मुखपृष्ठम् · ⬆ उत्तररामचरितम् · ← · →
उत्तररामचरितम् — द्वितीयोऽङ्कः (पञ्चवटीप्रवेशः)¶
(नेपथ्ये)
स्वागतं तपोधनायाः।
(ततः प्रविशत्यध्वगवेषा तापसी)
तापसी – अये! वनदेवता फलकुसुमगर्भेण पल्लवार्घ्येण दूरान्मामुपतिष्ठते ।
उपतिष्ठते = अर्चयति ।
(प्रविश्य)
वनदेवता – (अर्घ्यं विकीर्य)
यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति।
तरुच्छाया तोयं यदपि तपसां योग्यमशनं फलं वा मूलं वा तदपि न पराधीनमिह वः॥२।१॥
तापसी – किमत्रोच्यते ?
प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥२।२॥
अनवगीतः = अनिन्दितः, अनवद्यः । परिचयः = संस्तवः । अविपर्यासितरसं = अन्यूनस्वभावं, स्वाभाविकरसम् । अनुपधि = निर्व्याजम् । रहस्यं = चरितम् । साधूनां = सदाचारपरायणपुरुषाणाम् । विजयते = सर्वोत्कर्षेण वर्तते ।
(उपविशतः)
वनदेवता – कां पुनरत्रभवतीमवगच्छामि ?
तापसी – आत्रेय्यस्मि ।
वनदेवता – आर्ये आत्रेयि! कुतः पुनरिहागम्यते? किम्प्रयोजनो वा दण्डकारण्योपवनप्रचारः?
प्रचारः = सञ्चारः ।
आत्रेयी –
अस्मिन्नगस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथविदो वसन्ति ।
तेभ्योऽधिगन्तुं निगमान्तविद्यां वाल्मीकिपार्श्वादिह पर्यटामि॥२।३॥
उद्गीथविदः = ब्रह्मवेत्तारः । निगमान्तविद्यां = वेदान्तविद्याम् ।
वनदेवता – यदा तावदन्येऽपि मुनयस्तमेव हि पुराणब्रह्मवादिनं प्राचेतसमृषिं ब्रह्मपारायणायोपासते, तत्कोऽयमार्यायाः प्रवासः?
प्राचेतसं = वाल्मीकिम् ।
आत्रेयी – तस्मिन् हि महानध्ययनप्रत्यूह इत्येष दीर्घप्रवासवोऽङ्गीकृतः ।
महानध्ययनप्रत्यूहः = अनल्पपठनविघ्नः ।
वनदेवता – कीदृशः?
आत्रेयी – तस्य भगवतः केनापि देवताविशेषेण सर्वप्रकाराद्भुतं स्तन्यत्यागमात्रे वयसि वर्तमानं दारकद्वयमुपनीतम्। तत्खलु न केवलं तस्य, अपि तु तिरश्चामप्यन्तःकरणानि तत्त्वान्युपस्नेहयति।
उपनीतं = न्यासीकृतं, सन्निधानीकरोति । तिरश्चाम् = मृगाणाम् । उपस्नेहयति = द्रवीकरोति, आर्द्रयन्ति ।
वनदेवता – अपि तयोर्नाम संविज्ञानमस्ति ?
आत्रेयी – तयैव किल देवतया तयोः कुशलवाविति नामनी प्रभावश्चाख्यातः।
वनदेवता – कीदृशः प्रभावः?
