उत्तररामचरितम् — सप्तमोऽङ्कः (सम्मेलनम्)¶
(ततः प्रविशति लक्ष्मणः)
लक्ष्मणः – भो भो अद्य खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजानपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यगुरगनायकनिकायः सचराचरो भूतग्रामः स्वप्रभावेण सन्निधापितः । आदिष्टवाहमार्येण – वत्स लक्ष्मण! भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः, तद्गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समाजसन्निवेश इति । कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसन्निवेशो मया । अयं तु –
निकायः = समूहः ।
राज्याश्रम निवासेऽपि प्राप्तकष्टमुनिव्रतः ।
वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥७।१॥
अभिवर्तते = आगच्छति ।
(ततः प्रविशति रामः)
रामः – वत्स लक्ष्मण! अपि स्थिता रङ्गप्रेक्षकाः ?
लक्ष्मणः – अथ किम् ?
रामः – इमौ पुनर्वत्सो कुशलवौ चन्द्रकेतुसदृशीं स्थानप्रतिपत्तिं लम्भयितव्यौ ।
स्थानप्रतिपत्तिम् = गौरवास्पदासन्दम् (स्थानस्य समुपवेशनासनस्य, प्रतिपत्तिम् गौरवम्), स्थानेन लम्भयितव्यो = प्रापयितव्यौ, सम्मानयितव्यौ ।
लक्ष्मणः – प्रभुस्नेहप्रत्ययात् तथैव कृतम् । इदं चास्तीर्णं राजासनम् । तदुपविशत्वार्यः ।
प्रभुस्नेहप्रत्ययात् = महाराजवात्सल्यज्ञानात् ।
लक्ष्मणः – प्रस्तूयतां भोः ।
(राम उपविशति)
सूत्रधारः – (प्रविश्य) भो भो! भगवान् भूतार्थवादी प्राचेतसः सस्थावरजङ्गमं जगदाज्ञापयति – यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं करुणाद्भुतरसं किञ्चिदुपनिबद्धम्, तत्र कार्यगौरवादवधातव्यमिति ।
प्राचेतसः = वाल्मीकिः । भूतार्थवादी = सत्यवादी । उपनिबद्धम् = रचितम् । सस्थावरजङ्गमं = चलाचलम् ।
रामः – एतदुक्तं भवति – साक्षात्कृतधर्माण ऋषयः । तेषाममृतसाराणि भगवतां परोरजांसि प्रज्ञानानि न क्वचिद् व्याहन्यन्त इत्यनभिशङ्कनीयानीति ।
परोरजांसि = परिशुद्धानि (सत्त्वानि; रजसः पराणि) । न व्याहन्यन्ते = न प्रतिहतानि (न विफलानि, अयथार्थानि भवन्ति)।
(नेपथ्ये)
हा आर्यपुत्र! हा कुमार लक्ष्मण! एकाकिनीं मन्दभागिनीमशरणामरण्ये आसन्नप्रसववेदनां हताशां श्वापदा मामभिलषन्ति । साहमिदानीं मन्दभागिनी भागीरथ्यामात्मानं निक्षेप्स्यामि ।
आसन्नप्रसववेदनां = समीपागतप्रसूतिव्यथां, प्रसववेदनाभिभूताम् । हताशां = व्यर्थमनोरथाम् । श्वापदाः = दुष्टमृगाः, हिंस्रजन्तवः ।
लक्ष्मणः – (आत्मगतम्) कष्टं बत, अन्यदेव किमपि ।
विश्वम्भरात्मजा देवी राज्ञा त्यक्ता महावने ।
प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥७।२॥
(इति निष्क्रातः)
॥प्रस्तावना॥
रामः – (सावेगम्) देवि, देवि! क्षणमवेक्षस्व ।
सावेगं = सभयं, संभ्रमे । अवेक्षस्व = प्रतीक्षस्व ।
लक्ष्मणः – आर्य! नाटकमिदम् ।
रामः – हा देवि! दण्डकारण्यवासप्रियसखि! एष ते रामाद् दैवदुर्विपाकः ।
दैवदुर्विपाक = दुःखानुभवः ।
लक्ष्मणः – आर्य! दृश्यतां तावत् प्रबन्धार्थः ।
रामः – एष सज्जोऽस्मि वज्रमयः ।
(ततः प्रविशत्युत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामवलम्बिता सीता)
रामः – वत्स लक्ष्मण! असंविज्ञातमनिबन्धनमन्धतमसमिव प्रविशामि । धारय माम् ।
असंविज्ञानम् = अविदितस्वरूपम् । अनिबन्धनम् = अकारणम् । अन्धतमसम् = गाढान्धकारम् । धारय = अवलम्बस्व ।
देव्यौ –
समाश्वसिहि कल्याणि दिष्टया वैदेहि वर्धसे ।
अन्तर्जले प्रसूताऽसि रघुवंशधरौ सुतौ ॥७।३॥
सीता – (समाश्वस्य) दिष्टया दारकौ प्रसूताऽस्मि । हा आर्यपुत्र!
