उत्तररामचरितम् — प्रथमोऽङ्कः (चित्रदर्शनम्)¶
इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।
वन्देमहि च तां वाणीममृतामात्मनः कलाम् ॥१।१॥
(नाद्यन्ते)
सूत्रधारः – अलमतिविस्तरेण । अद्य खलु भगवतः कालप्रियानाथस्य यात्रायामार्यमिश्रान्विज्ञापयामि । एवमत्रभवन्तो विदाङ्कुर्वन्तु – अस्ति खलु तत्रभवान्काश्यपः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो भवभूतिर्नाम जातूकर्णीपुत्रः ।
यं ब्रह्माणमियं देवी वाग्वश्येवानुवर्तते ।
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥१।२॥
सूत्रधारः – एषोऽस्मि कार्यवशादायोध्यकस्तदानीन्तनश्च संवृत्तः । (समन्तादवलोक्य) भो भो! यदि तावदत्रभवतः पौलस्त्यकुलधूमकेतोर्महाराजरामस्यायमभिषेकसमयो रात्रिन्दिवमसंहृतानन्दनान्दीकस्तत्किमद्य विश्रान्तचारणानि चत्वरस्थानानि।
पौलस्त्यकुलधूमकेतो = रावणवंशभस्मीकर्तुः (धूमकेतुः = उत्पातगृहविशेषः, उल्का) । असंहृतानन्दनान्दीकः = असमाप्तसन्तोषसूचकमङ्गलवाद्ययुतः । विश्रान्तचारणानि = चारणशून्यानि ।
(प्रविश्य)
नटः – भाव! प्रेषिता हि ते स्वगृहान्महाराजेन लङ्कासमरसुहृदो महात्मानः प्लवङ्गमराक्षसाः, सभाजनोपस्थायिनश्च नानादिगन्तागता ब्रह्मर्षयो राजर्षयश्च यत्समाराधनाय एतावतो दिवसान् उत्सव आसीत्।
भाव = विद्वन् ।
सूत्रधारः – आ अस्त्येतन्निमित्तम्।
नटः – अन्यच्च ।
वसिष्ठाधिष्ठिता देव्यो गता रामस्य मातरः।
अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥१।३॥
सूत्रधारः – वैदेशिकोऽस्मीति पृच्छामि कः पुनरसौ जामाता ?
नटः –
कन्यां दशरथो राजा शान्तां नाम व्यजीजनत्।
अपत्यकृतिकां राज्ञे लोमपादाय यां ददौ ॥१।४॥
नटः – विभाण्डकसुतस्तामृष्यशृङ्ग उपयेमे। तेन द्वादशवार्षिकं सत्रमारब्धम्। तदनुरोधात् कठोरगर्भामपि वधूं जानकीं विमुच्य गुरुजनस्तत्र गतः।
उपयेमे = उदवहत् । कठोरगर्भाम् = पूर्णगर्भाम् (कठोरौ पूर्णकठिनौ इति हैमः) ।
सूत्रधारः – तत्किमनेन? एहि। राजद्वारमेव स्वजातिसमयेनोपतिष्ठावः।
नटः – तेन हि निरूपयतु राज्ञः सुपरिशुद्धामुपस्थानस्तोत्रपद्धति भावः।
सूत्रधारः – मारिष!
सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता ।
यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥१।५॥
नटः – अतिदुर्जन इति वक्तव्यम्।
देव्यामपि हि वैदेह्यां सापवादो यतो जनः।
रक्षोगृहस्थितिर्मूलमग्निशुद्धौ त्वनिश्चयः ॥१।६॥
सूत्रधारः – यदि पुनरियं किंवदन्ती महाराजं प्रति स्यन्देत ततः कष्टं स्यात् ।
नटः – सर्वथा ऋषयो देवताश्च श्रेयो विधास्यन्ति। (परिक्रम्य) भो भोः क्वेदानीं महाराजः ? (आकर्ण्य) एवं जनाः कथयन्ति –
स्नेहात् सभाजयितुमेत्य दिनान्यमूनि नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् ।
देव्यास्ततो विमनसः परिसान्त्वनाय धर्मासनाद् विशति वासगृहं नरेन्द्रः ॥१।७॥
सभाजयितुं = सम्मानयितुम् । विमनसः = खिन्नमानसायाः । परिसान्त्वनाय = मनःसमाधानाय ।
(इति निष्क्रान्तौ)
॥ इति प्रस्तावना ॥
(ततः प्रविशतत्युपविष्टो रामः सीता च)
रामः – देवि वैदेहि! समाश्वसिहि । ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् –
किन्त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।
सङ्कटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता ॥१।८॥
सीता – जानामि आर्यपुत्र! जानामि । किन्तु सन्तापकारिणो बन्धुजनविप्रयोगा भवन्ति।
रामः – एवमेतत्। एते हि हृदयमर्मच्छिदः संसारभावा येभ्यो बीभत्समानाः सन्त्यज्य सर्वान् कामान् अरण्ये विश्राम्यन्ति मनीषिणः।
हृदयमर्मच्छिदः = हृदयमर्मस्थलभेदकाः । बीभत्समानाः = जुगुप्समानाः ।
(प्रविश्य)
कञ्चुकी – रामभद्र ... (इत्यर्थोक्ते साशङ्कम्) महाराज!
