अभिज्ञानशाकुन्तलम् — प्रथमोऽङ्कः (आश्रमप्रवेशः)¶
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १॥
जलरूपा वह्निरूपा यजमानरूपा सूर्यचन्द्ररूपे आकाशरूपा पृथिवीरूपा वायुरूपा
(नान्द्यन्ते)
सूत्रधारः – (नेपथ्याभिमुखमवलोक्य)
आर्ये यदि नेपथ्यविधानमवसितमितस्तावदागम्यताम् ।
(प्रविश्य)
नटी – आर्यपुत्र इयमस्मि ।
सूत्रधारः – आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु
कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुन्तलाख्येन
नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।
अभिरूपैः=अभिलक्ष्यं रूपं येषां, तैः (विद्वद्भिः) । भूयिष्ठा=बहुला । अभिरूपभूयिष्ठा=विद्वद्वर्गबहुला । आधीयताम्=विधीयताम्, क्रियताम् ।
नटी – सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।
परिहास्यते=त्रुटिं गच्छेत्।
सूत्रधारः – (सस्मितम्) आर्ये कथयामि ते भूतार्थम् ।
आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ २॥
भूतार्थम्=परमार्थम् । प्रयोगविज्ञानम्=अभिनयकलाकौशलम्, विशिष्टविज्ञानम् । अप्रत्ययम्=अविश्वासम् ।
नटी – आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु ।
सूत्रधारः – किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव
तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् ।
सम्प्रति हि -
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः ।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ ३॥
उपभोगक्षमम् = चन्दनाद्युपभोगाय क्षमम् । सुभगसलिलावगाहाः = मनोहरजलस्नानाः (सुभगे सलिले अवगाहाः येषु, ते । सुभगम्=मनोहरम् । सलिलम्=जलम् । अवगाहः=स्नानम्) । परिणामरमणीयाः = सायंकालशोभनाः ।
नटी – तथा ।
(इति गायति)
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥ ४॥
प्रमदाः = वराङ्गनाः, कामिन्यः युवतयः । अवतंसयन्ति (अव + √तंस्) = कर्णभूषणे कुर्वन्ति ।
सूत्रधारः – आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः ।
आलिखितः = चित्रित इव निश्चेष्टः । आराधयामः = अनुरञ्जयामः ।
नटी – नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति ।
सूत्रधारः – आर्ये सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया तत् । कुतः ?
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥ ५॥
अतिरंहसा (अति + √रंह् ) = अतिवेगवता ।
(इति निष्क्रान्तौ)
(प्रस्तावना)
(ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च)
सूतः – (राजानं मृगं चावलोक्य) आयुष्मन् ।
कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥ ६॥
अधिज्यकार्मुके = अध्यारोपितधनुषि (ज्याम् अधिगतम् अधिज्यम्, अधिज्यं कार्मुकः यस्य स, तस्मिन्) ।
राजा – सूत दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्याम् प्रयाति ॥ ७॥
ग्रीवाभङ्गाभिरामं = ग्रीवायाः (कन्धरायाः) भङ्गेन (वलितेन) अभिरामम् (कमनीयम्) । दत्त-/बद्धदृष्टिः = बद्धा (एकाग्रीकृता) दृष्टिः (चक्षुः) येन स । कीर्णवर्त्मा = कीर्णं (व्याप्तं) वर्त्म येन सः । श्रमविवृतमुखभ्रंशिभिः = श्रमेण (क्लान्त्या) विवृतात् (उद्घाटितात्) मुखात् (आस्यात्) भ्रंशिभिः (पतद्भिः) । उर्व्याम् = पृथिव्याम् । स्तोकम् = अल्पम् । बहुतरम् = अधिकम् ।
