सामग्रीं त्यजन्तु

स्वप्नवासवदत्तम् — चतुर्थोऽङ्कः

(ततः प्रविशति विदूषकः)
विदूषकः – ( सहर्षम्) भोः! दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलरमणीयः कालो दृष्टः । भोः! को नाम एतत् जानाति – तादृशे वयमनर्थसलिलावर्ते प्रक्षिप्ताः पुनरुन्मङ्क्ष्याम इति। इदानीं प्रासादेषूष्यते, अन्तःपुरदीर्घिकासु स्नायते, प्रकृतिमधुरसुकुमाराणि मोदकखाद्यानि खाद्यन्ते, इत्यनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोषः, ममाहारः सुष्ठु न परिणमति, सुप्रच्छदनायां शय्यायां निद्रां न लभे। यथा वातशोणितमभित इव वर्तत इति पश्यामि। भो! सुखं नामयपरिभूतमकल्यवर्तं च।

अनर्थसलिलावर्ते = सङ्कटजलभ्रमे । प्रक्षिप्ताः = राज्याऽपहृतिः वासवदत्तादाहादिरूपे निपातिताः । उन्मक्ष्यामः = उन्मुक्ता भविष्यामः, पद्मावतीपरिणयादिना आश्वस्ता भविष्याम इति भावः । अनर्थसलिलावर्तादुन्मज्जनं प्रतिपादयति । अनप्सरःसंवासः = अप्सरःसहवासरहितः । उत्तरकुरुवासः = देवभूमिविशेषनिवासः । न परिणमति = परिपाकं न गच्छति । सुप्रच्छदनायां = शोभनास्तरणयुक्तायाम् । शय्यायां = कशिपौ । निन्द्रां = स्वापं । न लभे = न प्राप्नोमि । अभितः = स्वस्थानमुभयत इति भावः । वातशोणितं = तदाख्यो रोगः, यत्र वातजं दुष्टं शोणितं भवति । आमयपरिभूतं = रोगाक्रान्तम् । अकल्यवर्तं च = प्रातर्भोजनाऽभावः ।

(ततः प्रविशति चेटी)
चेटी – कुत्र नु खलु गत आर्यवसन्तकः ? ( परिक्रम्य अवलोक्य) अहो एष आर्यवसन्तकः । (उपगम्य) आर्य वसन्तक! कः कालः त्वाम् अन्विष्यामि।
विदूषकः – ( दृष्ट्वा ) किं निमित्तं भद्रे मामन्विष्यसि ?
चेटी – अस्माकं भट्टिनी भणति – अपि स्नातो जामातेति।
विदूषकः – किं निमित्तं भवती पृच्छति ?
चेटी – किमन्यत्, सुमनोवर्णकमानयामीति
विदूषकः – स्नातस्तत्रभवान्। सर्वमानयतु भवती वर्जयित्वा भोजनम् ।
चेटी – किं निमित्तं वारयसि भोजनम् ?
विदूषकः – अधन्यस्य मम कोकिलानामक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः।
चेटी – ईदृश एव भव।
विदूषकः – गच्छतु भवती। यावदहमपि तत्रभवतः सकाशं गच्छामि।
(निष्क्रान्तौ) (ततः प्रविशति सपरिवारा पद्मावती आवन्तिकावेषधारिणी वासवदत्ता च )
चेटी – किं निमित्तं भर्तृदारिका प्रमदवनमागता ?
पद्मावती – हला! ते तावत् शेफालिकागुल्मकाः पश्यामि कुसुमिता वा न वेति।
चेटी – भर्तृदारिके! ते कुसुमिता नाम, प्रवालान्तरितैरिव मौक्तिकलम्बकैराचिता कुसुमैः ।

प्रवालाऽन्तरितैः = विद्रुमव्यवहितैः अथवा पल्लवव्यवहितैः । मौक्तिकलम्बकैः इव मुक्ताकण्ठभूषणविशेषैः इव, कुसुमैः पुष्पैः । आचिताः = व्याप्ताः ।

