सामग्रीं त्यजन्तु

उत्तररामचरितम् — चतुर्थोऽङ्कः (कौसल्याजनकयोगः)

(ततः प्रविशतस्तापसौ)
एकः – सौधातके! दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्य समधिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य । तथा हि-

भूयिष्ठसन्निधापितातिथिजनस्य = भूयिष्ठम् बाहुल्येन, सन्निधापिताः समुपस्थिताः, अतिथिजनाः अभ्यागताः यस्मिन्, तस्य । समधिकारम्भरमणीयता = प्रचुरकर्मसौन्दर्यम् (समधिकेन आरम्भैः = आयोजनेन,कर्मभिः रमणीयता) ।

नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूतप्रिया- पीतादभ्यधिकं तपोधनमृगः पर्याप्तमाचामति ।
गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥४।१॥

भक्तस्य = ओदनस्य । नीवारौदनमण्डम् = तृणधान्यभक्तस्य निस्रावम् (नीवारौदनस्य मण्डम्=निस्रावम्) । आचामति = पिबति । सद्यःप्रसूतप्रियापीतात् = सद्यःप्रसूता चासौ प्रिया च तस्याः पीतात् (भावे क्तः) । परिस्तीर्यते = सर्वतो विस्तीर्यते ।

सौधातकिः – स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्यायकारणानां तपोधनानाम् ।
प्रथमः – (विहस्य) अपूर्वः खलु बहुमानहेतुर्गुरुषु सौधातके!
सौधातकिः – भो दण्डायन! किंनामधेय इदानीमेष महत्तः स्थविरसार्थस्य धुरन्धरोऽद्यातिथिरागतः ?
दण्डायनः – धिक्प्रहसनम् । नन्वयमृष्यशृङ्गाश्रमादरुन्धतीं पुरस्कृत्य महाराजदशरथस्य दारानधिष्ठाय भगवान् वसिष्ठः प्राप्तः । तत्किमेवं प्रलपसि ?
सौधातकिः – हुं वसिष्ठः ?
दण्डायनः – अथ किम् ?
सौधातकिः – मया पुनर्ज्ञातं कोऽपि व्याघ्र इव एष इति ।
दण्डायनः – आः, किमुक्तं भवति?
सौधातकिः – येन परापतितेनैव सा वराकी कपिला कल्याणी बलात्कृत्य मडमडायिता ।

परापतितेन = संप्राप्तेन । कल्याणी = वत्सतरी, द्विहायनीत्यर्थः । मडमडायिता, = मडमडशब्दयुक्ता कृता, आलब्धेति ।

दण्डायनः – समांसो मधुपर्क इत्याम्नायं बहुमन्यमानाः श्रोत्रियायाभ्यागताय वत्सतरीं महोक्षं वा पचन्ति गृहमेधिनः । तं हि धर्मं धर्मसूत्रकाराः समामनन्ति ।

मधुपर्कः = दधि मधु घृतं च । आम्नायं = वेदं, बहुमन्यमानाः = प्रमाणीकुर्वन्तः । अभ्यागताय = अतिथये । वत्सतरीम् = द्विहायनीम् । पचन्ति = श्रपयन्ति । समामनन्ति = उपदिशन्ति ।

सौधातकिः – भोः! निगृहीतोऽसि ।

निगृहीतोऽसि = पराजितोऽसि ।

दण्डायनः – कथमिव!
सौधातकिः – येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता । अद्यैव प्रत्यागतस्य राजर्षेर्जनकस्य भगवता वाल्मीकिना दधिमधुभ्यामेव निर्वर्तितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता ।

विशसिता = हता ।

दण्डायनः - अनिवृत्तमांसानामेवं कल्पं व्याहरन्ति केचित् । निवृत्तमांसस्तु तत्रभवान् जनकः ।

व्याहरन्ति = प्रतिपादयन्ति । निवृत्तमांसः = वर्जितमांसः ।

सौधातकिः – किन्निमित्तम् ?
दण्डायनः – यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः तस्य कतिपयसंवत्सराश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य ।

वैखानसः = वानप्रस्थः ।

सौधातकिः – ततः किमित्यागतः ?
दण्डायनः – सम्प्रति च प्रियसुहृदं भगवन्तं प्राचेतसं द्रष्टुम् ।
सौधातकिः – अप्यद्य सम्बन्धिनीभिः समं निर्वृत्तं दर्शनमस्य न वेति ?
दण्डायनः – सम्प्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता। यथा 'स्वयमुपेत्य स्नेहादयं द्रष्टव्य' इति ।

प्रहिता = प्रेषिता ।

सौधातकिः – यथैते स्थविराः परस्परमेव मिलिताः तथावामपि वटुभिः सह मिलित्वाऽनध्यायमहोत्सवं खेलन्तो मानयावः । अथ कुत्र स जनकः ।

मानयावः = सम्भावयावः ।

दण्डायनः – तथायं प्राचेतसवसिष्ठावुपास्य सम्प्रत्याश्रमस्य बहिर्वृक्षमूलमधितिष्ठति । य एषः –

हृदि नित्यानुषक्तेन सीताशोकेन तप्यते ।
अन्तःप्रसृप्तदहनो जरन्निव वनस्पतिः ॥४।२॥

नित्यानुषक्तेन = निरन्तरलग्नेन । अन्तःप्रसृप्तदहनः = अन्तः अभ्यन्तरे, प्रसृप्तः व्याप्तः, दहनः अग्निः, यस्य सः ।

(इति निष्क्रान्तौ)
॥ इति मिश्रविष्कम्भकः ॥

जनकः –

अपत्ये यत्तादृग्दुरितमभवत्तेन महता विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता ।
पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥४।३॥

अपत्ये यत् तादृक् दुरितम् अभवत् महता तीव्रेण व्रणितहृदयेन व्यथयता तेन विषक्तः पटुः धारावाही चिरेण अपि नव इव मे मन्युः क्रकच इव मर्माणि निकृन्तन् न विरमति इत्यन्वयः ।

दुरितं = लोकाऽपवादरूपं पापं निर्वासनं वा । विषक्तः = विशेषेण सम्बद्धः । पटुः = समर्थः । मन्युः = सीताविषयकः शोकः कोपो वा । क्रकचः = करपत्रम् (saw) ।

कष्टम्! एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसान्तपनप्रभृतिभिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव! महानद्यापि मम दग्धदेहो न पतति । 'अन्धतामिस्रा ह्यसूर्या नाम ते लोकाः प्रेत्य तेभ्यः प्रतिविधीयन्ते य आत्मघातिन' इत्येवमृषयो मन्यन्ते। अनेकसंवत्सरातिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव न मे दारुणो दुःखसंवेगः प्रशाम्यति । अयि मातर्देवयजनसंभवे! ईदृशस्ते निर्माणभागः परिणतः! येन लज्जया स्वच्छन्दमप्याक्रन्दितुं न शक्यते । हा पुत्रि!