(सविस्मयम्) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः ।
प्रयत्नप्रेक्षणीयः=प्रयासदर्शनीयः, कष्टलक्ष्यः ।
सूतः – आयुष्मन् उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः। सम्प्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति ।
अद्घातिनी = बन्धुरा, स्खलनयोग्या, निम्नोन्नता, विषमा । रश्मिसंयमनात् = प्रग्रहाकर्षणात्, वल्गाकर्षणात् । विप्रकृष्टान्तरः = अतिदूरगतः, अतिदूरवर्ती (विप्रकृष्टं=सातिशयम् अन्तरं=अवकाशः यस्य स) । दुरासदः = दुष्प्रापः ।
राजा – तेन हि मुच्यन्तामभीषवः ।
अभीषवः = प्रग्रहाः ।
सूतः – यदाज्ञापयत्यायुष्मान् ।
(रथवेगं निरूप्य) आयुष्मन्पश्य पश्य ।
मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मौद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ ८॥
निरायतपूर्वकायाः = विस्तारितस्कन्धमुखपादप्रदेशाः । निष्कम्पचामरशिखाः = निश्चलस्कन्धप्रदेशस्थकेसराग्रभागाः – निष्कम्पाः (निश्चला) चामरशिखाः (कर्णयोः भूषणार्थं दत्तानां चमरीपुच्छानां शिखाः) येषां, ते । निभृतोर्ध्वकर्णाः = स्थिरोर्ध्वकर्णाः (निभृतौ=स्थिरौ, शान्तौ) । मृगजवाक्षमया = हरिणवेगेर्ष्यया । रथ्याः = रथवाहकाश्वाः ।
राजा – सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि ।
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदर्धे विछिन्नं भवति कृतसंधानमिव तत् ।
प्रकृत्या यद्वक्त्रं तदपि समरेखं नयनयोर्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात् ॥ ९॥
सूत पश्यैनं व्यापद्यमानम् ।
(इति शरसंधानं नाटयति)
(नेपथ्ये)
भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
सूतः – (आकर्ण्यावलोक्य च) आयुष्मनस्य खलु ते बाणपातवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थिताः ।
अन्तरे=मध्ये । बाणपातवर्तिनः = सायकप्रहारलक्ष्यीभूतस्य ।
राजा – (ससम्भ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः – तथा । (इति रथं स्थापयति)
(ततः प्रविशत्यात्मना तृतीयो वैखानसः)
वैखानसः – (हस्तमुद्यम्य)
राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते ॥ १०॥
तत्साधुकृतसंधानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ ११॥
अतिलोलम्=अतिचञ्चलम् । अनागसि = निरपराधे ।
राजा – एष प्रतिसंहृतः ।
(इति यथोक्तं करोति)
वैखानसः – सदृशमेतत् पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्रमेवङ्गुणोपेतं चक्रवर्तिनमाप्नुहि ॥ १२॥
इतरौ – (बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
राजा – (सप्रणामम्) प्रतिगृहीतं ब्राह्मणवचनम् ।
वैखानसः – राजन् समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च ।
अनुमालिनीतीरम् = मालिनीनद्याः तीरे ।
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥ १३॥
कार्यातिपातः=इतरकार्यविलम्बः । प्रतिहतविघ्नाः=निरस्तान्तरायाः ।
राजा – अपि संनिहितोऽत्र कुलपतिः?