आत्रेयी – तयोः किल सरहस्यानि जृम्भकास्त्राण्याजन्मसिद्धानीति ।
वनदेवता – अहो! नु भोश्चित्रमेतत् ।
आत्रेयी – तौ भगवता वाल्मीकिना धात्रीकर्मतः परिगृह्य पोषितौ रक्षितौ च, निवृत्तचौलकर्मणोस्तयोस्त्रयीवर्जमितरास्तिस्रो विद्याः सावधानेन परिनिष्ठापिताः। तदनन्तरं भगवतैकादशे वर्षे क्षात्रेण कल्पेनोपनीय त्रयीविद्यामध्यापितौ। न त्वेताभ्यामतिदीप्तप्रज्ञाभ्यामस्मदादेः सहाध्ययनयोगोऽस्ति । यतः –
धात्रीकर्मतः = उपमातृव्यापारेण । परिगृह्य = स्वीकृत्य । परिनिष्ठापिताः = सम्यङ्निष्पादिताः । निवृत्तचौलकर्मणोः = निष्पन्नचूडासंस्कारयोः ।
वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा।
भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥२।४॥
अपहन्ति = नाशयति ।
वनदेवता – अयमध्ययनप्रत्यूहः?
आत्रेयी – अन्यश्च ।
वनदेवता – अथापरः कः?
आत्रेयी – अथ स ब्रह्मर्षिरेकदा माध्यन्दिनसवनाय नदीं तमसामनुप्रपन्नः। तत्र युग्मचारिणोः क्रौञ्चयोरेकं व्याधेन वध्यमानं ददर्श । आकस्मिकप्रत्यवभासां देवीं वाचमानुष्टुभेन छन्दसा परिणतामभ्युदैरयत् ।
माध्यन्दिनसवनाय = मध्याह्नस्नानाय । व्याधेन = पुलिन्देन । आकस्मिकप्रत्यवभासां = निर्हेतुकाविर्भावाम् । परिणतां = जातपरिणामाम् ।
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥२।५॥
समाः = संवत्सरान् । काममोहितं = कामासक्तचेतसम् ।
वनदेवता – चित्रमाम्नायादन्यो नूतनच्छन्दसामवतारः ।
आम्नायात् = वेदात् ।
आत्रेयी – तेन खलु पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमृषिमुपसङ्गम्य भगवान् भूतभावनः पद्मयोनिरवोचत् – 'ऋषे! प्रबुद्धोऽसि वागात्मनि ब्रह्मणि। तद् ब्रूहि रामचरितम्। अव्याहतज्योतिरार्षं ते चक्षुः प्रतिभातु। आद्यः कविरसि' इत्युक्त्वान्तर्हितः। अथ सः भगवान् प्राचेतसः प्रथमं मनुष्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहासं रामायणं प्रणिनाय।
भूतभावनः = सर्वजगतां समुत्पादकः (भूतेन प्रजाः भावयतीति (उत्पादयति) भूतभावनः) । आविर्भूतशब्दप्रकाशं = प्रादुर्भूतशब्दज्योतिष्कम् । प्रबुद्धः = प्रकृष्टज्ञानवान् । अव्याहतज्योतिः = अप्रतिहतप्रकाशम् । आर्षम् = ऋषिसम्बन्धि, ज्ञानजन्यम् । प्रतिभातु = प्रकाशितं भवतु । अन्तर्हितः = परोक्षतां गतः, प्रच्छन्नोऽभूत् । विवर्तं = परिणामविशेषम् ।
वनदेवता – हन्त! तर्हि मण्डितः संसारः।
आत्रेयी – तस्मादवोचं, तत्र हि महानध्ययनप्रत्यूह इति।
वनदेवता – युज्यते।
आत्रेयी – विश्रान्तास्मि भद्रे! सम्प्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि।
वनदेवता – इतः पञ्चवटीमनुप्रविश्य गम्यतामनेन गोदावरीतीरेण।
आत्रेयी – (सास्रम्) अप्येतत् तपोवनम्। अप्येषा पञ्चवटी। अपि सरिदियं गोदावरी। अप्ययं गिरिः प्रस्रवणः। अपि जनस्थानदेवता वासन्ती त्वम्।
वनदेवता – तथैव तत्सर्वम्।
आत्रेयी – हा वत्से जानकि!
