मुखपृष्ठम् · ⬆ अभिज्ञानशाकुन्तलम् · ← · →
अभिज्ञानशाकुन्तलम् — चतुर्थोऽङ्कः (शकुन्तलाप्रस्थानम्)¶
(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ ।)
अनसूया – हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलाऽनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्येतावच्चिन्तनीयम् ।
निर्वृतं = निश्चिन्तं, सुखितम् ।
प्रियंवदा – कथमिव ?
अनसूया – अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति ।
प्रियंवदा – विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
विस्रब्धा भव = विश्वसीहि । प्रतिपत्स्यते = उचितमनुचितं वेति किं कल्पयिष्यति, चिन्तयिष्यति ।
अनसूया – यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
प्रियंवदा – कथमिव ?
अनसूया – गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः सङ्कल्पः । तं यदि दैवमेव सम्पादयति नन्वप्रयासेन कृतार्थो गुरुजनः ।
प्रतिपादनीया = प्रदेया । कृतार्थो = कृतकृत्यः ।
प्रियंवदा – (पुष्पभाजनं विलोक्य) सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ।
अनसूया – ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।
प्रियंवदा – युज्यते ।
(इति तदेव कर्माभिनयतः)
(नेपथ्ये)
अयमहं भोः ।
अनसूया – (कर्णं दत्त्वा) सखि अतिथीनामिव निवेदितम् ।
प्रियंवदा – (आत्मगतम्) ननूटजसन्निहिता शकुन्तला ।
अनसूया – अद्य पुनर्हृदयेनासन्निहिता । अलमेतावद्भिः कुसुमैः ।
हृदयेनासन्निहिता = मनसा अनुपस्थिता ।
(इति प्रस्थिते)
(नेपथ्ये) अतिथिपरिभाविनि!
विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन्कथां प्रमत्तः प्रथमं कृतामिव ॥४।१॥
अतिथिपरिभाविनि = हे अभ्यागत्यमानशीले (अभ्यागततिरस्कारिणी) । अनन्यमानसा = एकाग्रचित्ता । बोधितः = स्मारितः ।
प्रियंवदा – हा धिक् हा धिक् । अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुन्तला । (पुरोऽवलोक्य) न खलु यस्मिन्कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः ।
दुर्वारया = निवारयितुम् अशक्या, तया (गत्या) । वेगबलोत्फुल्लया = दूरोत्क्षिप्तपादन्यासया ।
अनसूया – कोऽन्यो हुतवहाद्दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि ।
हुतवहाद् = अग्नेः । उपकल्पयामि = सम्पादयामि, विदधामि ।
प्रियंवदा – तथा
(इति निष्क्रान्ता)
अनसूया – (पदान्तरे स्खलितं निरूप्य) अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् ।
प्रभ्रष्टम् = पतितम् ।
(इति पुष्पोच्चयं रूपयति)
(प्रविश्य)
प्रियंवदा – सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति ? किमपि पुनः सानुक्रोशः कृतः ।
प्रकृतिवक्रः = स्वभावकुटिलः । अनुनयं = प्रार्थनाम् । प्रतिगृह्णाति = स्वीकरोति । सानुक्रोशः = सदयः, सानुकम्पः ।
अनसूया – (सस्मितम्) तस्मिन्बह्वेतदपि । कथय ।
प्रियंवदा – यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्य इति ।
अपराधः = आगः । अविज्ञाततपःप्रभावस्य = अज्ञातत्वत्तपोवीर्यस्य । मर्षयितव्यः = क्षन्तव्यः ।
अनसूया – ततस्ततः ।
प्रियंवदा – ततो न मे वचनमन्यथा भवितुमर्हति किं त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः ।