लक्ष्मणः – (पादयोर्निपत्य) आर्य आर्य! दिष्ट्या वर्धामहे । कल्याणप्ररोहो रघुवंशः । (विलोक्य) हा हा! कथं क्षुभितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः । (वीजयति)
क्षुभितबाष्पोत्पीडनिर्भरः = शोकजनिताश्रुप्रवाहाकुलः । प्रमुग्धः = मूर्छितः ।
पृथिवी – वत्से! समाश्वसिहि ।
सीता – (समाश्वस्य) भगवति! का त्वम्, इयं च ।
पृथिवी – इयं ते श्वशुरकुलदेवता भागीरथी ।
सीता – भगवति! नमस्ते ।
भागीरथी – चरित्रोचितां कल्याणसम्पदमधिगच्छ ।
लक्ष्मणः – अनुगृहीताः स्मः ।
भागीरथी – इयं तु जननी ते विश्वम्भरा ।
सीता – हा अम्ब! ईदृश्यहं त्वया दृष्टा ।
पृथिवी – एहि वत्से! एहि पुत्रि! (इति सीतामालिङ्ग्य मूर्च्छति) ।
लक्ष्मणः – (सहर्षम्) दिष्टया गङ्गापृथिवीभ्यामभ्युपपन्ना आर्या ।
रामः – (अवलोक्य) करुणतरं खल्वेतद्वर्तते ।
भागीरथी – विश्वम्भराऽपि नाम व्यथत इति जितमपत्यस्नेहेन । यद्वा सर्वसाधारणो ह्येष मनसो मोहग्रन्थिरन्तश्चरश्चेतनावतामनुपप्लवः संसारतन्तुः । देवि भूतधात्रि! वत्स वैदेहि! समाश्वसिहि समाश्वसिहि ।
पृथिवी – (आश्वस्य) देवि! सीतां प्रसूय कथमाश्वसिमि ?
सोढश्चिरं राक्षसमध्यवासस्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः ।
भागीरथी –
को नाम पाकाभिमुखस्य जन्तोर्द्वाराणि वैवस्य पिधातुमीष्टे ॥७।४॥
ईष्टे = प्रभवति ।
पृथिवी – भगवति भागीरथ! सदृशमुक्तम् । युक्तमेतद्वा रामभद्रस्य ?
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
नाहं न जनको नाग्निर्नानुवृत्तिनं सन्ततिः ॥७।५॥
सीता – हा! आर्यपुत्रं स्मारितास्मि ।
पृथिवी – आः! कस्तवार्यपुत्रः ?
सीता – (सलज्जास्रम्) यथा वाऽम्बा भणति ।
रामः – अम्ब पृथिवि! ईदृशोऽस्मि ।
भागीरथी – भगवति वसुन्धरे! शरीरमसि संसारस्य । तत्किमसंविदानेव जामात्रे कुप्यसि ?