स एष ते वल्लभबन्धुवर्गः प्रासङ्गिकीनां विषयः कथानाम्।
त्वां नामशेषामपि दृश्यमानः प्रत्यक्षदृष्टामिव नः करोति ॥२।६॥
नामशेषाम् = मृताम् । प्रासङ्गिकीनां = प्रसङ्गानुसारेण प्राप्तानाम्, प्रसक्त्यानुप्रसक्त्या जातानाम् । वल्लभबन्धुवर्गः = तपोवनादिप्रियबन्धुसमूहः ।
वासन्ती – (सभयं स्वगतम्) कथं नामशेषामित्याह ? (प्रकाशम्) आर्ये किमत्याहितं सीतादेव्याः।
आत्रेयी – न केवलम् अत्याहितं सापवादमपि (कर्णे) एवमेवम्।
अत्याहितं = प्राणसङ्कटम् (अत्याहितं महाभीतिः कर्म जीवानपेक्षि चेत्यमरः) ।
वासन्ती – अहह! दारुणो दैवनिर्घातः (इति मूर्च्छति)।
दारुणः = भीषणः, कठोरः । दैवनिर्घातः = दैवप्रहारः ।
आत्रेयी – भद्रे! समाश्वसिहि, समाश्वसिहि ।
वासन्ती – हा प्रियसखि! हा महाभागे! ईदृशस्ते निर्माणभागः । हा रामभद्र! अथवा अलं त्वया। आर्ये आत्रेयि! अथ तस्मादरण्यात् परित्यज्य निवृत्ते लक्ष्मणे सीतादेव्याः किं वृत्तमिति काचिदस्ति प्रवृत्तिः?
निर्माणभागः = सृष्टिफलं, जीवनपरिणमिऽभूत् । प्रवृत्तिः = वृत्तान्तः ।
आत्रेयी – नहि नहि।
वासन्ती – हा! कष्टम्। अरुन्धतीवसिष्ठाधिष्ठितेषु रघुकदम्बकेषु जीवन्तीषु च प्रवृद्धासु राज्ञीषु कथमिदं जातम् ?
आत्रेयी – ऋष्यशृङ्गाश्रमे गुरुजनस्तदासीत्। सम्प्रति तु परिसमाप्तं तद्वादशवार्षिकं सत्रम्। ऋष्यशृङ्गेण च सम्पूज्य विसर्जिता गुरवः। ततो भगवत्यरुन्धती नाहं वधूविरहितामयोध्यां गमिष्यामीत्याह । तदेव राममातृभिरनुमोदितम्। तदनुरोधाद्भगवतो वसिष्ठस्य परिशुद्धा वाचो वाल्मीकितपोवनं गत्वा तत्र वत्स्याम इति।
वासन्ती – अथ स राजा किमाचारः सम्प्रति?
किमाचारः = कीदृशव्यापारवान् (कः आचारो यस्य सः) ।
आत्रेयी – तेन राज्ञा क्रतुरश्वमेधः प्रक्रान्तः ।
प्रक्रान्तः = आरब्धः ।
वासन्ती – हा धिक् परिणीतमपि।
आत्रेयी – शान्तं पापम्। नहि नहि।
वासन्ती – का तर्हि यज्ञे सहधर्मचारिणी?
आत्रेयी – हिरण्मयी सीताप्रतिकृतिः ।
वासन्ती – हन्त भोः!