रामः – (सस्मितम्) आर्य! ननु 'रामभद्र' इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य। तद्यथाऽभ्यस्तमिभिधीयताम्।
उपचारः = व्यवहारः ।
कञ्चुकी – देव! ऋष्यशृङ्गाश्रमादष्टावक्रः सम्प्राप्तः ।
सीता – आर्य! ततः किं विलम्ब्यते।
रामः – त्वरितं प्रवेशय।
(कञ्चुकी निष्क्रान्तः)
अष्टावक्रः – स्वस्ति वाम्।
रामः – भगवन्! अभिवादये। इत आस्यताम्।
सीता – भगवन्! नमस्ते! अपि कुशलं सजामातृकस्य गुरुजनस्यार्यायाः शान्तायाश्च ।
रामः – निर्विघ्नः सोमपीथी आवुत्तो मे भगवान् ऋष्यशृङ्ग आर्या च शान्ता?
सीता – अस्मान् वा स्मरति?
अष्टावक्रः – (उपविश्य) अथकिम् देवि! कुलगुरुर्भगवान् वसिष्ठस्त्वामिदमाह –
विश्वम्भरा भगवती भवतीमसूत, राजा प्रजापतिसमो जनकः पिता ते।
तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां, येषां कुलेषु सविता च गुरुर्वयं च ॥१।९॥
तत्किमन्यदाशास्महे। केवलं वीरप्रसवा भूयाः।
रामः – अनुगृहीताः स्मः।
लौकिकानां हि साधूनामर्थं वागनुवर्तते।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥१।१०॥
अष्टावक्रः – इदञ्च भगवत्याऽरुन्धत्या देवीभिः शान्तया च भूयो भूयः सन्दिष्टम्। यः कश्चिद् गर्भदोहदोऽस्या भवति सोऽवश्यमचिरात् सम्पादयितव्य इति ।
गर्भदोहदः = गर्भिण्यभिलाषः ।
रामः – क्रियते यद्येषा कथयति ।
अष्टावक्रः – ननान्दुः पत्या च देव्याः सन्दिष्टमृष्यशृङ्गेण – 'वत्से! कठोरगर्भेति नानीतासि। वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः। तत्पुत्रपूर्णोत्सङ्गामायुष्मतीं द्रक्ष्याम' इति।
रामः – (सहर्षलज्जास्मितम्) तथाऽस्तु । भगवता वसिष्ठेन न किञ्चिदादिष्टोऽस्मि ?
अष्टावक्रः – श्रूयताम्
जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम्।
युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत् परमं धनं वः॥१।११॥
निरुद्धाः = उपरुद्धाः ।
रामः – यथा समादिशति भगवान् मैत्रावरुणिः।
स्नेहं दयां च सौख्यं च यदि वा जानकीमपि।
आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥१।१२॥
सीता – अत एव राघवकुलधुरन्धर आर्यपुत्रः ।
रामः – कः कोऽत्र भोः? विश्राम्यतामष्टावक्रः।
अष्टावक्रः – (उत्थााय परिक्रम्य च) अये, कुमारलक्ष्मणः प्राप्तः।
(इति निष्क्रान्तः)
(प्रविश्य)
लक्ष्मणः – जयति जयत्यार्यः। आर्य, अर्जुनेन चित्रकरेणास्मदुपदिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखितम्। तत् पश्यत्वार्यः।
रामः – जानासि वत्स, दुर्मनायमानां देवीं विनोदयितुम्। तत्कियन्तमवधिं यावत् ?
