सामग्रीं त्यजन्तु

काव्यप्रकाशः — द्वितीयः उल्लासः

शब्दभेदाः

क्रमेण शब्दार्थयोः स्वरूपमाह -

[सू ५] स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा ।

अत्रेति काव्ये। एषां स्वरुपं वक्ष्यते ।

अत्रावधेयं यत्र पदार्थभेदो नास्ति, शब्द एक एव, उपाधिभेदात् अभिदोपधिकः वाचकः, लक्षणोपाधिकः लाक्षणिकः, व्यञ्जनोपाधिकः (शब्दः तु एक एव) ।

व्यञ्जकः

[सू० ६] वाच्यादयस्तदर्थाः स्युः

वाच्य-लक्ष्य-व्यङ्ग्याः ॥

[सू० ७] तात्पर्यार्थोऽपि केषुचित् ॥६॥

वाक्यस्वरूपम्

आकाङ्क्षायोग्यतासन्निधिमतां पदानां समूहः वाक्यम् ।
वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः । (सा०द०)

  • आकाङ्क्षा – प्रतिपत्तुः जिज्ञासा (त०भा०)। ↗ प्रतीतिपर्यवसानविरहः आकाङ्क्षा (सा०द०)। ↗ गौरश्वः पुरुषो हस्तिः
  • योग्यता – पदार्थानां परस्परसंसर्गे बाधाभावः (तर्क०) । ↗ अर्थबाधाविरहस्तु योग्यता (सा०द०) । ↗ वह्निना सिञ्चति
  • सन्निधिः – अव्यवधानेन अन्वयप्रत्योग्युपस्थितिः (तर्क०) । ↗ पदानाम् अव्यवधानं सन्निधिः (आसत्तिः वा) (सा०द०) । ↗ गाम् ... आनय

भाट्टाः, नैयायिकाश्च तात्पर्यार्थम् अङ्गीकुर्वन्ति (नान्ये) ।
भाट्टाः – अभितान्वयवादिनः ।

  • शाब्दबोधप्रक्रिया – वाक्यश्रवणम्, अभिधाशक्त्या प्रतिपदार्थबोधः, तात्पर्यशक्त्या वाक्यस्य अन्वितार्थः (स एव तात्पर्यार्थः) ।

प्राभाकराः – अन्विताभिधानवादिनः ।

  • शाब्दबोधप्रक्रिया – वाक्यश्रवणम्, अभिधाशक्त्या प्रतिपदार्थबोधः, अभिधाशक्त्या एव अन्वयबोधः । तात्पर्यशक्तिः इति नाङ्गीक्रियते ।

आकाङ्क्षायोग्यतासंनिधिवशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहिनान्वयवादिनां मतम्।

समुल्लसति = अनुभवविषयः ।
वाच्यार्थः वाक्यार्थः नास्ति । तात्पर्यार्थ एव वाक्यार्थः ।

वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः ॥

अर्थस्य व्यञ्जकत्वम्

[सू० ८] सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते।

अपि इति पदस्य अन्वयः द्विधा भवितुमर्हति ।

  • अर्थानाम् अपि । शब्दानां व्यञ्जकत्वमस्त्येव, अर्थानामपि वर्तते ।
  • अर्थानां व्यञ्जकत्वमपि अस्ति । अर्थानां प्रतिपाद्यत्वं तु विद्यत एव, व्यञ्जकत्वमप्यस्ति ।
  • प्रायशः इत्यस्य आशयः यत् अन्ते पर्यवसितः/प्रधानः व्यङ्ग्यार्थः तस्य इतोऽपि व्यञ्जकत्वं नेष्यते (अनवस्थानं स्यात्) ।

तत्र वाच्यस्य यथा –

मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया ।
तद्भण किं करणीयमेवमेव न वासरः स्थायी ॥

अत्र स्वैरविहारार्थिनीति व्यज्यते।

लक्ष्यस्य यथा –

साधयन्ती सखि सुभगं क्षणे क्षणे दूनासि मत्कृते।
सद्भावस्नेहकरणीयसदृशकं तावद्विरचितं त्वया ॥

अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्, तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम्।

व्यङ्ग्यस्य यथा –

पश्य निश्चलनिष्पंदा बिसिनीपत्रे राजते बलाका ।
निर्मलमरतकभाजनपरिस्थिता शंखशुक्तिरिव ॥

  • निर्मलं चेदं मर्कतभाजनम्, तस्मिन् परिस्थिता निर्मलमर्कतभाजनपरिस्थिता ।

अत्र निष्पन्दत्वेन, आश्वस्तत्वम्, तेन च जनरहितत्वम्, अतः संकेतस्थानमेतदिति कयाचित् कश्चित्प्रत्युच्यते। अथवा मिथ्या वदसि न त्वमत्रागतोऽभूरिति व्यज्यते ॥

  • निष्पदत्वम् (वाच्यार्थः) ⇒ जनराहित्यम् (व्यङ्ग्यार्थः) ⇒ सङ्केतस्थानम् (व्यङ्ग्यार्थः) ।
  • [प्रसङ्गान्तरम्] निष्पदत्वम् (वाच्यार्थः) ⇒ जनराहित्यम् (व्यङ्ग्यार्थः) ⇒ तस्मात् त्वमत्र नागतः (व्यङ्ग्यार्थः) ।

वाचकस्य स्वरूपम्

वाचकादीनां क्रमेण स्वरूपमाह –

[सू० ९] साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ॥७॥