घोरं लोके विततमयशो या च वह्नौ विशुद्धि- लंङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु ।
इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः कृत्स्नो लोकस्तविह विषमे कि स वत्सः करोतु ॥७।६॥
लक्ष्मणः–अव्याहतान्तःप्रकाशा हि देवताः सत्त्वेषु ।
अव्याहतान्तःप्रकाशाः = अव्याहतः अप्रतिबद्धः, अन्तःप्रकाशः अन्तःकरणवृत्तिज्ञानां यासां ताः ।
भागीरथी – तथाप्येष तेऽञ्जलिः ।
रामः – अम्ब! अनुवृत्तस्त्वया भगीरथकुले प्रसादः ।
पृथिवी –देवि! नित्यं प्रसन्नाऽस्मि वः । किन्त्वापातदुःसहस्नेहसंवेगेनैवं ब्रवीमि । न पुनर्न जानामि सीतास्नेहं रामभद्रस्य ।
दह्यमानेन मनसा दैवाद् वत्सां विहाय सः ।
लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥७।७॥
रामः – सकरुणा हि गुरवो गर्भरूपेषु ।
सीता – (रुदती कृताञ्जलिः) नयतु मामात्मनोऽङ्गेषु विलयमम्बा ।
रामः – किमन्यद् ब्रवीतु ।
भागीरथी – शान्तम् । अविलीना संवत्सरसहस्राणि भूयाः ।
पृथिवी – वत्से! अवेक्षणीयौ ते पुत्रको।
सीता – अनाथास्मि । किमेताभ्याम् ।
रामः – हृदय! वज्रमयमसि ।
भागीरथी – कथं त्वं सनाथाऽप्यनाथा ।
सीता – कीदृशं मे अभाग्यायाः सनाथत्वम् ।
देव्यौ –
जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे ।
आवयोरपि यत्सङ्गात् पवित्रत्वं प्रकृष्यते ॥७।८॥
लक्ष्मणः – आर्य, श्रूयताम् ।
रामः – शृणोतु लोकः ।
(नेपथ्ये कलकलः)
रामः – अद्भुततरं किमपि ।
सीता – किमित्यन्तरिक्षं प्रज्वलति ।
कृशाश्वः कौशिको राम इति येषां गुरुक्रमः ।
प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥७।९॥
(नेपथ्ये)
देवि सीते! नमस्तेऽस्तु गतिर्नः पुत्रकौ हि ते ।
आलेख्यदर्शने देवो यथाह रघुनन्दनः ॥७।१०॥
सीता – दिष्टया अस्त्रदेवता एताः । हा आर्यपुत्र! अद्यापि ते प्रसादाः परिस्फुरन्ति ।
प्रसादाः = अनुग्रहाः । परिस्फुरन्ति = प्रकाशन्ते ।
लक्ष्मणः – उक्तमासीदार्येण सर्वथैतानि त्वत्प्रसूतिमुपस्थास्यन्तीति ।
देव्यौ –
नमो वः परमास्त्रेभ्यो धन्याः स्मो वः परिग्रहात् ।
काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥७।११॥
रामः –
क्षुभिताः कामपि दशां कुर्वन्ति मम साम्प्रतम् ।
विस्मयानन्दसन्दर्भजर्जराः करुणोर्मयः ॥७।१२॥
देव्यौ – मोदस्व वत्से! मोदस्व । रामभद्रतुल्यौ ते पुत्रकाविदानीं संवृत्तौ ।
सीता – भगवत्यौ क एतयोः क्षत्रियोचितविधिं कारयिष्यति ?
रामः –
एषा वसिष्ठगुप्तानां रघूणां वंशनन्दिनी ।
कष्टं सीतापि सुतयोः संस्कारं न विन्दति ॥७।१३॥
भागीरथी – पुत्रि! किं तवानया चिन्तया । एतौ हि वत्सौ स्तन्यत्यागात् परेण भगवतो वाल्मीकेरर्पयिष्यामि । स एतयोः क्षत्रकृत्यं करिष्यति।
यथा वसिष्ठाङ्गिरसावृषिः प्राचेतसस्तथा ।
जनकानां रघूणां च वंशयोरुभयोर्गुरुः ॥७।१४॥
रामः – सुविचिन्तितं भगवत्या ।
लक्ष्मणः – आर्य! सत्यं विज्ञापयामि तैस्तैरुपायैरिमौ वत्सौ कुशलवावुत्प्रेक्षे ।
एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ ।
आर्यतुल्याकृती वीरौ वयसा द्वावशाब्दिकौ ॥७।१५॥
रामः – वत्सावित्येवाहं परिप्लवमानहृदयः प्रमुग्धोऽस्मि ।
परिप्लवमानहृदयः = दोलायमानहृदयः ।
पृथिवी – एहि वत्से! पवित्रीकुरु रसातलम् ।
रामः – हा प्रिये! लोकान्तरं गतासि ।
सीता – नयतु मामात्मनोऽङ्गेषु विलयमम्बा । न सहिष्ये ईदृशं जीवलोकपरिभवमनुभवितुम् ।
लक्ष्मणः – किमुत्तरं स्यात् ?