अनसूया – शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा सम्प्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति ।
आश्वासितुम् = प्रस्थापयितुम् । पिनद्धं = परिधापितम् । स्वाधीनोपाया = स्वायत्तसाधना ।
प्रियंवदा – सखि एहि । देवकार्यं तावदस्या निर्वर्तयावः ।
(इति परिक्रामतः)
प्रियंवदा – (विलोक्य) अनसूये पश्य तावत् । वामहस्तोपहितवदनाऽऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् ।
विभावयति = जानाति । आलिखिता = चित्रे वर्तमाना ।
अनसूया – प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी ।
प्रकृतिपेलवा = स्वभावसुकुमारी ।
प्रियंवदा – को नामोष्णोदकेन नवमालिकां सिञ्चति ।
(इति निष्क्रान्ते)
॥ इति विष्कम्भः ॥
(ततः प्रविशति सुप्तोत्थितः शिष्यः)
शिष्यः – वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति ।
वेलोपलक्षणार्थं = समयपरिज्ञानार्थम् (उपलक्षणार्थं = नक्षत्रैरुपलक्ष्यज्ञानार्थम्) । उपावृत्तेन = प्रत्यागतेन ।
(परिक्रम्यावलोक्य च) हन्त प्रभातम् । तथा हि ।
यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतोऽरुणपुरःसर एकतोऽर्कः ।
तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ॥२॥
अपि च ।
अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥४।३॥
संस्मरणीयशोभा = स्मरणमात्रेणानुभवितुं योग्या; अदृश्या शोभा; न तु पूर्ववद् दर्शनीयसौन्दर्या ।
(प्रविश्यापटीक्षेपेण)
अपटीक्षेपेण = अकस्मात् (अपटी = जवनिका । अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी इति हलायुधः)।
अनसूया – यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन राज्ञा शकुन्तलायामनार्यमाचरितम् ।
शिष्यः – यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
(इति निष्क्रान्तः)
अनसूया – प्रतिबुद्धापि किं करिष्यामि । न म उचितेष्वपि निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु येनासत्यसन्धे जने शुद्धहृदया सखी पदं कारिता । अथवा दुर्वासःशाप एष विकारयति । अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति । तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुन्तलां निवेदयितुम् । इत्थङ्गतेऽस्माभिः किं करणीयम् ।
प्रतिबुद्धा = जागरिता । प्रसरति = चलति (करचरणं व्यापारं कर्तुं न प्रभवतः)। अभ्यर्थ्यताम् = प्रार्थ्यताम् । व्यवसिता = कृतनिश्चया । आपन्नसत्त्वां = गर्भिणीम् ।
(प्रविश्य)
प्रियंवदा – (सहर्षम्) सखि त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निर्वर्तयितुम् ।
प्रस्थानकौतुकं = पतिगृहप्रस्थानकाले कर्तुमुचितं पारम्पर्यगतं मङ्गलकर्म प्रस्थानकौतुकमुच्यते । निर्वर्तयितुं = सम्पादयितुम् ।
अनसूया – सखि कथमेतत् ।
प्रियंवदा – शृणु । इदानीं सुखशयितपृच्छिका शकुन्तलासकाशं गतास्मि ।
सुखशयितपृच्छिका = रात्रौ सुखशयनं जातमिति या पृच्छति । सकाशं = समीपम् ।
अनसूया – ततस्ततः ।
प्रियंवदा – तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता विद्येवाशोचनीयासि संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति ।
धूमाकुलितदृष्टेः = आज्यधूमोपहृतदर्शनशक्तेः ।
अनसूया – अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ?