वैखानसः – इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवं अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
राजा – भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति ।
विदितभक्तिम्=विदिता भक्तिः यस्य, तम् ।
वैखानसः – साधयामस्तावत् ।
(इति सशिष्यो निष्क्रान्तः)
राजा – सूत नोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।
सूतः – यदाज्ञापयत्यायुष्मन् ।
(इति भूयो रथवेगं निरूपयति)
राजा – (समन्तादवलोक्य) सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति ।
समन्तात्=सर्वतः, चतुर्दिक्षु अवलोक्य । आश्रमाभोगः=तपोवनपरिसरप्रदेशः ।
सूतः – कथमिव ।
राजा – किं न पश्यति भवान् । इह हि
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगास्- तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४॥
शुकगर्भकोटरमुखभ्रष्टाः=कीरकुलायावस्थितशावकवदनच्युताः (शुकः गर्भे येषां, तानि कोटराणि, तेषां मुखानि, तेभ्यः भ्रष्टाः) । नीवाराः=मुनिधान्यकणाः । इङ्गुदीफलभिदः=तापसतरुफलभेदकाः । प्रस्निग्धाः=चिक्कणाः (प्रकर्षेण स्निग्धाः) । उपलाः=पाषाणखण्डाः, अश्मानः । सूच्यन्ते=द्योत्यन्ते । विश्वासोपगमात्=विस्रम्भप्राप्तेः । अभिन्नगतयः=अविकृतगतयः, निर्भयगमनाः । सहन्ते=मर्षयन्ति । तोयाधारपथाः=जलाशयमार्गाः । वल्कलशिखानिष्यन्दरेखाङ्किताः=तरुत्वगग्रस्रवणरेखाङ्किताः ।
कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन ।
एते चार्वागुपवनभुवि च्छिन्नदर्भान्कुराणां नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति ॥१५॥
कुल्याम्भोभिः=आलवालवारिभिः (कुल्यायाः अम्भोभिः) । किसलयरुचाम्=पल्लवद्युतीनाम् (किसलयानां रुचाम्) । अर्वाक्=समीपे । छिन्नाः=लूनाः । नष्टाशङ्काः=निर्भयाः ।
सूतः – सर्वमुपपन्नम् ।
उपपन्नम्=युक्तम् ।
राजा – (स्तोकमन्तरं गत्वा) तपोवननिवासिनामुपरोधो मा भूत् । एतावत्येव रथं स्थापय यावदवतरामि ।
उपरोधः=मर्यादाभङ्गः, शान्तिभङ्गः ।
सूतः – धृताः प्रग्रहाः । अवतरत्वायुष्मान् ।
राजा – (अवतीर्य) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद्गृह्यताम् ।
(इति सूतस्याभरणानि धनुश्चोपनीयार्पयति) सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।
उपावर्ते=प्रत्यागच्छामि । विनीतवेषेण=अनुद्धतवेषेण । उपनीय=उपहृत्य । उपावर्ते=प्रत्यागच्छामि ।
सूतः – तथा ।
(इति निष्क्रान्तः)
राजा – (परिक्रम्यावलोक्य च) इदमाश्रमद्वारम् । यावत्प्रविशामि ।
(प्रविश्य । निमित्तं सूचयन्)
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यतानां द्वाराणि भवन्ति सर्वत्र ॥ १६॥
(नेपथ्ये)
इत इतः सख्यौ ।
राजा – (कर्णं दत्त्वा) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि ।
(परिक्रम्यावलोक्य च) अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते ।
अभिवर्तन्ते=अभिमुखम् आगच्छन्ति ।स्वप्रमाणानुरूपैः सेचनघटैः=स्वोद्वहनयोग्यैः सेचनोपयोगिकलशैः ।
(निपुणं निरूप्य) अहो मधुरमासां दर्शनम् ।
मधुरम्=नेत्राह्लादकम् ।
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥१७॥
दूरीकृताः=निराकृताः ।
यावदिमां छायामाश्रित्य प्रतिपालयामि ।
(इति विलोकयन् स्थितः)
(ततः प्रविश्यति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
शकुन्तला – इत इतः सख्यौ ।