दुर्मनायमानां = दुःखितमनस्काम् (दुःस्थितं मनोयस्याः दुर्मनाः । अदुर्मनाः दुर्मनाः भवति दुर्मनायते, शानच्) । विनोदयितुम् = दुःखविस्मरणपूर्वकं सन्तोषं ग्राहयितुम् ।
लक्ष्मणः – यावदार्यायाः हुताशनविशुद्धिः ।
रामः – शान्तं पापम्। (ससान्त्ववचनम्)
उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः।
तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥१।१३॥
देवि देवयजनसम्भवे! प्रसीद । एष ते जीवितावधिः प्रवादः।
अवताडनानि = अवमर्दनानि ।
क्लिष्टो जनः कुलधनैरनुरञ्जनीयस्तन्नो यदुक्तमशुभं नहि तत्क्षमं ते।
नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥१।१४॥
सीता – भवतु आर्यपुत्र भवतु। एहि प्रेक्षामहे तावत्ते चरितम्।
लक्ष्मणः – इदं तदालेख्यम्।
(इत्युत्थाय परिक्रामतः)
सीता – (निर्वर्ण्य) के एते उपरिनिरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम्।
लक्ष्मणः – देवि! एतानि तानि रहस्यानि जृम्भकास्त्राणि यानि भगवतः कृशाश्वात् कौशिकमृषिमुपसङ्क्रान्तानि, तेन च ताटकावधे प्रसादीकृतान्यार्यस्य।
रामः – वन्दस्व देवि! दिव्यास्त्राणि ।
ब्रह्मादयो ब्रह्महिताय तप्त्वा परः सहस्राः शरदस्तपांसि।
एतान्यपश्यन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१।१५॥
सीता – नमः एतेभ्यः।
रामः – सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ति ।
उपस्थास्यन्ति = प्राप्स्यन्ति ।
सीता – अनुगृहीतास्मि ।
लक्ष्मणः – एष मिथिलावृत्तान्तः।
सीता – अहो! दलन्नवनीलोत्पलश्यामलस्निग्धमसृणशोभमानमांसलेन देहसौभाग्येन विस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरश्रीरनादर खण्डितशङ्करशरासनः शिखण्डमुग्धमुखमण्डल आर्यपुत्र आलिखितः।
विस्मयस्तिमिततातदृश्यमानसौम्यसुन्दरश्रीः = विस्मयेन स्तिमितः (निश्चलः) तातः, तेन दृश्यमाना सौम्यसुन्दरश्रीः यस्य सः ।
लक्ष्मणः – आर्ये, पश्य पश्य –
सम्बन्धिनो वसिष्ठादीनेष तातस्तवार्चति।
गौतमश्च शतानन्दो जनकानां पुरोहितः ॥१।१६॥
रामः – सुश्लिष्टमेतत् –
जनकानां रघूणां च सम्बन्धः कस्य न प्रियः।
यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः ॥१।१७॥
सीता – एत खलु तत्कालकृतगोदानमङ्गलाश्चत्वारो भ्रातरो विवाहदीक्षिता यूयम्। अहो! जानामि तस्मिन्नेव प्रदेशे तस्मिन्नेव काले वर्ते।
रामः – एवम्,
समयः स वर्तत इवैष यत्र मां समनन्दयत् सुमुखि! गौतमार्पितः ।
अयमागृहीतकमनीयकङ्कणस्तव मूर्तिमानिव महोत्सवः करः॥१।१८॥
लक्ष्मणः – इयमार्या। इयमप्यार्या माण्डवी। इयमपि वधूः श्रुतकीर्तिः ।
सीता – वत्स! इयमप्यपरा का?
लक्ष्मणः – (सलज्जस्मितम्, आत्मगतम्) अये! उर्मिलां पृच्छत्यार्या। भवतु, अन्यतः सञ्चारयामि। (प्रकाशम्) आर्ये! दृश्यतां द्रष्टव्यमेतत्। अयं च भगवान्भार्गवः ।
सीता – (ससम्भ्रमम्) कम्पितास्मि ।
रामः – ऋषे! नमस्ते।
लक्ष्मणः – आर्ये! पश्य, पश्य। अयमसावार्येण..... (इत्यर्थोक्ते)
रामः – (साक्षेपम्) अयि वत्स! बहुतरं द्रष्टव्यम्, अन्यतो दर्शय।
सीता – (सस्नेहबहुमानं निर्वर्ण्य) सुष्ठु शोभसे आर्यपुत्र, एतेन विनयमाहात्म्येन।
लक्ष्मणः – एते वयमयोध्यां प्राप्ताः।
रामः – (सास्रम्) स्मरामि, हन्त स्मरामि ।
जीवत्सु तातपादेषु नवे दारपरिग्रहे।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥१।१९॥
इयमपि तदा जानकी,
प्रतनुविरलैः प्रान्तोन्मीलन्मनोहरकुन्तलैर्दशनमुकुलैर्मुग्धालोकं शिशुर्दधती मुखम्।
ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमैरकृत मधुरैरम्बानां मे कुतूहलमङ्गकैः ॥१।२०॥
प्रतनुविरलैः = सूक्ष्माऽनिबिडैः । प्रान्तोन्मीलन्मनोहरकुन्तलैः = कपोलप्रान्ते विकसन्तः मधुरकेशैः । मुग्धालोकं = सुन्दरदर्शनम् (मुग्धः आलोकः यस्य तत् मुखम्)। ललितललितैः = सुन्दरादपि सुन्दरम् । ज्योत्स्नाप्रायैः = चन्द्रिकासदृशैः । अकृत्रिमविभ्रमैः = स्वाभाविकविलासैः । अङ्गकैः = अनुकम्पितैः । दशनमुकुलैः = दन्तकुड्मलैः ।
लक्ष्मणः – एषा मन्थरा।
रामः – (सत्वरमन्यतो दर्शयन्) देवि, वैदेहि!