प्रियंवदा – अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
अनसूया – (सविस्मयम्) कथमिव ।
प्रियंवदा –
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४।४॥
आहितं = निषिक्तम् (impregnated) । अवेहि = जानीहि ।
अनसूया – (प्रियंवदामाश्लिष्य) सखि प्रियं मे । किन्त्वद्यैव शकुन्तला नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
उत्कण्ठासाधारणं = विषादम् इव, वेदनासमानम् ।
प्रियंवदा – सखि आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु ।
विनोदयिष्यावः = परिहरिष्यावः । निर्वृता = सुखिता ।
अनसूया – तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । तदिमां हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
कालान्तरक्षमा = चिरकालस्थायिनी ।
प्रियंवदा – तथा क्रियताम् ।
(अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति)
(नेपथ्ये)
गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा – (कर्णं दत्त्वा) अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषयः आकार्यन्ते ।
(प्रविश्य समालम्भनहस्ता)
समालम्भनहस्ता = मङ्गलोपकरणहस्ता ।
अनसूया – सखि एहि । गच्छावः ।
(इति परिक्रामतः)
प्रियंवदा – (विलोक्य) एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एनाम् ।
अभिनन्द्यमाना = स्तूयमाना ।
(इत्युपसर्पतः)
(ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुन्तला)
तापसीनामन्यतमा – (शकुन्तलां प्रति) जाते भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व ।
द्वितीया – वत्से वीरप्रसविनी भव ।
तृतीया – वत्से भर्तुर्बहुमता भव ।
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)
सख्यौ – (उपसृत्य) सखि सुखमज्जनं ते भवतु ।
शकुन्तला – स्वागतं मे सख्योः । इतो निषीदतम् ।
उभे – (मङ्गलपात्राण्यादाय । उपविश्य) हला सज्जा भव । यावत्ते मङ्गलसमालम्भनं विरचयावः ।
शकुन्तला – इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे सखीमण्डनं भविष्यति ।
(इति बाष्पं विसृजति)
उभे – सखि उचितं न ते मङ्गलकाले रोदितुम् ।
(इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः)
प्रियंवदा – आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ।
विप्रकार्यते = विकृतं क्रियते ।
(प्रविश्योपायनहस्तावृषिकुमारकौ)
उभौ – इदमलङ्करणम् । अलङ्क्रियतामत्रभवती ।
(सर्वा विलोक्य विस्मिताः)
गौतमी – वत्स नारद कुत एतत् ।
प्रथमः – तातकाश्यपप्रभावात् ।
गौतमी – किं मानसी सिद्धिः ?
द्वितीयः – न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं
क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् ।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितैर्- दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥४।५॥
क्षौमम् = दुकूलम्, अंशुकम् । निष्ठ्यूतः = उद्गीर्णः । आपर्वभागोत्थितैः = पर्वभागप्रदेशं मर्यादीकृत्य उत्थितैः (पर्व = करमूलम् ) ।
प्रियंवदा – (शकुन्तलां विलोक्य) हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः ।
(शकुन्तला व्रीडां रूपयति)
प्रथमः – गौतम एह्येहि । अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः ।
अभिषेकोत्तीर्णाय = निवृत्तस्नानाय, स्नानात् तत्तीरं प्राप्ताय ।
द्वितीयः – तथा ।
(इति निष्क्रान्तौ)
सख्यौ – अये अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः ।
आभरणविनियोगम् = अलङ्कारपरिधानम् ।
शकुन्तला – जाने वां नैपुण्यम् ।
(उभे नाट्येनालङ्कुरुतः)
(ततः प्रविशति स्नानोत्तीर्णः काश्यपः)।
काश्यपः –
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥४।६॥
स्तम्भितबाष्पवृत्तिकलुषः = अवरुद्धाश्रूद्गमगद्गदः (अवरुद्धः अश्रूणां प्रवृत्त्या स्वरभङ्गवान्) । अरण्यौकसः = वनवासिनः (ओकः [ओकस्] = गृहम्)
(इति परिक्रामति)
सख्यौ – हला शकुन्तले अवसितमण्डनासि । परिधत्स्व साम्प्रतं क्षौमयुगलम् ।
अवसितमण्डना = परिसमाप्तरचनाभरणसन्निवेशा ।
(शकुन्तलोत्थाय परिधत्ते)
गौतमी – जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
आनन्दपरिवाहिणा = आनन्दातिशये प्रकाशयता, हर्षाश्रुविमुञ्चता । प्रतिपद्यस्व = विधेहि, सम्पादय ।