अनसूया – हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि त्वमेतेषामालवालपूरणे नियुक्ता ।
वृक्षकाः=अल्पाः वृक्षाः । नवमालिकाकुसुमपेलवा अपि त्वम्=नवमालिकाख्यासुमनसुकुमारा (नवमालिकायाः कुसुममिव पेलवा) । आलवालम्=तरुमूलसेचनार्थस्वल्पजलाधारः ।
शकुन्तला – न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु । (इति वृक्षसेचनं रूपयति)
राजा – कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते ।
असाधुदर्शी=अविमृश्यकारी ।
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति ॥१८॥
अव्याजमनोहरं=स्वभावसुन्दरम् (अव्याजेन अकपटेन भूषणादिकं विना निसर्गतः मनोहरं सुन्दरम्) । व्यवस्यति=यतते, समीहते ।
भवतु । पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि ।
पादपान्तर्हितः=वृक्षतिरोहितः । विश्रब्धं=सधैर्यम् ।
(इति तथा करोति)
शकुन्तला – सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रिताऽस्मि । शिथिलय तावदेतत् ।
अतिपिनद्धेन=सुदृढबद्धेन । नियन्त्रिता=निबद्धा दृढं पीडिता ।
अनसूया – तथा । (इति शिथिलयति)
प्रियंवदा – (सहासम्)
अत्र पयोधरविस्तारयितृ आत्मनो यौवनं उपालभस्व । मां किं उपालभसे ।
विस्तारयितृ=वर्द्धकम् । उपालभस्व=निन्द ।
राजा – सम्यगियमाह ।
इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे स्तनयुगपरिणाहाच्छादिना वल्कलेन वपुरभिनवमस्याः पुष्यति स्वां न शोभां कुसुममिव पिनद्धं पाण्डुपत्रोदरेण ॥१९॥
स्कन्धदेशे=भुजशिखरप्रदेशे, अंसप्रदेशे । उपहितः=निहितः । स्तनयुगपरिणाहाच्छादिना=वक्षोजयुगलाभोगाच्छादिना (स्तनयोः युगस्य परिणाहम् आच्छादयतीति तच्छीलः, तेन) । पिनद्धं=संसक्तम् ।
अथवा काममननुरूपमस्य वपुषो वल्कलं न पुनरलंकारश्रियं न पुष्यति । कुतः ।
कामम्=अत्यन्तम् । अलङ्कारश्रियं=भूषणशोभाम् ।
सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्मलक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥२०॥
अनुविद्धं=सम्पृक्तम् । लक्ष्म=चिह्नम् । तनोति=विस्तारयति । अधिकमनोज्ञा=कामं मनोहारिणी । मधुराणां=कमनीयानामाकृतीनाम् । (सर्वमपि वस्तु रम्याणां सुषमां वर्धयत्येव)
शकुन्तला – (अग्रतोऽवलोक्य) एष वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः । यावदेनं सम्भावयामि ।
वातेरितपल्लवाः=वायुप्रेरितकिसलयाः (वातेन ईरिताः पल्लवाः) । सम्भावयामि=सम्मानयामि, जलसेचनेन ।
(इति परिक्रामति)
प्रियंवदा – हला शकुन्तले अत्रैव तावन्मुहूर्तकं तिष्ठ ।
शकुन्तला – किन्निमित्तम्?
प्रियंवदा – यावत्त्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।
प्रतिभाति=प्रतीयते ।
शकुन्तला – अतः खलु प्रियंवदासि त्वम् ।
राजा – प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा । अस्याः खलु
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥२१॥
लोभनीयम्=आवर्जकम्, आकर्षकम् । सन्नद्धं=विजृम्भितम् = सर्वतोभावेन प्रकटितम् ।
अनसूया – हला शकुन्तले इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । एनां विस्मृताऽसि ।
शकुन्तला – तदात्मानमपि विस्मरिष्यामि ।
(लतामुपेत्यावलोक्य च) हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः ।
व्यतिकरः=समागमः ।
(इति पश्यन्ती तिष्ठति)
प्रियंवदा – अनसूये जानासि किं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति ।
