मुखपृष्ठम् · ⬆ स्वप्नवासवदत्तम् · ← · →
स्वप्नवासवदत्तम् — पञ्चमोऽङ्कः¶
(ततः प्रविशति पद्मिनिका)
पद्मिनिका – मधुकरिके! मधुकरिके! आगच्छ तावत् शीघ्रम्।
मधुकरिका – (प्रविश्य ) हला! इयमस्मि। किं क्रियताम् ?
पद्मिनिका – हला! किं न जानासि त्वम् – भर्तृदारिका पद्मावती शीर्षवेदनया दुःखिता इति।
मधुकरिका – हा धिक्!
पद्मिनिका – गच्छ शीघ्रम, आर्याम आवन्तिकां शब्दायस्व। केवलं भर्तृदारिकायाः शीर्षवेदनामेव निवेदय। ततः स्वयमेव आगमिष्यति ।
मधुकरिका – हला! किं सा करिष्यति ?
पद्मिनिका – सा खलु इदानीं मधुराभिः कथाभिः भर्तृदारिकायाः शीर्षवेदनां विनोदयति।
मधुकरिका – युज्यते । कुत्र शयनीयं रचितं भर्तृदारिकायाः ?
पद्मिनिका – समुद्रगृहके किल शय्या आस्तीर्णा। गच्छ इदानीं त्वम्। अहमपि भर्तुः निवेदनार्थम् आर्यवसन्तकम् अन्विष्यामि।
मधुकरिका – एवं भवतु ।
( निष्क्रान्ता )
पद्मिनिका – कुत्र इदानीम् आर्यवसन्तकं पश्यामि ?
(ततः प्रविशति विदूषकः)
विदूषकः – अद्य खलु देवीवियोगविधुरहृदयस्य तत्रभवतो वत्सराजस्य पद्मावतीपाणिग्रहणसमीरितस्य अत्यन्तसुखावहे मङ्गलोत्सवे मदनाग्निदाहः अधिकतरं वर्धते। (पद्मिनिकां विलोक्य) अयि! पद्मिनिका! पद्मिनिके! किमिह वर्तते ?
देवीवियोगविधुरहृदयस्य = वासवदत्ताविरहविकलचित्तस्य । पद्मावतीपाणिग्रहणसमीरितस्य = पद्मावतीपरिणयप्रेरितस्य विषयसुखं प्रतीति शेषः ।
पद्मिनिका – आर्य! वसन्तक! किं न जानासि त्वं भर्तृदारिका शीर्षवेदनया दुःखिता इति।
विदूषकः – भवति! सत्यम्? न जानामि।
पद्मिनिका – तेन हि भर्त्रे निवेदय एनाम्। यावद् अहमपि शीर्षानुलेपनं त्वरयामि।
विदूषकः – कुत्र शयनीयं रचितं पद्मावत्याः ?
पद्मिनिका – समुद्रगृहके किल शय्या आस्तीर्णा ।
विदूषकः – गच्छतु भवती। यावदहमपि तत्रभवते निवेदयिष्यामि।
(निष्कान्तौ)
(इति प्रवेशकः)
(ततः प्रविशति राजा )
राजा –
श्लाघ्यामवन्तिनृपतेः सदृशीं तनूजां
कालक्रमेण पुनरागतदारभारः ।
लावाणके हुतवहेन हृताङ्गयष्टिं
तां पद्मिनीं हिमहतामिव चिन्तयामि ॥५.१॥
उपमालङ्कारः । वसन्ततिलका ।
विदूषकः – (प्रविश्य) त्वरतां त्वरतां तावद् भवान्।
राजा – किमर्थम् ?