पद्मावत – हला यदि एवं किम् इदानीं विलम्बसे!
चेटी – तेन हि अस्मिन् शिलापट्टके मुहूर्त्तकमुपविशतु भवती यावदहं कुसुमावचयं करोमि।
पद्मावती – आर्ये! किमत्रोपविशावः ?
वासवदत्ता – एवं भवतु
(उभे उपविशतः )
चेटी – ( तथा कृत्वा ) पश्यतु भर्तृदारिका अर्धमनःशिलापट्टकैः इव शेफालिकाकुसुमैः पूरितं मे अञ्जलिम्।
पद्मावती – (दृष्टवा) अहो! विचित्रता कुसुमानाम् । पश्यतु पश्यतु आर्या ।
वासवदत्ता – अहो! दर्शनीयता कुसुमानाम् ।
चेटी – भर्तृदारिके! किं भूयोऽवचेष्यामि।
पद्मावती – हला। मा मा भूयोऽवचित्य...।
वासवदत्ता – हला। किंनिमित्त वारयसि ?
पद्मावती – आर्यपुत्र इहागत्य इमां कुसुमसमृद्धिं दृष्ट्वा सम्मानिता भवेयम्।
वासवदत्ता – हला। प्रियस्ते भर्ता ?
पद्मावती – आर्ये! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि ।
वासवदत्ता – (आत्मगतम्) दुष्करं खल्वहं करोमि। इयमपि नाम एवं मन्त्रयते ।
चेटी – अभिजातं खलु भर्तृदारिकया मन्त्रितं – प्रियो मे भर्तेति।

अभिजातं = कुलीनतानुरूपम् ।

पद्मावती – एकः खलु मे सन्देहः।
वासवदत्ता – किम्, किम् ?
पद्मावती – यथा मम आर्यपुत्रः, तथैव आर्यायाः वासवदत्ताया इति।
वासवदत्ता – अतोऽप्यधिकम् ।
पद्मावती – कथं त्वं जानासि ?
वासवदत्ता – (आत्मगतम्) हम, आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः।एवं तावद् भणिष्यामि । (प्रकाशम्) यदि अल्पः स्नेहः, सा स्वजनं न परित्यज्यति ।
पद्मावती – भवितव्यम् ।
चेटी – भर्तृदारिके! साधु भर्तारं भण, अहमपि वीणां शिक्षिष्य इति।
पद्मावती – उक्तो ममार्यपुत्रः।
वासवदत्ता – ततः किं भणितम् ?
पद्मावती – अभणित्वा किञ्चिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः।
वासवदत्ता – ततः त्वं किमिव तर्कयसि ?
पद्मावती – तर्कयाम्यार्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिणतया ममाग्रतो न रोदितीति ।
वासवदत्ता – (आत्मगतम्) धन्या खल्वस्मि, यदि एवं सत्यं भवेत्। ( ततः प्रविशति राजा विदूषकश्च)
विदूषकः – ही ही! प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं प्रमदवनम्।इतस्तावद् भवान्।

प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं = अवचितत्रस्तबन्धूकपुष्पतनुपतनसुन्दरम् (बन्धुजीवानि च तानि कुसुमानि, बन्धुजीवमिति पुष्पविशेषः, प्रचितानि च तानि पतितानि, प्रचितपतितानि च तानि बन्धुजीवकुसुमानि , तेषां विरलपातः, तेन रमणीयम्) प्रचितम् = अवचितम् = व्याप्तम् अथवा सङ्गृहीतम् । प्रमदवनम् = अन्तःपुरोचितोपवनम् ।

राजा – वयस्य! वसन्तक! अयमहमागच्छामि।

कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते
दृष्टवा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः ।
तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं
पञ्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः ॥४.१॥

विदूषकः – कुत्र न खलु गता तत्रभवती पद्मावती, लतामण्डपं गता भवेत् उताहो असनकुसुमसञ्चितं व्याघ्रचर्माऽवगुण्ठितमिव पर्वततिलकं नाम शिलापट्टकं गता भवेत् । अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेत् । अथवा आलिखितमृगपक्षिसङ्कुलं दारुपर्वतकं गता भवेद् । (ऊर्ध्वम् अवलोक्य) ही! ही! शरत्कालनिर्मलेऽन्तरिक्षे प्रसारितबलदेवबाहुदर्शनीयां सारसपक्तिं यावत् समाहितं गच्छन्तीं पश्यतु तावद् भवान्।

समाहितम् = एकाग्रतापूर्वकम् ।

राजा – वयस्य! पश्यामि एनाम् ।
राजा –

ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु ।
निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ॥४.२॥