शकुन्तला – (सव्रीडम्) तात वन्दे ।
काश्यपः – वत्से ।
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥४।७॥
गौतमी – भगवान् वरः खल्वेषः । नाशीः ।
आशीस्तु अभीष्टस्य प्रार्थनं भवति किन्तु वरस्तु अभीष्टसाधनसमर्थो विधिरित्युभयोर्भेदः ।
काश्यपः – वत्से इतः सद्यो हुतानग्नीन्प्रदक्षिणीकुरुष्व ।
(सर्वे परिक्रामन्ति)
काश्यपः – (ऋक्छन्दसाऽऽशास्ते)
अमी वेदिं परितः कॢप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥४।८॥
कॢप्तधिष्ण्याः = रचितानि स्थानानि येषां, ते । प्रान्तसंस्तीर्णदर्भाः = पर्यन्तनिविष्टकुशाः (उपान्तेषु पार्श्वेषु आकीर्णाः दर्भाः येषां, ते)। अपघ्नन्तः = नाशयन्तः । वैतानाः = यज्ञसम्बन्धिनः (वितानः = यज्ञः) ।
प्रतिष्ठस्वेदानीम् ।
(सदृष्टिक्षेपम्) क्व ते शार्ङ्गरवमिश्राः ।
(प्रविश्य)
शिष्यः – भगवन् इमे स्मः ।
काश्यपः – भगिन्यास्ते मार्गमादेशय ।
शार्ङ्गरवः – इत इतो भवती ।
(सर्वे परिक्रामन्ति)
काश्यपः – भो भोः सन्निहितास्तपोवनतरवः ।
सन्निहिताः = समीपवर्तिनः, उपस्थिताः ।
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥४।९॥
व्यवस्यति = यतते ।
(कोकिलरवं सूचयित्वा)
अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः ।
परिभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥४।१०॥
परिभृतविरुतं = कोकिलकूजितम् । प्रतिवचनीकृतं = प्रत्युत्तररूपेण उपन्यस्तम् ।
(आकाशे)
रम्यान्तरः कमलिनीहरितैः सरोभिश्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥४।११॥
रम्यान्तरः = मध्यगामीमार्गः, मनोहरमध्यः ।
(सर्वे सविस्मयमाकर्णयन्ति)
गौतमी – जाते! ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः ।
शकुन्तला – (सप्रणामं परिक्रम्य । जनान्तिकम्) हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते ।
प्रियंवदा – न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते ।
उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥४।१२॥
शकुन्तला – (स्मृत्वा) तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये ।
काश्यपः – अवैमि ते तस्यां सोदर्यस्नेहम् । इयं तावद्दक्षिणेन ।
शकुन्तला – (उपेत्य लतामालिङ्ग्य) वनज्योत्स्ने चूतसङ्गतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहुभिः । अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि ।
दूरपरिवर्तिनी = दूरस्था ।
काश्यपः –
सङ्कल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेयमस्यामहं त्वयि च सम्प्रति वीतचिन्तः ॥४।१३॥
इतः पन्थानं प्रतिपद्यस्व ।
प्रतिपद्यस्व = अनुसर ।
शकुन्तला – (सख्यौ प्रति) हला एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
निक्षेपः = न्यासः (निक्षेपवत् समर्पितेयं सावधानतया संरक्षणीयेत्यर्थः) ।
सख्यौ – अयं जनः कस्य हस्ते समर्पितः । (इति बाष्पं विहरतः)
विहरतः = मुञ्चतः ।
काश्यपः – अनसूये अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला ।
(सर्वे परिक्रामन्ति)
शकुन्तला – तात एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदाऽनघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ।
गर्भमन्थरा = गर्भेण मन्दगमना ।
काश्यपः – नेदं विस्मरिष्यामः ।
शकुन्तला – (गतिभङ्गं रूपयित्वा) को नु खल्वेष निवसने मे सज्जते ।
निवसने सज्जते = वस्त्रे संसक्तो भवति, वसनमाकर्षति ।
(इति परावर्तते)
काश्यपः – वत्से,
यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥४।१४॥
न्यषिच्यत = नितरां सिक्तम् ।
शकुन्तला – वत्स किं सहवासपरित्यागिनीं मामनुसरसि । अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।
(इति रुदती प्रस्थिता)
काश्यपः –
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विरतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमी भवन्ति ॥४।१५॥
अलक्षितनतोन्नतभूमिभागे = अदृष्टबन्धुराधरित्रीतलांशे (नतोन्नतं = उच्चावचम्) । विषमी भवन्ति = स्खलिष्यन्ति । उपरुद्धवृत्तिं = प्रतिहतदर्शनशक्तिं, बाधितं प्रवर्तनं दर्शनव्यापारोः वा येन, तम् । विरतानुबन्धं = निरुद्धाविच्छिन्नप्रसरणं, विरतः अनुबन्धः यस्य, तत् (पुनः पुनरुत्पत्तिर्यस्य स अनुबन्धः । नेत्रजलं निवर्तयेति भावः) ।