विदूषकः – तत्रभवती पद्मावती शीर्षवेदनया दुःखिता।
राजा – का एवम् आह ।
विदूषकः – पद्मिनिकया कथितम्।
राजा – भोः! कष्टम।
रूपश्रिया समुदितां गुणतश्च युक्तां
लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः ।
पूर्वाभिघातसरुजोऽप्यनुभूतदुःखः
पद्मावतीमपि तथैव समर्थयामि ॥५.२॥
पूर्वाभिघातसरुजः = प्राचीनदैवप्रहारपीडितः ।
राजा – अथ कस्मिन् प्रदेशे वर्तते पद्मावती?
विदूषकः – समुद्रगृहके किल शय्या आस्तीर्णा।
राजा – तेन हि तस्य मार्गम् आदेशय।
विदूषकः – एतु एतु भवान्
(उभौ परिक्रामतः)
विदूषकः – इदं समुद्रगृहकम् । प्रविशतु भवान्।
राजा – पूर्वं प्रविश।
विदूषकः – भोः! तथा। (प्रविश्य) अविहा! तिष्ठतु तिष्ठतु तावद् भवान्।
राजा – किमर्थम् ?
विदूषकः – एष खलु दीपप्रभावसूचितरूपो वसुधातले परिवर्तमानः अयं काकोदरः।
राजा – (प्रविश्य, अवलोक्य, सस्मितम्) अहो! सर्पव्यक्तिर्वैधेयस्य।
सर्पव्यक्तिः = भुजङ्गप्रतीतिः ।
ऋज्वायतां हि मुखतोरणलोलमालां
भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख! सर्पम्।
मन्दानिलेन निशि या परिवर्तमाना
किञ्चित् करोति भुजगस्य विचेष्टितानि ॥५.३॥
ऋज्वायतां = सरलदीर्घाम् । भ्रष्टां = पतिताम् । मुखतोरणलोलमालां = मुख्यबहिर्द्वारचञ्चलस्रजम् । मन्दाऽनिलेन = मन्थरवातेन। विचेष्टितानि = विलुण्ठनकर्माणि ।
वसन्ततिलका ।
विदूषकः – (निरूप्य) सुष्ठु भवान् भणति। न खलु अयं काकोदरः। (प्रविश्य अवलोक्य) तत्र भवती इहागत्य निर्गता भवेत्।
राजा – वयस्य! अनागतया भवितव्यम्।
विदूषकः – कथम् भवान् जानाति ।
राजा – किमत्र ज्ञेयम् । पश्य
शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा
न क्लिष्टं हि शिरोपधानममलं शीर्षाभिघातौषधैः ।
रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता
प्राणी प्राप्य रुजा पुनर्न शयनं शीघ्रं स्वयं मुञ्चति ॥५.४॥
आस्तृतसमा = आस्तरणवस्त्रालङ्कृता तुल्यरूपा । व्याकुलप्रच्छदा = न देहपरिवर्तनेन सङ्कुचितनिचोला न, शय्येति शेषः । शिरोपधानं = मस्तकोपबर्हः । क्लिष्टं न = मलीमसं न । दृष्टिविलोभनं = नेत्राकर्षणम् । रुजा = रोगेण ।
अनुमानालङ्कारः । शार्दूलविक्रीडितम् ।
विदूषकः – तेन हि अस्यां शय्यायां मुहूर्त्तकम् उपविश्य तत्र भवतीं प्रतिपालयतु भवान्।
राजा – बाढम्। (उपविश्य) वयस्य! निद्रा मां बाधते । कथ्यतां काचित् कथा।
विदूषकः – अहं कथयिष्यामि। हों इति करोतु अत्र भवान्।
राजा – बाढम् ।
विदूषकः – अस्ति नगरी उज्जयिनी नाम । तत्र अधिकरमणीयानि उदकस्नानानि वर्तन्ते किल।
राजा – कथम् उज्यिनी नाम ?