(तत्र प्रमदवने अन्यत्र चेटी पद्मावतीं सारसपङ्क्तिं दर्शयति )
चेटी – पश्यतु पश्यतु भर्तृदारिका एतां कोकनदमालापाण्डररमणीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीम्। अहो! भर्ता।
पद्मावती – हम्! आर्यपुत्रः! तव कारणादार्यपुत्रदर्शनं परिहरामि। तदिमं तावन्माधवीलतामण्डपं प्रविशामः ।
वासवदत्ता – एवं भवतु ।
(तथा कुर्वन्ति)
विदूषकः – तत्रभवती पद्मावती इह आगत्य निर्गता भवेत्।
राजा – कथं भवान् जानाति ।
विदूषकः – इमानपचितकुसुमान् शेफालिकागुच्छान् प्रेक्षतां तावद् भवान् ।
राजा – अहो! विचित्रता कुसुमस्य वसन्तक!
वासवदत्ता – (आत्मगतम्) वसन्तकसङ्कीर्तनेन अहं पुनः जानामि उज्जयिन्यां वर्ते इति।
राजा – वसन्तक! अस्मिन्नेवासीनौ शिलातले पद्मावतीं प्रतीक्षिष्यावहे।
विदूषकः – भोस्तथा। (उपविश्य उत्थाय ) ही! ही!, शरत्कालतीक्ष्णो दुस्सह आतपः । तदिमं तावन्माधवीमण्डपं प्रविशावः ।
राजा – बाढम्। गच्छ अग्रतः।
विदूषकः – एवं भवतु ।
(उभौ परिक्रामतः)
पद्मावती – एवमाकुलं कर्तुकाम आर्यवसन्तकः । किमिदानी कुर्मः।
चेटी – भर्तृदारिके! एतां मधुकरपरिनिलीनामवलम्बलतामवधूय भर्तारं वारयिष्यामि।

मधुकरपरिनिलीनां = भ्रमरव्याप्ताम् । अवलम्बलताम् = आलम्बनवल्लीम् । अवधूय = कम्पयित्वा ।

पद्मावती – एवं कुरु ।
(चेटी तथा करोति )
विदूषकः – अविहा! अविहा, तिष्ठतु तिष्ठतु तावत् भवान् ।

अविहा = विषादसूचकमव्ययम् ।

राजा – किमर्थम्।।
विदूषकः – दास्याः पुत्रैः मधुकरैः पीडितोऽस्मि।
राजा – मा मा भवान् एवं मधुकरसन्त्रासः परिहार्यः । पश्य

मधुकरसन्त्रासः = भ्रमरभीतिः ।

मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिरुपगूढ़ाः।
पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ॥४.३॥

मधुमदकलाः = पुष्परसमदाव्यक्तमधुरशब्दाः । मदनार्त्ताभिः = कामातुराभिः । उपगूढाः = आलिङ्गिताः । मधुकराः = भ्रमराः । पादन्यासविषण्णाः = अस्मच्चरणनिक्षेपखिन्नाः । कान्तावियुक्ताः = प्रियाविरहिताः
आर्याछन्दः ।

तस्माद् इह एव आसिष्यावहे ।
(उभौ उपविशतः )
चेटी – भर्तृदारिके! रुद्धाः खलु स्मो वयम्।
पद्मावती – दिष्ट्या उपविष्ट आर्यपुत्रः ।
वासवदत्ता – (आत्मगतम्) दिष्ट्या प्रकृतिस्थशरीरः आर्यपुत्रः।
चेटी – भर्तृदारिके! साश्रुपाता खलु आर्यायाः दृष्टिः ।
वासवदत्ता – एषा खलु मधुकराणाम् अविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः।
पद्मावती – युज्यते।
विदूषकः – भोः! शून्यं खल्विदं प्रमदवनम्। प्रष्टव्यं किञ्चिदस्ति । पृच्छामि भवन्तम् ।
राजा – छन्दतः ।
विदूषकः – का भवतः प्रिया ? तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा?
राजा – किमिदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति ?