अतिमात्रम्=अतिगता मात्रा यस्मिन् तत् ।
अनसूया – न खलु विभावयामि । कथय ।
विभावयामि=तर्कयामि ।
प्रियंवदा – यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामैवमहमप्यात्मनोनुरूपं वरं लभेयेति ।
शकुन्तला – एष नूनं तवात्मगतो मनोरथः ।
(इति कलशमावर्जयति)
राजा – अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् । अथवा कृतं संदेहेन ।
क्षेत्रम्=कलत्रम् ।
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः ॥२२॥
तथापि तत्त्वत एनामुपलप्स्ये ।
शकुन्तला – (ससम्भ्रमम्) अम्भो । सलिलसेकसम्भ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोभिवर्तते ।
अम्भः=आवेगे । अभिवर्तते=सम्मुखम् आगच्छति ।
(इति भ्रमरबाधां रूपयति)
राजा – (सस्पृहम्)
सस्पृहम्=औत्सुक्यसहितम् ।
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥२३॥
चलापाङ्गां=चञ्चललोचनान्ताम् (चलः अपाङ्गः यस्यां, ताम्) । वेपथुमतीं=कम्पातिशयमतीम् । बहुशः=अनेकवारम् । स्पृशसि=आलिङ्गसि । रहस्याख्यायी=गुप्तवार्ताकर्ता । कर्णान्तिकचरः=श्रोत्रसमीपविहारी (कर्णयोः अन्तिके चरतीति) । स्वनसि=शब्दायसे, मन्त्रयसे । व्याधुन्वन्त्याः=निवारणाय कम्पन्त्याः अस्याः । रतिसर्वस्वं=प्रीतिप्रधानहेतुम् अथवा सुरतस्य प्रधानाङ्गाभूताधरामृतम् (रतेः सर्वस्वम्) । कृती=भाग्यशाली । तत्त्वान्वेषात्=तथ्यगवेषणात्, किमियं क्षत्रिययोग्या वा न वेत्यादि तत्त्वम् । हताः=वञ्चिताः ।
शकुन्तला – न एष धृष्टो विरमति । अन्यतो गमिष्यामि । कथमितोऽप्यागच्छति । हला परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् ।
धृष्टः=दुष्टः । विरमति=निवर्तते । दुर्विनीतेन=उद्दण्डेन, अशिष्टेन ।अभिभूयमानाम्=आक्रम्यमाणाम्, आकुलीक्रियमाणाम्, बाध्यमानाम् ।
उभे – (सस्मितम्) के आवां परित्रातुम् । दुष्यंतमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम ।
नाम=निश्चयेन ।
राजा – अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् ।
(इत्यर्धोक्ते स्वगतम्) राजभावस्त्वभिज्ञातो भवेत् । भवतु एवं तावदभिधास्ये ।
अभिधास्ये=वक्ष्ये ।
शकुन्तला – (पदान्तरे स्थित्वा । सदृष्टिक्षेपम्) कथमितोऽपि मामनुसरति ।
राजा – (सत्वरमुपसृत्य)
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥२४॥
मुग्धासु=सरलासु । अविनयम्=अकृत्यम् ।
(सर्वा राजानं दृष्टा किंचिदिव सम्भ्रान्ताः)
अतर्कितोपनतेन राजदर्शनेन सम्भ्रान्ताः ।
अनसूया – आर्य न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता ।
कातरीभूता=त्रस्ता ।
(इति शकुन्तलां दर्शयति)
राजा – (शकुन्तलाभिमुखो भूत्वा) अपि तपो वर्धते ।
(शकुन्तला साध्वसादवचना तिष्ठति)
साध्वसात्=भयेन सम्भ्रमेण वा । अवचना=अप्रतिवचना, मौनवचना (अविद्यमानं वचनं यस्याः सा)
अनसूया – इदानीमतिथिविशेषलाभेन । हला शकुन्तले गच्छोटजम् । फलमिश्रमर्घ्यमुपहर । इदं पादोदकं भविष्यति।
राजा – भवतीनां सूनृतयैव गिराकृतमातिथ्यम् ।
सुनृतया=मधुरया ।
प्रियंवदा – तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः ।
परिश्रमविनोदम्=अध्वश्रमक्लान्त्यपाकरणम् ।
राजा – नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
परिश्रान्ताः=क्लान्ताः ।
अनसूया – हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः ।
(इति सर्वा उपविशन्ति)
पर्युपासनम्=सत्कारः, समीपचरणात्मकं पूजनम् ।