इङ्गुदीपादपः सोऽयं शृङ्गवेरपुरे पुरा।
निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥१।२१॥
लक्ष्मणः – (विहस्य, स्वगतम्) अये, मध्यमाम्बावृत्तान्तोऽन्तरितमार्येण ।
अन्तरितं = त्यक्तं, गोपायितम्, skip, व्यवहित (चिन्त्रान्तरदर्शनेन) ।
सीता – अहो, एषः जटासंयमनवृत्तान्तः ।
लक्ष्मणः –
पुत्रसंक्रान्तलक्ष्मीकैर्यद् वृद्धेक्ष्वाकुभिर्धृतम्।
धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम्॥१।२२॥
सीता – एषा प्रसन्नपुण्यसलिला भगवती भागीरथी।
रामः – देवि रघुकुलदेवते! नमस्ते।
तुरगविचयव्यग्रानुर्वीभिदः सगराध्वरे कपिलमहसामर्षात् प्लुष्टान् पुरा प्रपितामहान्।
अगणिततनूतापं तप्त्वा तपांसि भगीरथो भगवति! तव स्पृष्टानद्भिश्चिरादुददीधरत् ॥१।२३॥
तुरगविचयव्यग्रान् = अश्वान्वेषणव्यापृतान् । उर्वीभिदः = भूमिविदारकान् । प्लुष्टान् = दग्धान् । उददीधरत् = उद्धारयामास । अगणिततनूतापं = उपेक्षितशरीरदुःखम् । सगराध्वरे = सगरयज्ञे ।
सा त्वमम्ब! स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भव।
लक्ष्मणः – एष भरद्वाजावेदितश्चित्रकूटयायिनि वर्त्मनि वनस्पतिः कालिन्दीतटे वटः श्यामो नाम।
(रामः सस्पृहमवलोकयति)
सीता – स्मरति वैतं प्रदेशमार्यपुत्रः ।
रामः – अयि कथं विस्मर्यते ?
अलसलुलितमुग्धान्यध्वसञ्जातखेदाद् अशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥१।२४॥
अध्वसञ्जातखेदाद् = मार्गोत्पन्नपरिश्रमात् । अलसलुलितमुग्धानि = प्रसरणकुञ्चनासमर्थानि । अशिथिलपरिरम्भैः = दृढतरालिङ्गनैः । दत्तसंवाहनानि = कृतमर्दनानि (दत्तानि संवाहनानि येभ्यः, तानि) ।
लक्ष्मणः – एष विन्ध्याटवीमुखे विराधसंरोधः ।
सीता – अलं तावदेतेन प्रेक्षे तावदार्यपुत्रस्वहस्तधृततालवृन्तातपत्रनिवारितातपमात्मनो दक्षिणारण्यप्रवेशारम्भम्।
रामः –
एतानि तानि गिरिनिर्झरिणीतटेषु वैखानसाश्रिततरूणि तपोवनानि ।
येष्वातिथेयपरमा यमिनो भजन्ते नीवारमुष्टिपचना गृहिणो गृहाणि ॥१।२५॥
लक्ष्मणः – अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसरारण्यपरिणद्धगोदावरीमुखरकन्दरः सततमभिष्यन्दमानमेघमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम।
अविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसरारण्यपरिणद्धगोदावरीमुखरकन्दरः = सघनतरुवननिरवकाशश्यामप् अनोकहाः = पादपाः । निवहः = समूहः। परिणद्धः = परिवेष्टितः । मुखरः = शब्दायमानः । कन्दरः = valley । अभिष्यन्दमानम् = वर्षन्तम् । मेदुरितः = स्निग्धीकृतः (मेदुरं करोतीति मेदुरयति, क्त) ।
रामः –
स्मरसि सुतनु! तस्मिन् पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयोस्तान्यहानि।
स्मरसि सरसनीरां तत्र गोदावरीं वा, स्मरसि च तदुपान्तेष्वावयोर्वर्तनानि ॥१।२६।॥
प्रतिविहितसपर्या = क्षुधातृषाभयादिनिवारणरूपा सेवा (प्रतिविहिता = पुनः पुनः कृता) । वर्तनानि = निवास-भ्रमण-क्रीडादीनि । सुस्थयोः = प्रकृतिस्थयोः । उपान्तेषु = प्रान्तेषु ।
अपि च,
किमपि किमपि मन्दं मन्दमासत्तियोगादविरलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥१।२७॥
आसत्तियोगाद् = सामीप्यसम्बन्धात् । अविरलितकपोलं = परस्परसंश्लिष्टकपोलम् (अविरलितम् = संश्लिष्टम्) । व्यरंसीत् = विरता ।
लक्ष्मणः – एषा पञ्चवट्यां शूर्पणखा।
सीता – हा आर्यपुत्र! एतावत् ते दर्शनम्।
रामः – अयि विप्रयोगत्रस्ते! चित्रमेतत् ।
सीता – यथा तथा भवतु । दुर्जनोऽसुखमुत्पादयति ।
रामः – हन्त! वर्तमान इव मे जनस्थानवृत्तान्तः प्रतिभाति ।
लक्ष्मणः –
अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि।
जनस्थाने शून्ये विकलकरणैरार्यचरितैरपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्॥१।२८॥
कनकहरिणच्छद्मविधिना = सुवर्णमृगव्याजानुष्ठानेन । विकलकरणैः = व्यापारशून्येन्द्रियैः (विलापादिचेष्टितैः) । ग्रावा (ग्रावन्) = पाषाणः ।
सीता – (सास्रमात्मगतम्) अयि देव रघुकुलानन्द! एवं मम कारणात् क्लान्त आसीः।
लक्ष्मणः – (रामं निर्वर्ण्य साकूतम्) आर्य किमेतत् ?