बहुमानसङ्कटे = अधिक सम्मानविपत्तौ (बहुमानेन सङ्कटः तस्मिन्)। न्यस्यति = स्थापयति।

पद्मावती – हला! यादृशे सङ्कटे निक्षिप्त आर्यपुत्रः।

निक्षिप्तः = स्थापितः ।

वासवदत्ता – (आत्मगतम्) अहं च मन्दभागा।
विदूषकः – स्वैरं स्वैरं भणतु भवान्, एका उपरता, अपरा असन्निहिता।
राजा – वयस्य । न खलु ब्रूयाम्। भवांस्तु मुखरः।
पद्मावती – एतावता भणितम् आर्यपुत्रेण।
विदूषकः – भो! सत्येन शपे । कस्मै अपि न आख्याये। एषा सन्दष्टा मे जिहा!
राजा – न उत्सहे सखे! वक्तुम् ।
पद्मावती – अहो! अस्य पुरोभागिता । एतावता हृदयं न जानाति ।

पुरोभागिता = दोषैकदर्शिता ।

विदूषकः – कि न भणति मम ? अनाख्यायाऽस्मात् शिलापट्टकात् न शक्यम् एकपदम् अपि गन्तुम, एष रुद्धोऽत्र भवान् ।
राजा – किं बलात्कारेण?
विदूषकः – आम् बलात्कारेण!
राजा – तेन हि पश्यामः तावत्।
विदूषकः – प्रसीदतु, प्रसीदतु भवान् । वयस्यभावेन शापितोऽसि, यदि सत्यं न भणसि।
राजा – का गतिः । श्रूयताम् ।

पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः ।
वासवदत्ताबद्धं न तु तावन्मे मनो हरति ॥४.४॥

वासवदत्ताबद्धं = वासवदत्ताकृष्टम् ।

वासवदत्ता – (आत्मगतम्) भवतु भवतु । दत्तं वेतनम् अस्य परिखेदस्य अहो। अज्ञातवासोऽत्र बहुगुणः सम्पद्यते।
चेटी – भर्तृदारिके! अदाक्षिण्यः खलु भर्ता।
पद्मावती – हला! मा मैवम्। सदाक्षिण्यः एव आर्यपुत्रः, यः इदानीम् अपि आर्याया वासवदत्तायाः गुणान् स्मरति।
वासवदत्ता – भद्रे! अभिजनस्य सदृशं मन्त्रितम् ।
राजा – उक्तं मया। भवान् इदानीं कथयतु । का भवतः प्रिया ? तदा वासवदत्ता इदानी पद्मावती वा।
पद्मावती – आर्यपुत्रोऽपि वसन्तकः संवृत्तः।।
विदूषकः – किं मे विप्रलपितेन। उभे अपि तत्रभवत्यौ मे बहुमते ।

विप्रलपितेन = अनर्थकवचनेन ।

राजा – वैधेय। मामेवं बलात् श्रुत्वा किमिदानीं नाभिभाषसे।

वैधेय = मूर्ख ।

वदूषकः – किं मामपि बलात्कारेण?
राजा – अथ किम्, बलात्कारेण।
विदुषकः – तेन हि शक्यं श्रोतुम्।
राजा – प्रसीदतु प्रसीदतु महाब्राह्मणः, स्वैरं स्वैरम् अभिधीयताम्।
विदूषकः – इदानीं शृणोतु, भवान्। तत्र भवती वासवदत्ता मे बहुमता तत्रभवती पद्मावती तरुणी, दर्शनीया, अकोपना, अनहङ्कारा, मधुरवाक्, सदाक्षिण्या। अयं चापरो महान् गुणः स्निग्धेन भोजनेन मां प्रति उद्गच्छति वासवदत्ता कुत्र नु खलु गत आर्यवसन्तक इति।
वासवदत्ता – भवतु भवतु वसन्तक! स्मर इदानीम् एतत् ।
राजा – भवतु भवतु वसन्तक! सर्वमेतत् कथयिष्ये देव्यै वासवदत्तायै ।।
विदूषकः – अविहा वासवदत्ता, कुत्र वासवदत्ता ? चिरात् खलु उपरता वासवदत्ता।
राजा – ( सविषादम् ) एवम्? उपरता ।

अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया।
ततो वाणी तथैवेयं पूर्वाभ्यासेन निःसृता ॥४.५॥

व्याक्षिप्तं = दूरं प्रेरितम् ।

पद्मावती – रमणीयः खलु कथायोगो नृशंसेन विसंवादितः ।

कथायोगः = कथनसम्बन्धः । नृशंसेन = घातुकेन, वियोगशोकोत्पादनेन नृशंससदृशेनेति भाव: । विसंवादितः = विसंवादं प्रापितः, विनाशित इति भावः ।