दुरासदेन = दुःसहेन । पराकसान्तपने = पराकः सान्तपनम् इति व्रतविशेषौ । अन्तःशरीरधातवः = अन्तर्देहधातवो यस्य तस्य

तादृशस्य मम । अवष्टम्ब एव = प्राणाऽवलम्बनमेव, कथमहं जीवामीति भावः । प्रतिक्षणपरिभावनास्पष्टनिर्भामः = प्रतिक्षण सन्ततम्, परिभावनया = सीताविषयिण्या चिन्तया, स्पष्टः स्फुटः, निर्भासः प्रकाशो यस्य सः, एवंविधः । प्रत्यग्र इव = नूतन इव, प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः इत्यमरः। दारुणः = कठोरः । दुःखसंवेगः = कष्टप्रवाहः । निर्माणभागः = सृष्टिफलम् ।

अनियतरुदितस्मितं विराजत्कतिपयकोमलदन्तकुड्मलाऽग्रम् ।
वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमञ्जुजल्पितं ते ॥४॥

स्खलदसमञ्जसमञ्जुजल्पितं = स्खलद् अस्पष्टोच्चारितम्, असम्ञ्जसम् पूर्वापरसङ्गतिरहितम्, मञ्जु सुन्दरम् जल्पितं यस्मिन् ।

भगवति वसुन्धरे! सत्यमतिदृढासि ।

त्वं बहिर्मुनयो वसिष्ठगृहिणी, गङ्गा च यस्या विदु- र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः ।
विद्यां वागिव यामसूत भवतीं शुद्धिं गतायाः पुन- स्तस्यास्त्वद्दुहितुस्तथा विशसनं कि दारुणेऽमृष्यथाः ॥४।५॥

विशसनं = हिंसनं, सीतापरित्यागरूपमित्यर्थः । किं अमृष्यथाः = कथं सोढवती ।

शार्दूलविक्रीडितम् ।

(नेपथ्ये)
इत इतो भगवती – महादेव्यौ ।
जनकः – अये ? गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती (उत्थाय) । कां पुनर्महादेवीत्याह ? (निरूप्य) हा हा! कथमियं महाराजस्य दशरथस्य धर्मदाराः प्रियसखी मे कौसल्या ? के एतां प्रत्येति सैवेयमिति ।

गृष्टिनोपदिश्यमानमार्गा = गृष्टिना तन्नाम्ना दशरथकञ्चुकिना, उपदिश्यमानमार्गा उपदिश्यमानः निर्दिश्यमानः, मार्ग पन्थाः यस्याः सा । निरूप्य = हेतुभिर्विचार्य, सम्यग्दृष्ट्वेत्यर्थः । प्रत्येति = विश्वसिति ।

आसीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैषा ।
कष्टं बतान्यदिव देववशेन जाता दुःखात्मकं किमपि भूतमहो विपाकः ॥४।६॥

विपाकः = विरुद्धपरिणामः, दशाविपर्यासः ।

वसन्ततिलकम् ।

य एव मे जनः पूर्वमासीन्मूर्ती महोत्सवः ।
क्षते क्षारमिवासां जातं तस्यैव दर्शनम् ॥४।७॥

क्षते = शस्त्रादिभिर्निभिन्नेऽङ्गे व्रणे वा ।

(ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च)
अरुन्धती – ननु ब्रवीमि 'द्रष्टयः स्वयमुपेत्यैव वैदेह' इत्येवं वः कुलगुरोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महानध्यवसायः ?

महानध्यवसायः = महती अप्रवृत्तिः, अनुत्साहः (महान् अनध्यवसायः, अर्थात् कर्तुं किञ्चिदपि प्रवृत्तिः नास्ति, महान् श्रमः तत्र प्रवर्तने)।

कञ्चुकी – देवि! संस्तभ्यात्मानमनुरुध्यस्व भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि ।

संस्तभ्य = स्थिरीकृत्य । अनुरुध्यस्व = अनुतिष्ठ, अनुसर ।

कौसल्या – ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यवतरन्ति । तस्मान्न शक्नोम्युद्वर्तमानमूलबन्धनं हृदयं पर्यवस्थापयितुम् ।

अवतरन्ति = प्राप्नुवन्ति, समुद्भवन्ति । उद्वर्तमानमूलबन्धनम् = उद्वर्तमानम् उद्गच्छत्, मूलबन्धनं मूलनियन्त्रणम्, यस्य तत्, शिथिलबन्धनमिति भावः । पर्यवस्थापयितुं = प्रकृतिस्थं कर्तुम् ।

अरुन्धती – अत्र कः सन्देहः ?