साकूतम् = साभिप्रायम् ।
अयं ते बाष्पौघस्त्रुटित इव मुक्तामणिसरो विसर्पन् धाराभिर्लुठति धरणीं जर्जरकणः।
निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया परेषामुन्नेयो भवति च भराध्मातहृदयः ॥१।२९॥
भराध्मातहृदयः = गद्गदशब्दयुक्तकण्ठः (अतिशयेन आपूरितहृदयः) । उन्नेयः = अनुमेयः । मुक्तामणिसरः = मुक्तामणिहारः ।
रामः – वत्स!
तत्कालं प्रियजनविप्रयोगजन्मा तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः।
दुःखाग्निर्मनसि पुनर्विपच्यमानो हृन्मर्मव्रण इव वेदनां तनोति ॥१।३०॥
विपच्यमानः = स्वयमेव विपाकं प्राप्यमाणः । प्रतिकृतिवाञ्छया = वैरनिर्याताकाङ्क्षया । तनोति = जनयति ।
सीता – हा धिक् हा धिक्! अहमप्यतिभूमिं गतेन रणरणकेन आर्यपुत्रशून्यमिवात्मानं पश्यामि।
अतिभूमिं = सीमातिरेकम् । गतेन = अतिवृद्धेन । रणरणकेन = उत्कण्ठातिशयेन, भयसम्भ्रमेण ।
लक्ष्मणः – (स्वगतम्) भवत्वन्यतः क्षिपामि (चित्रं विलोक्य प्रकाशम्) अथैतन्मन्वन्तरपुराणगृध्रराजस्य तत्रभवतस्तातजटायुषश्चरित्रविक्रमोदाहरणम्।
सीता – हा तात! निर्व्यूढस्तेऽपत्यस्नेहः।
रामः – हा तात! काश्यप शकुन्तराज! क्व नु खलु पुनस्त्वादृशस्य महतस्तीर्थस्य साधोः सम्भवः।
सम्भवः = उत्पत्तिः ।
लक्ष्मणः – अयमसौ जनस्थानस्य पश्चिमतश्चित्रकुञ्जवान्नाम दनुकबन्धाधिष्ठितो दण्डकारण्यभागः। तदिदमृष्यमूकपर्वते मतङ्गस्याश्रमपदम् । इयञ्च श्रमणा नाम सिद्धा शबरतापसी। तदेतत् पम्पाभिधानं पद्मसरः।
सीता – अत्र किलार्यपुत्रेण विच्छिन्नामर्षधीरत्वं प्रमुक्तकण्ठं रुदितमासीत्।
रामः – देवि! रमणीयमेतत्सरः।
एतस्मिन्मदकलमल्लिकाक्षपक्षव्याधूतस्फुरदुरुदण्डपुण्डरीकाः।
बाष्पाम्भः परिपतनोद्गमान्तराले सन्दृष्टाः कुवलयिनो मया विभागाः ॥१।३१॥
लक्ष्मणः – अयमार्यो हनूमान्।
सीता – एष स चिरनिर्विण्णजीवलोकप्रत्युद्धरणगुरुकोपकारी महानुभावो मारुतिः ।
चिरनिर्विण्णजीवलोकप्रत्युद्धरणगुरुकोपकारी = बहुकालदुःखितजीवकष्टविमोचनमहोपकर्ता । महानुभावः = महाप्रभावः ।
रामः –
दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः ।
यस्य वीर्येण कृतिनो वयञ्च भुवनानि च ॥१।३२॥
कृतिनः = कृतार्थाः, उपकृताः स्मः ।
सीता – वत्स! एष कुसुमितकदम्बतरुताण्डवितबर्हिणः किन्नामधेयो गिरिर्यत्रानुभावसौभाग्यमात्रपरिशेषधूसरश्रीर्मूच्छस्त्वया प्ररुदितेनावलम्बितस्तरुतले आर्यपुत्र आलिखितः ?