विदूषकः – यदि अनभिप्रेता एषा कथा, अन्यां कथयिष्यामि।
राजा – वयस्य! न खलु न अभिप्रेता एषा कथा। किन्तु
स्मराम्यवन्त्याधिपतेः सुतायाः प्रस्थानकाले स्वजनं स्मरन्त्याः ।
बाष्पं प्रवृत्तं नयनान्तलग्नं स्नेहान्ममैवोरसि पातयन्त्याः ॥५.५॥
अपि च
बहुशोऽप्युपदेशेषु यया मामीक्षमाणया।
हस्तेन स्रस्तकोणेन कृतमाकाशवादितम्॥५.६॥
विदूषकः – भवतु, अन्यां कथयिष्यामि। अस्ति नगरं ब्रह्मदत्तं नाम। तत्र किल राजा काम्पिल्यो नाम।
राजा – किमिति किमिति ।
विदूषकः – (पुनः तदेव पठति )
राजा – मूर्ख! राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् इति अभिधीयताम्।
विदूषकः – किं राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् ?
राजा – एवमेतत्।
विदूषकः – तेन हि मुहूत्तकं प्रतिपालयतु भवान्, यावद ओष्ठगतं करिष्यामि। राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् ( इति बहुशस्तदेव पठित्वा ) इदानीं शृणोतु भवान्।अयि! सुप्तः अत्र भवान् ? अतिशीतला इयं वेला। आत्मनः प्रावारकं गृहीत्वा आगमिष्यामि।
( निष्क्रान्तः)
(ततः प्रविशति वासवदत्ता आवन्तिकावेषेण, चेटी च)
चेटी – एत्वेत्वार्या। दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता।
वासवदत्ता – हा धिक! कुत्र शयनीयं रचितं पद्मावत्याः ?
चेटी – समुद्रगृहके किल शय्यास्तीर्णा ।
वासवदत्ता – तेन ह्यग्रतो याहि।
(उभे परिक्रामतः)
चेटी – इदं समुद्रगृहकम् । यावदहमपि शीर्षानुलेपनं त्वरयामि।
वासवदत्ता – अहो! अकरुणाः खल्वीश्वरा मे। विरहपर्युत्सुकस्य आर्यपुत्रस्य विश्रमस्थानभूतेयमपि नाम पद्मावत्यस्वस्था जाता। यावत् प्रविशामि। (प्रविश्य अवलोक्य च) अहो! परिजनस्य प्रमादः। अस्वस्थां पद्मावतीं केवलदीपसहायां कृत्वा परित्यजति । इयं पद्मावत्यवसुप्ता। यावदुपविशामि। (उपविश्य) अथवाऽन्यासनपरिग्रहेणाऽल्प इव स्नेहः प्रतिभाति ।तदस्यां शय्यायामुपविशामि। किं नु खल्वेतया सहोपविशन्त्या अद्य प्रह्लादितमिव मे हदयम्। दिष्टयाऽविच्छिन्नसुखनिःश्वासा। निवृत्तरोगया भवितव्यम्। अथवैकदेशसंविभागतया शयनीयस्य सूचयति मामालिङ्गेति । यावच्छयिष्ये।
राजा – (स्वप्नायते) हा वासवदत्ते!
वासवदत्ता – (सहसोत्थाय) हम्! आर्यपुत्रः, न खलु पद्मावती ? किन्नु खलु दृष्टाऽस्मि? महान् खल्वार्ययौगन्धरायणस्य प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः ।
राजा – हा! अवन्तिराजपुत्रि!
वासवदत्ता – दिष्ट्या स्वप्नायते खल्वार्यपुत्रः नात्र कश्चिज्जनः । यावन्मुहूर्तकं स्थित्वा हृदयं च तोषयामि ।
राज – हा! प्रिये! हा! प्रियशिष्ये । देहि में प्रतिवचनम्।
वासवदत्ता – आलपामि भर्तः! आतलपामि ।
राजा – किं कुपिताऽसि ?
वासवदत्ता – नहि नहि, दुःखिताऽस्मि।
राजा – यद्यकुपिता, किमर्थं नालङ्कृतासि ?