सन्तानवाहीन्यपि मानुषाणां दुःखानि सम्बन्धिवियोगजानि ।
दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहस्त्रैरिव सम्प्लवन्ते ॥४।८॥

स्रोतःसहस्त्रैः = अनन्तप्रवाहैः । सम्प्लवन्ते इव = उद्गच्छन्ति इव ।

कौसल्या – कथं नु खलु वत्साया मे वध्वा वनगतायास्तस्याः पितृराजर्षेर्मुखं दर्शयामः ?
अरुन्धती –

एष वः श्लाध्यसम्बन्धी जनकानां कुलोद्वहः ।
याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥४।९॥

कुलोद्वहः = कुलश्रेष्ठः (कुलस्य वंशस्य, उद्वहः श्रेष्ठः)

कौसल्या – एष स महाराजस्य हृदयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजः सीरध्वजः । स्मारितास्मि अनिर्वेदरमणीयान्दिवसान् । हा देव! सर्वं तन्नास्ति ।

हृदयनिर्विशेषः = हृदयात् चित्तात्, निर्विशेषः निर्भेदः, अभिन्नहृदय इत्यर्थः । अनिर्वेदरमणीयान् = चित्तग्लानिरहितानन्दकरान् ।

जनकः – (उपसृत्य) भगवत्यरुन्धति! वैदेहः सीरध्वजोऽभिवादयते ।

अभिवादयते = नमस्करोति ।

यया पूतंमन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खलु गुरूणां गुरुतमः ।
त्रिलोकीमङ्गल्यामवनितललीनेन शिरसा जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम् ॥४।१० ॥

महसो निधिः = तेजस आधारः । देवीम् उषसम् इव = प्रातःकालदेवतामिव ।

पूर्णोपमाऽलङ्कारः । शिखरिणी ॥

अरुन्धती – अक्षरं ते ज्योतिः प्रकाशताम् । स त्वां पुनातु देवः परो रजसा य एष तपति ।

अक्षरम् = अविनाशि, कूटस्थमित्यर्थः ।

जनकः—आर्य गृष्ट! अप्यनामयमस्याः प्रजापालकस्य मातुः ?
कञ्चुकी – (स्वगतम्) निरवशेषमतिनिष्ठुरमुपालब्धाः स्म । (प्रकाशम्) राजर्षे! अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम् । राममद्रस्यापि दैवदुर्योगः कोऽपि । यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः । न चाग्निशुद्धिमनल्पकाः प्रतियन्तीति दारुणमनुष्ठितं देवेन ।

उपालब्धाः = कृतोपलम्भाः, तिरस्कृताः (अवबुद्धम् अस्मिन्नर्थेऽपि प्रयुज्यते) । दैवदुर्योगः = भाग्यदुःसम्बन्धः । न चाग्निशुद्धिं प्रतियन्ति = नाग्निकृतां परिशुद्धिं विश्वसन्ति । प्रवृत्तबीभत्सकिंवदन्तीकाः = प्रवृता प्रसृता, बीभत्सा जुगुप्सिता, किंवदन्ती जनश्रुतिः यैः, ते । अनल्पकाः = न विद्यमानः अल्पोऽपि येभ्यः ते, क्षुद्रचित्ताः इति भावः ।

जनकः – (सरोषम्) आः! कोऽयमग्निर्नामास्मत्प्रसूतिपरिशोधने ? कष्टम्! एवंवादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे ।

परिभूता: = अवमानिताः । परिभूयामहे = अवमन्यामहे ।

अरुन्धती – (निःश्वस्य) एवमेतत् । अग्निरिति वत्सां प्रति लघून्यक्षराणि । सीतेत्येव पर्याप्तम् । हा वत्से!

लघूनि अक्षराणि = लाघवोपेतानि वर्णाः, पदमिति भावः (अग्निरिव सा स्वतः शुद्धा, अग्निस्तस्याः शुद्धिं किं करिष्यतीति भावः) । पर्याप्तं = निकामम् (कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् इत्यमरः) ।

शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धोरुत्कर्षस्त्वयि तु मम भक्तिं द्रढयति ।
शिशुत्वं वा स्त्रैणं वा भवतु ननु वन्द्यासि जगतां गुणाः पूजास्थानं गुणिषु न च लिङ्गं न स वयः ॥४।११॥

कौसल्या – अहो! समुन्मूलयन्तीव वेदनाः । (इति मूर्च्छति)

समुन्मूलयन्ति = मूलमुत्पाटयन्ति ।

जनकः – हन्स! किमेतत् ?
अरुन्धती – राजर्षे! किमन्यत् ?

स राजा, तत्सौख्यं, स च शिशुजनस्ते च दिवसाः स्मृतावाविर्भूतं त्वयि सुहृदि दृष्टे तदखिलम् ।
विपाके घोरेऽस्मिन्नथ खलु विमूढा तव सखी पुरन्ध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥४।१२॥

विपाके = परिणामे । अर्थान्तरन्यासः, कुसुममुकुमारमित्यत्र लुप्तोपमा चेति द्वयोः सङ्करः । शिखरिणी ॥

जनकः – हन्त! सर्वथा नृशंसोऽस्मि । यश्चिरस्य दृष्टान्प्रियसुहृदः प्रियदारानस्निग्ध इव पश्यामि ।

स सम्बन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयं स चानन्दः साक्षादपि च निखिलं जीवितफलम् ।
शरीरं जीवो वा यदधिकमतोऽन्यत्प्रियतरं महाराजः श्रीमान् किमिव मम नासीद्दशरथः ॥४।१३॥

अत्राऽतिशयोक्तिरूपकार्थापत्तीनां सङ्करः । शिखरिणी ॥

कष्टमियमेव सा कौसल्या –

यदस्याः पत्युर्वा रहसि परमं दूषितमभू- दभूवं दम्पत्योः पृथगहमुपालम्भविषयः ।
प्रसादे कोपे वा तदनु मदधीनो विधिरभू- दलं वा तत्स्मृत्वा दहति यदवस्कन्द्य हृदयम् ॥४।१४॥

दूषितं = प्रणयापराधः, दोषः । उपालम्भविषयः = दुर्वाक्यकथनपात्रम् (दशरथकृतापराधे कौशल्या 'त्वदीयोऽयं सखा मह्यमीदृशमपराध्यति' इत्यब्रवीत्, कौसल्याकृताऽपराधे च दशरथः 'त्वदीयेयं सखी मह्यमीदृशमपराध्यति' इत्यवोचत् इत्थं च द्वावपि सख्यप्रबोधनरूपेण दोषेण मामुपालब्धवन्ताविति भावः) । अवस्कन्द्य = आक्रम्य ।

शिखरिणी ॥

अरुन्धती – हा! कष्टम्! अतिचिरनिरुद्धनिःश्वासनिष्पन्दहृदयमस्याः ।
जनकः – हा प्रियसखि! (इति कमण्डलूदकेन सिञ्चति)
कञ्चुकी -

सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम् ।
पुनरकाण्डविवर्तनदारुणः विधिरहो विशिनष्टि मनोरुजम् ॥४।१५॥

अकाण्डविवर्तनदारुणः = अकाण्डे अनवसरे, विवर्तनेन परिवर्तनेन, दारुणः क्रूरः सन् । विशिनष्टि = वर्धयति (अथवा रुजं पीडां, परिशिनष्टि परिशिष्टां करोति) ।

कौसल्या – (आश्वस्य) हा वत्से जानकि! कुत्रासि ? स्मरामि ते नवविवाहलक्ष्मीपरिग्रहैकमङ्गलं संफुल्लमुग्धमुखपुण्डरीकमारोहत्कौमुदीचन्द्रसुन्दरम् । एहि मे पुनरपि जाते! उद्योतयोत्सङ्गम् । सर्वदा महाराज एवं भणति एषा रघुकुलमहत्तराणा वधूरस्माकं तु जनकसुता दुहितैव ।

मुग्धमुखपुण्डरीकं = मनोहराननकमलम् । उद्योतय = उपवेशनेन प्रकाशयेति भावः ।

कञ्चुकी – यथाह देवी ।

पञ्चप्रसूतेरपि तस्य राज्ञः प्रियो विशेषेण सुबाहुशत्रुः ।
वधुचतुष्केऽपि तथैव नान्या प्रिया तनूजाऽस्य यथैव सीता ॥४।१६॥

उपमालङ्कारः । उपजातिर्वृत्तम् ॥

जनकः – हा प्रियसख महाराज दशरथ! एवमसि सर्वप्रकारहृदयङ्गमः । कथं विस्मर्यते ?

कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं संबन्धे विपरीतमेव तदभूदाराधनं ते मयि ।
त्वं कालेन तथाविधोऽप्यपहृतः संबन्धबीजं च तद् घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम् ॥४।१७॥

आराधनं = पूजनम् । विपरीतं = लोकप्रसिद्धिविपरीतम् । उपमालङ्कारः । शार्दूलविक्रीडितं वृत्तम् ॥

कौसल्या – जाते जानकि! किं करोमि ? दृढवज्रलेपघटितनिश्चलं हतजीवितं मां मन्दभागिनीं न परित्यजति ।

दृढवज्रलेपघटितनिश्चलम् = दृढेन दुरपनेयेन, वज्रलेपेन बन्धकद्रव्यलेपनेन, यः घटितः योजितः सम्पादितः, बन्धः संश्लेषः, तेन निश्चलं स्थिरम् । हतजीवितं = निन्द्यजीवितम् ।

अरुन्धती – आश्वसिहि राज्ञि! बाष्पविश्रामोऽप्यन्तरेषु कर्तव्य एव । अन्यच्च किं न स्मरसि यदवोचदृष्यशृङ्गाश्रमे युष्माकं कुलगुरुः – भवितव्यं तथेत्युपजातमेव । किन्तु कल्याणोदर्कं भविष्यतीति ।

अन्तरेषु = मध्ये मध्ये । उपजातमेव = संजातमेव । कल्याणोदर्कम् = कल्याणं मङ्गलम्, उदर्कः उत्तरं फलम् यस्य तत् (उदर्कः फलमुत्तरम् इत्यमरः) – परिणामे संयोग एव भविष्यतीति भावः ।

कौसल्या – कुतोऽतिक्रान्तमनोरथाया ममैतत् ?

अतिक्रान्तमनोरथायाः = असम्भाव्याभिलाषविषयायाः ।

अरुन्धती – तत्किं मन्यसे राजपत्नि! मृषोद्यं तदिति । न हीदं क्षत्त्रिये! मन्तव्यम्

मृषोद्यं = मृषा अनृतम्, उद्यते उच्यते इति तत्, मिथ्यावचनम् ।

आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भूत् ।
भद्रा ह्येषां वाचि लक्ष्मीर्निषक्ता नैते वाचं विप्लुतार्थां वदन्ति ॥४।१८॥

आविर्भूतज्योतिषाम् = आविर्भूतं प्रकाशितं, ज्योतिः ब्रह्मतत्वं येषां तेषां, कृतब्रह्मसाक्षात्काराणाम् । व्याहाराः = उक्तयः । निषक्ता = नित्यसङ्गिनी, संलग्ना, नित्यं सन्निहिता । विप्लुतार्थां = मिथ्याभूताम् ।

अर्थान्तरन्यासोऽलङ्कारः । शालिनी वृत्तम् ॥

(नेपथ्ये कलकलः । सर्वे आकर्णयन्ति)
जनकः – अये, शिष्टानध्याय इत्यस्खलितं खेलतां वटूनां कोलाहलः ।

शिष्टानध्यायः = शिष्टाग्मनप्रयुक्ताध्ययनाभावः, शिष्टागमनेन सञ्जातः अनध्यायः, 'शिष्टे च गृहमागत' इति स्मृतिमनुरुध्य सजात इति भावः । अस्खलितम् = अप्रतिबन्धनम्, अविद्यमानं स्खलितं यस्मिन् कर्मणि ।

कौसल्या – (निरूप्य) सुलभसौख्यमिदानीं बालत्वं भवति । अहो! एतेषां मध्ये क एष रामभद्रस्य कौमारलक्ष्मीसदृशैः सावष्टम्भैर्मुग्धललितैरङ्गैर्दारकोऽस्माकं लोचने शीतलयति ?