परिशेषधूसरश्रीः = अवशिष्टेषद्मलिनाशोभा (धूसरा = किञ्चिद् मलिना) ।
लक्ष्मणः –
सोऽयं शैलः ककुभसुरभिर्माल्यवान्नाम यस्मिन्नीलः स्निग्धः श्रयति शिखरं नूतनस्तोयवाहः।
आर्येणास्मिन् …
स्निग्धः = मसृणः । श्रयति = अवलम्बते ।
रामः –
वत्सैतस्मिन् विरमविरमातः परं न क्षमोऽस्मि प्रत्यावृत्तः पुनरिव स मे जानकीविप्रयोगः ॥१।३३॥
लक्ष्मणः – अतः परमार्यस्य तत्रभवतां राक्षसानां चापरिसंख्यातान्युत्तरोत्तराणि कर्माश्चर्याणि। परिश्रान्ता चेयमार्या। तद्विज्ञापयामि विश्राम्यतामिति ।
कर्माश्चर्याणि = अद्भुतकर्माणि । अपरिसंख्यातानि = अपरिमितसंख्यकानि ।
सीता – आर्यपुत्र! एतेन चित्रदर्शनेन प्रत्युत्पन्नदोहदाया मम विज्ञापनीयमस्ति।
प्रत्युत्पन्नदोहदायाः = उत्पन्नाभिलाषायाः ।
रामः – नन्वाज्ञापय।
सीता – जाने पुनरपि प्रसन्नगम्भीरासु वनराजिषु विहृत्य पवित्रनिर्मलशिशिरसलिलां भगवतीं भागीरथीमवगाहिष्य इति।
अवगाहिष्ये = स्नास्यामि ।
रामः – वत्स लक्ष्मण!
लक्ष्मणः – एषोऽस्मि ।
रामः – वत्स! अचिरादेव संपादनीयोऽस्या दोहद इति संप्रत्येव गुरुभिः सन्दिष्टम्। तदस्खलितसुखसंपातं रथमुपस्थापय।
सम्पातः = गमनं, गतिः ।
सीता – आर्यपुत्र! युष्माभिरप्यागन्तव्यम्।
रामः – अयि कठिनहृदये! एतदपि वक्तव्यम् ?
सीता – तेन हि प्रियं मे।
लक्ष्मणः – यदाज्ञापयत्यार्यः ।
(इति निष्क्रान्तः)
रामः – प्रिये! वातायनोपकण्ठे संविष्टा भव।
संविष्टा = शयिता (निपन्ना?) । वातायनोपकण्ठे = गवाक्षनिकटे ।
सीता – एवं भवतु अपहृतास्मि परिश्रमनिद्रया ।
रामः – तेन हि निरन्तरमवलम्बस्व मामत्र शयनाय ।
जीवयन्निव ससाध्वसश्रमस्वेदबिन्दुरधिकण्ठमर्प्यताम्।
बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः॥१।३४॥
(तथा कारयन् सानन्दम्) प्रिये! किमेतत् ?
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च सम्मीलयति च ॥१।३५॥
विसर्पः = प्रसारः ।
सीता – स्थिरप्रसादा यूयम्, इत इदानीं किमपरम्।
रामः –
म्लानस्य जीवकुसुमस्य विकासनानि सन्तर्पणानि सकलेन्द्रियमोहनानि।
एतानि ते सुवचनानि सरोरुहाक्षि! कर्णामृतानि मनसश्च रसायनानि ॥१।३६॥
सरोरुहाक्षि = सरोरुहे कमले इव अक्षिणी यस्याः, तत्सम्बुद्धौ ।
सीता – प्रियंवद! एहि। संविशावः ।
(इति शयनाय समन्ततो निरूपयति)
रामः – अयि! किमन्वेष्टव्यम् ?
आविवाहसमयाद् गृहे वने, शैशवे तदनु यौवने पुनः।
स्वापहेतुरनुपाश्रितोऽन्यया, रामबाहुरुपधानमेष ते ॥१।३७॥
सीता – (निद्रां नाटयन्ती) अस्त्येतत्। आर्यपुत्र! अस्त्येतत् । (इति स्वपिति)।
रामः – कथं प्रियवचना मे वक्षसि प्रसुप्तैव। (निर्वर्ण्य सस्नेहम्)
इयं गेहे लक्ष्मीरियमममृतवर्तिर्नयनयोरसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥१।३८॥
मौक्तिकसरः = मुक्तामाला । अमृतवर्तिः = अमृतनिष्यन्दिनी, अञ्जनशलाका । शिशिरमसृणः = उज्ज्वलश्चिक्कणश्च ।
प्रतीहारी – देव! उपस्थितः।
(प्रविश्य)
रामः – अयि! कः?
प्रतीहारी – आसन्नपरिचारको देवस्य दुर्मुखः।
रामः – (स्वगतम्) शुद्धान्तचारी दुर्मुखः। स मया पौरजानपदेष्वपसर्पः प्रहितः।
अपसर्पः = गूढचरः । प्रहितः = प्रेषितः ।
(प्रकाशम्) आगच्छतु ।
(प्रतीहारी निष्क्रान्तः)
दुर्मुखः – (स्वगतम्) हा कथमिदानीं देवीमन्तरेणेदृशमचिन्तनीयं जनापवादं देवस्य कथयिष्यामि ? अथवा नियोगः खलु मम मन्दभागधेयस्यैषः ।
अन्तरेण = मध्यम् । नियोगः = प्रदत्तं कार्यम् ।
सीता – (उत्स्वप्नायते) हा आर्यपुत्र! कुत्रासि ?
