सामग्रीं त्यजन्तु

तर्कसम्बद्धविषयाः

लक्षणम्

लक्षणप्रमाणाभ्यां वस्तुसिद्धिः ।

लक्षणे दोषाः

• अव्याप्तिः – लक्ष्यैकदेशावृत्तित्वम् अव्याप्तिः।
गोर्लक्षणं कृष्णत्वम् । (सर्वेषु गोषु लक्षणं नान्वेति)
• अतिव्याप्तिः – लक्क्ष्यातिरिक्तवृत्तित्वम् अतिव्याप्तिः।
गोर्लक्षणं शृङ्गित्वम् । (अन्येषां पशूनामपि शृङ्गित्वं भवति)
• असम्भवः – लक्ष्यमात्रावृत्त्यत्वम् असम्भवः।
गोर्लक्षणं डयनत्वम् । (न गावः डयन्ते; लक्षणं न सङ्गच्छते)

पदार्थाः

• द्रव्याणि (९)
• पृथिवी, आपः, तेजो, वायुः – नित्यं (परमाणुरूपम्), अनित्यं (कार्यरूपम्) ।
• आकाशः, कालः, दिक् – एकं, नित्यं, विभुः ।
• आत्मा – नित्यः, विभुः । जिवात्मा (अनन्ताः, प्रतिशरीरम्), परमात्मा (एकः)।
• मनः – परमाणुरूपः (प्रतिजीवात्म) ।
• गुणाः (२४)
• रूपं, रसः, गन्धः, शब्दः, स्पर्शः,
• सङ्ख्या, परिमाणं
• पृथक्त्वं, संयोगः, विभागः
• परत्वम्, अपरत्वम्
• बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः,
• गुरुत्वं, द्रवत्वं, स्नेहः, संस्कारः।
• कर्माणि (५)
• उत्क्षेपणं, अपक्षेपणं, आकुञ्चनं, प्रसारणम्, गमनम्
• सामान्यम् (२)
• परं (सत्ता), अपरं (द्रव्यत्वत्वादि)
• विशेषः
• नित्यद्रव्यवृत्तिः अन्त्यो विशेषः
• समवायः
• अयुतसिद्धवृत्तिः सम्बन्धः
• अभावः
• प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः

सम्बन्धाः

पदार्थद्वयनिष्ठौ

संयोगः – द्रव्यद्वयस्य अनित्यसम्बन्धः । भूतले घटः ।
समवायः – नित्यसम्बन्धः ।

graph TD
A1["गुणः"]
A2["गुणी"]
B1["क्रिया"]
B2["क्रियावान्"]
C1["अवयवी"]
C2["अवयवः"]
D1["जातिः"]
D2["व्यक्तिः"]
E1["विशेषः"]
E2["नित्यद्रव्यम्"]

A1 --- A2
B1 --- B2
C1 --- C2
D1 --- D2
E1 --- E2

स्वरूपसम्बन्धाः

नव्यन्यायसिद्धान्तदृष्ट्या अन्ये सर्वेऽपि सम्बन्धरूपाः वृत्तयः । यत्र संयोगसमवायौ न स्तः, तत्र अधिकरणरूपेण वा तात्विकसम्बन्धरूपेण वा एते सम्बन्धाः स्वीकृताः सन्ति—

• आधाराधेयभावः – घटवत् भूतलम् ।
• प्रतियोग्यनुयोगिभावः – घटाभावे घटस्य प्रतियोगित्वम् ।
• अवच्छेदकावच्छेद्यभावः – जलत्वं जलस्यावच्छेदकम् ।
• निरूप्यनिरूपकभावः – प्रतिपाद्यप्रतिपादकत्वम् ।
• विषयविषयिभावः – घटज्ञानस्य घटेन सह सम्बन्धः।
• कार्यकारणभावः – दण्डघटयोः सम्बन्धः।

न्यायशैल्याचित्रनिरूपणम्

(विद्याधरी इति पुस्तके पाटीलवर्यैः सविस्तरं प्रतिपादितम्)

