सामग्रीं त्यजन्तु

अभिज्ञानशाकुन्तलम् — षष्ठोऽङ्कः (पश्चात्तापः)

(ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय रक्षिणौ च)
रक्षिणौ – (पुरुषं ताडयित्वा) अरे कुम्भीरक कथय कुत्र त्वयेतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ।
पुरुषः – (भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी ।

कर्मकारी = (ईदृक्) कर्म कर्तुं शीलं यस्य स ।

प्रथमः – किं शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः ।

कलयित्वा = मत्वा । प्रतिग्रहः = देवद्रव्यं, दानम् ।

पुरुषः – शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः ।
द्वितीयः – पाटच्चर किमस्माभिर्जातिः पृष्टा ।

पाटच्चर = चौर (पाटयन् विदारयन् चरति )।

श्यालः – सूचक कथयतु सर्वमनुक्रमेण । मैनमन्तरा प्रतिबध्नीतम् ।

अन्तरा = मध्ये । प्रतिबध्नीतं = बाधां दद्यातम् ।

उभौ – यदावुत्त आज्ञापयति । कथय ।
पुरुषः – अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ।

जालोद्गालादिभिः = जालवडिशप्रभृतिभिः ।

श्यालः – (विहस्य) विशुद्ध इदानीमाजीवः ।

आजीवः = जिवीकासाधनम् ।

पुरुषः – भर्तः मा एवं भण ।

सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥६।१॥

श्यालः – ततस्ततः ।
पुरुषः – एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः । यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् । पश्चादहमस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः । मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः ।

कल्पितः = खण्डितः । रत्नभासुरं = प्रत्युप्तरत्नप्रभासमानम् (भासुरं = देदीप्यमानम् )।

श्यालः – जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।

विमर्शयितव्यं = विचारयितव्यम् ।

रक्षिणौ – तथा । गच्छ अरे ग्रन्थिभेदक ।

ग्रन्थिभेदक = ग्रन्थिछेदक, चौर ।

(सर्वे परिक्रामन्ति)
श्यालः – सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्ते निवेद्य ततः शासनं प्रतीक्ष्य निष्क्रामामि ।

परिपालयतं = रक्षतम् । प्रतीक्ष्य = गृहीत्वा ।

उभौ – प्रविशत्वावुत्तः स्वामिप्रसादाय ।
(इति निष्क्रान्तः श्यालः)
प्रथमः – जानुक चिरायते खल्वावुत्तः ।
द्वितीयः – नन्ववसरोपसर्पणीया राजानः ।
प्रथमः – जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम् ।

स्फुरतः = स्पन्दते । सुमनसः = पुष्पाणि (वध्यचिह्नभूतां पुष्पमालाम्) । पिनद्धुं = परिधापयितुं, बन्धुम् ।

(इति पुरुषं निर्दिशति)
पुरुषः – नार्हति भावोऽकारणमारणो भवितुम् ।
द्वितीयः – (विलोक्य) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखो दृश्यते । गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यासि ।

इतोमुखः = इतः एनां दिशं मुखं यस्य, सः ।

(प्रविश्य)
श्यालः – सूचक मुच्यतामेष जालोपजीवी । उपपन्नः खल्वस्याङ्गुलीयकस्यागमः ।

उपपन्नः = प्रमाणितः ।

सूचकः – यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः ।
(इति पुरुषं परिमुक्तबन्धनं करोति)

परिमुक्तबन्धनं = बन्धनरहितम् ।

पुरुषः – (श्यालं प्रणम्य) भर्तः अथ कीदृशो मे आजीवः ।
श्यालः – एष भर्त्राङ्गुलीयकमूल्यसम्मितः प्रसादोऽपि दापितः ।

सम्मितं = तुल्यम् ।

(इति पुरुषाय स्वं प्रयच्छति)

स्वं = धनं, कटकम् ।

पुरुषः – (सप्रणामं प्रतिगृह्य) भर्तः अनुगृहीतोऽस्मि ।
सूचकः – एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।

प्रतिष्ठापितः = स्थापितः ।

जानुक – आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः सम्मतेन भवितव्यमिति ।

सम्मतेन = अभीष्टेन, प्रियेण ।

श्यालः – न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्त्राऽभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यत्सुकनयन आसीत् ।

अभिमतः = प्रियः । पर्यत्सुकनयनः = उत्कण्ठाव्यञ्जितनेत्रव्यापारः (चेतसोत्कण्ठितेन क्षणं प्रणयपेशलं कञ्चित् जनं स्मरन्निव राजा खिन्नो बभूव ), व्यञ्जितं = चिह्नितं, प्रकाशितम् ।

सूचकः – सेवितं नामावुत्तेन ।
जानुकः – ननु भण । अस्य कृते मात्स्यिकभर्तुरिति ।

मात्स्यिकः = धीवरः ।

(इति पुरुषमसूयया पश्यति)
पुरुषः – भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।

भट्टारक = राजन् ।

जानुकः – एतावद्युज्यते ।
श्यालः – धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तच्छौण्डिकापणमेव गच्छामः ।