शार्ङ्गरवः – भगवन् । ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हति ।
ओदकान्तम् = आ उदकान्तात् (उदकपर्यन्तम्) ।
काश्यपः – तेन हीमां क्षीरवृक्षच्छायामाश्रयामः ।
(सर्वे परिक्रम्य स्थिताः)
काश्यपः – (आत्मगतम्) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः सन्देष्टव्यम् ।
(इति चिन्तयति)
शकुन्तला – (जनान्तिकम्) हला पश्य । नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्यारटति दुष्करमहं करोमीति ।
नलिनीपत्रान्तरितं = कमलिनीदलव्यवहितम् ।
अनसूया – सखि मैवं मन्त्रयस्व ।
एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥४।१६॥
आशाबन्धः = आशा एव बन्धः ।
काश्यपः – शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
शार्ङ्गरवः – आज्ञापयतु भगवान् ।
काश्यपः –
अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं
चात्मनस्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥४।१७॥
प्रतिपत्तिः = बहुमानः, गौरवम् । भाग्यायत्तं = सौभाग्याधीनम् ।
शार्ङ्गरवः – गृहीतः सन्देशः ।
काश्यपः – वत्से त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् ।
शार्ङ्गरवः – न खलु धीमतां कश्चिदविषयो नाम ।
काश्यपः – सा त्वमितः पतिकुलं प्राप्य –
शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥४।१८॥
वृत्तिं = व्यवहारम् । अनुत्सेकिनी = निरभिमाना । आधयः = मनोव्यथाः । विप्रकृता = अपमानिता । प्रतीपं = प्रातिकूल्यं, विरुद्धम् ।
अनसूया – कथं वा गौतमी मन्यते ।
गौतमी – एतावान्वधूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय ।
मवधारय = गृहाण ।
काश्यपः – वत्से परिष्वजस्व मां सखीजनं च ।
शकुन्तला – तात इत एव किं प्रियंवदानुसूये सख्यौ निवर्तिष्येते ।
काश्यपः – वत्से इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति ।
शकुन्तला – (पितरमाश्लिष्य) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि ?
परिभ्रष्टा = च्युता ।
काश्यपः – वत्से किमेवं कातरासि ।
कातरा = विह्वला ।
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥४।१९॥
विभवगुरुभिः = सम्पत्तिमहनीयैः ।
(शकुन्तला पितुः पादयोः पतति)
काश्यपः – यदिच्छामि ते तदस्तु ।
शकुन्तला – (सख्यावुपेत्य) हला द्वे अपि मां सममेव परिष्वजेथाम् ।
सख्यौ – (तथा कृत्वा) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
शकुन्तला – अनेन सन्देहेन वां कम्पितास्मि ।
सख्यौ – मा भैषीः । अतिस्नेहः पापशङ्की ।
शार्ङ्गरवः – युगान्तरमारूढः सविता । त्वरतामत्रभवती ।
शकुन्तला – (आश्रमाभिमुखी स्थित्वा) तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये ।
काश्यपः – श्रूयताम् ।
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥४।२०॥
गौतमी – जाते परिहीयते गमनवेला । निवर्तय पितरम् । अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।
काश्यपः – वत्से उपरुध्यते तपोऽनुष्ठानम् ।
उपरुध्यते = अवरुध्यते ।
शकुन्तला – (भूयः पितरमाश्लिष्य) तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठस्व ।
काश्यपः – (सनिःश्वासम्)
शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् ।
उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥४।२१॥
गच्छ । शिवास्ते पन्थानः सन्तु ।
(निष्क्रान्ता शकुन्तला सहयायिनश्च)
सख्यौ – (शकुन्तलां विलोक्य) हा धिक् हा धिक् । अन्तर्हिता शकुन्तला वनराज्या ।
अन्तर्हिता = व्यवहिता, गोपायिता, चक्षुगोचरमतिक्रान्ता । वनराज्या = वनपङ्क्त्या ।
काश्यपः – (सनिःश्वासम्) अनसूये गतवती वां सहचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् ।
उभे – तात शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः ।
काश्यपः – स्नेहवृत्तिरेवन्दर्शिनी ।
स्नेहवृत्तिः = स्नेहानुबन्धः ।
(सविमर्शं परिक्रम्य)
हन्त भोः शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः ।
अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥४।२२॥
(इति निष्क्रान्ताः सर्वे)
॥ इति चतुर्थोऽङ्कः ॥