वासवदत्ता – (आत्मगतम्) भवतु, भवतु, विश्वस्तास्मि। अहो! प्रियं नाम ईदृशं वचनम् अप्रत्यक्षं श्रूयते।
विदूषकः – धारयतु धारयतु भवान् । अनतिक्रमणीयो हि विधिः । ईदृशम् इदानीम् एतत् ॥
राजा – वयस्य! जानाति भवान् अवस्थाम्। कुतः

दुःखं त्यक्तुं बद्धमूलोऽनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
यात्रा त्वेषा विमुच्येह बाष्पं प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥४.५॥

बद्धमूलः = दृढमूलः (बद्धं मूलं यस्य सः)। दुःखं = कष्टम् । यात्रा - लोकस्थितिः । प्राप्तानृण्या = आसादितानृणत्वा कृतानुरागनिष्कृतिः सतीति भावः । अश्रुपातेन निर्यातिताऽनुरागऋणमिव चित्तं किञ्चिदुच्छ्वसितं भवतीति भावः ।

विदूषकः – अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन् मुखोदकम् आनयामि।
पद्मावती – आर्य! बाष्पाकुलपटान्तरितम् आर्यपुत्रस्य मुखम् । यावन् निष्क्रामामः ।

बाष्पाकुलपटान्तरितम् = अश्रुव्याप्तवस्त्राच्छादितम् (बाष्पाकुलपटान्तरितं बाष्पेण आकुलः स चाऽसौ पटः, तेन अन्तरितम्)।

वासवदत्ता – एवं भवतु । अथवा तिष्ठ त्वम् । उत्कण्ठितं भर्तारम् उज्झित्वा अयुक्तं निर्गमनम्। अहमेव गमिष्यामि।
चेटी – सुष्ठु आर्या भणति । उपसर्पतु तावद् भर्तृदारिका।
पद्मावती – किन्नु खलु प्रविशामि।
वासवदत्ता – हला! प्रविश ।
(इत्युकत्वा निष्क्रान्ता)
विदूषकः – (नलिनीपत्रेण जलं गृहीत्वा) एषा तत्रभवती पद्मावती।
पद्मावती – आर्य! वसन्तक! किमेतत् ?
विदूषकः – एतद् इदम्। इदम् एतत् ।
पद्मावती – भणतु भणतु आर्यो भणतु ।
विदूषकः – भवति! वातनीतेन काशकुसुमरेणुना अक्षिनिपतितेन साश्रुपातं तत्रभवतो मुखम् । तद् गृह्णातु भवती इदं मुखोदकम्।
पद्मावती – (आत्मगतम्) अहो! सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव भवति। (उपेत्य ) जयतु आर्यपुत्रः । इदं मखोदकम्।
राजा – अये! पद्मावति! (अपवार्य) वसन्तक! किमिदम् ?
विदूषकः – (कर्णे) एवमेव।
राजा – साधु वसन्तक! साधु । (आचम्य) पद्मावति! आस्यताम् ।
पद्मावती – यथार्यपुत्र आज्ञापयति । (उपविशति)
राजा – पद्मावति!

शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि!
काशपुष्पलवेनेदं साश्रुपातं मम मुखम् ॥४.७॥

राजा – (आत्मगतम्)

इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।
कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥४.८॥

कामं = पर्याप्तं यथा तथा । कातरः = अधीरः ।

विदूषकः – उचितं तत्रभवतः मगधराजस्य अपराह्णकाले भवन्तम् अग्रतः कृत्वा सुहृज्जनदर्शनम्। सत्कारो हि नाम सत्कारेण प्रतीष्टः प्रीतिम् उत्पादयति। तदुत्तिष्ठतु तावद् भवान्।
राजा – बाढम्। प्रथमः कल्पः (उत्थाय)

कल्पः = विधिः ।

गुणानां वा विशालानां सत्काराणां च नित्यशः ।
कर्तारः सुलभा लोके विज्ञातारस्तु दुर्लभाः॥४.९॥

(निष्क्रान्ताः सर्वे )
(इति चतुर्थोऽङ्कः)

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते दृष्टवा स्वैरमवन… — —
ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्त… — —
मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिरुपगूढ़ाः — —
पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः — —
अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया — —
दुःखं त्यक्तुं बद्धमूलोऽनुरागः स्मृत्वा स्मृत्वा याति दुःखं… — —
शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि! काशपुष्पलवेनेदं साश्रुपा… — —
इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् — —
गुणानां वा विशालानां सत्काराणां च नित्यशः — —