कादम्बरीसाक्षिकम् = सुरासाक्षिकम् (कादम्बरी = कुत्सितमम्बरं यस्य सः कादम्बरो बलरामः तस्येयं कादम्बरी मदिरा साक्षिणी साक्षिदर्शिका यस्मिन् तत् कादम्बरीसाक्षिकम् ) । इष्यते = अपेक्ष्यते । शौण्डिकापणम् = मद्यविक्रेतृपण्यशाला, bar, pub ।

(इति निष्क्रान्ताः सर्वे) ॥ इति प्रवेशकः ॥

नीचपात्रप्रयुक्तो भाविभूतार्थसूचकः अङ्कसन्धिविशेषः । लक्षणम् – यन्नीचैः केवलं पात्रैः भाविभूतार्थसूचनम् । अङ्कयोरुभयोर्मध्ये स विज्ञेय प्रवेशकः ॥ एवं विष्कम्भक समान प्रवेशकोऽपि भूताया भाविन्याश्च घटनायाः सूचको भवति ।

(ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः)
सानुमती – निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्यभिषेककाल इति साम्प्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । मेनकासम्बन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि ।

पर्यायनिर्वर्तनीयं = वारक्रमेण अनुष्ठेयम् । शरीरभूता = शरीरवत् प्रेमास्पदभूता, नितरां प्रिया । आदिष्टपूर्वा = दत्तसन्देशा ।

(समन्तादवलोक्य)
किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किन्तु सख्या आदरो मया मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये ।

निरुत्सवारम्भम् = उत्सवारम्भशून्यं, निर्व्यापारम् (निर्गतः उत्सवः यस्मात्, निरुत्सवम् आरम्भः यस्य, निरुत्सवारम्भः ) । प्रणिधानेन = योगशक्त्या । विभवः = सामर्थ्यम् । तिरस्करिणीप्रतिच्छन्ना = तिरस्करिणी अदृश्यकारिणी कापि विद्या तया प्रतिच्छना , अन्तर्धानविद्यया अलक्षिता गूढविग्रहा । पार्श्ववर्तिनी = समीपवर्तिनी । उपलप्स्ये = ज्ञास्यामि ।

(इति नाट्येनावतीर्य स्थिता) (ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी । अपरा च पृष्ठतस्तस्याः)
प्रथमा –

आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) ।
दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥६।२॥

कोरकम् = कलिका, मुकुलम् ।

द्वितीया – परभृतिके किमेकाकिनी मन्त्रयसे ।
प्रथमा – मधुकरिके चूतकलिकां दृष्ट्त्वोन्मत्ता परभृतिका भवति ।

परभृतिका = कोकिला ।

द्वितीया – (सहर्षं त्वरयोपगम्य) कथमुपस्थितो मधुमासः ।
प्रथमा – मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् ।
द्वितीया – सखि अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि ।

अग्रपादस्थिता = पादाङ्गुलिसमाश्रयणेन ।

प्रथमा – यदि ममापि खल्वर्धमर्चनफलस्य ।
द्वितीया – अकथितेऽप्येतत्सम्पद्यते यत एकमेव नौ जीवीतं द्विधास्थितं शरीरम् ।
(सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति) अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति ।

अप्रतिबुद्धः = अविकसितः । चूतप्रसवः = आम्रमञ्जरी । बन्धनभङ्गसुरभिः = वृन्तात् भङ्गेन उत्पाटनेन सुगन्धिः जायते, प्रसवबन्धभङ्गस्थानं सौरभम् उद्वमति ।

(इति कपोतहस्तकं कृत्वा)

कपोतहस्तकं = कपोताकारः हस्तः, स एव कपोतहस्तकः ।

त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे ।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥६।३॥

(इति चूताङ्कुरं क्षिपति) (प्रविश्यापटीक्षेपेण कुपितः) ।

अपटीक्षेपेण = तिरस्करिणीतिरस्कारेण ।

कञ्चुकी – मा तावदनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमाम्रकलिकाभङ्गं किमारभसे ।

अनात्मज्ञे = मूढे ।

उभे – (भीते) प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ।

अगृहीतार्थे = अज्ञातराजशासने (अगृहीतः अज्ञातः अर्थः राजशासनं याभ्यां, ते) ।

कञ्चुकी – न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पतत्रिभिश्च । तथा हि

चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः सन्नद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ॥६।४॥

न बध्नाति = न धत्ते, न विकसति । रजः = परागम् । सन्नद्धम् = सिद्धं, वृन्ताद्बहिर्गतम् । रुतं = शब्दितम् । कण्ठेषु स्खलितं = गलेषु अवरुद्धम् । चकितः = भीतः । संहरति = निर्वर्तयति (पुनस्तूणीरे एव प्रवेशयति) ।

सानुमती – नास्ति संदेहः । महाप्रभावो राजर्षिः ।

महाप्रभावः = दिव्यशक्तिः ।

प्रथमा – आर्य कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः । अत्र च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः ।