वज्रादपि कठोराणि मृदूनि कुसुमादपि।
लोकोत्तराणां चेतांसि को नु विज्ञातुमर्हति ॥२।७॥
आत्रेयी – विसृष्टश्च वामदेवाभिमन्त्रितो मेध्योऽश्वः उपकल्पिताश्च यथाशास्त्रं तस्य रक्षितारः। तेषामधिष्ठाता च लक्ष्मणात्मजश्चन्द्रकेतुरवाप्तदिव्यास्त्रसम्प्रदायश्चतुरङ्ङ्गसाधनान्वितोऽनुप्रहितः ।
अभिमन्त्रितः = अनुमन्त्रितः, मन्त्रैः संस्कृतः । उपकल्पिताः = नियुक्ताः । अनुप्रहितः = अनुप्रेषितः ।
वासन्ती – (सस्नेहकौतुकास्रम्) कुमारलक्ष्मणस्यापि पुत्रः। हन्त! मातर्जीवामि ।
आत्रेयी – अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडमबह्मण्यमुद्घोषितम्। ततो न राजापचारमन्तरेण प्रजास्वकालमृत्युः सञ्चरतीत्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचरत् –
सोरस्ताडम् = वक्षःस्थलं कराघातैस्ताडयता । उदचरत् = समुद्गता (अत्र उद्+√चर् इति अकर्मकः, सकर्मके सति आत्मनेपदित्वम् – धर्मम् उच्चरते, उल्लङ्घयते इत्यर्थः) ।
शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः।
शीर्षच्छेद्यः स ते राम! तं हत्वा जीवय द्विजम् ॥२।८॥
वृषलः = शूद्रः ।
इत्युपश्रुत्यैवाकृष्टकृपाणपाणिः पुष्पकं विमानमारुह्य सर्वा दिशो विदिशश्च शूद्रतापसान्वेषणाय जगत्पतिः सञ्चरितुमारब्धवान्।
आरब्धवान् = प्राक्रामत् ।
वासन्ती – शम्बूको नाम धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति । तदपि नाम रामभद्रः पुनरपीदं वनमलङ्कुर्यात्।
आत्रेयी – भद्रे! गम्यतेऽधुना।
वासन्ती – आर्ये आत्रेयी! एवमस्तु। कठोरीभूतस्तु दिवसः।
कठोरीभूतः = पूर्णतां गतः (कठोरौ पूर्णकठिनौ इति हैमः) ।
कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन सम्पातिभि- र्घर्मस्रंसितबन्धनैः स्वकुसुमैरर्चन्ति गोदावरीम्।
छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः कूजत्क्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः॥२।९॥
कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन = पिण्डाकारगजकपोलानां कषणेन सङ्घटनया आकम्पेन, कण्डूलानां (कण्डूमतां, कण्डूयुक्तानां) द्विपगण्डपिण्डानाम् कषणं, तेन उत्कम्पः, तेन (गण्डाः पिण्डा इवेति गण्डपिण्डाः) । सम्पातिभिः = पतनशीलैः । र्धर्मस्रंसितबन्धनैः = आतपशिथिलवृन्तैः । अपस्किरमाणः = भक्षार्थे चञ्च्वा भूमिं लिखन्तः (अपस्कॄ = scratch, scrape) । कुलायद्रुमाः = कृतनीडाः । छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः = छायायां अपस्किरमाणाः विष्किराः (विकरतीति, कुक्कुटादयाः), तेषां मुखं, तेन व्याकृष्टाः कीटाः त्वचः (पञ्चमी) येषां ते । कूजत्क्लान्तकपोतकुक्कुटकुलाः = कूजन्तः क्लान्ताश्च कूजत्कलान्ताश्च कपोतकुक्कुटाः, तेषां कुलः येषु ते ।
(इति परिक्रम्य निष्कान्ते)
परिक्रम्य = इतस्ततः किञ्चित् सञ्चर्य (घूम कर)।
॥ इति शुद्धविष्कम्भकः ॥
मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः । शुद्धःस्यात्स तु सङ्कीर्णो नीचमध्यमकल्पितः ॥
(ततः प्रविशति पुष्पकस्थः सदयोद्यतखड्गो रामः)
उद्यतः = उन्नमितः ।
रामः –
रे हस्त दक्षिण! मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् ।
रामस्य गात्रमसि निर्भरगर्भखिन्नसीताविवासनपटोः करुणा कुतस्ते ॥२।१०॥
जीवातवे = जीवयितुं (जीवातुर्स्त्रियां भक्ते जीविते जीवनौषधे इति मेदिनी) । कृपाणं = खड्गम् । निर्भरः = पूर्णः, अत्यधिकः ।
(कथञ्चित् प्रहृत्य) कृतं रामसदृशं कर्म। अपि जीवेत् स ब्राह्मणपुत्रः?