आधारा-आधेय-निष्ठ-आश्रयाः

• सामान्यं वाक्यम् – भूतले घटः अस्ति ।
• नैयायिकाः – घटवत् भूतलम् ।
• निरूपणम् – घटनिष्ठाधेयतानिरूपिताधिकरणाश्रयः भूतलम् (घट-निष्ठ-आधेयता-निरूपित-अधिकरणता-आश्रयः भूतलम्) ।
चित्रम्
block-beta
columns 3

%% Row 1
tl["आधेयता"]  space  tr["अधिकरणता"]

%% Row 2
space:3

%% Row 3
bl["घटः"]  space  br["भूतलम्"]

bl-- "निष्ठ" -->tl
tl-- "निरूपित" -->tr
tr-- "आश्रयः" -->br
• घटस्य निरूपणमपि शक्यम् (विपरीता दिक् शराणाम्) – भूतलनिष्ठाधिकरणनिरूपिताधेयताश्रयः घटः ।
चित्रम्
block-beta
columns 3

%% Row 1
tl["आधेयता"]  space  tr["अधिकरणता"]

%% Row 2
space:3

%% Row 3
bl["घटः"]  space  br["भूतलम्"]

br-- "निष्ठ" -->tr
tr-- "निरूपित" -->tl
tl-- "आश्रयः" -->bl

अभावनिरूपणम्

अभावः चतुर्विधम् – प्रागभावः, ध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः ।

• घटः नास्ति । (घटस्य अभावः । अत्र प्रतियोग्यनुयोगिभावः । घटे प्रतियोगिता, अभावे अनुयोगिताः ।)
अभावनिष्ठानुयोगितानिरूपितप्रतियोगिताश्रयः घटः । घटनिष्ठप्रतियोगितानिरूपितानुयोगिताश्रयः अभावः ।
चित्रम्
block-beta
columns 3

%% Row 1
tl["प्रतियोगिता"]  space  tr["अनुयोगिता"]

%% Row 2
space:3

%% Row 3
bl["घटः"]  space  br["अभावः"]

br-- "निष्ठ" -->tr
tr-- "निरूपित" -->tl
tl-- "आश्रयः" -->bl

अत्र सरलतयापि वक्तुं शक्यते – अभावनिरूपितप्रतियोगिताश्रयः घटः ।

चित्रम्
block-beta
columns 3

%% Row 1
tl["प्रतियोगिता"]  space  tr["अनुयोगिता"]

%% Row 2
space:3

%% Row 3
bl["घटः"]  space  br["अभावः"]

br-- "निरूपित" -->tl
tl-- "आश्रयः" -->bl

अपरस्यां दिशि सरलतया एवं वक्तुं शक्यते – घटनिष्ठप्रतियोगितानिरूपकः अभावः ।

चित्रम्
block-beta
columns 3

%% Row 1
tl["प्रतियोगिता"]  space  tr["अनुयोगिता"]

%% Row 2
space:3

%% Row 3
bl["घटः"]  space  br["अभावः"]

tl-- "निरूपकः" -->br
bl-- "निष्ठ" -->tl

नित्यत्वम्

नित्यं नाम यस्य अभावः शक्यः । ध्वंसः शक्यः । तस्मात् ध्वंसनिरूपितप्रतियोगित्वं वर्तते चेत् स पदार्थः अनित्यः । नित्येषु ध्वंसप्रतियोगित्वं न भवति (अभावः) । अतः धवंसाप्रतियोगित्वं नित्यत्वम् (ध्वंस-अप्रतियोगित्वम्) । ध्वंसप्रतियोगित्वम् अनित्यत्वम् ।