सुलभसौख्यम् = सुलभं सुप्राप्यम्, सौख्यं सुखम् यस्मिंस्तत् । कौमारलक्ष्मीसदृशैः = शैशवसुषमोपेतैः । सावष्टम्भैः (अङ्गैः) = सुघटितैः । मुग्धललितैः = मनोज्ञैः कोमलैः ।

अरुन्धती – (स्वगतं । स्वहर्षोत्कण्ठम्) इदं नाम भागिरथीनिवेदितं रहस्यकर्णामृतम् । न त्वेवं विद्मः कतरोऽयमायुष्मतोः कुशलवयोरिति ।

रहस्यकर्णामृतम् = गुह्यम् गोपनीयं च तत् कर्णामृतं श्रवणसन्तर्पणम्, श्रोत्रयोः पीयूषवद्भोग्यम् ।

(प्रकाशम्)

कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकः श्रियैव सभाजयन् ।
पुनरपि शिशुर्भूतो वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ? ॥४।१९॥

शिखण्डकमण्डनः = शिखण्डकः काकपक्षः, मण्डनं भूषणं यस्य सः । पुण्यश्रीकः = पुण्या पवित्रा, श्रीः शोभा यस्य सः । श्रिया = शरीरकान्त्या । बहुपरिषदं = कुमारसमूहम् । सभाजयन् एव = सेवमान एव, अलङ्कुर्वाण एव इति भावः । दृशोः = नेत्रयोः ।

अत्रोत्प्रेक्षोपमयोः सङ्करः । हरिणी वृत्तम् ॥

कञ्चुकी – नूनं क्षत्रियब्रह्मचारी दारकोऽयमिति मन्ये ।
जनकः – एवमेतत् । अस्य हि-

चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् ।
मौर्व्या मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥४।२० ॥

तूणीद्वयम् = इषुधियुग्मम् । रौर्वीम् = रुरुः इति मृगविशेषः, तस्येयम् । माञ्जिष्ठकं = मञ्जिष्ठिकरागरञ्जितम् । अक्षसूत्रवलयं = वलयाकारम् अक्षसूत्रम्, रुद्राक्षमाला ।

भगवत्यनुरन्धति! किमित्युत्प्रेक्षसे । कुतस्त्योऽयमिति ।

उत्प्रेक्षसे = तर्कयसि ।

अरुन्धती – अद्यैव वयमागताः ।
जनकः – आर्य गृष्टे! अतिकौतुकं वर्तते । तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ । इमं च दारकं ब्रूहि 'वत्स! केऽप्येते प्रवयसस्त्वां दिदृशव' इति ।

प्रवयसः = वृद्धाः ।

कञ्चुकी – यदाज्ञापयति देवः!
(इति निष्क्रान्तः)
कौसल्या – किं मन्यध्वे! एवं भणित आगमिष्यति वा न वेति ?
जनकः – भिद्यते वा सद्वृत्तमीदृशस्य निर्माणस्य ?

सद्वृत्तम् (सद्-वृत्तम्) = सदाचारः ।

कौसल्या – कथं सविनयनिशमितगृष्टिवचनो विसर्जिताशेषसदृशदारक इतोमुखमपसरित एव स वत्सः ।

सविनयनिशमितगृष्टिवचनः = सविनयं नम्रतापूर्वकम्, निशमितं श्रुतम, गृष्टिवचनं कञ्चुकिवाक्यम्, येन सः । विसर्जिताशेषसदृशदारकः = विसर्जिताः वियोजिताः, अशेषाः समस्ताः, सदृशाः तुल्याः, समवयस्का इत्यर्थः, दारकाः बालकाः, येन सः ।

जनकः – (चिरं निर्वर्ण्य) भोः! किमप्येतत् ।

महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो विदग्धैर्निर्ग्राह्यो न पुनरविदग्धैरतिशयः ।
मनो मे संमोहस्थिरमपि हरत्येष बलवा- नयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥४।२१॥

मौग्ध्यमसृणः = मौग्ध्येन बाल्येन (सौदर्येण वा), मसृणः कोमलः । विदग्धैः = निपुणैः । निर्ग्राह्यः = निःशेषेण ज्ञेयः, निःशेषेण ग्रहीतुं शक्यो ।

लवः – (प्रविश्य स्वगतम) अविज्ञातवयःक्रमौचित्यात् पूज्यानपि सतः कथमभिवादयिष्ये ? (विचिन्त्य) अयं पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते । (सविनयमुपसृत्य) एष वो लवस्य शिरसा प्रणामपर्यायः ।

प्रणामपर्यायः = प्रणामानां परम्परा ।

अरुन्धतीजनकौ – कल्याणिन्! आयुष्मान्भूयाः ।
कौसल्या – जात! चिरं जीव ।
अरुन्धती – एहि वत्स! (लवमुत्सङ्गे गृहीत्वा आत्मगतम्) दिष्टया न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः ।
कौसल्या – (उत्सङ्गे गृहीत्वा । चिबुकमुन्नमय्य निरूप्य सबाष्पाकूतम्) जात! इतोऽपि तावदेहि । 'अहो! न केवलं दरविस्पष्टकुवलयमांसलोज्ज्वलेन देहबन्धनेन, कवलितारविन्दकेसरकषायकण्ठकलहंसघोषघर्घरानुनादिना स्वरेण च रामभद्रमनुसरति। ननु कठोरकमलगर्भपक्ष्मलशरीरस्पर्शोऽपि तादृश एव । जात! पश्यामि ते मुखपुण्डरीकम् । राजर्षे । किं न पश्यसि ? निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवदत्येव ।

सबाष्पाकूतम् = बाष्पेण अश्रुणा, आकूतेन अभिप्रायेण (आशयेन) च सहितं यथा तथा । निपुणं निरूप्यमाणः = पटुतरं निरीक्ष्यमाणः। मुखचन्द्रेण संवदति = उपमामारोहति, चन्द्रसदृशमुखेन साम्यं प्रकटयति ।

जनकः – पश्यामि सखि! पश्यामि ।
कौसल्या – हो, उन्मत्तीभूतमिव मे हृदयं कुतोमुखं विलपति ।

कुतोमुखं = कुतः स्थितं मुखं यस्य तत्, क्वापि असम्भाव्यविषये लग्नमिति भावः।

जनकः – (निरूप्य)

वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते संवृत्तिः प्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः ।
सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ हा हा देवि किमुत्पथैर्मम मनः पारिप्लवं धावति ॥४।२२॥