उत्स्वप्नायते = स्वपन् चेष्टते (उत्स्वप्न = उत्क्रान्तः अतिक्रान्तः स्वप्न तन्मर्यादाम् । निद्रायं बाह्येन्द्रियाणां विलीनत्वे मनसैव सर्वव्ववहारनियमेन तदतिक्रमेण जाग्रदवस्थावत् स्पष्टवचनादिव्यवहारे उत्स्वप्नमिव चरति क्यङ् उत्स्वप्नायते) [नामधातुः] ।
रामः – सैवेयं रणरणकदायिनी चित्रदर्शनाद्विरहभावना देव्याः स्वप्नोद्वेगं करोति। (सस्नेहमङ्गमस्याः परामृशन्)
परामृशन् = स्पृशन् ।
अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते ॥१।३९॥
अनुगतम् = अनुसारि । विश्रामः = क्लेशापगमः । आवरणात्ययात् = विवाहादारभ्य मृत्युपर्यन्तम् (आवरणम् = विवाहः, अत्ययः = मृत्युः) । परिणते = परिपक्वे ।
दुर्मुखः – (उपसृत्य) जयतु देवः ।
रामः – ब्रूहि यदुपलब्धम्।
दुर्मुखः – उपस्तुवन्ति देवं पौरजानपदाः, यथा विस्मारिता वयं महाराजदशरथस्य रामभद्रेणेति ।
रामः – अर्थवाद एवैषः। दोषं तु मे कथञ्चित्कथय, येन प्रतिविधीयते।
दुर्मुखः – (सास्रम्) शृणोतु देवः। (कर्णे) एवमिव ।
रामः – अहह, अतितीव्रोऽयं वाग्वज्रः। (इति मूर्च्छति)
दुर्मुखः – आश्वसितु देवः।
रामः (आश्वस्य)
हा हा धिक्! परगृहवासदूषणं, यद्वैदेह्याः प्रशमितमद्भुतैरुपायैः।
एतत्तत्पुनरपि दैवदुर्विपाकादालर्कं विषमिव सर्वतः प्रसक्तम्॥१।४०॥
अद्भुतैः = आश्चर्यकरैः । उपायैः = अग्निपरीक्षारूपैः । प्रशिमतम् = प्रतिकृतम् । दैवदुर्विपाकात् = भाग्यदुष्परिणामात् । आलर्कम् = अलर्कस्य (उन्मत्तशुनः) इदम् । आलर्कं विषम् = अलर्कदंशजातगरलम् (कालान्तरेऽपि परिणमते न तत्क्षणम्)। प्रसक्तं = परितो व्याप्तम् ।
रामः – तत्किमद्य मन्दभाग्यः करोमि (विमृश्य सकरुणम्) अथवा किमेतत् ?
सतां केनापि कार्येण लोकस्याराधनं व्रतम्।
यत्पूरितं हि तातेन मां च प्राणांश्च मुञ्चता ॥१।४१॥
आराधनम् = अनुरञ्जनम् ।
सम्प्रत्येव च भगवता वसिष्ठेन सन्दिष्टम्। अपि च –
यत्सावित्रैर्दीपितं भूमिपालैर्लोकश्रेष्ठैः साधु चित्रं चरित्रम् ।
मत्सम्बन्धात्कश्मला किंवदन्ती स्याच्चेदस्मिन् हन्त धिङ्मामधन्यम् ॥१।४२॥
सावित्रैः = सूर्यवंशीयैः । अधन्यं = हतभाग्यम् । कश्मला = दूषिता । किंवदन्ती = लोकापवादः ।
रामः – हा देवि देवयजनसम्भवे! हा स्वजन्मानुग्रहपवित्रितवसुन्धरे! हा मुनिजनकनन्दिनि! हा पावकवसिष्ठारुन्धतीप्रशस्तशीलशालिनि! हा राममयजीविते! हा महारण्यवासप्रियसखि! हा तातप्रिये! हा स्तोकवादिनि! कथमेवंविधायास्तवायमीदृशः परिणामः?
त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः ।
नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥१।४३॥
जगन्ति = लोकाः । विपत्स्यसे = विपन्ना भविष्यसि ।
(दुर्मुखं प्रति) दुर्मुख! ब्रूहि लक्ष्मणम्। एष नूतनो राजा रामः समाज्ञापयति। (कर्णे) एवमेवम् इति।
दुर्मुखः – हा कथमिदानीमग्निपरिशुद्धाया गर्भस्थितपवित्ररघुकुलसन्तानाया देव्या दुर्जनवचनादेवमनार्यमध्यवसितं देवेन ?
अध्यवसितं = निश्चितं, सङ्कल्पितम् ।
रामः – शान्तं पापम्, शान्तं पापम्, दुर्जना नाम पौरजानपदाः।
इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम्।
यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्यदि दूरवृत्तम् ॥१।४४॥
वचनीयबीजं = लाञ्छनकारणम् । प्रत्येतु = विश्वसितु ।
तद्गच्छ।
दुर्मुखः – हा देवि!