प्रेषितयोः = प्रहितयोः ।

कञ्चुकी – भवतु । न पुनरेवं प्रवर्तितव्यम् ।
उभे – आर्य कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयत्वार्यः किन्निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः ।
सानुमती – उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् ।
कञ्चुकी – बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्योः कर्णपथं नायातं शकुन्तलाप्रत्यादेशकौलीनम् ।

बहुलीभूतं = सर्वजनविदितम् (न गोपनीयम्) । कौलीनं = निन्दा, लोकापवादः । प्रत्यादेशः = प्रत्याख्यानम् ।

उभे – श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् ।
कञ्चुकी – (आत्मगतम्) तेन ह्यल्पं कथयितव्यम् । (प्रकाशम्) यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात्प्रत्यादिष्टेति तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा हि

पश्चात्तापं = अनुशयं, परितापम् ।

रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥६।५॥

विवर्तनैः = परिलुण्ठनैः, शयनीयपर्यन्तभागपरिवर्तनादिभिः । विगमयति = अतिवाहयति । गोत्रेषु = नामसु (गोत्रं च नाम्नि च इत्यमरः) । स्खलितः = विपर्यस्तः । व्रीडाविलक्षः = त्रपान्वितः, लज्जया विस्मयान्वितः (विलक्षो विस्मयान्वितः इत्यमरः ), चित्तव्याक्षेपनिमित्तको मुखभावभेदो वैलक्ष्यम् ।

सानुमती – प्रियं मे ।
कञ्चुकी – अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।

प्रभवतः = प्रबलात् प्रवर्द्धमानात् । वैमनस्यात् = मनस्तापात्, विषादात् । प्रत्याख्यातः = निराकृतः, निषिद्धः।

उभे – युज्यते । (नेपथ्ये)
एतु एतु भवान् ।
कञ्चुकी – (कर्णं दत्त्वा) अये । इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् ।

अभिवर्तते = आगच्छति ।

उभे – तथा ।
(इति निष्क्रान्ते) (ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च ।)
कञ्चुकी – (राजानमवलोक्य) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एवमुत्सुकोऽपि प्रियदर्शनो देवः । तथा हि

उत्सुकः = विरहोत्कण्ठितः, उद्वेगाकुलः, खिन्नः ।

प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥६।६॥

प्रत्यादिष्टविशेषमण्डनविधिः = निरस्तविशेषप्रसाधनविधिः, त्यक्तालङ्कारविशेषः (प्रत्यादिष्टः = कृशतया निराकृतः, विशेषमण्डनानां = हारकेयूरकुण्डलादीनामलङ्काराणाम्, विधिः = धारणविधिः, येन स) । वामप्रकोष्ठार्पितं = सव्यकूर्परमणिबन्धमध्ये दत्तम् (कार्श्यात् श्लथम्)। बिभ्रत् = धारयन् । वलयं = कटकम् । उपरक्तः = व्यसनार्तः, रञ्जनद्रव्येण रक्तः । श्वासोपरक्ताधरः = उष्णदीर्घश्वासपाटलिताधरोष्ठः । चिन्ताजागरणप्रतान्तनयनः = शकुन्तलाविषयकचिन्ताकृतजागरणरक्तलोचनः (प्रतान्तं = म्लानम्) । आलक्ष्यते = परिज्ञायते । संस्कारोल्लिखितः = संस्कारार्थमुल्लिखितः ।

सानुमती – (राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेशविमानिताऽप्यस्य कृते शकुन्तला क्लाम्यति ।

प्रत्यादेशः = प्रत्याख्यानम् । क्लाम्यति = विषादमनुभवति ।

राजा – (ध्यानमन्दं परिक्रम्य)

प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम् ॥६।७॥

सानुमती – नन्वीदृशानि तपस्विन्या भागधेयानि ।
विदूषकः – (अपवार्य) लङ्घित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति ।

लङ्घितः = आक्रान्तः, ग्रस्तः ।

कञ्चुकी – (उपगम्य) जयतु जयतु देवः । महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।

प्रत्यवेक्षिताः = सम्यवलोकिताः, संशोधिताः । अध्यास्ताम् = अधितिष्ठतु ।

राजा – वेत्रवति मद्वचनादमात्यमार्यपिशुनं ब्रूहि । चिरप्रबोधान्न सम्भावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति ।

चिरप्रबोधात् = चिरं जागरणात् ।

प्रतीहारी – यद्देव आज्ञापयति ।
(इति निष्क्रान्ता)
राजा – वातायन त्वमपि स्वं नियोगमशून्यं कुरु ।

नियोगं = कृत्यम् । अशून्यं = पूर्णम् ।

कञ्चुकी – यदाज्ञापयति देवः ।
(इति निष्क्रान्तः)
विदूषकः – कृतं भवता निर्मक्षिकम् । साम्प्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।

निर्मक्षिकं = निर्जनम् । छेदः = (शिशिरातपयोः) अन्तरालः ।

राजा – वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि वचः । कुतः –

रन्ध्रोपनिपातिनः = छिद्रोपसर्पिणः (छिद्रेषु अनर्थाः बहुलीभवन्ति) । अनर्थाः = उपद्रवाः । अव्यभिचारि = सत्यं (वचः) ।

मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥६।८॥

विदूषकः – तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयिष्यामि ।
(इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति)
राजा – (सस्मितम्) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः किञ्चिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ।

दृष्टिं = लोचनं, चक्षुः । विलोभयामि = नन्दयामि ।

विषूषकः – नन्वासन्नपरिचारिका चतुरिका भवता सन्दिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति ।

अतिवाहयिष्ये = गमयिष्ये, नेष्यामि ।

राजा – ईदृशं हृदयविनोदनस्थानम् । तत्तमेव मार्गमादेशय ।
विदूषकः – इत इतो भवान् ।
(उभौ परिक्रमतः । सानुमत्यनुगच्छति)
विदूषकः – एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् ।

मणिशिलापट्टकसनाथः = मणिशीलाफलकशोभितः (सनाथः = सहितः, युक्तः, समेतः, सम्पन्नः)। प्रतीच्छति = सत्कारमाचरन् ।

(उभौ प्रवेशं कृत्वोपविष्टौ)
सानुमती – लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।

बहुमुखम् = अनेकप्रकारकम् ।

(इति तथा कृत्वा स्थिता)
राजा – सखे सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचित्सङ्कीर्तितं तत्रभवत्या नाम । कच्चिदहमिव विस्मृतवानसि त्वम् ।
विदूषकः – न विस्मरामि । किन्तु सर्वं कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती ।

मृत्पिण्डबुद्धिना = जडबुद्धिना ।

सानुमती – एवमेवैतत् ।
राजा – (ध्यात्वा) सखे त्रायस्व माम् ।
विदूषकः – भोः किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोकवक्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ।

प्रवाते = अतिवाते, झञ्झावाते ।

राजा – वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि ।

अशरणः = परवशः ।

सा हि इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥६।९॥

व्यवसिता = उद्युक्ता । बाष्पप्रसरकलुषाम् = अश्रुप्रवृत्त्याविलाम् । सविषं = विषदिग्धम् । शल्यं = शङ्कुः ।

सानुमती – अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे ।
विदूषकः – भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा नीतेति ।
राजा – कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत । मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते ।

परामर्ष्टुं = स्पृष्टुम् । उत्सहेत = क्षमेत ।

सानुमती – सम्मोहः खलु विस्मयनीयो न प्रतिबोधः ।
विदूषकः – यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या ।
राजा – कथमिव ।
विदूषकः – न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः ।
राजा – वयस्य ।

स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः ॥६।१०॥

तटप्रपाताः = नदीकूलस्य प्रपाताः इव प्रपाताः येषां, ते (मनोरथाः) (यथा वर्षाकाले गङ्गादि नदी तटा ओघेन संघट्टमाना निपतन्ति तथैव विलोकन्ते च इत्थं सर्वथा ते अलीका एव तथैव मनोरथाः प्रतिक्षणमुत्पद्यन्ते, विलीयन्ते च यथा वा शैलाग्रात्पतितो ग्रावा न पुनः प्रत्यावर्तते तथैव स्वप्नादि सुखवत् मम पुनः शकुन्तला समागमाभिलाषः लब्धुं न शक्यः इति भावः ) ।

विदूषकः – मैवम् । नन्वङ्गुलीयकमेव निदर्शनमवश्यं भाव्यचिन्तनीयः समागमो भवतीति ।

निदर्शनम् = उदाहरणं, दृष्टान्तः । अवश्यं भावी = अनिवारणीयः ।

राजा – (अङ्गुलीयकं विलोक्य) अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् ।

असुलभस्थानभ्रंशि = दुर्लभस्थानाद् भ्रष्टम् (शकुन्ताङ्गुलिगलितमित्यर्थः)।

तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन ।
अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु ॥६।११॥

प्रतनु = अत्यल्पम् (अतीन्द्रियस्य धर्मस्य प्रतनुत्वं ज्ञातुं शक्यम् ) । विभाव्यते = निश्चीयते, अनुमीयते। फलेन = अल्पकालेन सङ्गमसुखेन ।

सानुमती – यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।
विदूषकः – भोः इयं नाममुद्रा केनोद्घातेन तत्रभवत्या हस्ताभ्याशं प्रापिता ।

उद्घातेन = उद्देशेन, समुपक्रमेण । हस्ताभ्याशं = करसमीपम् ।

सानुमती – ममापि कौतूहलेनाकारित एषः ।
राजा – श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति ।

प्रतिपत्तिं = वार्तां, सन्देशं, प्रवृत्तिम् ।

विदूषकः – ततस्ततः ।
राजा – पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता ।

निवेशयता = परिधापयता । प्रत्यभिहिता = प्रियां प्रत्युक्ता ।

एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम् ।
तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति ॥६।१२॥

अवरोधगृहप्रवेशम् = अन्तःपुरभवनप्रवेशम् ।

तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।

दारुणात्मना = कठोरहृदयेन ।

सानुमती – रमणीयः खल्ववधिर्विधिना विसंवादितः ।

विसंवादितः = पर्यस्तः, मिथ्याकृतः ।

विदूषकः – अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् ।
राजा – शचीतीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् ।