रघूद्रहस्य = रघुवंशश्रेष्ठस्य रामचन्द्रस्य । संवृत्तिः = सम्पर्कः, सम्बन्ध इत्यर्थः । पुण्याऽनुभावः = पवित्रसामर्थ्यम्, समीचीनव्यवसायः (अनुभावः प्रभावे च सतां च मतिनिश्चये इत्यमरः)। पारिप्लवं = चञ्चलं सत् (चञ्चलं तरलं चैव पारिप्लवपरिप्लवे इत्यमरः) । उत्पथैः = उन्मार्गैः ।

कौसल्या – जात! अस्ति ते माता ? स्मरसि वा तातम् ?
लवः – नहि!
कौसल्या – ततः कस्य त्वम् ?
लवः – भगवतः सुगृहीतनामधेयस्य वाल्मीकेः ।
कौसल्या – अयि जात! कथयितव्यं कथय ।
लवः – एतावदेव जानामि! (नेपथ्ये)
भो भोः सैनिका! एष खलु कुमारश्चन्द्रकेतुराज्ञापयति – 'न केनचिदाश्रमाभ्यर्णभूमय आक्रमितव्या' इति ।
अरुन्धतीजनकौ – अये! मेध्याश्वरक्षाप्रसङ्गादुपागतो वत्सश्चन्द्रकेतुरद्य द्रष्टव्य इत्यसौ सुदिवसः ।
कौसल्या – वत्सलक्ष्मणस्य पुत्रक आज्ञापयतीत्यमृतबिन्दुसुन्दराण्यक्षराणि श्रूयन्ते ।
लवः – आर्य! क एष चन्द्रकेतुर्नाम ?
जनकः – जानासि रामलक्ष्मणौ दाशरथी ?
लवः – एतावेव रामायणकथापुरुषौ ?
जनकः – अथ किम् ?
लवः – तत्कथं न जानामि!
जनकः – तस्य लक्ष्मणस्यायमात्मजश्चन्द्रकेतुः ।
लवः – ऊर्मिलायाः पुत्रस्तर्हि मैथिलस्य राजर्षेर्दोहित्रः ।
अरुन्धती – आविष्कृतं कथाप्रावीण्यं वत्सेन ।

कथाप्रावीण्यम् = रामायणकथानैपुण्यम् । आविष्कृतं = प्रकाशितम् ।

जनकः – (विचिन्त्य) यदि त्वमीदृशः कथायामभिज्ञस्तद् ब्रूहि तावत्पश्यामस्तेषां दशरथस्य पुत्राणां कियन्ति किन्नामधेयान्यपत्यानि केषु दारेषु प्रसूतानीति ?

अभिज्ञः = विज्ञः, ज्ञाता ।

लवः – नाऽयं कथाविभागोऽस्माभिरन्येन वा श्रुतपूर्वः ।
जनकः – किं न प्रणीतः कविना ?
लवः – प्रणीतो न तु प्रकाशितः । तस्यैव कोऽप्येकदेशः प्रबन्धान्तरेण रसवानभिनेयार्थः कृतः । तं च स्वहस्तलिखितं मुनिर्भगवान् व्यसृजद्भगवतो भरतस्य तौर्यत्रिकसूत्रधारस्य ।

एकदेशः = अंशः ।

जनकः – किमर्थम् ?
लवः – स किल भगवान् भरतस्तमप्सरोभिः प्रयोजयिष्यतीति ।

प्रयोजयिष्यति = प्रयोगं कारयिष्यति (अभिनयं प्रयोजयिष्यति) ।

जनकः – सर्वमिदमाकूततरमस्माकम् ।

आकूततरम् = अतिशयगुढाभिप्रायम् (आकूतो नामाभिप्राय आशयो वा) ।

लवः – महती पुनस्तस्मिन् भगवतो वाल्मीकेरास्था । ततः केषाञ्चिदन्तेवासिनां हस्तेन तत्पुस्तकं भरताश्रमं प्रति प्रेषितम्। तेषामनुयात्रिकश्चापपाणिः प्रमादच्छेदनार्थमस्मद्भ्राता प्रेषितः ।

अनुयात्रिकः = अनुचरः । प्रमादच्छेदनार्थम् = अनवधानतापनयनार्थम् ।

कौसल्या – भ्रातापि तेऽस्ति ?
लवः – अस्त्यार्यः कुशो नाम ।
कौसल्या – ज्येष्ठ इति भणितं भवति ।
लवः – एवमेतत् । प्रसवानुक्रमेण स किल ज्यायान् ।
जनकः – किं यमावायुष्मन्तौ ?
लवः – अथ किम् ?
जनकः – वत्स! कथय, कथाप्रपञ्चकस्य कियान्पर्यन्तः ?
लवः – अलीकपौरापवादोद्विग्नेन राज्ञा निर्वासितां देवीं देवयजनसम्भ्रमां सीतामासन्नप्रसववेदनामेकाकिनीमरण्ये लक्ष्मणः परित्यज्य प्रतिनिवृत्त इति ।

अलीकपौरापवादोद्विग्नेन = अलीकः मिथ्याभूतो, यः पौरापवादः नागरिककर्तृकदोषकथनम्, तेन उद्विग्नेन भीतेन । निर्वासितां = परित्यक्ताम् । देवयजनसम्भवां = यागभूमिजाताम् । आसनप्रसववेदनां = सन्निहितप्रसूतिदुःखाम् ।

कौसल्या – हा वत्से मुग्धमुखि! क इदानीं ते शरीरकुसुमस्य झटिति दैवदुर्विलासपरिणाम एकाकिन्या निपतितः ?

