सामग्रीं त्यजन्तु

रसगङ्गाधरः — प्रथममाननम् — काव्यलक्षणम्

काव्यलक्षणम्

काव्यलक्षणनिरूपणम्

तत्र कीर्तिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्तेः कविसहृदययोरावश्यकतया गुणालङ्कारादिभिर्निरूपणीये तस्मिन् विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते -

रमणीयार्थप्रतिपादकः शब्दः काव्यम्।

  • रमणीयः – लौकिकवाक्येषु अतिव्याप्तिवारणाय ।
  • अर्थः – व्याकरणशास्त्रे अतिव्याप्तिवारणाय । (तत्रापि वर्णविन्यासशब्दः)
  • प्रतिपादकः – वाचकलक्षकव्यञ्जकेषु अतिव्याप्तिवारणाय ।
  • शब्दः – कटाक्षादिचेष्टासु अतिव्याप्तिवारणाय ।

  • अन्यूनातिवृत्तिधर्मोऽवच्छेदकः । ↗

रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता। ↗ लोकोत्तरत्वं चाह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः। कारणं च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसन्धानात्मा। 'पुत्रस्ते जातः', 'धनं ते दास्यामि' इति वाक्यार्थधीजन्यस्याह्लादस्य न लोकोत्तरत्वम्। अतो न तस्मिन् वाक्ये काव्यत्वप्रसक्तिः।

  • रमणीयता = लोकोत्तराह्लादजनकज्ञानगोचरता।
    • गोचरता = विषयता ।
    • लोकोत्तरह्लादजनकं ज्ञानं, तस्य गोचरता । (अलौकिकानन्दजनकस्य ज्ञानस्य विषयता)
  • लोकोत्तरत्वम् = आह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः।
    • 🤔 निरूपणं कथम्? चमत्कारत्वनिष्ठप्रकारतानिरूपित-आह्लाद-निष्ठविशेष्यतानिरूपकानुभववृत्तिविषयिता, तन्निरूपितविषयतानिरूपितज्ञाप्यता-वत्त्वम्???
    • आह्लादगतः (आह्लादनिष्ठः)
    • चमत्कारत्वापरपर्यायः (चमत्कारत्वम् अपरपर्यायः यस्य सः) । लोकोत्तरत्वम् = चमत्कारत्वम् ।
    • अभुभवसाक्षी (सहृदयानुभवगम्यः) जातिविशेषः । सचेतसाम् अनुभव एव प्रमाणम् ।
    • 🤔 कारणं च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसन्धानात्मा। इति लिखितमेव, तर्हि कथं समूहावलम्बनज्ञाने अतिव्याप्तिः? मन्ये, लक्षणे नास्ति इति कारणात् अतिव्याप्तिः (यद्यपि व्याख्याने तु विद्यते) ।
  • तादृशलोकोत्तरात्वावच्छिन्नस्य आह्लादकस्य जनकं यज्ज्ञानं, तस्य विषयता रमणीयता ।

प्रसक्तिः = आपत्तिः ।

कारणं च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसन्धानात्मा।

  • तदवच्छिन्नम् (कारणम्) = लोकोत्तरत्वावच्छिन्नं कार्यं यस्मिन् (कारणम्) ।
  • अनुसन्धानम् = चर्वणारूपव्यापारः ।

भावनाविशेषः = ज्ञानधारा ।

चित्रम्
block-beta
    columns 5

    space h1["<span style='color:#FF0000'><b>काव्यम्</b></span>"] space:3
    style h1 fill:none,stroke:none


    t61["प्रतिपाद्यता"] space t62["प्रतिपादकता"] space:2
    space:5
    t51["रमणीयतार्थः"] space t52["शब्दः"] space:2
    space:5
    style t52 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    style t51 fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px

    t51-- "निष्ठ" -->t61
    t61-- "निरूपित" --> t62
    t62-- "आश्रयः" --> t52
    t51 -. "प्रतिपादकः" .-> t52

    space:2 h2["<span style='color:#FF0000'><b>रमणीयतार्थः</b></span>"] space:2
    style h2 fill:none,stroke:none