परिभ्रष्टं = च्युतम् ।

विदूषकः – युज्यते ।
सानुमती – अत एव तपस्विन्याः शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आसीत् । अथ वेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् ।
राजा – उपालप्स्ये तावदिदमङ्गुलीयकम् ।

उपालप्स्ये = निन्दिष्यामि ।

विदूषकः – (आत्मगतम्) गृहीतोऽनेन पन्था उन्मत्तानाम् ।
राजा –

कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि ।

अथवा ।

अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया ॥६।१३॥

बन्धुरः = सुन्दरः, चारुः । अवधीरिता = (अस्वीकारेण) तिरस्कृता ।

विदूषकः – (आत्मगतम्) कथं बुभुक्षया खादितव्योऽस्मि ।
राजा – प्रिये अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनर्दर्शनेन ।

अनुशयः = पश्चातापः ।

(प्रविश्यापटीक्षेपेण चित्रफलकहस्ता)
चतुरिका – इयं चित्रगता भट्टिनी ।
(इति चित्रफलकं दर्शयति)
विदूषकः – (विलोक्य) साधु वयस्य । मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु।

भावानुप्रवेशः = प्रेमाविर्भावः ।

सानुमती – अहो एषा राजर्षेर्निपुणता । जाने सख्यग्रतो मे वर्तत इति ।
राजा –

यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम् ॥६।१४॥

लावण्यं = कमनीयता । अन्वितम् = अनुगतम् ।

सानुमती – सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।

अनवलेपस्य = विनयस्य (अविद्यमानः अवलेपः अहङ्कारो यत्र, तादृशस्य) ।

विदूषकः – भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः । कतमाऽत्र तत्रभवती शकुन्तला ।
सानुमती – अनभिज्ञः खल्वीदृशस्य रूपस्य मोहदृष्टिरयं जनः ।
राजा – त्वं तावत्कतमां तर्कयसि ।
विदूषकः – तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व इषत्परिश्रान्तेवालिखिता सा शकुन्तला । इतरे सख्याविति ।

उद्भिन्नाः = उद्गताः । स्वेदबिन्दवः = श्रमजलजालानि ।

राजा – निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् ।

स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात् ॥६।१५॥

चतुरिके अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय ।
चतुरिका – आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि ।
राजा – अहमेवैतदवलम्बे ।
(इति यथोक्तं करोति)
(निष्क्रान्ता चेटि)
राजा – (निःश्वस्य)

साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहुमन्यमानः ।
स्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥६।१६॥

स्रोतोवहां = नदीम् । निकामजलां = प्रभूतसलिलां, पूर्णजलाम् ।

विदूषकः – (आत्मगतम्) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां सङ्क्रान्तः । (प्रकाशम्) भोः अपरं किमत्र लेखितव्यम् ।
सानुमति – यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालेखितुकामो भवेत् ।

अभिरूपः = रम्यः (अभिरूपो बुधे रम्ये इति विश्वमेदिन्यौ) ।

राजा – श्रूयताम् ।

कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः श‍ृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥६।१७॥

गौरीगुरोः = हिमालयस्य ।

विदूषकः – (आत्मगतम्) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः ।

लम्बकूर्चानां = प्रलम्बशमश्रूणां , (लम्बायमानं कूर्चं कपोलचुम्बककेशाः येषां ते । कूर्चोऽस्त्री श्मश्रूपीठयोः इति विश्वः) । कदम्बैः = समूहैः ।

राजा – वयस्य अन्यश्च । शकुन्तलायाः प्रसाधनमभिप्रेतमत्र विस्मृतमस्माभिः ।

अभिप्रेतम् = अभीष्टम् ।

विदूषकः – किमिव ।
सानुमती – वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं भविष्यति ।

सदृशम् = अनुरूपम् ।

राजा –

कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचित स्तनान्तरे ॥६।१८॥

आगण्डविलम्बिकेसरं = कपोलपर्यन्तलम्बमानकिञ्जलकम् । स्तनान्तरे = स्तनयोः मध्यावकाशस्थले ।

विदूषकः – भोः किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाऽग्रहस्तेन मुखमावार्य चकितचकितेव स्थिता ।
(सावधानं निरूप्य दृष्ट्वा) आः एष दास्याःपुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनकमलमभिलङ्घते मधुकरः।

आवार्य = पिधाय, आच्छाद्य । चकितचकिता = भीतभीता । पाटच्चरः = चौरः । मुखम् अभिलङ्घते = मुखमभिलक्ष्य धावति ।

राजा – ननु वार्यतामेष धृष्टः ।

वार्यतां = प्रतिषिध्यताम् । धृष्टः = उच्छृङ्खलो भ्रमरः ।

विदूषकः – भवानेवाविनीतानां शासिताऽस्य वारणे प्रभविष्यति ।

अविनीतानाम् = उद्दण्डानाम् ।

राजा – युज्यते । अयि भोः कुसुमलताप्रियातिथे किमत्र परिपतनखेदमनुभवसि ।

कुसुमलताप्रियातिथे = पुष्पलताप्रणयिन् (कुसुमलता एव प्रिया इति कुसुमलताप्रियः, तस्याः अतिथिः) । परिपतनखेदम् = उड्डयनसंचरणश्रमः ।

एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता ।
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥६।१९॥

प्रतिपालयति = प्रतीक्षते ।

सानुमती – अद्याभिजातं खल्वेष वारितः ।

अभिजातं = कुलीनतानुरूपम् अनुरूपं न्यायानुमोदितेन (अभिजातः स्मृतो न्याय्यः इति विश्वः) ।

विदूषकः – प्रतिषिद्धापि वामैषा जातिः ।

वामा = प्रतिकूला, विपरीताचरणा, विरुद्धमार्गगामिनी (जातिः) ।

राजा – एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि सम्प्रति ।

अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम् ॥६।२०॥

अक्लिष्टम् = न केनापि मर्दितम् । लोभनीयं = सुन्दरम् । रतोत्सवेषु = सुरतमहोत्सवेषु, रतिक्रीडासु । सदयं = सानुकम्पम् ।

विदूषकः – एवं तीक्ष्णदण्डस्य किं न भेष्यति । (प्रहस्य । आत्मगतम्) एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । (प्रकाशम्) भोः चित्रं खल्वेतत् ।
राजा – कथं चित्रम् ।
सानुमती – अहमपीदानीमवगतार्था । किं पुनर्यथालिखितानुभाव्येषः ।

अवगतार्था = ज्ञातार्था (अवगतः अर्थः यया) ।

राजा – वयस्य किमिदमनुष्ठितं पौरोभाग्यम् ।

दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥६।२१॥

(इति बाष्पं विहरति)
सानुमती – पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।
राजा – वयस्य कथमेवमविश्रान्तदुःखमनुभवामि ।

प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः ।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥६।२२॥

प्रजागरात् = रात्रिजागरणात् । खिलीभूतः = उपहतः, प्रतिहतः, निषिद्धः ।

सानुमती – सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः ।

प्रमार्जितं = दूरीकृतं, प्रोच्छितम् ।

(प्रविश्य)
चतुरिका – जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि ।
राजा – किं च ।
चतुरिका – स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।

अन्तरा = मध्यमार्गे ।

विदूषकः – दिष्ट्या त्वं मुक्ता ।
चतुरिका – यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्मा ।

आत्मा = स्वदेहः (आत्मादेहमनोब्रह्मस्वभावधृतिबुद्धिषु इति विश्वः) । निर्वाहितः = पलाय्य रक्षितः ।

राजा – वयस्य उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु ।

बहुमानगर्विता = अहमेवार्यपुत्रस्य बहुमतेत्यभिमानवतीत्यर्थः ।

विदूषकः – आत्मानमिति भण । (चित्रफलकमादायोत्थाय च) यदि भवानन्तःपुरकालकूटान्मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय ।

अन्तःपुरकालकूटात् = अन्तःपुरम् (अवरोधनम्) एव कालकूटं (महाविषम्), तस्मात् (अन्तःपुरदेवीकलहात् प्रपञ्चात्) ।

(इति द्रुतपदं निष्क्रान्तः)
सानुमती – अन्यसंक्रान्तहृदयोऽपि प्रथमसम्भावनामपेक्षते । अतिशिथिलसौहार्द इदानीमेषः ।

अन्यसंक्रान्तहृदयः = शकुन्तलासक्तचित्तः । प्रथमसम्भावनां = पूर्वदर्शितप्रणयगौरवम्, पूर्वमहिषीबहुमानम् (सम्भावना = सत्क्रिया)। अपेक्षते = मानयति ।

(प्रविश्य पत्रहस्ता)
प्रतीहारी – जयतु जयतु देवः ।
राजा – वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी ।

अन्तरा = मार्गमध्ये ।

प्रतीहारी – अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।
राजा – कार्यज्ञा कार्योपरोधं मे परिहरति ।

कार्यज्ञा = अवसरज्ञा, कार्याकार्यविवेकिनी, राजकार्यविशेषज्ञा, राजनियोगगौरवाभिज्ञा । कार्योपरोधं = राजकार्यबाधाम् । परिहरति = त्यजति ।

प्रतीहारी – देव अमात्यो विज्ञापयति । अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति ।

अवेक्षितम् = आलोकितम् । पत्रारूढं = आलेखबद्धम् ।

राजा – इतः पत्रं दर्शय ।
(प्रतिहार्युपनयति)

उपनयति = समीपं नयति, समर्पयति ।

राजा – (अनुवाच्य) कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यश्च किल तपस्वी। राजगामी तस्यार्थसंचय इत्येतदमात्येन लिखितम् । कष्टं खल्वनपत्यता । वेत्रवति बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् । विचार्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् ।

अनुवाच्य = निश्शब्दं पठित्वा । समुद्रव्यवहारी = सागरमार्गव्यापारी, पोतवणिक् । नौव्यसने = पोतभ्र्ंशः (व्यसनं विपदि भ्रंशे इत्यमरः ) । विपन्नः = मृतः । तपस्वी = अनुकम्पामात्रं वराकः । बहुपत्नीकेन = अनेकभार्येण । आपन्नसत्त्वा = गर्भिणी ।