पृथिवी – मन्नियोगतः स्तन्यत्यागं यावत् पुत्रयोरवेक्षस्व । परेण तु यथा रोचिष्यते तथा करिष्यामि ।
(इति निष्क्रान्ते देव्यौ सीता च)
रामः – कथं विलय एव वैदेह्याः सम्पन्नः ? हा देवि! दण्डकारण्यवासप्रियसखि! हा चारित्रदेवते! लोकान्तरं पर्यवस्थितासि । (इति मूर्च्छति)
पर्यवस्थितासि = प्रविष्टासि, प्रस्थितासि ।
लक्ष्मणः – भगवन् वाल्मीके! परित्रायस्व परित्रायस्व । एष ते काव्यार्थः ?
(नेपथ्ये)
अपनीयतामातोद्यम् । भो भोः सजङ्गमस्थावराः प्राणभृतो मर्त्यामर्त्याः! पश्यतेदानीं महर्षिणा भगवता वाल्मीकिनाऽभ्यनुज्ञातं पवित्रमाश्चर्यम् ।
आतोद्यम् = चतुर्विधं वाद्यम् । सजङ्गमस्थावराः = जङ्गमैः चरैः, स्थावरैः अचरैश्च सह वर्तमानाः ।
लक्ष्मणः – (विलोक्य)
मन्थादिव क्षुभ्यति गाङ्गमम्भो व्याप्तं च देवर्षिभिरन्तरिक्षम् ।
आश्चर्यमार्या सह देवताभ्यां गङ्गामहीम्यां सलिलादुदेति ॥७।१६॥
(पुनर्नेपथ्ये)
अरुन्धति जगद्वन्द्ये गङ्गापृथ्व्यौ जुषस्व नौ ।
अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः ॥७।१७॥
लक्ष्मणः – अहो! आश्चर्यमाश्चर्यम् । आर्यं! पश्य पश्य । (विलोक्य) कष्टमद्यापि नोच्छ्वसित्यार्यः ।
(ततः प्रविशत्यरुन्धती सीता च)
अरुन्धती –
त्वरस्व वत्से वेदेहि! मुख शालीनशीलताम् ।
एहि जीवय मे वत्सं प्रियस्पर्शेन पाणिना ॥७।१८॥
सीता – (ससम्भ्रमं स्पृशन्ती) समाश्वसितु समाश्वसित्वार्यपुत्रः ।
रामः – (समाश्वस्य सानन्दम्) भोः किमेतत् ? (दृष्ट्वा सहर्षाद्भुतम्) कथं देवी । (सलज्जम्) अये अम्बा मे अरुन्धती सर्वे च प्रहृष्यन्त ऋष्यशृङ्गशान्तादयोऽस्मद्गुरवः ।
अरुन्धती – वत्स! एषा भगवती भगीरथगृहदेवता सुप्रसन्ना गङ्गा ।
(नेपथ्ये)
जगत्पते रामचन्द्र! स्मर्यतामालेख्यदर्शने मां प्रत्यात्मनो वचनं यथा – 'सा त्वमम्ब! स्नुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भव' इति । तत्रानृणास्मि जाता ।
अरुन्धती – इयं ते श्वश्रूर्भगवती वसुन्धरा ।
(पुनर्नेपथ्ये)
उक्तमासीदायुष्मता वत्सायाः परित्यागे यथा– 'भगवति वसुन्धरे! श्लाघ्यां दुहितरमवेक्षस्व जानकीमिति ।' तदधुना कृतवचनास्मि प्रभोर्वत्सस्येति ।
रामः – कथं कृतमहापराधो भगवतीभ्यामनुकम्पितः । प्रणमामि वः ।
अरुन्धती – भो भोः पौरजानपदाः! इयमधुना भगवतीभ्यां जाह्नवीवसुन्धराभ्यामेवं प्रशस्यमाना ममारुन्धत्याः समर्पिता, पूर्वं च भगवता वैश्वानरेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्व देवैः संस्तुता सावित्रकुलवधूर्देवयजनसम्भवा सीतादेवी परिगृह्यतामिति कथमिह भवन्तो मन्यन्ते ?