अवच्छेदकावच्छेद्यभावः

पृथक्करणमेव अवच्छेदनम् । एवं पृथक्करणसामर्थ्यं यत्र वर्तते तदेव अवच्छेदकत्वम् । यदा पदार्थद्वये एकः एव पदार्थः पदार्थः भासते तदा तयोः पृथक्करणाय अवच्छेदकः अपेक्षितः । यथा जलाभावः, पटाभावः – द्वयोरपि निरूपणे प्रतियोगिता समाना भासते । यथा अभावनिष्ठानुयोगितानिरूपिता प्रतियोगिता । किन्तु जलनिष्ठप्रतियोगिता भिन्ना, पटनिष्ठप्रतियोगिता भिन्ना । अत्र जलत्वम् इति अवच्छेदकम् । जलनिष्ठप्रतियोगिता = जलत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यताश्रयः (इयं पटनिष्ठप्रतियोगिता भवितुं नार्हति) ।

जलत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यताश्रयजलनिष्ठप्रतियोगितानिरूपितानुयोगिताश्रयः अभावः ।
= जलत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यताश्रयजलनिष्ठप्रतियोगितानिरूपकः अभावः ।
अभावनिष्ठानुयोगितानिरूपितजलनिष्ठप्रतियोगितानिष्ठावच्छेद्यतानिरूपितावच्छेदकताश्रयः जलत्वम् ।

चित्रम्
block-beta
columns 5

%% Row 1
tl["अवच्छेदकता"]  space  tm["अवच्छेद्यता"]  space  space

%% Row 2
space:5

%% Row 3
ml["जलत्वम्
(अवच्छेदकम्)"]  space  mm["प्रतियोगिता
(अवच्छेद्या)"]  space  mr["अनुयोगिता"]

%% Row 4
space:5

%% Row 5
space  space  bm["जलम्"]  space  br["अभावः"]

ml-- "निष्ठ" -->tl
tl-- "निरूपित" --> tm
tm-- "आश्रयः" --> mm
bm-- "निष्ठ" --> mm
mm-- "निरूपित" --> mr
mr-- "आश्रयः" --> br
bm -.- ml

style mm fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px

घटत्वाच्छिन्नत्वम्

अत्र द्वे आधेयेते स्तः । तत्र कथं स्पष्टतया प्रतिपादिपादयितुं शक्यते कस्याः चर्चा क्रियते इति?

चित्रम्
block-beta
columns 6

%% Row 1
t1["अधिकरणता"]  space  t2["आधेयता"]  t3["आधेयता"]  space  t4["अधिकरणता"]

%% Row 2
space:6

b1["भूतलम्"]  space  b2["घटः"]  b3["पटः"]  space  b4["भूतलम्"]

b1-- "निष्ठ" -->t1
t1-- "निरूपित" --> t2
t2-- "आश्रयः" --> b2
b4-- "निष्ठ" -->t4
t4-- "निरूपित" --> t3
t3-- "आश्रयः" --> b3

style t2 fill:#ffebee,stroke:#ff8a80,stroke-width:2px
style t3 fill:#ffebee,stroke:#ff8a80,stroke-width:2px

घटनिष्ठाधेयतायाः घटे विद्यमानं घटत्वम् अवच्छेदकम् । एवम् दृश्यते । अधुना स्पष्टतया पृथक् दृश्यते ।

चित्रम्
block-beta
columns 9

%% Row 1
space:2  t2["अवच्छेद्यता"]  space  t3["अवच्छेदकता"]  space:4

%% Row 2
space:9

%% Row 3
m1["अधिकरणता"]  space  m2["आधेयता"]  space  m3["घटत्वम्"] space m4["आधेयता"] space  m5["अधिकरणता"]

%% Row 4
space:9

%% Row 5
b1["भूतलम्"]  space  b2["घटः"] space:3  b4["पटः"]  space  b5["भूतलम्"]

b1-- "निष्ठ" -->m1
m1-- "निरूपित" --> m2
m2-- "आश्रयः" --> b2
m3-- "निष्ठ" -->t3
t3-- "निरूपित" --> t2
t2-- "आश्रयः" --> m2
b5-- "निष्ठ" -->m5
m5-- "निरूपित" --> m4
m4-- "आश्रयः" --> b4
b2 -.- m3

style m2 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
style m4 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px

सांसर्गिकावच्छेदकत्वम्

यदा अवच्छेदकः सम्बन्धः (संसर्गः) वर्तते तदा तन्निष्ठावच्छेदकता सांसर्गिकावच्छेदकता इत्यनेन व्यपदिश्यते ।

