी, आपः, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः ।
- चतुर्विंशतिः गुणाः
- रूपम्, रसः, गन्धः, स्पर्शः, संख्या, परिमाणम्, पृथक्त्वम्, संयोगः, विभागः, परत्वम्, अपरत्वम्, बुद्धिः, सुखम्, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, गुरुत्वम्, द्रवत्वम्, स्नेहः, संस्कारः, धर्मः, अधर्मः, शब्दः ।
- पञ्च कर्माणि
- उत्क्षेपणम्, अपक्षेपणम्, आकुञ्चनम्, प्रसारणम्, गमनम् ।
परमाण्वारम्भवादः¶
- उत्पत्तिक्रमः
- ईश्वरस्य चिकीर्षावशात् परमाणुषु क्रिया
- ततः परमाणुद्वयसंयोगः
- ततो द्व्यणुकम्
- त्रिभिः द्व्यणुकैः त्र्यणुकम्
- एवं चतुरणुकादिक्रमेण महती पृथिवी, महत्यः आपः महत् तेजः, माहान् वायुः उत्पद्यते ।
नाशक्रमः
संजिहीर्षावशात् परमाणुषु क्रिया क्रियया परमाणुद्वयविभागः ततो द्व्यणुकनाशः ततः त्र्यणुकनाशः ततश्चतुरणुकनाशः एवं महापृथिव्यादिनाशः
ज्ञानहेतुकसम्बन्धाः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः विशेषणविशेष्यभावः
प्रत्यक्षम् सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम् तत्करणमिन्द्रियम् तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्