सामग्रीं त्यजन्तु

स्वप्नवासवदत्तम् — प्रथमोऽङ्कः

नान्दी –
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)

उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् ।
पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥१॥

उदयनवेन्दुसवर्णौ आसवदत्ताबलौ पद्मावतीर्णपूर्णौ वसन्तक्रमौ बलस्य भुजौ त्वां पाताम् ।
उदयनवेन्दुसवणौ = उद्गमनूतनचन्द्रसमानवणौ (उदये नवेन्दुः, उदयनवेन्दुना सवर्णौ), आसवदत्ताबलौ = मदिरावितीर्णबलाभावी (आसवेन दत्तं, तस्याभावः), मदिरापाननिर्बलाविति भावः । पद्मावतीर्णपूर्णौ = कमलाऽवतारपूरितौ, कमलतुल्य कोमलौ (पद्मस्य अवतीर्णं, तेन पूर्णौ)। वसन्तक्रमौ = सुरभिमनोहरौ (वसन्त इव क्रमौ) ।

सुत्रधारः – एवमार्यमिश्रान् विज्ञापयामि। अये! किन्नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते? अङ्ग। पश्यामि।

अङ्ग = भोः

नेपथ्ये – उत्सरतोत्सरतार्याः! उत्सरत।

उत्सरत = अपसरत (अस्मात् स्थानात्)

सूत्रधारः – भवतु, विज्ञातम्।
सूत्रधारः –

भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः ।
धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥२॥

स्निग्धैः = स्नेहयुक्तैः । धृष्टम् = निःशङ्कम् यथा तथा । कन्यानुगामिभिः = कन्याम् अनुगच्छन्ति तच्छीलाः । तपोवनगतः = तपोवनं गतः ।

(निष्क्रान्तः)
भटः – उत्सरतोत्सरतार्याः! उत्सरत। (ततः प्रविशति परिव्राजकवेशो यौगन्धरायणः आवन्तिकावेषधारिणी वासवदत्ता च ।)
यौगन्धरायणः – (कर्णं दत्वा) कथमिहाप्युत्सार्यते? कुतः –

धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलैर्
मानार्हस्य जनस्य वलकलवतस्त्रासः समुत्पाद्यते।

उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः
कोऽयं भो! निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥३॥

आश्रमसंश्रितस्य = तपोवनाश्रितस्य (आश्रमं संश्रितः)। मानार्हस्य = सत्कारयोग्यस्य (मानम् अर्हतीति; अर्ह पूजायाम् अनेन अच् प्रत्ययः, उपपदसमासः) । त्रासः = भयम् । समुत्पाद्यते = समुद्भाव्यते । उत्सिक्तः = गर्वितः । विनयाद् = नम्रतायाः । अपेतपुरुषः = अपगतजनः । विस्मितः = आश्चर्यान्वितः (मादृशः सम्पन्नः कः स्यादिति आश्चर्यसमन्वितः इति भावः) । निभृतं = निश्चलं, शान्तम् । ग्रामीकरोति = संवसथीकरोति, तपोवनमपि उत्सारणरूपकोलाहलेन ग्रामरूपतां प्रापयतीति भावः (अग्रामो ग्रामो यथा सम्पद्यते)।
शार्दूलविक्रीडितम् ।

वासवदत्ता – आर्य! क एष उत्सारयति ?
यौगन्धरायणः – भवति! यो धर्मादात्मानमुत्सारयति।
वासवदत्ता – आर्य! न ह्येवं वक्तुकामा, अहमपि नामोत्सारयितव्या भवामीति।
यौगन्धरायणः – भवति । एवमनिर्ज्ञातानि दैवतान्यवधूयन्ते।

अनिर्ज्ञातानि = अविदितानि । अवधूयन्ते = तिरस्क्रियन्ते ।

वासवदत्ता – आर्य! तथा परिश्रमः परिखेदं नोत्पादयति यथायं परिभवः ।

अनादर: परिभवः परीभावस्तिरस्क्रिया इत्यमरः ।

यौगन्धरायणः – भुक्तोज्झित एव विषयोऽत्रभवत्या, नात्र चिन्ता कार्या। कुतः ।

भुक्तोज्झितः = प्राग् भुक्तः पश्चात् उज्झित:, “पूर्वकालैक सर्वजरत्पुराणनवकेवलाः समानाऽधिकरणेन" इत्यनेन कर्मधारयः ।