ज्ञानम् – संयोगेन भूतलं घटवत् ।

अत्राधेयतायाः अवच्छेदकत्वे द्वे स्तः – घटत्वम्, संयोगसम्बन्धः ।
अस्य निरूपणमेवं भवति – घटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती संयोगनिष्ठसांसर्गिकावच्छेदकतानिरूपितावच्छेद्यतावती या घटनिष्ठाधेयता, तादृशाधेयतानिरूपिताधिकरणाश्रयः भूतलम् ।

चित्रम्
block-beta
columns 7

%% Row 1
t1["अवच्छेदकता
(सांसर्गिकावच्छेदकता)"]  space  t2["अवच्छेद्यता"]  space  t3["अवच्छेद्यता"]  space  t4["अवच्छेदकता"]

%% Row 2
space:7

%% Row 3
m1["संयोगः"]  space  m2["अधिकरणता"]  space  m3["आधेयता"]  space  m4["घटत्वम्"]

%% Row 4
space:7

space:2  b2["भूतलम्"]  space  b3["घटः"]  space:2

m1-- "निष्ठ" -->t1
t1-- "निरूपित" --> t2
t2-- "आश्रयः" --> m3
b2-- "निष्ठ" -->m2
m2-- "निरूपित" --> m3
t3-- "आश्रयः" --> m3
m4-- "निष्ठ" -->t4
t4-- "निरूपित" --> t3
m3-- "आश्रयः" --> b3
m1 -.- b2
m1 -.- b3
b3 -.- m4

style m3 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
style t1 fill:#f5f5f5,stroke:#bdbdbd,stroke-width:2px

%%style t2 fill:#ffebee,stroke:#ff8a80,stroke-width:2px
%%style t3 fill:#ffebee,stroke:#ff8a80,stroke-width:2px

किमर्थं सांसर्गिकावच्छेदकत्वम्?

पूर्वस्मिन् उदाहरणे एकस्याः एव आधेयतायाः द्वे अवच्छेदके । अग्रिमोपस्थापिते ज्ञाने द्वे भिन्ने आधेयते वर्तेते तत्र, सांसर्गिकावच्छेदकेन भिद्येते ते द्वे ।

घटः समवायसम्बन्धेन कपाले वर्तते । अवयवावयविनोः समवायसम्बन्धः (कपालः अवयवः) । वर्तते इति उक्ते सति, आधेयता भवति घटे । तथैव घटः भूतले वर्तते (संयोगसम्बन्धेन), अत्रापि आधेयता घटे आरोपिता । इमे आधेयते भिन्ने इति कथं प्रतिपादयितुं शक्यते? घटत्वेन तु नावच्छिद्येते यतः घटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यताश्रयत्वं द्वयोः आधेययोः विद्यते । पटे विद्यमाना आधेयता, घटे विद्यमानायाः घटत्वेनावच्छिद्यते, किन्तु अत्र तु घटत्वावच्छिनम् आधेयताद्वयमपि! अत्र सांसर्गिकावच्छेदकेन भिद्येते आधेयते । एकत्र समवायनिष्ठसांसर्गिकावच्छेदकतानिरूपितावच्छेद्यतावती अपरा तु संयोगनिष्ठसांसर्गिकावच्छेदकतानिरूपितावच्छेद्यतावती ।

समवायनिष्ठावच्छेदकतानिरूपिका = संयोगावच्छिन्ना

चित्रम्
block-beta
columns 7

%% Row 1
space  t2["अवच्छेदकता"]  space  t3["अवच्छेद्यता"]  space:3

%% Row 2
space:7

%% Row 3
space  r22["घटत्वम्"]  space:5

%% Row 4-5
space:7
space:7

r31["अवच्छेदकता"]  space  r32["अवच्छेद्यता"]  space r33["अवच्छेद्यता"]  space  r34["अवच्छेदकता"]

space:7

space r41["समवायः"]  space:3  r44["संयोगः"] space

space:7
space:7

r51["अधिकरणता"]  space  r52["आधेयता"]  space r53["आधेयता"]  space  r54["अधिकरणता"]