शकुन्तला – (आत्मगतम्) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता ।
तपोवनविरोधिनः=तपस्विजनप्रतिकूलस्य । गमनीया=लक्ष्यभूता ।
राजा – (सर्वा विलोक्य) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् ।
सौहार्दं=मित्रता ।
प्रियंवदा – (जनान्तिकम्) अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन्प्रभाववानिव लक्ष्यते ।
चतुरगम्भीराकृतिः=दर्शनीयदभीरस्वरूपः, आकृतिर्नाम मुखमुद्रा ।
अनसूया – सखि ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् ।
(प्रकाशम्) आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते । कतम आर्येण राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किन्निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः ।
मधुरालापजनितः=कर्णसुखकरसम्भाषणोत्पन्नः । विस्रम्भः=विश्वासः । विरहपर्युत्सुकजनः=वियोगोत्कण्ठितजनः । सुकुमारतरः=परिश्रमानर्हः । तपोवनगमनपरिश्रमस्य=आश्रमागमनक्लान्तेः । आत्मा=देहः । उपनीतः=प्रापितः । पदं=स्थानम् ।
शकुन्तला – (आत्मगतम्) हृदय मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया मन्त्रयते ।
उत्ताम्य=अलम् अधीरतया सन्तापं मा कृथाः ।
राजा – (आत्मगतम्) कथमिदानीं आत्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु । एवं तावदेनां वक्ष्ये ।
आत्मापहारं=स्वगोपनम्, आत्मनिगूहनम् ।
(प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोहमविघ्नक्रियौपलम्भाय धर्मारण्यमिदं आयातः ।
अविघ्नक्रियोपलम्भाय=निर्बाधक्रियानिरीक्षणाय ।
(शकुन्तला शृङ्गारलज्जां रूपयति)
अनसूया – (उभयोराकारं विदित्वा । जनान्तिकम्) हला शकुन्तले यद्यत्राद्य तातः सन्निहितो भवेत् ।
शकुन्तला – ततः किं भवेत् ।
सख्यौ – इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति ।
व्यङ्ग्यार्थः – त्वामेव समर्पयामः एतस्मै विवादिना ।
शकुन्तला – युवामपेतम् । किमपि हृदये कृत्वा मन्त्रयेथे । न युवयोर्वचनं श्रोष्यामि ।
अपेतम्=दूरीभूते भवेतम् ।
राजा – वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः ।
सखिगतं=सखिसम्बन्धिशकुन्तलाविषयकम् ।
सख्यौ – आर्य अनुग्रह इवेयमभ्यर्थना ।
अभ्यर्थना=प्रार्थना ।
राजा – भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तदात्मजेति कथमेतत् ।
प्रकाशः=प्रसिद्धः ।
अनसूया – शृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः ।
महाप्रभवः=विपुलप्रतापः ।
राजा – अस्ति । श्रूयते ।
अनसूया – तमावयोः प्रियसख्याः प्रभवमवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।
प्रभवं=जनकम् । उज्झितायाः=(प्रसवानन्तरं) परित्यक्तायाः ।
राजा – उज्झितशब्देन जनितं मे कौतूहलम् । आमूलाच्छ्रोतुमिच्छामि ।
आमूलात्=आदितः ।
अनसूया – शृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी ।
नियमविघ्नकारिणी=तपोभङ्गकारिणी (नियमे विघ्नं करोति तच्छीला) ।
राजा – अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् ।
भीरुत्वं=वैक्लव्यम् ।
अनसूया – ततो वसन्तोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य - (इत्यर्धोक्ते लज्जया विरमति)
उदारः=श्रेष्ठः । उन्मादयितृ (रूपं)=उन्मादहेतुकम् ।
राजा – परस्ताज्ज्ञायत एव । सर्वथाप्सरःसम्भवैषा ।
अप्सरःसम्भवा=मेनकोत्पन्ना ।
अनसूया – अथ किम् ।
राजा – उपपद्यते ।
