मुखपृष्ठम् · ⬆ स्वप्नवासवदत्तम् · ← · →
स्वप्नवासवदत्तम् — तृतीयोऽङ्कः¶
(ततः प्रविशति विचिन्तयन्ती वासवदत्ता)
वासवदत्ता – विवाहामोदसङ्कुले अन्तःपुरचतुश्शाले परित्यज्य पद्मावतीमिहागतास्मि प्रमदवनम्। यावदिदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि। (परिक्रम्य) अहो! अत्याहितम्।आर्यपुत्रोऽपि नाम परकीयः संवृत्तः । यावदुपदिशामि।(उपविश्य ) धन्या खलु चक्रवाकवधूः, यान्योन्यविरहिता न जीवति। न खल्यहं प्राणान् परित्यजामि। आर्यपुत्रं पश्याम्यित्यनेन मनोरथेन जीवामि मन्दभागा ।
भागधेयनिर्वृत्तं = दुर्भाग्यनिष्पन्नम् । दुःखम् = आर्यपुत्रविरहजनितं कष्टम् । विनोदयामि = अपनयामि ।
(ततः प्रविशति पुष्पाणि गृहीत्वा चेटी )
चेटी – क्व नु खलु गता आर्यावन्तिका ? (परिक्रम्यावलोक्य च ) अम्मो! इयं चिन्ताशून्यहृदया नीहारप्रतिहतचन्द्रलेखेवामण्डितभद्रकं वेषं धारयन्ती प्रियङ्गुशिलापट्टके उपविष्टा । यावद् उपसर्पामि ( उपसृत्य ) आर्ये! आवन्तिके कः कालः त्वाम् अन्विष्यामि ?
चिन्ताशून्यहृदया = आध्याननिर्बोधचित्ता । नीहारप्रतिहतचन्द्रलेखा = तुषारावृतेन्दुरेखा । अमण्डितभद्रकम् = अनलङ्कृतमपि सुन्दरम् । वेषं = नेपथ्यम् ।
वासवदता – किं निमित्तम् ?
चेटी – अस्माकं भट्टिनी भणति – महाकुलप्रसूता स्निग्धा निपुणेतीमां तावत् कौतुकमालिकां गुम्फत्वार्या ।
वासवदत्ता – अथ कस्मै किल गुम्फितव्यम् ?
चेटी – अस्माकं भर्तृदारिकायै ।
वासवदत्ता – (आत्मगतम्) एतदपि मया कर्तव्यम् आसीत् । अहो अकरुणाः खल्वीश्वराः ।
चेटी – आर्ये! मेदानीमन्यच्चिन्तयित्वा । एष जामाता मणिभूम्यां स्नायति । शीघ्रं तावद् गुम्फत्वार्या ।
वासवदत्ता – (आत्मगतम् ) न शक्नोम्यन्यच्चिन्तयितुम् । (प्रकाशम्) हला! किं दृष्टो जामाता ?
चेटी – आम् । दृष्टो भर्तृदारिकायाः स्नेहेनास्माकं कौतूहलेन च ।
वासवदत्ता – कीदृशो जामाता?
चेटी – आर्ये भणामि तावद्, नेदृशो दृष्टपूर्वः ।
वासवदत्ता – हला, भण, भण, किं दर्शनीयः ?
चेटी – शक्यं भणितुं शरचापहीनः कामदेव इति।
वासवदत्ता – भवत्वेतावत् ।
चेटी – किं निमित्तं वारयसि ?
वासवदत्ता – अयुक्तं परपुरुषसङ्कीर्तनं श्रोतुम् ।
परपुरुषसङ्कीर्तनम् = अन्यजनवर्णनम् ।
चेटी – तेन हि गुम्फत्वार्या शीघ्रम्।
यासवदत्ता – इयं गुम्फामि । आनय तावत् ।
चेटी – गृह्णात्वार्या।
वासवदत्ता – (वर्जयित्वा, विलोक्य) इदं तावदौषधं किं नाम?
चेटी – अविधवाकरणं नाम।
वासवदतता – (आत्मगता ) इदं बहशो गुम्फितव्यं मह्यं च पद्मावत्यै च ।(प्रकाशम् ) तावदौषधं किं नाम?
चेटी – सपत्नीमर्दनं नाम।
वासवदत्ता – इदं न गुम्फितव्यम्।
चेटी – कस्मात् ?
वासवदत्ता – उपरता तस्य भार्या । तन्निष्प्रयोजनमिति ।
(प्रविश्यापरा )
चेटी – त्वरतां त्वरतामार्या । एष जामाताविधवाभिरन्तःचतुश्शालं प्रवेश्यते ।
वासवदत्ता – अयि! वदामि, गृहाणैतत् ।
चेटी – शोभनम्। आर्ये! गच्छामि तावदहम्।
(उभे निष्क्रान्ते )
वासवदत्ता – गता एषा । अहो! अत्याहितम् । आर्यपुत्रोऽपि नाम परकीयः संवृत्तः। अविहा! शय्यायां मम दुःखं विनोदयामि, यदि निद्रां लभे।
॥ इति तृतीयोऽङ्कः ॥