पूर्वं त्वयाप्यभिमतं गतमेवमासीच्छलाघ्यं गमिष्यसि पुनर्विजयेन भर्तुः ।
कालक्रमेण जगतः परिवर्तमाना चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥४॥

नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण [मेघदूतम्] । अभिमतम् = अभीष्टम् । कालक्रमेण = समयपरिपाट्या । परिवर्तमाना = परिभ्रमन्ती । भाग्यपङ्क्तिः = अदृष्टपरम्परा । चक्रारपङ्क्तिः = रथाङ्गावयवश्रेणिः ।
अर्थान्तरन्यासः ।

भटौ – उत्सरतार्याः । उत्सरत । (ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः – सम्भषक! न खलू न खलूत्सारणा कार्या। पश्य –

परिहरतु भवान् नृपापवादं, न परुषमाश्रमवासिषु प्रयोज्यम् ।
नगरपरिभवान् विमोक्तुमेते, वनमभिगम्य मनस्विनो वसन्ति ॥

नगरपरिभवान् = नगरतिरस्कारान् (नगरे परिभवाः, तान्) ।

उभौ – आर्य! तथा
(निष्क्रान्तौ )
(एवमुक्त्वा भटौ बहिर्गच्छतः )
यौगन्धरायणः – हन्त! संविज्ञानमस्य दर्शनम्। वत्से! उपसर्पावस्तावदेनम्।

हन्त = हर्षविषयः इत्यर्थः । संविज्ञानम् = विशिष्टज्ञानसहितम् ।

वासवदत्ता – आर्य! तथा ।
यौगन्धरायणः – (उपसृत्य) भोः! किङ्कृतेयमुत्सारणा ।
काञ्चुकीयः – भोस्तपस्विन्।
यौगन्धरायणः – (आत्मगतम्) तपस्विन्निति गुणवान् खल्ययमालापः अपरिचयात्तु न श्लिष्यते मे मनसि।

आलापः = आभाषणम् । गुणवान् = विशिष्टगुणसम्पन्नः । श्लिष्यते = सम्बद्ध्यते (पाणिनीयं तु श्लिष्यति) ।

काञ्चुकीयः – भोः! श्रूयताम् । एषा खलु गुरुभिरभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम । सैषा नो महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति। तदद्यास्मिन्नाश्रमपदे वासोऽभिप्रेतोऽस्याः। तद् भवन्तः–

नाम इति प्रसिद्धौ । आश्रमपदे = तपोवनस्थाने । अभिप्रेतः = उद्दिष्टः ।

तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनादुपनयन्तु तपोधनानि ।
धर्मप्रिया नृपसुता न हि धर्मपीडामिच्छेत् तपस्विषु कुलव्रतमेतदस्याः ॥६॥

स्वैरं = स्वच्छन्दम् । उपनयन्तु = प्राप्नुवन्तु ।

यौगन्धरायणः – (स्वगतम्) एवम्! एषा सा मगधराजपुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यति इति । ततः

आदेशिकैः = दैवज्ञैः ।

प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते ।
भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥७॥

प्रद्वेषः = अतिशयाऽप्रीतिः । बहुमानः = अत्यादरः । सङ्कल्पात् = मानसकर्मणः (चित्तिवृत्तितः) । उपजायते = उत्पद्यते । स्वता = आत्मीयता ।

वासवदत्ता – (स्वगतम्) राजदारिकेति श्रुत्वा भगिनिकास्नेहोऽपि मेऽत्र सम्पद्यते । (ततः प्रविशति पद्मावती सपरिवारा चेटी च )
चेटी – एतु एतु भर्तृदारिका, इदमाश्रमपदं प्रविशतु । (ततः प्रविशति उपविष्टा तापसी )
तापसी – स्वागतं राजदारिकायाः
वासवदत्ता – (स्वगतम्) इयं सा राजदारिका। अभिजनानुरूपं खल्वस्या रूपम्।

अभिजननुरूपम् = वंशसदृशम् । सन्ततिर्गोत्रजननकुलान्यभिजनाऽन्वयौ इत्यमरः ।

पद्मावती – आर्ये! वन्दे।
तापसी – चिरं जीव, प्रविश जाते! प्रविश, तपोवनानि नामऽतिथिजनस्य स्वकगेहम् ।
पद्मावती – भवतु भवतु आर्ये! विश्वस्तास्मि अनेन बहुमानवचनेन अनुगृहीतास्मि ।
वासवदत्ता – (स्वगतम्) न हि रूपमेव, वागपि खल्वस्याः मधुरा।
तापसी – भद्रे! इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा न वरयति ?
चेटी – अस्ति राजा प्रद्योतो नामोज्जयिन्याः । स दारकस्य कारणाद् दूतसम्पातं करोति ।