उपपद्यते=युज्यते ।
मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥२५॥
मानुषीषु=मनुजस्त्रीषु । सम्भवः=उत्पत्तिः । प्रभातरलं=दीप्तिचपलं (प्रभाभिः तरलं चपलम्) । ज्योतिः=विद्युत्, सूर्यो वा चन्द्रो वा ।
(शकुन्तलाऽधोमुखी तिष्ठति)
राजा – (आत्मगतम्) लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
परिहासोदाहृतां=विनोदकथिताम् । धृतद्वैधीभावकातरं=आरूढः संशयदोलारूढतां येन अतः व्याकुलमिति (धृतः द्वैधीभावः येन, तेन कातरम्) ।
प्रियंवदा – (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा) पुनरपि वक्तुकाम इवार्यः ।
(शकुन्तला सखीमङ्गुल्या तर्जयति)
राजा – सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् ।
सम्यग्=वास्तवं, तथ्यम् । उपलक्षितं=लक्षणैरुन्नतिम्, ओष्ठपरिस्पन्दादिरूपेण मुखविकारेण यदनुमितं तत् । सच्चरितश्रवणलोभात्=सतामतिह्याकर्णनकुतूहलात्, पुण्यप्रदोपाख्यानश्रवणलोभात् ।
प्रियंवदा – अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम ।
अनियन्त्रणानुयोगः=अनियन्त्रणः अनियन्त्रितः अनुयोगः प्रश्नः यस्मिन् सः ।
राजा – इति सखीं ते ज्ञातुमिच्छामि ।
वैखानसं किमनया व्रतमाप्रदानाद्व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमात्मसदृशेक्षणवल्लभाभिराहो निवत्स्यति समं हरिणाङ्गनाभि ॥२६॥
वैखानसं=तपवस्विजनसम्बद्धम् । आप्रदानात्=विवाहावधिः (प्रकृष्टं दानं, प्रदानं नाम विवाहः) । व्यापाररोधि=कामकल्लोलप्रसरावरोधकं (व्रतम्) । निषेवितव्यम्=अनुष्ठेयम्, आचरणीयम् । आत्मसदृशेक्षणवल्लभाभिः=स्वानुरूपनेत्रप्रियैः (आत्मवच्चारुनेत्रयुक्तैः हरिणाङ्नाभिः)
प्रियंवदा – आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः ।
अनुरूपवरप्रदाने=योग्यवरसमर्पणे । परवशः=पराधीनः ।
राजा – (आत्मगतम्) न दुरवापेयं खलु प्रार्थना ।
दुरवापा=दुर्लभा ।
भव हृदय साभिलाषं सम्प्रति संदेहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥२७॥
अग्निं=स्पर्शयोग्याङ्गाररूपम् हुताशनम् ।
शकुन्तला – (सरोषमिव) अनसूये गमिष्याम्यहम् ।
अनसूया – किन्निमित्तम् ।
शकुन्तला – इमामसम्बद्धप्रलापिनीं प्रियंवदां आर्यायै गौतम्यै निवेदयिष्यामि ।
असम्बद्धप्रलापिनीम्=अश्राव्यभाषणशीलाम् । विवेदयिष्यामि=विज्ञापयिष्यामि ।
अनसूया – सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वछन्दतो गमनम् ।
स्वछन्दतः=स्वैरम् ।
(शकुन्तला न किंचिदुक्त्वा प्रस्थितैव)
राजा – (ग्रहीतुमिच्छन्निगृह्यात्मानम् । आत्मगतम्) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि
चेष्टाप्रतिरूपिका=चेष्टासदृशी ।
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥२८॥
वारितप्रसरः=निरुद्धवेगः ।
प्रियंवदा – (शकुन्तलां निरुध्य) हला न ते युक्तं गन्तुम् ।
शकुन्तला – (सभ्रूभङ्गम्) किन्निमित्तम् ।
प्रियंवदा – वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि ।
(इति बलादेनां निवर्तयति)
राजा – भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये ।तथा ह्यस्याः
लक्षये=लक्षणैः तर्कयामि । परिश्रान्तां=खिन्नाम् ।
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥२९॥
घटोत्क्षेपणात्=कलशोत्थापनात् । स्रस्तांसौ=अवनतस्कन्धभागौ । स्तनवेपथुः=ऊरुजकम्पनम् । कर्णशिरीषरोधि=कर्णपुष्परोधकम् (कर्णाभरणं शिरीषपुष्पं रोद्धुं शीलमस्येति) । जालकं=बिन्धुकदम्बकम् । स्रंसिनि=शिथिले । मूर्धजाः=चिकुराः । एकहस्तयमिताः=एककरधृताः । पर्याकुलाः=विकीर्णाः ।