दैवदुर्विलासपरिणामः = दैवदुर्विलासस्य भाग्यदुष्टचेष्टितस्य, परिणामः परिपाकः । निपतितः = सञ्जातः ।

जनकः – हा वत्से

नूनं त्वया परिभवं च वनं च घोरं तां च व्यथां प्रसवकालकृतामवाप्य ।
क्रव्याद्गणेषु परितः परिवारयत्सु संत्रस्तया शरणमित्यसकृत्स्मृतोऽहम् ॥४।२३॥

क्रव्याद्गणेषु = मांसभक्षकेषु व्याघ्रादिवर्गेषु । संत्रस्तया = अतिशयभीतया । वसन्ततिलका वृत्तम् ॥

लवः – आर्ये! कावेतौ ?
अरुन्धती – इयं कौसल्या । अयं जनकः ।
(लवः सबहुमानखेदकौतुकं पश्यति)

सबहुमानखेदकौतुकम् = बहुमानेन (कौसल्याजनकयोः पूज्यत्वादतिशयसंमानेन) खेदेन (तद् दुःखदर्शनोत्पन्नदुःखेन) कौतुकेन (असम्भवदर्शनजकुतूहलेन) च सहितं ।

जनकः – अहो निर्दयता दुरात्मनां पौराणाम्! अहो रामभद्रस्य क्षिप्रकारिता ।

क्षिप्रकारिता = असमीक्ष्यकारिता, युक्ताऽयुक्तत्वमविचार्यैव कार्यानुष्ठातृत्वमिति भावः ।

एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा ।

वैशसवज्रधोरपतनं = वैशसम् सीताहननरूपं महाव्यसनं, वज्रस्य = कुलिशस्य, घोरं भयङ्करम्, यत् पतनं पातः, तत् । उत्पश्यतः = चिन्तयतः ।

कौसल्या – (सभयकम्पम्) भगवति । परित्रायताम् । प्रसादय, कुपितं राजर्षिम् ।
लवः –

एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् ।

प्रायश्चित्तं = कोपप्रतीकार इत्यर्थः ।

अरुन्धती -

राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥४।२४॥

कृपणाः = दीनाः ।

जनकः –

शान्तं वा रघुनन्दने तदुभयं तत्पुत्रभाण्डं हि मे
भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः ॥४।२५॥

पुत्रभाण्डम् = पुत्ररूपं मूलधनम् (भाण्डं पात्रे वणिङ्मूलधने इति मेदिनी) ।

(प्रविश्य सम्भ्रान्ताः)
वटवः – कुमार! कुमार!! अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनाऽस्माभिः स्वयं प्रत्यक्षीकृतः ।
लवः – अश्वोऽश्व इति नाम पशुसमाम्नाये सांग्रामिके च पठ्यते तद् ब्रूत कीदृशः!

पशुसमाम्नाये = पशुनामसंग्राहके शास्त्रे ।

वटवः – अये! श्रूयताम् -

पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्रं, दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव ।
शष्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रान् किं व्याख्यानैर्व्रजति स पुनर्दूरमेह्येहि यामः ॥४।२६॥

आम्रमात्रान् = आम्रफलं प्रमाणं येषां तान् (प्रमाण द्वयसज्दघ्नमात्रचः' इति मात्रच्प्रत्ययः) । एतादृशान् शकृत्पिण्डकान् = पुरीषपिण्डकान्। प्रकिरति = विक्षिपति ।

(इत्यजिने हस्तयोश्चाकर्षयन्ति)
लवः – (सकौतुकोपरोधविनयम्) आर्याः! पश्यत । एभिर्नीतोऽस्मि ।
(इति त्वरितं परिक्रामति)
अरुन्धतीजनकौ – महत्कौतुकं वत्सस्य ।
कौसल्या – अरण्यगर्भरूपालापैर्यूयं तोषिता वयं च । भगवति! जानामि । तं पश्यन्ती वञ्चितेव । तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत्पलायमानं दीर्घायुषम् ।

अरण्यगर्भरूपालापैः = अरण्यगर्भाणां वनचरशिशूनाम्, रूपैः आकारैः, आलापैः आभाषणैः ।

अरुन्धती – अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ?
कञ्चुकी – (प्रविश्य) भगवान् वाल्मीकिराह – ज्ञातव्यमेतदवसरे भवद्भिरिति ।

एतद् = इदम् 'कुतस्त्योऽयं माणवक' इति पृष्टं वृत्तम् इति भावः । अवसरे = उचितकाले ।

जनकः – अतिगम्भीरमेतत्किमपि । भगवत्यरुन्धति! सखि कौसल्ये! आर्य गृष्टे! स्वयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः ।
(इति निष्क्रान्तो वृद्धवर्गः) (प्रविश्य)
वटवः – पश्यतु कुमारस्तावदाश्चर्यम् ।
लवः – दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः ।
वटवः – कथं ज्ञायते ?
लवः – ननु मूर्खाः! पठितमेव हि युष्माभिरपि तत्काण्डम् । किं न पश्यथ ? प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः । तत्प्रायमेवान्यदपि दृश्यते । यदि च विप्रत्ययस्तत्पृच्छत ।

निषङ्गिणः = तूणीरवन्तः ।

वटवः – भो भोः! किम्प्रयोजनोऽयमश्वः परिवृतः पर्यटति ?

परिवृतः = परिवेष्टितः, बलैरिति शेषः ।

लवः – (सस्पृहमात्मगतम्) अश्वमेध इति नाम विश्वविजयिनां क्षत्रियाणामूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः ।

ऊर्जस्वलः = प्रशस्तम् ऊर्जोऽस्ति यस्य सः (अतिशयबल इत्यर्थः) । उत्कर्षनिकषः = शाणसमः (whetstone) प्रकर्षज्ञापक इति भावः (शाणस्तु निकषः कष इत्यमरः) । सर्वक्षत्रपरिभावी = सर्वान् क्षत्रान् परिभवतीति तच्छीलः, सकलक्षत्रियतिरस्करणशील इति भावः ।

(नेपथ्ये)

योऽयमश्वः पताकेयमथवा वीरघोषणा ।
सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः ॥४।२७॥

लवः – (सगर्वम्) अहो संदीपनान्यक्षराणि ।

संदीपनानि = क्रोधोत्साहयोः संवर्धकानि (श्रवणेन कोप उत्साहश्च समुज्जृम्भत इति भावः) ।

वटवः – किमुच्यते ? प्राज्ञः खलु कुमारः ।
लवः – भो भोः तत्किमक्षत्रिया पृथिवी ? यदेवमुद्धोष्यते । (नेपथ्ये)
रे रे! महाराजं प्रति कुतः क्षत्रियः ?
लवः – धिग्जाल्मान्!