    %% Row 1
    %%space:4 o["भावनाविशेषः"]
    %%space:5
    %%t1["लोकोत्तरत्वम्"]  space:4  t2["कार्यता"]  space t4["कारणता"]
    t1["लोकोत्तरत्वम्"]  space r23["जन्यता"] space r24["जनकता"]
    space:5
    space r21["आह्लादः"] space:2 r34["ज्ञानम्"]
    space:5
    space:2 r52["रमणीयतार्थः"] space:2
    space:5
    space:2 r42["विषयता"] space r44["विषयिता"]


    %%o-- "निष्ठ" -->t4
    %%t4-- "निरूपित" --> t2
    %%t2 -- "आश्रयः" --> r21
    t1 -. "अवच्छिन्नः" .-> r21
    r21-- "निष्ठ" -->r23
    r23-- "निरूपित" --> r24
    r24-- "आश्रयः" --> r34
    r34-- "निष्ठ" -->r44
    r44-- "निरूपित" --> r42
    r42-- "आश्रयः" --> r52

    r21-. "जनकम्" .->r34
    r34-. "विषयः" .-> r52


    %%b2 -.- m3

    style r52 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    %%style o fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    %%style t1 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
    %%style r51 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
    %%style r51 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    style r34 fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px
    style r21 fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px
    style t1 fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px

प्रथमः परिष्कारः

इत्थं च चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वम् (काव्यत्वम्) ।

ज्ञानपदम् अपसार्य भावनाविषयः इति निवेशितम् (समूहालन्बनज्ञाने अतिव्याप्तिवारणाय) ।

  • 🤔 शून्यं वासगृहम् अस्य उदाहरणं टीकासु समूहालम्बनज्ञानप्रसङ्गे । कोऽर्थः, कः प्रसङ्गः?
  • 🤔 समूहालम्बनज्ञानस्य उदाहरणानि । धर्मिद्वयं यत्र । अतः अनेकविशेषणयुक्तः कश्चन शब्दः?

पू०प० – एकस्मिन् क्षणे एव समूहालम्बनज्ञानं मास्तु, धारायामेव भवतु !

चित्रम्
block-beta
    columns 5

    space:2 r23["जन्यता"] space r24["जनकता"]
    space:5
    space:2 r31["चमत्कारः"] space r34["भावना"]
    space:5
    r61["प्रतिपादकता"] space r62["प्रतिपाद्यता"] space:2
    space:5
    r51["शब्दः"] space r52["अर्थः"] space:2
    space:5
    space:2 r42["विषयता"] space r44["विषयिता"]


    r31-- "निष्ठ" -->r23
    r23-- "निरूपित" --> r24
    r24-- "आश्रयः" --> r34
    r34-- "निष्ठ" -->r44
    r44-- "निरूपित" --> r42
    r42-- "आश्रयः" --> r52
    r52-- "निष्ठ" -->r62
    r62-- "निरूपित" --> r61
    r61-- "आश्रयः" --> r51

    r31-. "जनिका" .->r34
    r34-. "विषयः" .-> r52
    r52-. "प्रतिपादकः" .-> r51

    %%b2 -.- m3

    style r31 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    style r51 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    style r34 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
    %%style r51 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    %%style r34 fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px
    style r52 fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px
    %%style r52 fill:#e8f5e9,stroke:#2e7d32,stroke-width:1.5px

द्वितीयः परिष्कारः

यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनकतावच्छेदकं तत्त्वम् (तत्त्वम् = शबदत्वम् = काव्यम्) ।

  • अत्र चमत्कारजनकतावच्छेदकत्वं यतः चमत्कारः नानाकारणैः जायते (यथा इन्द्रजालः)
चित्रम्
block-beta
    columns 7


    m1["प्रतिपादकता"]  space  m2["प्रतिपाद्यता"] space  m3["विषयता"] space m4["विषयिता"]
    space:7
    b1["शब्दः"]  space:2  b2["अर्थः"] space:2  b4["भावना"]
    b1 -. "प्रतिपादितः" .-> b2
    b2 -. "विषयिका" .-> b4

    style b1 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    style b2 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
    style b4 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px

    space:7
    space:2 r32["जन्यता"]  space  r33["जनकता"] space:2
    %%style r33 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
    style r33 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
    space:7
    space:2 r42["चमत्कारः"] space:3  r44["भावनात्वम्"]
    style r44 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
    style r42 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    %%style r43 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
    space:7
    space:4  r53["अवच्छेद्यता"]  space  r54["अवच्छेदकता"]

    b1-- "निष्ठ" -->m1
    m1-- "निरूपित" --> m2
    m2-- "आश्रयः" --> b2
    b2-- "निष्ठ" -->m3
    m3-- "निरूपित" --> m4
    m4-- "आश्रयः" --> b4

    r42-- "निष्ठ" --> r32
    r32-- "निरूपित" --> r33
    r33-- "आश्रयः" --> b4
    r33 -. "अवच्छेदकम्" .-> r44
    b4 -. "समवायः" .- r44