प्रतीहारी – देव इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायाऽस्य श्रूयते ।

निवृत्तपुंसवना = जातपुंसवनसंस्कारा ।

राजा – ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ । एवममात्यं ब्रूहि ।

पित्र्यं = पैतृकं, पितृसम्बन्धि । रिक्थं = धनं (रिक्थमृक्थं धनं वसु इत्यमरः)।

प्रतीहारी – यद्देव आज्ञापयति ।
(इति प्रस्थिता)
राजा – एहि तावत् ।
प्रतीहारी – इयमस्मि ।
राजा – किमनेन संततिरस्ति नास्तीति ।

येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥६।२३॥

प्रतीहारी – एवं नाम घोषयितव्यम् ।
(निष्क्रम्य । पुनः प्रविष्य) काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।

प्रवृष्टं = प्रवर्षणं, वर्षेव, प्रभूतवृष्टिः । अभिनन्दितं = साधुप्रशंसितम् ।

राजा – (दीर्घमुष्णं च निःश्वस्य) एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने सम्पदः परमुपतिष्ठन्ति । ममाप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः ।

दीर्घम् = आयतम् । संततिछेदनिरवलम्बानां = अपत्याभावनिराश्रितानाम् । मूलपुरुषावसाने = कारणपुरुषनाशे । उपतिष्ठन्ति = सङ्गच्छन्ते ।

प्रतीहारी – प्रतिहतममङ्गलम् ।
राजा – धिङ्मामुपस्थितश्रेयोऽवमानिनम् ।
सानुमती – असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।
राजा –

संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥६।२४॥

उप्तबीजा = बीजवपना, न्यस्तवपना (उप्तानि आहितानि बीजानि यस्यां, सा) ।

सानुमती – अपरिच्छिन्नेदानीं ते संततिर्भविष्यति ।
चतुरिका – (जनान्तिकम्) अये अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं मेघप्रतिच्छन्दादार्यं माधव्यं गृहीत्वागच्छ ।
प्रतीहारी – सुष्ठु भणसि ।
(इति निष्क्रान्ता)
राजा – अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः ।

पिण्डभाजः = पिण्डभोगिनः ।

अस्मात्परं बत यथाश्रुति सम्भृतानि को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति ॥६।२५॥

सम्भृतानि = सञ्चितानि, बहूपकरणयुक्तानि । निवपनानि = श्राद्धादीनि (पितृदानं निवापः स्यादित्यमरः)। नियच्छति = ददाति । प्रसूतिविकलेन = सन्ततिरहितेन । प्रसिक्तं = पितृभ्यः प्रदत्तम् (उदकम्) । धौताश्रुशेषं = क्षालितबाष्पजलशेषम् (धौतानि क्षालितानि अश्रूणि येन तस्मात् शेषः) ।

(इति मोहमुपगतः)
चतुरिका – (ससम्भ्रममवलोक्य) समाश्वसितु समाश्वसितु भर्ता ।
सानुमती – हा धिक् हा धिक् । सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अहमिदानीमेव निर्वृतं करोमि । अथ वा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेन्द्रजनन्या मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । तद्युक्तमेतं कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि ।

निर्वृतं = शान्तम् ।

(इत्युद्भ्रान्तकेन निष्क्रान्ता) (नेपथ्ये) अब्रह्मण्यम् ।
राजा – (प्रत्यागतः । कर्णं दत्त्वा) अये माधव्यस्येवार्तस्वरः । कः कोऽत्र भोः ।
(प्रविश्य)
प्रतीहारी – (ससम्भ्रमम्) परित्रायतां देवः संशयगतं वयस्यम् ।
राजा – केनात्तगन्धो माणवकः ।

आत्तगन्धः = अभिभूतः (आत्तगन्धोऽभिभूतः स्यादित्यमरः) ।

प्रतीहारी – अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः ।
राजा – (उत्थाय) मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथवा ।

अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥६।२६॥

प्रमादस्खलितं = विपरीताचरितम् ।

(नेपथ्ये) भो वयस्य अविहा अविहा ।

अविहा = हन्त, अहो ।

राजा – (गतिभेदेन परिक्रामन्) सखे न भेतव्यम् ।

गतिभेदेन = गतिपरिवर्तनपूर्वकं, क्रोधोद्धतगत्या ।

(नेपथ्ये) (पुनस्तदेव पठित्वा) कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति ।

प्रत्यवनतशिरोधरं = तिर्यग्ग्रीवम् (प्रत्यवनता पृष्ठतः वक्रीकृता शिरोधरा ग्रीवा यस्य, तम्) ।

राजा – (सदृष्टिक्षेपम्) धनुस्तावत् ।
(प्रविश्य शार्ङ्गहस्ता)
यवनी – भर्तः एतद्धस्तावापसहितं शरासनम् ।

हस्तावापः = हस्तवारकः (ज्याघाताद् रक्षति, चर्ममयं वस्तु), glove, hand-protector ।