space:7

b1["कपालः"]  space  b234["घटः"]:3  space   b4["भूतलम्"]

r41 -.- b1
r41 -.- b234
r44 -.- b234
r44 -.- b4
r22 -.- b234

r22-- "निष्ठ" -->t2
t2-- "निरूपित" --> t3
t3-- "आश्रयः" --> r52
t3-- "आश्रयः" --> r53
r41-- "निष्ठ" -->r31
r31-- "निरूपित" --> r32
r32-- "आश्रयः" --> r52
r44-- "निष्ठ" -->r34
r34-- "निरूपित" --> r33
r33-- "आश्रयः" --> r53
b1-- "निष्ठ" -->r51
r51-- "निरूपित" --> r52
r52-- "आश्रयः" --> b234
b4-- "निष्ठ" -->r54
r54-- "निरूपित" --> r53
r53-- "आश्रयः" --> b234

style r41 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
style r31 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
style r32 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
style r52 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
style r44 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
style r34 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
style r33 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
style r53 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
style t2 fill:#f5f5f5,stroke:#bdbdbd,stroke-width:2px
style t3 fill:#f5f5f5,stroke:#bdbdbd,stroke-width:2px
style r22 fill:#f5f5f5,stroke:#bdbdbd,stroke-width:2px

आकाशलक्षणम्
आकाशस्य लक्षणेऽपि इयमेव प्रक्रिया । शब्दत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती समवायनिष्ठसांसर्गिकावच्छेदकतानिरूपितावच्छेद्यतावती या शब्दनिष्ठाधेयता, तादृशाधेयतानिरूपिताधिकरणाश्रयः आकाशः । तादृशाधिकरणाताश्रयत्वम् आकाशस्य लक्षणम् ।

अवच्छेदकतानिरूपणम्

अवच्छेदकावच्छेद्यभावस्य निरूपणं त्रिधा भवितुम् अर्हति ।

• विकसितम् । यथा घटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यताश्रयः घटनिष्ठाधेयता ।
चित्रम्
block-beta
columns 3

%% Row 1
tl["अवच्छेदकता"]  space  tr["अवच्छेद्यता"]

%% Row 2
space:3

%% Row 3
bl["घटत्वम्"]  space  br["आधेयता"]

tl-- "निरूपपित" -->tr
tr-- "आश्रयः" -->br
bl-- "निष्ठ" -->tl
• संक्षिप्तम् । यथा घटत्वनिष्ठावच्छेदकतानिरूपिता घटनिष्ठाधेयता ।
चित्रम्
block-beta
columns 3

%% Row 1
tl["अवच्छेदकता"]  space  tr["अवच्छेद्यता"]

%% Row 2
space:3

%% Row 3
bl["घटत्वम्"]  space  br["आधेयता"]

tl-- "निरूपिका" -->br
bl-- "निष्ठ" -->tl

style tr fill:#f5f5f5,stroke:#bdbdbd,stroke-width:2px
• मुकुलितम् । यथा घटत्वावच्छिन्ना घटनिष्ठाधेयता । (घटत्वेन अवच्छिन्ना)
चित्रम्
block-beta
columns 3

%% Row 1
tl["अवच्छेदकता"]  space  tr["अवच्छेद्यता"]

%% Row 2
space:3

%% Row 3
bl["घटत्वम्"]  space  br["आधेयता"]

bl-- "अवच्छिन्न" -->br

style tl fill:#f5f5f5,stroke:#bdbdbd,stroke-width:2px
style tr fill:#f5f5f5,stroke:#bdbdbd,stroke-width:2px

घटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यताश्रयः घटनिष्ठाधेयता ।
= घटत्वनिष्ठावच्छेदकतानिरूपिता घटनिष्ठाधेयता ।
= घटत्वावच्छिन्ना घटनिष्ठाधेयता । (घटत्वेन अवच्छिन्ना)