दूतसम्पातम् = सन्देशहरप्रेषणम् ।

वासवदत्ता – (आत्मगतम्) भवतु भवतु, एषा चात्मीयेदानीं संवृत्ता ।
तापसी – अर्हा खल्वियमाकृतिरस्य बहुमानस्य। उभे राजकुले महत्तरे इति श्रूयते ।
पद्मावती – आर्य! किं दृष्टो मुनिजनः आत्मानम् अनुग्रहीतुम? अभिप्रेतप्रदानेन तपस्विजन उपनिमन्त्र्यतां तावत् कः किमत्रेच्छतीति ।
काञ्चुकीयः – यदभिप्रेतं भवत्या। भो भो आश्रमवासिनस्तपस्विनः । शृण्वन्तु भवन्तः । इहात्रभवती मगधराजपुत्री अनेन विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थमर्थेनोपनिमन्त्र्यते ।

विस्रम्भेण = विश्वासेन । उत्पादितविश्रम्भा = जनितविश्वासा । उपनिमन्त्रयते = उप/निमन्त्रणं करोति ।

कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं
दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत्।
आत्मानुग्रहमिच्छतीह नृपजा धर्माभिरामप्रिया
यद् यस्यास्ति समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ॥८॥

पारितवान् = समापितवान् (कः स्नातकः इति शेषः)।

शार्दूलविक्रीडितम् ।

यौगन्धरायणः – (स्वगतम्) हन्त! दृष्ट उपायः। (प्रकाशम्) भोः अहमर्थी।
पद्मावती – दिष्ट्या सफलं मे तपोवनाभिगमनम्।
तापसी – सन्तुष्टतपस्विजनमिदमाश्रमपदम्। आगन्तुकेनानेन भवितव्यम्।

आगन्तुकेन = देशान्तरायातेन ।

काञ्चुकीयः – भोः! किं क्रियताम् ?
यौगन्धरायणः – इयं मे स्वसा। प्रोषितभर्तृकामिमामिच्छाम्यत्रभवत्या किञ्चित्कालं परिपाल्यमानाम्।
कुतः –

प्रोषितभर्तृकाम् = प्रवासोषितपतिकाम् । परिपाल्यमानाम् = संरक्ष्यमाणाम् ।

कार्यं नैवार्थैर्नापि भोगैर्न वस्त्रैर्नाहं काषायं वृत्तिहेतोः प्रपन्नः ।
धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥९॥

दृष्टधर्मप्रचारा = दृष्टः धर्मप्रचारः यया सा ।

वासवदत्ता – (आत्मगतम्) हम्! इह मां निक्षेप्तुकामः आर्ययौगन्धरायणः । भवतु। अविचार्य क्रमं न करिष्यति।

निक्षेप्तुकामः = न्यस्तुकामः । क्रमं = पादविन्यासं ।

काञ्चुकीयः – भवति! महती खल्वस्य व्यपाश्रयणा । कथं प्रतिजानीमः ? कुतः –

व्यपाश्रयणा = आश्रययाचना । प्रतिजानीमः = प्रतिज्ञां कुर्मः ।

सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः ।
सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥१०॥

पद्मावती – आर्य! प्रथममुद्घोष्य कः किमिच्छतीत्ययुक्तमिदानीं विचारयितुम् । यदेष भणति, तदनुतिष्ठत्वार्यः।
काञ्चुकीयः – अनुरूपमेतद् भवत्याभिहितम्।
चेटी – चिरं जीवतु भर्तृदारिका सत्यवादिनी।
तापसी – चिरं जीवतु भद्रे!
काञ्चुकीयः – भवति तथा। (उपगम्य) भो! अभ्युपगतमत्रभवतो भगिन्याः परिपालनमत्रभवत्या।
यौगन्धरायणः – अनुगृहीतोऽस्मि तत्रभवत्या। वत्से! उपसर्पात्रभवतीम्।
वासवदत्ता – (आत्मगतम् ) का गतिः ? एषा गच्छामि मन्दभागा।
पद्मावती – भवतु भवतु । आत्मीयेदानीं संवृत्ता।
तापसी – या ईदृश्यस्या आकृतिः, इयमपि राजदारिकेति तर्कयामि।
चेटी – सुष्ठु आर्या भणति । अहमप्यनुभूतसुखेति प्रेक्षे।