(प्रविश्य)
दिव्यपुरुषः – जयतु जयतु देवः।
दत्ताभये त्वयि यमादपि दण्डधारे सञ्जीवितः शिशुरसौ मम चेयमृद्धिः।
शम्बूक एष शिरसा चरणौ नतस्ते सत्संगजानि निधनान्यपि तारयन्ति ॥२।११॥
ऋद्धिः = दिव्यरूपप्राप्तिस्वरूपा समुन्नतिः ।
रामः – द्वयमपि प्रियं नः। तदनुभूयतामुग्रस्य तपसः फलम्।
यत्रानन्दाश्च मोदाश्च यत्र पुण्याश्च सम्पदः।
वैराजा नाम ते लोकास्तैजसा सन्तु ते शिवाः॥२।१२॥
वैराजाः = ब्रह्मसम्बन्धिनः (लोकाः) ।
शम्बूकः – स्वामिन्! युष्मत्प्रसादादेवैष महिमा, किमत्र तपसा। अथवा महदुपकृतं तपसा ।
अन्वेष्टव्यो यदसि भुवने भूतनाथः शरण्यः मामन्विष्यन्निह वृषलकं योजानानां शतानि ।
क्रान्त्वा प्राप्तः स इह तपसां सम्प्रसादोऽन्यथा तु क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः॥२।१३॥
रामः – किं नाम दण्डेकयम् ? (सर्वतोऽवलोक्य) हा कथम् –
स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झाङ्कृतैनिर्झराणाम्।
एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः सन्दृश्यन्ते परिचितभुवो दण्डकारण्यभागाः ॥२।१४॥
स्निग्धः = मसृणाः (दृष्टिसुभगाः) । भीषणाभोगरूक्षाः = भयावहविस्तारचित्तविक्षोभकराः । गर्ताः = कन्दर्यः, खातानि, अवटाः । मुखरककुभः = प्रतिध्वनितदिशः (मुखराः कुकुभः येषु ते, [आश्रमाः]) । कान्तारः/कान्तारम् = निबिडवनम् ।
शम्बूकः – दण्डकैवैषा। अत्र किल पूर्व निवसता देवेन –
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
त्रयश्च दूषणखरत्रिमूर्धानो रणे हताः॥२।१५॥
येन सिद्धक्षेत्रेऽस्मिन् जनस्थाने मादृशामपि जानपदानामकुतोभयः सञ्चारो जातः।
अकुतोभयः = निर्भयः (नास्ति कुतोऽपि भयं यस्य स)।
रामः – न केवलं दण्डका, जनस्थानमपि।
शम्बूकः – बाढम् । एतानि खलु सर्वभूतरोमहर्षणान्युन्मत्तचण्डश्वापदकुलसङ्कुलगिरिगह्वराणि जनस्थानपर्यन्तदीर्घारण्यानि दक्षिणां दिशमभिवर्तन्ते ।
बाढम् = आम् ।
शम्बूकः – तथाहि –
निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः, स्वेच्छासुप्तगभीरघोरभुजगश्वासप्रदीप्ताग्नयः ।
सीमानः प्रदरोदरेषु विलसत्स्वल्पाम्भसो यास्वयं, तृष्यद्भिः प्रतिसूर्यकैरजगररस्वेदद्रवः पीयते ॥२।१६॥
स्तिमितः = शान्तः (स्तिमितोऽचञ्चलार्द्रयोरिति मेदिनी) । निष्कूजस्तिमिताः = पक्षिकूजनरहिताः शान्ताश्च । प्रोच्चण्डः = अत्युग्रः । स्वनः = शब्दः । अत्युग्रजन्तुशब्दाः । गभीरः = विशालः । घोरः = भयङ्करः । प्रदारोदरेषु = विवराभ्यन्तरेषु, गुहामध्येषु । विलसत्स्वल्पाम्भसः = दृश्यमानाल्पजलाः । सीमानः = प्रान्तभूमयः । प्रतिसूर्यकैः = कृकलासैः, सरड्भिः (सरटः कृकलासः स्यात् प्रतिसूर्यशयानकौ) । स्वेदद्रवः = प्रस्वेदजललवः ।
रामः –
पश्यामि च जनस्थानं भूतपूर्वं खरालयम् ।
प्रत्यक्षानिव वृतान्तान् पूर्वाननुभवामि च ॥२।१७॥
(सर्वतोऽवलोक्य) प्रियारामा हि सर्वथा वैदेह्यासीत् एतानि तानि नाम कान्ताराणि । किमतः परं भयानकं स्यात् ?