(इति निष्क्रान्तः)
रामः – हा कष्टम्। अतिबीभत्सकर्मा नृशंसोऽस्मि संवृत्तः ।
अतिबीभत्सकर्मा = जघन्यकर्मा (√बध् – बीभत्सते, भ्वा०) । नृशंशः = क्रूरः ।
शैशवात्प्रभृति पोषितां प्रियां सौहृदादपृथगाश्रयामिमाम्।
छद्मना परिददामि मृत्यवे सौनिको गृहशकुन्तिकामिव ॥१।४५॥
तत्किमस्पृश्यः पातकी देवीं दूषयामि ? (इति सीतायाः शिरः समुन्नमय्य बाहुमाकृष्य)
अपूर्वकर्मचण्डालमयि मुग्धे! विमुञ्च माम्।
श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥१।४६॥
दुर्विपाकम् = असुखप्रवणम् ।
(उत्थाय) हन्त हन्त! विपर्यस्तो जीवलोकः। अद्यावसितं जीवितप्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत्। असारः संसारः। काष्ठप्रायं शरीरम्। अशरणोऽस्मि । किं करोमि ? का गतिः ? अथवा –
विपर्यस्तो = अन्यथाभूतम् । अवसितं = समाप्तम् ।
दुःखसंवेदनायैव रामे चैतन्यमागतम्।
मर्मोपघातिभिः प्राणैर्वज्रकीलायितं हृदि ॥१।४७॥
वज्रकीलायितं = वज्रमयः शङ्कुः तेन इव आचरितः (नामधातुः) ।
हा अम्ब अरुन्धति! हा भगवन्तौ वसिष्ठविश्वामित्रौ! हा भगवन् पावक! हा देवि भूतधात्रि! हा तात जनक! हा तात! हा मातः! हा प्रियसख सुग्रीव! हा सौम्य हनूमन्! हा परमोपकारिन् लङ्काधिपते विभीषण! हा सखि त्रिजटे! परिमुषिताः स्थ परिभूताः स्थ रामहतकेन। अथवा को नाम तेषामहमिदानीमाह्वाने ?
परिमुषिताः = सर्वतो वञ्चिताः । परिभूताः = तिरस्कृताः ।
ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना।
मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥१।४८॥
पाप्मना = पापेन ।
योऽहम् –
विस्रम्भादुरसि निपत्य जातनिद्रामुन्मुच्य प्रियगृहिणीं गृहस्य लक्ष्मीम्।
आतङ्कस्फुरितकठोरगर्भगुर्वीं क्रव्याद्भयो बलिमिव दारुणः क्षिपामि ॥१।४९॥
उन्मुच्य = शरीरात् हठात् उत्सार्य । दारुणः = निर्दयः । क्रव्याद्भ्यः = श्वापदेभ्यः (क्रव्यम् = मांसं भक्षयन्तीति) ।
(सीतायाः पादौ शिरसि कृत्वा) देवि! अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः। (इति रोदिति)
(नेपथ्ये) अब्रह्मण्यम्, अब्रह्मण्यम्।
रामः – ज्ञायतां भोः! किमेतत् ?
(पुनर्नेपथ्ये)
ऋषीणामुग्रतपसां यमुनातीरवासिनाम्।
लवणत्रासितः स्तोमः शरण्यं त्वामुपस्थितः ॥१।५०॥
स्तोमः = समूहः ।
रामः – आः! कथमद्यापि राक्षसत्रासः ? तद्यावदस्य दुरात्मनो कुम्भीनसीपुत्रस्योन्मूलनाय शत्रुघ्नं प्रेषयामि। (कतिचित्पदानि गत्वा पुनर्निवृत्य) हा देवि! कथमेवंगता भविष्यसि ? भगवति वसुन्धरे! सुश्लाघ्यां दुहितामवेक्षस्व जानकीम्।
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम्।
यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥१।५१॥
(इति रुदन्निष्क्रान्तः)
सीता – हा सौम्य आर्यपुत्र! कुत्रासि ? हा धिक्, हा धिक्, दुःस्वप्नेन विप्रलब्धाऽहमार्यपुत्रमाक्रन्दामि। हा धिक्, हा धिक्, एकाकिनीं मां प्रसुप्ताम् उज्झित्वा गत आर्यपुत्रः। किमिदानीमेतत् ? भवतु तस्मै कोपिष्यामि, यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि। कोऽत्र परिजनः?
विप्रलब्धा = वञ्चिता । अज्झित्वा = त्यक्त्वा ।
(प्रविश्य)
दुर्मुखः – देवि! कुमारलक्ष्मणो विज्ञापयति सज्जो रथः, तदारोहतु देवीति ।
सीता – इयमारूढास्मि । स्फुरति मे गर्भभारः। शनैर्गच्छामः।
दुर्मुखः – इत इतो देवी।
सीता – नमो रघुकुलदेवताभ्यः ।
(इति निष्क्रान्ताः सर्वे)
॥ इति प्रथमोऽङ्कः ॥