अनुभूतसुखा = निर्विष्टानन्दा ।

यौगन्धरायणः – (आत्मगतम्) हन्त भोः! अर्धमवसितं भारस्य। यथा मन्त्रिभिः सह समर्थितं, तथा परिणमति । ततः प्रतिष्ठिते स्वामिनि तत्रभवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति । कुतः –

अवसितं = समाप्तम् ।

पद्मावती नरपतेर्महिषी भवित्री दृष्टा विपत्तिरथ यैः प्रथमं प्रदिष्टा।
तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्यान्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि ॥११॥

तत्प्रत्ययात् = सिद्धवचनविश्वासात् । व्युत्क्रम्य = उल्लङ्घ्य ।

अर्थान्तरन्यासः । वसन्ततिलका ।*

(ततः प्रविशति ब्रह्मचारी )
ब्रह्मचारी – (ऊर्ध्वमवलोक्य) स्थितो मध्याह्नः। दृढमस्मि परिश्रान्तः। अथ कस्मिन् प्रदेशे विश्रमयिष्ये ? (परिक्रम्य) भवतु , दृष्टम्। अभितस्तपोवनेन भवितव्यम् ।
तथाहि –

विस्रब्धं हरिणाश्चरन्त्यचकिता देशागतप्रत्यया
वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः।
भूयिष्ठं कपिलानि गोकुलधनान्यक्षेत्रवत्यो दिशो
निःसन्दिग्धमिदं तपोवनमयं धूमो हि बह्वाश्रयः ॥१२॥

विस्रब्धं = विस्रम्भपूर्वकम् । देशागतप्रत्ययाः = स्थानागतविश्वासाः । भूयिष्ठम् = प्रचुरम् । गोकुलधनानि = धेनुसमूहद्रव्याणि । बह्वाश्रयः = अधिकाधिकरणः।

ब्रह्मचारी – यावत् प्रविशामि। ( प्रविश्य )अये! आश्रमविरुद्धः खलु एषः जनः।(अन्यतो विलोक्य) अथवा तपस्विजनोऽप्यत्र निर्दोषमुपसर्पणम्! अये! स्त्रीजनः ।
काञ्चुकीयः – स्वैरं स्वैरं प्रविशतु भवान्। सर्वजनसाधारणम् आश्रमपदं नाम।
वासवदत्ता – हं।
पद्मावती – अम्भो! परपुरुषदर्शनं परिहरत्यार्या । भवतु, सुपरिपालनीयः खलु मन्न्यासः।
काञ्चुकीयः – भोः! पूर्वं प्रविष्टाः स्मः। प्रतिगृह्यताम् अतिथिसत्कारः।
ब्रह्मचारी – (आचम्य) भवतु, भवतु । निवृत्तपरिश्रमोऽस्मि।
यौगन्धरायणः – भो! कुतः आगम्यते, क्व गन्तव्यं क्वाधिष्ठानमार्यस्य।
ब्रह्मचारी – भो! श्रूयताम् । राजगृहतोऽस्मि। श्रुतिविशेषार्थं वत्सभूमौ लावणकं नाम । ग्रामस्तत्रोषितवानस्मि ।
वासवदत्ता – (आत्मगतम्) हा! लावणकं नाम। लावणकसङ्कीर्तनेन पुनर्नवीकृत इव मे सन्तापः ।
यौगन्धरायणः – अथ परिसमाप्ता विद्या ?
ब्रह्मचारी – न खलु तावत् ।
यौगन्धरायणः – यद्यनवसिता विद्या, किमागमनप्रयोजनम् ।
ब्रह्मचारी – तत्र खल्वतिदारुणं व्यसनं संवृत्तम् ।

अतिदारुणम् = अतिभीषणम् । व्यसनं = विपत्तिः ।

यौगन्धरायणः – कथमिव ?
ब्रह्मचारी – तत्रोदयनो नाम राजा प्रतिवसति ।
यौगन्धरायणः – श्रूयते तत्रभवानुदयनः । किं सः ?
ब्रह्मचारी – तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी दृढमभिप्रेता किल।

अभिप्रेता = अभीष्टा ।

यौगन्धरायणः – भवितव्यम्। ततस्ततः ?
ब्रह्मचारी – ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्रामदाहेन सा दग्धा।