लक्ष्मणः – आर्य! एवमार्ययाऽरुन्धत्या निर्भर्त्सिताः पौरजानपदाः कृत्स्नश्च भूतग्राम आर्यां नमस्कुर्वन्ति । लोकपालाः सप्तर्षयश्च पुष्पवृष्टिभिरुपतिष्ठन्ते ।
अरुन्धती – जगत्पते रामचन्द्र!
नियोजय यथाधर्मं प्रियां त्वं धर्मचारिणीम् ।
हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥७।१९॥
सीता – (स्वगतम्) जानात्यार्यपुत्रः सीताया दुःखं परिमार्ष्टुम् ?
रामः – यथा भगवत्यादिशति ।
लक्ष्मणः – कृतार्थोऽस्मि ।
सीता – प्रत्युज्जीवितास्मि ।
लक्ष्मणः – आर्ये! एष निर्लज्जो लक्ष्मणः प्रणमति ।
सीता – वत्स! ईदृशस्त्वं चिरञ्जीव ।
अरुन्धती – भगवन् वाल्मीके! उपनीयेतामिमौ सीतागर्भसम्भवौ रामभद्रस्य पुत्रकौ कुशलवौ ।
(इति निष्क्रान्ता)
रामलक्ष्मणौ – दिष्ट्या तथैवैतत् ।
सीता – (सबाष्पाकुला) कुत्र मम पुत्रकौ ।
(ततः प्रविशति वाल्मीकिः कुशलवौ च)
वाल्मीकिः – वत्सौ कुशलवौ! रघ वां रघुपतिः पिता, एष लक्ष्मणः कनिष्ठतातः । एषा सीता जननी । एष राजर्षिर्जनको मातामहः ।
सीता – (सहर्ष करुणाद्भुतं विलोक्य) कथं तातः ।
कुशलवौ – हा तात! हा अम्ब! हा मातामह!
रामलक्ष्मणौ – (सहर्षमालिङ्गय) ननु वत्सौ पुण्यैः प्राप्तौ स्थः ।
सीता – एहि जात कुश, एहि जात लव, चिरस्य परिष्वजेथां मां पुनर्जन्मान्तरगतां जननीम् ।
कुशलवौ – (तथा कृत्वा) धन्यौ स्वः ।
सीता – भगवन्! एषाहं प्रणमामि ।
वाल्मीकिः– वत्से! ईदृश्येव चिरं भूयाः ।
सीता – अम्हहे! तातः कुलगुरुरार्याजनः सभर्तृका चार्या शान्तादेवी सलक्ष्मणाः सुप्रसन्ना आर्यपुत्रचरणाः समं कुशलवावपि दृश्यन्ते तनिर्भराऽस्म्यानन्देन ।
(नेपथ्ये कलकलः)
वाल्मीकिः – (उत्थायावलोक्य च) उत्खातलवणो मधुरेश्वरः प्राप्तः ।
लक्ष्मणः – सानुषङ्गाणि कल्याणानि ।
रामः – सर्वमिदमनुभवन्नपि न प्रत्येमि । यद्वा प्रकृतिरियमभ्युदयानाम् ।
वाल्मीकिः– रामभद्र! उच्यतां किं ते भूयः प्रियमुपकरोमि ।
रामः – अतः परमपि प्रियमस्ति ? तथापीदमस्तु –
पाप्मम्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ।
तामेतां परिभावयन्त्वभिनयैविन्यस्तरूपां बुधाः शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम् ॥७।२०॥
(इति निष्क्रान्ताः सर्वे)
॥ सप्तमोऽङ्कः ॥
॥ नाटकमिदं समाप्तम् ॥