विषयविषयिभावः

ज्ञानम् आत्मनः गुणः । बुद्धौ ज्ञानं कथं सम्पद्यते इत्यत्र किञ्चित् कल्पितम् ।

ज्ञानम् – भूतले घटः भासते/अवगाहते इति ज्ञानस्य विषयत्रयम् – घटः, भूतलम्, संयोगसम्बन्धः । विषयेषु विषयता अस्ति, ज्ञाने विषयिता अस्ति । अतः अत्र विषयविषयिभावः । घटस्य ज्ञानस्य सम्बन्धः एवं निरूप्यते घटनिष्ठविषयतानिरूपितविषयिताश्रयः ज्ञानम् । किन्तु विषयत्रयम्, तेषां व्यपदेशत्रयं एवं कृतम् । प्रकारताख्या विषयता (घटे), संसर्गताख्या विषयता (संयोगे), विशेष्यताख्या विषयता (भूतले) ।

ज्ञानस्य आकारः – भूतलं संयोगेन घटवत् ।

अत्रावहगाहते / भासते इत्यस्य प्रयोगः । अस्ति इत्युक्ते सति आधाराधाधेयभावः मनसि स्फुरति । विषयविषयिभावे निरूपणकाले भासते, अवगाहते इत्यनयोः प्रयोगः ।

घटत्वावच्छिनघटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानम् । तथैव विषयता ज्ञाननिरूप्या भवति ।

चित्रम्
block-beta
columns 8

%% vishaya
block:Ya:4
columns 2
block:Vishayata
columns 1
H1["विषयः"]
G["घटः"]
space
B["भूतलम्"]
end
block:Vishaya
columns 1
H2["विषयता"]
YaP["प्रकारता"]
YaS["संसर्गता"]
YaV["विशेष्यता"]
end
end

block:Ni:2
columns 1
space
NiP<["निरूपकं"]>(right)
NiS<["निरूपकं"]>(right)
NiV<["निरूपकं"]>(right)
end

block:Gy["ज्ञानम्"]:2
columns 1
H3["विषयिता"]
space
space
space
end

G -.- B

style H1 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
style H2 fill:#f5f5f5,stroke:#bdbdbd,stroke-width:2px
style H3 fill:#ffebee,stroke:#ff8a80,stroke-width:2px

तथैव अन्येषां ज्ञानानां विषये । यथा ज्ञानम् – घटे रूपं भासते । अस्य ज्ञानस्य आकारः – घटः समवायेन रूपवान् (संक्षेपः – रूपी घटः) ।

अन्यत् उदाहरणम् । ज्ञानम् – भूतले रथः, रथे श्रीरामः । अस्य ज्ञानस्य आकारः – भूतलं श्रीरामवत् रथवत् । श्रीरामे प्रकारता, रथः विशेष्यता प्रकारता च, भूतलम् विशेष्यता । श्रीरामे मुख्यप्रकारता (यतः तत्र विशेष्यता नास्ति), भूतले मुख्यविशेष्यता (प्रकारता नास्ति), रथे अन्तराभासमानविषयता ।
प्रकारता विशेष्यता सापेक्षे भवतः । अर्थात् – रथनिष्ठविशेष्यतानिरूपितप्रकारताश्रयः श्रीरामः , श्रीरामनिष्ठप्रकारतानिरूपितविशेष्यताश्रयः रथः ।

सम्पूर्णं ज्ञाननिरूपणम् – श्रीरामत्वावच्छिन्नश्रीरामनिष्ठप्रकारता-निरूपितविष्यताश्रय-रथनिष्ठरथत्वावच्छिन्नप्रकारता-निरूपितभूतलत्वावच्छिन्न-भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम् ।

एवं ज्ञानं विषयेषु विषयविषयिभावेन वर्तते । आत्मनि तु समवायसम्बन्धेन । तस्मात् ज्ञानवान् आत्मा इति आत्मलक्षणं नोक्तम् । घटपटादिषु अतिव्याप्तिः (ज्ञानं तत्रापि वर्तते [भिन्नसम्बन्धेन]!)। अतः ज्ञानाधिकरणः आत्मा ।

