| अवच्छेदकः | अन्यूनातिवृत्तिधर्मोऽवच्छेदकः । | रसगङ्गाधरः — प्रथममाननम् — काव्यलक्षणम् |
| आकाङ्क्षा | प्रतिपत्तुः जिज्ञासा (त०भा०)। | काव्यप्रकाशः — द्वितीयः उल्लासः |
| प्रतीतिपर्यवसानविरहः आकाङ्क्षा (सा०द०)। | काव्यप्रकाशः — द्वितीयः उल्लासः |
| परिकरश्लोकः | उपस्थापितस्य सिद्धान्तस्य सविस्तरोक्तिः | ध्वन्यालोकः — प्रथम उद्योतः — कारिका १३ (ध्वनिलक्षणम्) |
| प्रतिभा | अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा (लोचनम्) | ध्वन्यालोकः — प्रथम उद्योतः — कारिका ६ (प्रतिभाविशेषः) |
| नवनवोन्मेषशालिनी (काव्यमीमांसा) | ध्वन्यालोकः — प्रथम उद्योतः — कारिका ६ (प्रतिभाविशेषः) |
| कारयित्री भावयित्री प्रतिभा (राजशेखरः) | ध्वन्यालोकः — प्रथम उद्योतः — कारिका ६ (प्रतिभाविशेषः) |
| शक्तिः कवित्वबीजरूपसंस्कारविशेषः (मम्मटः) | ध्वन्यालोकः — प्रथम उद्योतः — कारिका ६ (प्रतिभाविशेषः) |
| भक्तिः | भज्यते सेव्यते पदार्थेन प्रसिद्धतयोत्प्रेक्ष्यते इति भक्तिर्धर्मोऽभिधेयेन सामीप्यादिः । | ध्वन्यालोकः — प्रथम उद्योतः — कारिका १ |
| भाक्तः | अभिधाव्यापारजन्यप्रतिपत्तिविषयस्य मुख्यार्थस्य पदान्तरेण साकमन्वयतात्पर्यस्य बाधे, तत्सम्बन्धे, रूढितः प्रयोजनाद्वा, अन्योऽर्थो गुणवृत्तया प्रतीतिविषयो भवति सोऽर्थः भाक्तः । | ध्वन्यालोकः — प्रथम उद्योतः — कारिका १ |
| महाकविः | प्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाक् । | ध्वन्यालोकः — प्रथम उद्योतः — कारिका ४ (प्रतीयमानार्थः) |
| योग्यता | पदार्थानां परस्परसंसर्गे बाधाभावः (तर्क०) । | काव्यप्रकाशः — द्वितीयः उल्लासः |
| अर्थबाधाविरहस्तु योग्यता (सा०द०) । | काव्यप्रकाशः — द्वितीयः उल्लासः |
| रमणीयता | लोकोत्तराह्लादजनकज्ञानगोचरता। | रसगङ्गाधरः — प्रथममाननम् — काव्यलक्षणम् |
| लावण्यम् | मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभातियदङ्गेषु तल्लावण्यमिहोच्यते ॥ | ध्वन्यालोकः — प्रथम उद्योतः — कारिका ४ (प्रतीयमानार्थः) |
| सङ्ग्रहश्लोकः | सविस्तरं लिखितस्य विषयस्य सङ्ग्रहः | ध्वन्यालोकः — प्रथम उद्योतः — कारिका १३ (ध्वनिलक्षणम्) |
| सन्दर्भः | विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं विदुः ॥ | रसगङ्गाधरः — प्रथममाननम् — मङ्गलाचरणम् |
| सन्निधिः | अव्यवधानेन अन्वयप्रत्योग्युपस्थितिः (तर्क०) । | काव्यप्रकाशः — द्वितीयः उल्लासः |
| पदानाम् अव्यवधानं सन्निधिः (आसत्तिः वा) (सा०द०) । | काव्यप्रकाशः — द्वितीयः उल्लासः |