प्रियारामाः = उपवनानि । कान्ताराणि = महावनानि ।
(सास्रम्)
त्वया सह निवत्स्यामि वनेषु मधुगन्धिषु।
इतीहारमतैवासौ स्नेहस्तस्याः स तादृशः ॥२।१८॥
आरमत = प्रीतिं प्राप्तवती ।
न किञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥२।१९॥
अपोहति = नाशयति । न किञ्चिदपि कुर्वाणः = दुःखनिवृत्तिहेतुव्यापारलेशशून्यः । द्रव्यं = भव्यवस्तु ।
शम्बूकः – तदलमेभिर्दुरासदैः। अथैतानि मदकलमयूरकण्ठकोमलच्छविभिरवकीर्णानि पर्वतैरविरलनिविष्टनीलबहलच्छायातरुषण्डमण्डितान्यसम्भ्रान्तविविधमृगयूथानि पश्यतु महाभागः प्रशान्तगम्भीराणि मध्यमारण्यकानि।
दुरासदैः = दुर्धर्षैर्दुर्गमैः । अवकीर्णानि = व्याप्तानि । बहलः = सान्द्रः, घनः । यूथम् = सजातीयसमूहः । अविरलं = निबिडम् । निविष्टाः = स्थिताः ।
इह समदशकुन्ताक्रान्तवानीरवीरुत्प्रसवसुरभिशीतस्वच्छतोया वहन्ति ।
फलभरपरिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः॥२।२०॥
समदाः = हर्षयुक्ताः । शकुन्ताक्रान्ताः = पक्षिभिरधितिष्ठिताः । वानीरवीरुधः = वेतसलताः । (तासां) प्रसवैः = पुष्पैः (शकुन्ताश्रयणादुत्कम्पिताभ्यः वेतसलताभ्यः पतितैः पुष्पैः इत्यर्थः) । सुरभीणि = सुवासितानि (जलानि) । मुखराणि = शब्दायमानानि । निर्झरिण्यः = नद्यः ।
अपि च
दधति कुहरभाजामत्र भल्लूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि ।
शिशिरकटुकषायः स्त्यायते सल्लकीनामिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥२।२१॥
कुहरभाजां = गुहावर्तिनां, गुहानिवानिवासिनाम् । अनुरसितेन = अनुरणनेन, प्रतिघोषेण, प्रतिध्वनिना । अम्बूकृतानि = निष्ठीवनशब्दाः, थुत्कारात्मकाः । स्त्यायते (√स्तै स्त्यायति) = वर्द्धते । विकीर्णाः = इतस्ततः पर्यस्ताः । इभदलिताः = गजमर्दिताः । निष्यन्दः = स्वरसद्रवः । गन्धः = आमोदः (गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः इति विश्वः) ।
रामः – (सबाष्पस्तम्भं) भद्र! शिवास्ते पन्थानो देवयानाः। प्रलीयस्व पुण्येभ्यो लोकेभ्यः।
सबाष्पस्तम्भं = उद्गताश्रुनिरोधपूर्वकम् । प्रलीयस्व = विलीनो भव । लोकेभ्यः = लोकान् गन्तुम् (क्रियार्थोपपदस्य च कर्मणि स्थानिनः) ।
शम्बूकः – यावत्पुराणब्रह्मवादिनमगस्त्यऋषिमभिवाद्य शाश्वतं पदमनुप्रविशामि।
अनुप्रविशामि = अनन्तरं प्रवेक्ष्यामि (वर्तमानसामीप्ये लट्) ।
(इति निष्क्रान्तः)
रामः –