मृगयानिष्क्रान्ते = आखेटार्थं निर्गते सति ।

वासवदत्ता – ( आत्मगतम्) अलीकम् अलीकं खल्वेतत् । जीवामि मन्दभागा।
यौगन्धरायणः – ततस्ततः ?
ब्रह्माचारी – ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्तस्मिन्नेवाग्नौ पतितः ।

अभ्यवपत्तुकामः = संत्रातुकामः (व्यसनसाहाय्यम् अभ्यवपत्तिः)।

यौगन्धरायणः – सत्यं पतित इति। ततस्ततः ?
ब्रह्मचारी – ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर्वियोगजनितसन्तापस्तस्मिन्नेवाग्नौ प्राणान् परित्यक्तुकामोऽमात्यैर्महता यत्नेन वारितः ।
वासवदत्ता – (आत्मगतम्) जानामि जानम्यार्यपुत्रस्य मयि सानुक्रोशत्वम्।

सानुक्रोशत्वं = दयालुत्वम् ।

यौगन्धरायणः – ततस्ततः ?
ब्रह्मचारी – ततस्तस्याः शरीरोपभुक्तानि दग्धशेषाण्याभरणानि परिष्वज्य राजा मोहमुपगतः।
सर्वे – हा
वासवदत्ता – (स्वगतम्) सकाम इदानीमार्ययौगन्धरायणो भवतु ।
चेटी – भर्तृदारिके! रोदिति खल्वियमार्या।
पद्मावती – सानुक्रोशया भवितव्यम्।
यौगन्धरायणः – अथ किम् अथ किम् ? प्रकृत्या सानुक्रोशा मे भगिनी। ततस्ततः ।
ब्रह्मचारी – ततः शनैः शनैः प्रतिलब्धसंज्ञः संवृत्तः ।
पद्मावती – दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शून्यमिव मे हृदयम्।

ध्रियते = अवतिष्ठते ।

यौगन्धरायणः – ततस्ततः?
ब्रह्मचारी – ततः स राजा महीतलपरिसर्पणपांसुपाटलशरीरः सहसोत्थाय हा वासवदत्ते! हा अवन्तिराजपुत्रि! हा प्रिये! हा प्रियशिष्ये! इति किमपि बहुप्रलपितवान्। किं बहुना

महीतलपरिसर्पणपांसुपाटलशरीरः = भूतलपरिवर्तनधूलिश्वेतरक्तदेहः ।

नैवेदानीं तादृशाश्चक्रवाका नैवाप्यन्ये स्त्रीविशेषैर्वियुक्ताः।
धन्या सा स्त्री यां तथा वेत्ति भर्ता भर्तृस्नेहात् सा हि दग्धाऽप्यदग्धा ॥१३॥

यौगन्धरायणः – अथ भोः! तं तु पर्यवस्थापयितुं न कश्चिद् यत्नवानमात्यः।

पर्यवस्थापयितुं = प्रकृतिस्थं कारयितुम् ।

ब्रह्मचारी – अस्ति रुमण्वान्नामामात्यो दृढं प्रयत्नवांस्तत्रभवन्तं पर्यवस्थापयितुम्। स हि

अनाहारे तुल्यः प्रततरुदितक्षामवदनः शरीरे संस्कारं नृपतिसमदुःखं परिवहन्।
दिवा वा रात्रौ वा परिचरति यत्नैर्नरपतिं नृपः प्राणान् सद्यस्त्यजति यदि तस्याप्युपरमः ॥१४॥

प्रततरुदितक्षामवदनः = निरन्तररोदनकृशमुखः (प्रततम् = अनारतम् । क्षामः = क्षीणः, कृशः । प्रततरुदितेन क्षामवदनः)।

वासवदत्ता – (स्वगतम् ) दिष्ट्या सुनिक्षिप्त इदानीमार्यपुत्रः ।
यौगन्धरायणाः – (आत्मगतम्) अहो। महद्भारमुदवहति रुमण्वान् । कुतः –

उद्वहति = धारयति ।

सविश्रमो ह्ययं भारः प्रसक्तस्तस्य तु श्रमः ।
तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः ॥१५॥

सविश्रमः = विश्रमयुक्तः । भारः = धूः । प्रस्क्तः = संलग्नः, निरन्तरं भवति ।

(प्रकाशम्) अथ भो! पर्यवस्थापित इदानीं स राजा ?
ब्रह्मचारी – तदिदानीं न जाने । 'इह तया सह हसितम् , इह तया सह कथितम् , इह तया सह पर्युषितम् इह तया सह कुपितम् इह तया सह शयितम्' इत्येवं तं विलपन्तं राजानम् अमात्यैः महता यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् । ततो निष्क्रान्ते राजनि प्रोषितनक्षत्रचन्द्रमिव नभोऽरमणीयः संवृत्तः स ग्रामः । ततोऽहमपि निर्गतोऽस्मि ।