तदहमेनामनृणां करोमि ।
(इत्यङ्गुलीयं दातुमिच्छति)
(उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः)
राजा – अलमस्मानन्यथा सम्भाव्य । राज्ञः परिग्रहोयमिति राजपुरुषं मामवगच्छत ।
परिग्रहः=दानम् ।
प्रियंवदा – तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेनानृणेदानीमेषा ।
(किञ्चिद्विहस्य) हला शकुन्तले मोचितास्यनुकम्पिनार्येण । अथवा महाराजेन । गच्छेदानीम् ।
अनुकम्पिनार्येण=दयालुना ।
शकुन्तला – (आत्मगतम्) यद्यात्मनः प्रभविष्यामि ।
मनसः शक्ष्यामि तर्हि गमिष्यामि ।
(प्रकाशम्) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा ।
राजा – (शकुन्तलां विलोक्य । आत्मगतम्) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः ।
वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसम्मुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥३०॥
कामम्=अत्यन्तम् । भूयिष्ठम्=अत्यन्तम् । मदाननसम्मुखीना=मन्मुखाभिमुखी (सम्मुखे तिष्ठति इति सम्मुखीना, मदाननस्य सम्मुखीना)
(नेपथ्ये)
भो भोस्तपस्विनः सन्निहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः ।
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥३१॥
तुरगखुरहतः=वाजिखुरक्षुण्णः । विटपविषक्तजलार्द्रवल्कलेषु=शाखासक्तजलार्द्रवल्कलेषु । परिणतारुणप्रकाशः=सायङ्कालीनसूर्यप्रभासदृशप्रभावः । शलभसमूहः=पतङ्गनिकरः ।
अपि च ।
तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसंजातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥३२॥
पादाकृष्टव्रततिवलयासङ्गसंजातपाशः=चरणेन आवर्जिताः मार्गप्राप्तलतानां यानि मण्डलानि संसर्गेण प्राप्तबन्धनरज्जुः (पादेन आकृष्टाः व्रततीनां वलयानां सङ्गेन सञ्जातपाशः) । यूथानि=कुलानि । मूर्तः विघ्नः इव गजः वनं प्रविशति=गजः मूर्तिमान् विघ्नः इव धृतदेहः वनं प्रविशति ।
(सर्वाः कर्णं दत्त्वा किंचिदिव सम्भ्रान्ताः)
राजा – (आत्मगतम्) अहो धिक् पौरा अस्मदन्वेषिणस्तपोवनमुपरुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् ।
उपरुन्धन्ति=पीडयन्ति, प्रतिबध्नन्ति ।
सख्यौ – आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि न उटजगमनाय ।
पर्याकुलाः=व्याकुलीभूताः ।
राजा – (ससम्भ्रमम्) गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे ।
(सर्वे उत्तिष्ठन्ति)
सख्यौ – आर्य असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् ।
राजा – मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।
शकुन्तला – अनसूये अभिनवकुशसूच्या परिक्षतं मे चरणं कुरबकशाखापरिलग्नं च वल्कलम् । तावत्परिपालयत मां यावदेतन्मोचयामि ।
परिक्षतं=विद्धम् । कुरबकशाखापरिलग्नं=कण्टकबहुलद्रुम-विटप-संसक्तम् ।
(शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता)
सव्याजं=मिषेण सह ।
राजा – मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि
निवर्तयितुं=निवृत्तं कर्तुम्, अवरोद्धुम् ।
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥३३॥
असंस्तुतं=अपरिचितम् । प्रतिवातं=वायुप्रतिकूलम् । चीनांशुकं=चीनप्रदेशीयं वस्त्रम् ।
(इति निष्क्रान्ताः सर्वे)
॥इति प्रथमोऽङ्कः ॥