एतत्तदेव हि वनं पुनरद्य दृष्टं यस्मिन्नभूम चिरमेव पुरा वसन्तः।
आरण्यकाश्च गृहिणश्च रताः स्वधर्मे सांसारिकेषु च सुखेषु वयं रसज्ञाः ॥२।२२॥
एते त एव गिरयो विरुवन्मयूरास्तान्येव मत्तहरिणानि वनस्थलानि ।
आमञ्जुवञ्जुललतानि च तान्यमूनि नीरन्ध्रनीलनिचुलानि सरित्तटानि ॥२।२३॥
विरुवन्मयूराः = कूजन्नीलकण्ठाः । आमञ्जुवञ्जुललतानि = समन्तात् मनोज्ञाः वेतसलताः येषु, तानि (तटानि) (वञ्जुलः = वेतसः)।
मेघमालेव यश्चायमारादपि विभाव्यते।
गिरिः प्रस्रवणः सोऽयं यत्र गोदावरी नदी ॥२।२४॥
विभाव्यते = विज्ञायते । आराद् = समीपस्थः ।
अस्यैवासीन्महति शिखरे गृध्रराजस्य वासस्तस्याधस्ताद्वयमपि रतास्तेषु पर्णोटजेषु।
गोदावर्याः पयसि विततश्यामलानोकहश्रीरन्तःकूजन्मुखरशकुनो यत्र रम्यो वनान्तः ॥२।२५॥
अनोकहश्रीः = वृक्षशोभा (अनोकहः = वृक्षः, अनसः शकटस्य गतिं हन्तीति अनोकहः । प्रत्राणां मध्ये कूजन्तो गीतपराः पक्षिणः सन्ति) ।
अत्रैव सा पञ्चवटी, यत्र चिरनिवासेन विविधविश्रम्भातिप्रसङ्गसाक्षिणः प्रदेशाः, प्रियायाः प्रियसखी च वासन्ती नाम वनदेवता। किमिदमापतितमद्य रामस्य । सम्प्रति हि –
विश्रम्भाणाम् अतिप्रसङ्गः = स्वैरविलासानाम् अतिविस्तारः ।
चिराद्वेगारम्भी प्रसृत इव तीव्रो विषरसः कुतश्चित् संवेगात् प्रचल इव शल्यस्य शकलः।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनर्घनीभूतः शोको विकलयति मां मूर्च्छयति च ॥२।२६॥
वेगारम्भी = जवेन आरम्भः प्रक्रिया विद्यते अस्य इति तथोक्तः । प्रसृतः = शरीरावयवेषु व्याप्तः । विषरसः = विषद्रवः, तत्सदृशः । संवेगात् = आवेगात् । शल्यस्य = बाणाग्रस्य । शकलः = खण्डः । रूढग्रन्थिः = विरोपितः । स्फुटितः = विदलितः । घनीभूतः = गाढतामापन्नः । विकलयति = विकलं करोति । मूर्च्छयति = सम्मोहयति ।
तथापि तान् पूर्वसुहृदो भूमिभागान् पश्यामि। (निरूप्य) अहो! अनवस्थितो भूमिसन्निवेशः। तथा हि –
भूमिसन्निवेशः = भूभागानां विन्यासः, अवस्थानम् ।
पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्।
बहोर्दृष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं दृढयति ॥२।२७॥
पुलिनम् (पुलिनः) = तटम् । विपर्यासं = वैपरीत्यम् । क्षितिरुहां = वृक्षाणाम् । निवेशः = अवस्थानम् ।
रामः – हन्त! परिहरन्तमपि मामितः पञ्चवटीस्नेहो बलादाकर्षतीव।
(सकरुणम्)