(राजा सशरं धनुरादत्ते)
(नेपथ्ये)

एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं भवत्विदानीम् ॥६।२७॥

अभिनवकण्ठशोणितार्थी = उष्णोष्णकण्ठरुधिरपानाभिलाषी । चेष्टमानम् = इतस्ततो लुण्ठमानं, प्राणरक्षणार्थं प्रयतमानम् । आत्तधन्वा = अधिज्यधन्वा, गृहीतचापः ।

राजा – (सरोषम्) कथं मामेवोद्दिशति । तिष्ठ कुणपाशन । त्वमिदानीं न भविष्यसि । (शार्ङ्गमारोप्य) वेत्रवति सोपानमार्गमादेशय ।

कुणपाशन = राक्षस (कुणपं शवम् अश्नातीति । कुणपः शवमस्त्रियाम् इत्यमरः) ।

प्रतिहारी – इत इतो देवः । (सर्वे सत्वरमुपसर्पन्ति)
राजा – (समन्ताद्विलोक्य) शून्यं खल्विदम् ।
(नेपथ्ये) अविहा । अविहा । अहं अत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः ।
राजा – भोस्तिरस्करिणीगर्वित मदीयमस्त्रं त्वां द्रक्ष्यति । एष तमिषुं संदधे ।

यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥६।२८॥

(इत्यस्त्रं संधत्ते)
(ततः प्रविशति विदूषकमुत्सृज्य मातलिः)
मातलिः –

कृताः शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् ।
प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥६।२९॥

हरिणा = इन्द्रेण । शरव्यं = लक्ष्यम् (लक्षं लक्ष्यं शरव्यं चेत्यमरः)। प्रसादसौम्यानि = प्रसन्नतया अनुग्राह्यानि, आह्लादकानि, प्रसादमधुराणि । दारुणाः = भयङ्कराः, मर्मभेदिनः ।

राजा – (ससम्भ्रममस्त्रमुपसंहरन्) अये मातलिः । स्वागतं महेन्द्रसारथे ।
(प्रविश्य)
विदूषकः – अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनद्यते ।

इष्टिपशुमारं मारितः = यज्ञपशुं यथा मारयति तथा मारितः (णमुल्) । अभिनद्यते = समाद्रियते । (विसदृशमेतद् वयस्य आचारः इति भावः) ।

मातलिः – (सस्मितम्) आयुष्मन्श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः ।
राजा – अवहितोऽस्मि ।
मातलिः – अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः ।
राजा – अस्ति । श्रुतपूर्वं मया नारदात् ।
मातलिः –

सख्युस्ते स किल शतक्रतोरजय्यस्तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥६।३०॥

अजय्यः = प्रयत्नसहस्रैरपि जेतुमशक्यः । रणशिरसि = सङ्ग्राममध्ये । निहन्ता = घातकः । सप्तसप्तिः = सूर्यः (सप्त सप्तयः अश्वाः यस्य सः) । उच्छेत्तुं = नाशयितुम् ।

स भवानात्तशस्त्र एव इदानीमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम् ।
राजा – अनुगृहीतोऽहमनया मघवतः सम्भावनया । अथ माधव्यं प्रति भवता किमेवं प्रयुक्तम् ।

सम्भावनया = सम्मानदानेन । प्रयुक्तम् = अनुष्ठितम् ।

मातलिः – तदपि कथ्यते । किञ्चिन्निमित्तादपि मनःसंतापादायुष्मान्मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः ।

विक्लवः = आकुलः ।

ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः ॥६।३१॥

विप्रकृतः = कोपितः, तिरस्कृतः, उद्वेजितः । क्षोभात् = संक्षोभात्, चित्रक्रौर्यात्, अभिघातात् । प्रतिपद्यते = प्राप्नोति ।

राजा – (जनान्तिकम्) वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।

त्वन्मतिः केवला तावत् परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥६।३२॥

परिगतार्थं = विदितसंवृत्तम् ।

विदूषकः – यद्भवानाज्ञापयति ।
(इति निष्क्रान्तः)
मातलिः – आयुष्मान् रथमारोहतु ।
(राजा रथारोहणं नाट्यति)
(निष्क्रान्ताः सर्वे)
॥इति षष्ठो अङ्कः ॥

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् — —
आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) — —
त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे — —
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः सन्नद्धं यदपि… — —
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप… — —
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चन… — —
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् — —
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः — —
सा हि इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठे… — —
स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम… — —
तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन — —
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम् — —
कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि — —
अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया — —
यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा — —
स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः — —
साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहुम… — —
कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्… — —
कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् — —
एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता — —
अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु — —
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन — —
प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः — —
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना — —
संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा — —
अस्मात्परं बत यथाश्रुति सम्भृतानि को नः कुले निवपनानि नियच्छ… — —
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् — —
एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् — —
यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् — —
कृताः शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् — —
सख्युस्ते स किल शतक्रतोरजय्यस्तस्य त्वं रणशिरसि स्मृतो निहन्… — —
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते — —
त्वन्मतिः केवला तावत् परिपालयतु प्रजाः — —