    %% Arrow color change
    r33-- "निष्ठ" --> r53
    r53-- "निरूपित" --> r54
    r54-- "आश्रयः" -->r44

    %%style m4 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px

दोषः

  • यत्तदित्यादिपदानां अननुगतदोषः ।
  • लक्ष्यातावच्छेदकस्य गौरवम् ।
    • चमत्कारनिष्ठजन्यतानिरूपितजनकताश्रयभावनाविशेषावच्छेदकावच्छिन्नविषयीभूतार्थनिष्ठप्रतिपादितानिरूपितप्रतिपादकताश्रयः शब्दत्वम् काव्यत्वम् ।

तृतीयः परिष्कारः

स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण चमत्कारत्ववत्त्वमेव वा काव्यत्वम् इति फलितम्।

  • चमत्कारत्वम् इति नित्यजातिः नास्ति वस्तुतया । औपाधिकधर्मः एव । तस्मात् चमत्कारत्वं अन्येषु पदार्थेष्वपि भवितुमर्हति (चमत्कारे तु समवायसम्बन्धेन किन्तु भावनादिषु अन्यसम्बन्धेन) ।
  • चमत्कारत्ववत् = चमत्कारत्वजनकतायाः आश्रयीभूतः (अर्थः) । कथम्? इति संसर्गता उच्यते ...।
  • स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण (अत्र चमत्कारत्वस्य शब्दस्य च सम्बन्धः उच्यते, स्व- इत्यनेन परम्परागतसम्बन्धः इति स्पष्टम्) ।
    • स्वविशिष्टः भवति चमत्कारः (स्वम् = चमत्कारत्वम्, तद्विशिष्टः चमत्कारः) ।
    • ~ यः अर्थः चमत्कारत्वं जनयति (नान्यः अर्थः) ।
चित्रम्
block-beta
    columns 8

    space:2 h1["<span style='color:#FF0000'><b><u>काव्यम्</u></b></span>"] space:5
    style h1 fill:none,stroke:none
    space:8

    t11["चमत्कारत्वम्"]  space:2  t12["चमत्कारत्ववत्त्वम्"] space:4
    space:8
    b11["चमत्कारः"]  space:2  b12["चमत्कारत्ववान्"] space:4
    space:8

    t11 -- "समवायः" --- b11
    t12 -- "समवायः" --- b12
    b11 -. "स्वरूपसम्बन्धः" .- b12
    style t12 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px



    %%style b1 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    %%style b2 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
    %%style b4 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px

    space:3 h2["<span style='color:#FF0000'><b><u>संसर्गः ?</u></b></span>"] space:4
    style h2 fill:none,stroke:none
    space:5 t4["प्रतिपाद्यता"]  space  t5["प्रतिपादकता"]
    t1["चमत्कारत्वम्"] space:7
    space r32["जन्यता"]  space  r33["जनकता"] space:3 r35["शब्दः"]
    space:8
    space r42["चमत्कारः"] space:3  r44["अर्थः"] space:2

    t1 -. "स्वविशिष्ट" .-> r42
    r44 -- "निष्ठ" --> t4
    t4-- "निरूपित" --> t5
    t5-- "आश्रयः" --> r35
    r44 -. "प्रतिपादकः" .-> r35

    %%style r33 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
    style r33 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px
    style r44 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px


    style r35 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
    style t1 fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px
    %%style r43 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px

    space:8
    space:3  r53["अवच्छेद्यता"]  space  r54["अवच्छेदकता"] space:2

    %%b2-- "निष्ठ" -->m3
    %%m3-- "निरूपित" --> m4
    %%m4-- "आश्रयः" --> b4

    r42-- "निष्ठ" --> r32
    r32-- "निरूपित" --> r33
    %%r33-- "आश्रयः" --> b4
    r33 -. "अवच्छेदकम्" .-> r44
    %%b4 -. "समवायः" .- r44