जाल्मान् = असमीक्ष्यकारिणः (जाल्मोऽसमीक्ष्यकारी स्यात् इत्यमरः) ।

यदि नो सन्ति सन्त्येव, केयमद्य विभीषिका ।
किमुक्तैरेभिरधुना तां पताकां हरामि वः ॥४।२८॥

विभीषिका = भयोत्पादनम् ।

हे वटवः! परिवृत्य लोष्टैरभिघ्नन्त उपनयतैनमश्वम् । एष रोहितानां मध्येचरो भवतु ।

अभिघ्नन्त = ताडयन्त ।

(प्रविश्य सक्रोधः)
पुरुषः – धिक्चपल! किमुक्तवानसि ? तीक्ष्णतरा ह्यायुधीयश्रेणयः शिशोरपि दृप्तां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः, सोऽप्यपूर्वारण्यदर्शनाक्षिप्तहृदयो न यावदायाति तावत्त्वरितमनेन तरुगहनेनापसर्पत ।

आयुधीयश्रेणयः = आयुधधारिपङ्क्यः । दृप्तां = गर्वितां, दर्पयुक्ताम् । दुर्दान्तः = अमर्षशीलः । अपूर्वारण्यदर्शनाक्षिप्तहृदयः = अपूर्वारण्यस्य पूर्वादृष्टविपिनस्य, दर्शनेन विलोकनेन, आक्षिप्तहृदयःआकृष्टचित्तः ।

वटवः – कुमार! कृतं कृतमश्वेन । तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः। दूरे चाश्रमपदम् । इतस्तदेहि । हरिणप्लुतैः पलायामहे!

विस्फारितशरासनाः = विस्फारितानि प्रकाशितानि, शरासनानि धनूंषि यैस्ते प्रकाशितकार्मुकाः (पाठान्तरं विस्फुरितशस्त्राः विस्फुरितानि प्रदीप्तानि शस्त्राणि यासां तथाविधाः) । हरिणप्लुतैः = त्वरितगमनैः ।

लवः – किं नाम विस्फुरन्ति शस्त्राणि ? (इति धनुरारोपयन्)

ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र- मुद्भूरिघोरघनघर्घरघोषमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र- जृम्भाविडम्बि विकटोदरमस्तु चापम् ॥४।२९॥

ज्याजिह्वया = ज्या मौर्वी सैव जिह्वा (रसना) तथा । वलयितोत्कटकोटिदंष्ट्रं = व्लयिते वेष्टिते, उत्कटकोटी उन्नताग्रभागौ एव दंष्ट्र पृथुदन्तौ यस्य तत् । उद्भूरिघोरधनघर्घरघोषम् = उद्भूरयः असंख्याताः, घोराः भयङ्कराः, घनाः सान्द्राः, घर्घरधोषाः घर्घरेत्याकारकशब्दाः यस्य तत् । ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्रजृम्भाविडम्बि = ग्रासे कवलने, प्रसक्तम् उद्युक्तम्, हसत् हासं कुर्वत्, अन्तकवक्त्रम् कृतान्तमुखम्, एष यन्त्र, तस्य जृम्भां व्यादानम्, विडम्बयति अनुकरोति इति तच्छीलमत् । विकटोदरम् = विकटम् भयङ्करम्, उदरं यस्य तत् तादृशम्।

वसन्ततिलका वृत्तम् ॥

(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे)
॥ इति चतुर्थोऽङ्कः ॥

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूतप्रिया- पीतादभ्यधिकं तपोधन… — —
हृदि नित्यानुषक्तेन सीताशोकेन तप्यते — —
अपत्ये यत्तादृग्दुरितमभवत्तेन महता विषक्तस्तीव्रेण व्रणितहृद… — —
अनियतरुदितस्मितं विराजत्कतिपयकोमलदन्तकुड्मलाऽग्रम् — —
त्वं बहिर्मुनयो वसिष्ठगृहिणी, गङ्गा च यस्या विदु- र्माहात्म्… — —
आसीदियं दशरथस्य गृहे यथा श्रीः श्रीरेव वा किमुपमानपदेन सैषा — —
य एव मे जनः पूर्वमासीन्मूर्ती महोत्सवः — —
सन्तानवाहीन्यपि मानुषाणां दुःखानि सम्बन्धिवियोगजानि — —
एष वः श्लाध्यसम्बन्धी जनकानां कुलोद्वहः — —
यया पूतंमन्यो निधिरपि पवित्रस्य महसः पतिस्ते पूर्वेषामपि खलु… — —
शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा विशुद्धोरुत्कर्षस्… — —
स राजा, तत्सौख्यं, स च शिशुजनस्ते च दिवसाः स्मृतावाविर्भूतं… — —
स सम्बन्धी श्लाघ्यः प्रियसुहृदसौ तच्च हृदयं स चानन्दः साक्षा… — —
यदस्याः पत्युर्वा रहसि परमं दूषितमभू- दभूवं दम्पत्योः पृथगहम… — —
सुहृदिव प्रकटय्य सुखप्रदां प्रथममेकरसामनुकूलताम् — —
पञ्चप्रसूतेरपि तस्य राज्ञः प्रियो विशेषेण सुबाहुशत्रुः — —
कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं संबन्धे विपरीतम… — —
आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भू… — —
कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो वटुपरिषदं पुण्यश्रीकः श्र… — —
चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्तोकपवित्रला… — —
महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो विदग्धैर्निर्ग्राह्य… — —
वत्सायाश्च रघूद्वहस्य च शिशावस्मिन्नभिव्यज्यते संवृत्तिः प्र… — —
नूनं त्वया परिभवं च वनं च घोरं तां च व्यथां प्रसवकालकृतामवाप… — —
एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः क्रोधस्य ज्वलितुं झटित… — —
एतद्धि परिभूतानां प्रायश्चित्तं मनस्विनाम् — —
राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः — —
शान्तं वा रघुनन्दने तदुभयं तत्पुत्रभाण्डं हि मे भूयिष्ठद्विज… — —
पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्रं, दीर्घग्रीवः स भ… — —
योऽयमश्वः पताकेयमथवा वीरघोषणा — —
यदि नो सन्ति सन्त्येव, केयमद्य विभीषिका — —
ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र- मुद्भूरिघोरघनघर्घरघोषमेतत… — —