विषयता त्रिधा उक्ता । तथैव विषयिताः अपि – प्रकारिताख्या, संसर्गिताख्या, विशेष्यिताख्या ।

कार्यकारणभावः

कार्यकारणभावः = जन्यजनकभावः ।

उदाहरणम् – अतीतादिव्यवहारहेतुः कालः । ज्ञानजनकशब्दप्रयोगः व्यवहारः । घटः आसीद् इत्यादिशब्दप्रयोगेण शाब्दप्रमाख्यां ज्ञानं जायते । अस्य ज्ञानस्य आकारे अतीतत्वं प्रकारविधया भासते, घटः विशेष्यविधया भासते ।
एवं शब्दप्रयोगः सविषयं ज्ञानं प्रति कारणम् । ज्ञानस्य विषयः घटः, तस्य अतीतत्वं च । इदं ज्ञानम् अतीतत्वनिष्ठप्रकारकनिरूपकं ज्ञानम् ।

सम्पूर्णतया एवम् उच्यते – घटनिष्ठविशेष्यतानिरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं यत् ज्ञानं तादृशज्ञाननिष्ठकार्यतानिरूपित-कारणताश्रयशब्दप्रयोगनिष्ठकार्यतानिरूपित-कारणताश्रयः कालः ।

block-beta
columns 9

%% Row 1
t1["अतीतत्वम्"]  space  t2["कार्यता"]  space  t3["कारणता"] space t4["कार्यता"] space  t5["कारणता"]

%% Row 2
space:9

%% Row 3
b1["घटः"]  space  b2["ज्ञानम्"]  space:2  b3["शब्दप्रयोगः"] space:2 b4["कालः"]

b2-- "निष्ठ" -->t2
t2-- "निरूपित" --> t3
t3-- "आश्रयः" --> b3
b3-- "निष्ठ" -->t4
t4-- "निरूपित" --> t5
t5-- "आश्रयः" --> b4
b1-- "निरूपकं" --> b2
t1-- "निरूपकं" --> b2

%%style m2 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
%%style m4 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px

अनुमानम्

• अनुमितिकरणम् अनुमानम् ।
करणम् असाधारणं कारणम् । साधारणानि तु कालदिगित्यादयः भवन्त्येव ।
• परामर्शजन्यं ज्ञानम् अनुमितिः ।
अनुमानम् = परामर्शः ।
परामर्शजन्यत्वे सति ज्ञानम् इति अनुमितिलक्षणम् । दलद्वयम् अत्र अन्येषु ज्ञानेषु अतिव्याप्तिवारणाय (इन्द्रियसन्निकर्षजन्यम् अपि ज्ञानम्) । परामर्शजन्यत्वम् इत्येव उक्ते सति परामर्शध्वंसे अतिव्याप्तिः (ज्ञानादयः क्षणिकाः एव, परेण जातेन ज्ञानेन नश्यति । अवधेयम् - ध्वंसं प्रति प्रतियोगी अपेक्षितः अन्यथा ध्वंसः न शक्यः, तेन परामर्शः परामर्शध्वंसं प्रति कारणीभूतः) ।
• साध्याभावाधिकरणनिरूपितवृत्तित्वाभावः व्याप्तिः ।
• व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः ।
व्याप्तिविशिष्टज्ञानं = व्याप्तिः विषयः यस्मिन् ज्ञाने।
• व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ।

परम्परायाम् उपयुज्यमानाः पर्यायाः

• साध्यम् = लिङ्गी = विधेयः
• पक्षः = उद्देश्यः
• हेतुः = कारणम् = लिङ्गम्

त्रिविधं ज्ञानम्

• केवलं विशिष्टं ज्ञानम् । एकः धर्मी, एकः प्रकारः । घटत्वम् – घटः ।
• समूहालम्बनं ज्ञानम् = नानाविशेष्यतानिरूपकं ज्ञानम् । धर्मिणौ द्वौ, प्रकारद्वयम् । यथा पुष्पवन्तं पदं सूर्यं चन्द्रं च बोधयति ।
• एकत्र द्वयम् । एकः धर्मी, प्रकारद्वयम् । यथा स्वर्गः इति शब्दः सुखत्वविशिष्टं दुःखासम्भिन्नत्वविशिष्टं सुखं बोधयति ।