    %% Arrow color change
    r33-- "निष्ठ" --> r53
    r53-- "निरूपित" --> r54
    r54-- "आश्रयः" -->r44

    %%style m4 fill:#e6f2ff,stroke:#85b5e3,stroke-width:2px

मम्मटमतखण्डनम्

विशेष्यखण्डनम्

यत्तु प्राञ्चः अदोषौ सगुणौ सालङ्कारौ शब्दार्थौ काव्यम् इत्याहुः, तत्र विचार्यते - शब्दार्थयुगलं न काव्यशब्दवाच्यम्, मानाभावात्। काव्यमुच्चैः पठ्यते, काव्यादर्थोऽवगम्यते, काव्यं श्रुतमर्थो न ज्ञातः, इत्यादिविश्वजनीनव्यवहारतः प्रत्युत शब्दविशेषस्यैव काव्यपदार्थत्वप्रतिपत्तेश्च।

  • व्यावहरेण काव्यम् इत्यस्य अर्थः शब्दः एव, न तु शब्दार्थौ ।

व्यवहारः शब्दमात्रे लक्षणयोपपादनीय इति चेत्

स्यादप्येवम्, यदि काव्यपदार्थतया पराभिमते शब्दार्थयुगले काव्यशब्दशक्तेः प्रमापकं दृढतरं किमपि प्रमाणं स्याद्। तदेव तु न पश्यामः।

  • विमतवाक्यं त्वश्रद्धेयमेव। इत्थं चासति काव्यशब्दस्य शब्दार्थयुगलशक्तिग्राहके प्रमाणे, प्रागुक्ताद् व्यवहारतः शब्दविशेषे सिद्ध्यन्तीं शक्तिं को नाम निवारयितुमीष्टे। एतेन विनिगमनाभावादुभयत्र शक्तिरिति प्रत्युक्तम्। तदेवं शब्दविशेषस्यैव काव्यपदार्थत्वे सिद्धे तस्यैव लक्षणं वक्तुं युक्तम्, न तु स्वकल्पितस्य काव्यपदार्थस्य। एषैव च वेदपुराणादिलक्षणेष्वपि गतिः। अन्यथा तत्रापीयं दुरवस्था स्याद्।

भवतु, तर्हि अभिधाशक्तिद्वारा शब्दार्थौ इत्यर्थः भवतु, किन्तु व्यवहारं समर्थयितुं शब्दः इति अर्थः लक्षणया स्वीक्रियताम् ।
तथापि कर्तुं न शक्यते, प्रथमं तावत् अस्य अभिधाशक्तिप्रतिपादितार्थः शब्दार्थौ इत्यत्र न किमपि प्रमाणम्! लक्षणया अर्थः तदावगम्यते यदा मुख्यार्थबाधः, नात्र किमपि प्रमाणं यत् काव्यं नाम शब्दार्थौ ।
मुख्यार्थः सामीप्यादिद्वारा निश्चीयते, तत्र आप्तवाक्यमपि अन्तर्भूतम् । मम्मटः आप्तः, इति अङ्गीक्रियते चेत् आप्तवाक्यद्वारा अभिधया शब्दार्थौ इति निष्पद्यते ।

  • न । विमतम् इति । विमतम् आप्तेन स्वीक्रियते चेत् तेन (अपरमतीयेन जनेन, यः वादं करोति) यत्किमप्युच्यते तत् सर्वं प्रमाणमेव!

यत्त्वास्वादोद्बोधकत्वमेव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्टमित्याहुः,

तन्न।

  • रागस्यापि रसव्यञ्जकताया ध्वनिकारादिसकलालङ्कारिकसम्मतत्वेन प्रकृते लक्षणीयत्वापत्तेः।
  • किं बहुना नाट्याङ्गानां सर्वेषामपि प्रायशस्तथात्वेन तत्वापात्तिर्दुर्वारैव। एतेन रसोद्बोधसमर्थस्यैवात्र लक्ष्यत्वमित्यपि परास्तम्।
  • अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोर्व्यासक्तम्, प्रत्येकपर्याप्तं वा। नाद्यः। एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापत्तेः। न द्वितीयः। एकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तेः।