वासवदत्ता – इतः परं किम् ?
राजा – कि विरचिकां स्मरसि ?
वासवदता – (सरोषम्) आ अपेहि, इहापि विरचिका ?
राजा – तेन हि विरचिकार्थं भवतीं प्रसादयामि। (हस्तौ प्रसारयति ।)
वासवदत्ता – चिरं स्थितास्मि । कोऽपि मां पश्येत् । तद् गमिष्यामि। अथवा शय्याप्रलम्बितमार्यपुत्रस्य हस्तं शयनीय आरोप्य गमिष्यामि । (तथा कृत्वा निष्क्रान्ता)
राजा – (सहसोत्थाय) वासवदत्ते! तिप्ठ, तिष्ठ। हा धिक!
निष्क्रामन् सम्भ्रमेणाऽहं द्वारपक्षेण ताडितः ।
ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः ॥५.७॥
व्यक्तं = स्पष्टम् ।
(प्रविश्य)
विदूषकः –अयि! प्रतिबुद्धोऽत्रभवान् ।
राजा – वयस्य! प्रियमावेदये, धरते खलु वासवदत्ता।
धरते = अवतिष्ठते ।
विदूषकः – अविहा! वासवदत्ता! कुत्र वासवदत्ता ? चिरात् खलूपरता वासवदता ।
राजा – वयस्य! मा मैवम्।
शय्यायामवसुप्तं मां बोधयित्वा सखे!गता।
दग्धेति ब्रुवता पूर्वं वञ्चितोऽस्मि रुमण्वता ॥५.८॥
विदूषकः – अविहा! असम्भावनीयमेतन्न। आ उदकस्नानसङ्कीर्तनेन तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत् ।
राजा – एवम् मया स्वप्नो दृष्टः?
यदि तावदय स्वप्नो धन्यमप्रतिबोधनम् ।
अथायं विभ्रमो वा स्याद् विभ्रमो ह्यस्तु मे चिरम् ॥५.९॥
विदूषकः – भो! वयस्य! एतस्मिन् नगरेऽवन्तिसुन्दरी नाम यक्षी प्रतिवसति । सा त्वया दृष्टा भवेत् ।
राजा – न न
स्वप्नस्यान्ते विबुद्धेन नेत्रविप्रोषिताञ्जनम् ।
चारित्रमपि रक्षन्त्या दृष्टं दीर्घालकं मुखम् ॥५.१०॥
अपि च वयस्य! पश्य पश्य
योऽयं सन्त्रस्तया देव्या तया बाहुर्निपीडितः ।
स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति ॥५.११॥
विदूषकः – मेदानीं भवाननर्थं चिन्तयित्वा । एत्वेतु भवान् । चतुःशालं प्रविशामः ।
(प्रविश्य)
काञ्चुकीयः – जयत्वार्यपुत्रः । अस्माकं महाराजो दर्शको भवन्तमाह एष खलु भवतोऽमात्यो रुमणवान् महता बलसमुदायेनोपयातः खल्वारुणिमभिघातयितुम् । तथा हस्त्यश्र्वरथपदातीनि मामकानि विजयाङ्गानि सन्नद्धानि । तदुत्तिष्ठतु भवान् ।
अपि च
भिन्नास्ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः
पार्ष्णी यापि भवत्प्रयाणसमये तस्या विधानं कृतम् ।
यद्यत् साध्यमरिप्रमाथजननं तत्तन्मयानुष्ठितं
तीर्णा चापि बलैर्नदी त्रिपथगा वत्साश्च हस्ते तव ॥५.१२॥
राजा – (उत्थाय) बाढम् । अयमिदानीम्
उपेत्य नागेन्द्रतुरङ्गतीर्णे तमारुणिं दारुणकर्मदक्षम् ।
विकीर्णबाणोग्रतरङ्गभङ्गे महार्णवाभे युधि नाशायामि ॥५.१३॥
(निष्क्रान्ताः सर्वे)