यस्यां ते दिवसास्तया सह मया नीता यथा स्वे गृहे यत्सम्बन्धिकथाभिरेव सततं दीर्घाभिरास्थीयत ।
एकः सम्प्रति नाशितप्रियतमस्तामद्य रामः कथं पापः पञ्चवटीं विलोकयतु वा गच्छत्वसम्भाव्य वा ॥२।२८॥
आस्थीयत = स्थितम् । नाशितप्रियतमः = विनाशितदयितः । असम्भाव्य = अनादृत्य ।
शम्बूकः – जयतु जयतु देवः। देव! भगवानगस्त्यो मत्तः श्रुतभवत्सन्निधानस्त्वामाह – परिकल्पितविमानावतरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा सर्वे च महर्षयः। तदेहि सम्भावयास्मान्। अथ प्रजविना पुष्पकेण स्वदेशमुपगम्याश्वमेधाय सज्जो भविष्यसीति ।
सन्निधानम् = समीपावस्थानम् । परिकल्पितं = सज्जीकृतम् । सम्भावय = सम्मानय । प्रजविना = समधिकवेगशालिना । सज्जः = तत्परः ।
रामः – यथाज्ञापयति भगवान्।
शम्बूकः – इतस्तर्हि देवः प्रवर्तयतु पुष्पकम्।
प्रवर्तयतु = चालयतु ।
रामः – (पुष्पकं प्रवर्तयन्) भगवति पञ्चवटि! गुरुजनोपरोधात् क्षणं क्षम्यतामयमतिक्रमो रामस्य ।
उपरोधः = अनुरोधः । अतिक्रमः = उल्लङ्घनम् ।
शम्बूकः – देव! पश्य पश्य –
कूजत्कुञ्जकुटीर कौशिकघटाघूत्कारवत्कीचकस्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चावतोऽयं गिरिः।
एतस्मिन् प्रचलाकिनां प्रचलतामुवेजिताः कूजितैरुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्भीनसाः॥२।२९॥
कुञ्जाः = लतादिपिहितस्थानानी । कौशिकाः = उलूकाः । कीचकाः = वेणुविशेषाः (कीचका वेणवस्ते स्युर्ये स्वनत्यनिलोद्धताः इत्यमरः) । स्तम्बाः = काण्डाः । आडम्बरेण = तुमुलध्वनिना । मौकुलिकुलानि = काकसमूहः । प्रचालिकानां = मयूराणाम् । कूजितैः = केकाभिः । कुम्भीनसाः = भयङ्करसर्पविशेषाः । रोहिणतरवः = चन्दनद्रुमाः । स्कन्धेषु = (तेषां चन्दनतरूणां) प्रकाण्डदेशेषु ।
अपि च –
एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दाक्षिणाः।
अन्योन्यप्रतिघातसङ्कुलचलत्कल्लोलकोलाहलैरुत्तालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः ॥२।३०॥
गदगदम् = अव्यक्तम् । नदन्ति = शब्दायमानानि । आलम्बिताः = आक्रान्ताः । मौलयः = अग्रभागाः । क्षोणीभृतः = पर्वताः (क्षोणीं पृथ्वीं बिभ्रति धारयन्तीति क्षोणीभृतः पर्वताः) । प्रतिघातेन = सङ्घर्षेण । सङ्कुलाः = निबिडाः । कल्लोलाः = महातरङ्गाः । कोलाहलैः = कलकलशब्दैः । उत्तालाः = मुखराः विकराला वा । गभीरपयसः = अगाधजलाः ।
(इति निष्क्रान्तौ)
॥ इति द्वितीयोऽङ्कः ॥