तस्माद् वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता।

शब्दोऽर्थश्च यदि अर्थः तर्हि उपायद्वयमेव –

  • व्यासक्तम् – द्वित्वादि । एवं चेत् युगपत् द्वौ काव्यनिष्ठौ स्याताम् । तर्हि काव्यं श्रुतम्, अर्थः नावगतः इति न सङ्गच्छते । यतः एकस्य कृते काव्यम् इति वक्तुं न शक्यते यथा अयं द्वौ इति वक्तुं न शक्यते ।
  • प्रत्येकपर्याप्तम् – एवं चेत् शब्दनिष्ठः अर्थनिष्ठः च स्वातन्त्र्येण भवितुम् अर्हति । तथा चेत् काव्यं नाम शब्दकाव्यम्, अर्थकाव्यम् इति द्वयमपि भवेत् ।

विशेषणखण्डनम्

लक्षणे गुणालङ्कारादिनिवेशोऽपि न युक्तः।

  • उदितं मण्डलं विधोः इति काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरितेऽभिसरणविधिनिषेधजीवनाभावादिपरे गतोऽस्तमर्कः इत्यादौ चाव्याप्त्यापत्तेः।

एकमेव वाक्यं व्यञ्जनया व्यतिरिक्तम् अर्थं बोधयति (अर्थं च वक्तृवैशिष्ट्येन भिद्यते) । अत्र गुणालङ्कारौ न स्तः, तथापि काव्यमिदम् । अतः उक्ते लक्षणे अव्याप्तिदोषः ।

  • न चेदम् अकाव्यमिति शक्यं वदितुम्। काव्यतया पराभिमतस्यापि तथा वक्तुं शक्यत्वात्। काव्यजीवितं चमत्कारित्वं चाविशिष्टमेव।
  • गुणत्वालङ्कारत्वादेरननुगमाच्च।
  • अन्यच्च, गुणत्वम्, अलङ्कारत्वम् अननुगतदोषयुक्तौ (🤔) ।

दुष्टं काव्यमिति व्यवहारस्य बाधकं विना लाक्षणिकत्वायोगाच्च।

अदोषौ इति विशेषणम् । किन्तु दोषयुक्तमपि काव्यं भवति, व्यवहारः प्रमाणम् – दुष्टं काव्यमिति ।

न च संयोगाभाववान् वृक्षः संयोगीतिवदंशभेदेन दोषरहितं दुष्टमिति व्यवहारे बाधकं नास्तीति वाच्यम्। 'मूले महीरूहो विहङ्गमसंयोगी, न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न काव्यमिति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहादव्याप्यवृत्तिताया अपि तस्यायोगात्। शौर्यादिवदात्मधर्माणां गुणानाम्, हारादिवदुपस्कारकाणामलङ्काराणां च शरीरघटकत्वानुपपत्तेश्च।

यथा अव्याप्तसंयोगः तथात्र न वक्तव्यम् । मूले पक्षिसंयोगवान् वृक्षः, न शाखायाम् इति व्यवहारः । तथा काव्ये तु न दृश्यते – पूर्वार्धे काव्यं नोत्तरार्धे इति ।
शब्दार्थौ अलङ्कारवत् भवतः यथा हारादयः, न तु शौर्यादिवद् (आत्मधर्मगुणः)।

रसवदेव काव्यम् इत्यस्य खण्डनम्

यत्तु 'रसवदेव काव्यम्' इति साहित्यदर्पणे निर्णीतम्, तन्न। वस्त्वलङ्कारप्रधानानां काव्यानामकाव्यत्वापत्तेः। न चेष्टापत्तिः, महाकविसंप्रदायस्याकुलीभावप्रसङ्गात्। तथा च जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर्वर्णितानि कपिबालादिविलसितानि च।

केवलं रसः इत्येव काव्यं चेत् महाकविभिः यत्र प्रकृतिवर्णनं नदीवर्णनं कृतं तस्य अकाव्यत्वं स्यात् ।

न च तत्रापि यथाकथञ्चित् परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम्। ईदृशरसस्पर्शस्य 'गौश्चलति', 'मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात्। अर्थमात्रस्य विभावानुभावव्यभिचार्यन्यतमत्वादिति दिक्।

परम्परया (विभावादिद्वाराः कथञ्चित् रसनिष्पत्तेः कारणानि) इति चेत् सर्वमपि लौकिकं वाक्यं काव्यं स्यात्!