व्याप्तिः

साध्याभावाधिकरणनिरूपितवृत्तित्वाभावः व्याप्तिः । यत्र यत्र धूमः तत्र तत्र वह्निः इति साहचर्यनियमः व्याप्तिः । साहचर्यनियमो नाम सर्वदा सामानाधिकरण्यम् (धूमस्य । वह्निव्यतिरिके पदार्थे न भवति) ।

साध्याभावाधिकरणनिरूपितवृत्तित्वाभावः इत्यस्य आकारः एवम् वर्तते – (वह्नि-धूमौ अधिकृत्य) धूमः व्याप्तिमान् = वह्न्यभावाधिकरणनिरूपितवृत्तित्वाभाववान् ।
निरूपणम् – साध्यनिष्ठप्रकारतानिरूपित... वृत्तित्वावच्छिनप्रकारता या अभावनिष्ठविशेष्यता तादृशविशेष्यतानिरूपकं ज्ञानं व्याप्तिः ।
सचित्रं एवम् अस्ति –

चित्रम्
flowchart LR
A["साध्यम्
(मुख्यप्रकारता)"]
B["अभावः"]
C["अधिकरणम्"]
D["वृत्तित्वम्
(=आधेयता)"]
E["अभावः"]
F["साधकम्
(मुख्यविशेष्यता)"]

A <-- "प्रकारता/विशेष्यता" --> B
B <-- "प्रकारता/विशेष्यता" --> C
C <-- "प्रकारता/विशेष्यता" --> D
D <-- "प्रकारता/विशेष्यता" --> E
E <-- "प्रकारता/विशेष्यता" --> F

संयोगः, समवायः, इत्यादयः सम्बन्धाः । व्याप्तिः इति साध्यस्य साधकस्य कञ्चन विलक्षणं सम्बन्धं बोधयति । एतं ज्ञात्वा तस्य सम्बन्धवतः (धूमस्य) ज्ञानेन तज्ज्ञाननिरूपकस्य (वह्नेः) अनुमितिः उत्पद्यते ।

पक्षधर्मतायाः आकारः – धूमः (व्याप्यः) प्रकारत्वेन भासते, पर्वतः विशेष्यत्वेन भासते ।

परामर्शस्य आकारः – पर्वतः वह्व्यभावाधिकरणनिरूपितवृत्तित्वाभाववत् धूमवान् । (संक्षिप्तं, व्याप्तिमवलम्ब्य, पर्वतः वह्निव्याप्तिमद् धूमवान् । अथवा पर्वतः वह्निव्याप्यः धूमवान् ।)

पञ्चावयवाः

न्यायशास्त्रानुसारम् अनुमानस्य पञ्चावयवाः –

• प्रतिज्ञा – साध्यनिर्देशः प्रतिज्ञा। (पक्षे साध्यस्य आरोपः वा प्रतिपादनम्)
पर्वतो वह्निमान् ।
• हेतुः – हेतुप्रतिपादनं लिङ्गबोधकवाक्यम्। (साध्यसाधकस्य हेतोः प्रतिपादनम्)।
धूमात् (धूमवत्त्वात्) ।
• उदाहरणम् – व्याप्तिप्रतिपादकं दृष्टान्तसहितं वाक्यम्।
यो यो धूमवान् स स वह्निमान्, यथा महानसम् ।
• उपनयः – पक्षे हेतोः व्याप्त्या विशिष्टस्य पक्षधर्मतायाः प्रतिपादको वाक्यविशेषः। (उभयविधव्याप्तेः पक्षे उपसंहारः)।
तथा चायं धूमवान् (अयमपि पर्वतो धूमवान्)।
• निगमनम् – पञ्चावयवानां संहारेण साध्यस्य उपसंहाररूपं वाक्यम्।
तस्मात् तथा (तस्मात् वह्निमान् पर्वतः)।

हेत्वाभासः

... लेखनीयम् ...