पर्युषितम् = स्थितम् । अपक्रान्तं = निर्गतम् । प्रोषितचन्द्रनक्षत्रम् = अस्तंगतेन्दुतारकम् ।

तापसी – स खलु गुणवान् नाम राजा, य आगन्तुकेनाप्यनेनैवं प्रशस्यते
चेटी – भर्तृदारिके! किन्नु खल्वपरा स्त्री तस्य हस्तं गमिष्यति?
पद्मावती – (आत्मगतम् ) मम हृदयेनैव सह मन्त्रितम् ।

मन्त्रितम् = गुप्तपरिभाषणं कृतम् ।

ब्रह्मचारी – आपृच्छामि भवन्तौ । गच्छामस्तावत्।
उभौ – गम्यतामर्थसिद्धये
ब्रह्मचारी – तथाऽस्तु ।
(निष्क्रान्तः)
यौगन्धरायणः – साधु, अहमपि तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छामि।
काञ्चुकीयः – तत्रभवत्या अभ्यनुज्ञातो गन्तुमिच्छति किल ।
पद्मावती – आर्यस्य भगिनिका आर्येण विना उत्कण्ठिष्यते।
यौगन्धरायणः – साधुजनहस्तगतैषा नोत्कण्ठिष्यति (काञ्चुकीयमवलोक्य) गच्छामस्तावत्।
काञ्चुकीयः – गच्छतु भवान् पुनर्दर्शनाय।
यौगन्धरायणः – तथाऽस्तु ।
(निष्क्रान्तः)
काञ्चुकीयः – समय इदानीमभ्यन्तरं प्रवेष्टुम्।

अभ्यन्तरम् = अन्तः ।

पद्मावती – आर्ये! वन्दे।
तापसी – जाते! तव सदृशं भर्तारं लभस्व।
वासवदत्ता – आर्ये! वन्दे तावदहम् ।
तापसी – त्वमप्यचिरेण भर्तारं समासादय।
वासवदत्ता – अनुगृहीतास्मि।
काञ्चुकीयः – तदागम्यताम् । इत इतो भवति! साम्प्रतं हि

खगा वासोपेताः सलिलमवगाढो मुनिजनः
प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम्।
परिभ्रष्टो दूराद् रविरपि च सङ्क्षिप्तकिरणो
रथं व्यावर्त्यासौ प्रविशति शनैरस्तशिखरम् ॥६॥

व्यावर्त्य = निरुध्य । प्रविशति = अवगाहते ।

(निष्क्रान्ताः सर्वे)
(इति प्रथमोऽङ्कः)

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् — —
भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः — —
धीरस्याश्रमसंश्रितस्य वसतस्तुष्टस्य वन्यैः फलैर् मानार्हस्य… — —
उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः कोऽयं भो! नि… — —
पूर्वं त्वयाप्यभिमतं गतमेवमासीच्छलाघ्यं गमिष्यसि पुनर्विजयेन… — —
परिहरतु भवान् नृपापवादं, न परुषमाश्रमवासिषु प्रयोज्यम् — —
तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनादुपनयन्तु तपोधन… — —
प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते — —
कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं दीक्षां पारितवान्… — —
कार्यं नैवार्थैर्नापि भोगैर्न वस्त्रैर्नाहं काषायं वृत्तिहेत… — —
सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः — —
पद्मावती नरपतेर्महिषी भवित्री दृष्टा विपत्तिरथ यैः प्रथमं प्… — —
विस्रब्धं हरिणाश्चरन्त्यचकिता देशागतप्रत्यया वृक्षाः पुष्पफल… — —
नैवेदानीं तादृशाश्चक्रवाका नैवाप्यन्ये स्त्रीविशेषैर्वियुक्त… — —
अनाहारे तुल्यः प्रततरुदितक्षामवदनः शरीरे संस्कारं नृपतिसमदुः… — —
सविश्रमो ह्ययं भारः प्रसक्तस्तस्य तु श्रमः — —
खगा वासोपेताः सलिलमवगाढो मुनिजनः प्रदीप्तोऽग्निर्भाति प्रविच… शिखरिणी स्वभावोक्तिः