सामग्रीं त्यजन्तु

काव्यप्रकाशः — प्रथमः उल्लासः

ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति -

नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम्।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥१॥

नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः, तादृशी ब्रह्यणो निर्मितिर्निर्माणम्। एतद्विलक्षणा तु कविवाङ्निर्मितिः। अत एव जयति। जयत्यर्थेन च नमस्कार आक्षिप्यते, इति तां प्रत्यस्मि प्रणत इति लभ्यते।। इहाभिधेयं सप्रयोजनमित्याह -

नवरसरुचिरां ह्लादैकमयीम् इत्यत्र पुनरुक्तिः भासते किन्तु आपातत एव तथा भासते । ह्लादस्यान्ये हेतवोऽपि भवन्ति न केवलं रसः ।

काव्यप्रयोजनम्

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥२॥

कालिदासानादीनामिव यशः श्रीहर्षादेर्धावकादीनामिव धनं राजादिगतोचिताचारपरिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थनिवारणम् सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलिदवेद्यान्तरमानन्दम् प्रभुसम्मितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्व शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम्।। एवमस्य प्रयोजनमुक्त्वा कारणमाह -

धावकादयः वेतनत्वेन नियुक्ताः । मयूरभट्टः (भाणस्य श्वसुरः) सूर्यशतकं रचयामास, तेन प्रकृतिम् प्राप्नोत् । विगलितवेद्यान्तरम् = विनष्टविषयान्तरम् ।

काव्यहेतुः

शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥३॥

शक्तिः कवित्वबीजरूपः संस्कारविशेषः, यां विना काव्यं न प्रसरेत्, प्रसृतं वा उपहसनीयं स्यात्। लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य। शास्त्राणां छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानाम्। काव्यानां च महाकविसम्बन्धिनाम्। आदिग्रहणादितिहासानां च विमर्शनाद्व्युत्पत्तिः। काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः, न तु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः।। एवमस्य कारणमुक्त्वा स्वरूपमाह -

graph TD
A["काव्यहेतुः"] --> B["शक्तिः
(कवित्वबीजरूपः संस्कारः / प्रतिभा)"]
A --> C["निपुणता
(लोकशास्त्रकाव्याद्यवेक्षणात् व्युत्पत्तिः)"]
A --> D["अभ्यासः
(काव्यज्ञशिक्षया निरन्तरप्रवृत्तिः)"]

B --> E["समुदितः एकः एव हेतुः
('इति हेतुस्तदुद्भवे' - एकवचनप्रमाणम्)"]
C --> E
D --> E

E --> F["उत्तमकाव्यस्य उद्भवः निर्माणं च"]

%% Styling
classDef main fill:#f9f,stroke:#333,stroke-width:2px;
classDef sub fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px;
classDef concept fill:#e8f5e9,stroke:#2e7d32,stroke-width:1.5px;
classDef warm fill:#fff8e1,stroke:#e65100,stroke-width:1.5px;

class A main;
class B,C,D sub;
class E warm;
class F concept;

काव्यसामान्यलक्षणम्

तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि।

गुणः रसस्य धर्मः । कथं शबदार्थौ इत्यस्य सगुणौ इति विशेषणम् ? अत्र न साक्षात् सम्बन्धः, परम्परागतसम्बन्धः ।

दोषगुणालंकाराः वक्ष्यन्ते। क्वापीत्यनेनैतदाह यत् सर्वत्र सालंकारौ, क्वचित्तु स्फुटालंकारविरहेऽपि न काव्यत्वहानिः। यथा

यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा-
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥१॥

अत्र स्फुटो न कश्चिदलङ्कारः। रसस्य च प्राधान्यान्नालङ्कारता।

graph TD
A["काव्यसामान्यलक्षणम्
('तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि')"] --> B["शब्दार्थौ
(विशेष्यम्/युगलम्)"]

B --> C1["अदोषौ
(रसापकर्षकदोषरहितौ)"]
B --> C2["सगुणौ
(माधुर्यादिगुणसमन्वितौ/रसयुक्तौ)"]
B --> C3["अनलङ्कृती पुनः क्वापि
(सालङ्कारौ,क्वचित् स्फुटालङ्काररहितौ)"]

C3 --> D["'यः कौमारहरः...'
(स्फुटालङ्काराभावेऽपि रसप्राधान्यात् काव्यत्वम्)"]

%% Styling
classDef main fill:#f3e5f5,stroke:#ab47bc,stroke-width:1.5px;
classDef sub fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px;
classDef concept fill:#e8f5e9,stroke:#2e7d32,stroke-width:1.5px;
classDef warm fill:#fff8e1,stroke:#e65100,stroke-width:1.5px;

class A main;
class B,C1,C2,C3 sub;
class D warm;
• 'अनलङ्कृती पुनः क्वापि' इति काव्यलक्षणस्य समर्थनम्
• अस्मिन् श्लोके कोऽपि स्फुटः (स्पष्टः) अलङ्कारः (यथा उपमा, रूपकं, उत्प्रेक्षा वा) साक्षात् न दृश्यते। तथाप्यत्र विप्रलम्भशृङ्गारस्य (स्मरणोत्कण्ठारूपस्य रसस्य) चमत्कारोऽतीव प्रबलतया दृश्यते। अतः स्फुटालङ्काररहितत्वेऽप्यस्य उत्तमकाव्यत्वम् अङ्गीक्रियते।
• विप्रलम्भशृङ्गारस्य (रसस्य) प्राधान्यम् -- अनुरागातिशयात् पूर्वतनसङ्केतस्थानस्य स्मरणादुत्कण्ठा/विप्रलम्भशृङ्गारः अतिशयेन व्यज्यते। अत्र वाच्यार्थापेक्षया व्यङ्ग्यार्थः (उत्कण्ठारूपः रसः) मुख्यः अस्ति, अतः एतत् ध्वनिकाव्यस्य (उत्तमकाव्यस्य) अपि श्रेष्ठम् उदाहरणम् अस्ति।

तद्भेदान् क्रमेणाह -

काव्यभेदाः

उत्तमम्

इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥४॥

इदमिति काव्यम्। बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः, ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य। यथा -

निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥२॥

अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते।।

मध्यमम्

अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्।

अतादृशि वाच्यादनतिशायिनि। यथा-

ग्रामतरुणं तरुण्या नववञ्जुलमज्जरीसनाथकरम्।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥३॥

अत्र वञ्जुललतागृहे दत्तसंकेता नागतेति व्यङ्ग्यं गुणीभूतं तदपेक्षया वाच्यस्यैव चमत्कारित्वात्।।

अवरम्

शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥५॥

चित्रमिति गुणालङ्कारयुक्तम्। अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थरहितम्। अवरम् अधमम्। यथा

स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्नाय वः।
भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम-
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥४॥

विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम्।
ससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ॥५॥

• उत्तमम् (ध्वनिकाव्यम्) – व्यङ्ग्यार्थः + वाच्यार्थः ।
• मध्यमम् (गुणीभूतव्यङ्ग्यम्) – वाच्यार्थः + व्यङ्ग्यार्थः ।
• अवरम् (चित्रकाव्यम्) – वाच्यार्थः + वाचकः + (अस्फुटः/शून्यः) व्यङ्ग्यार्थः ।
• शब्दचित्रम् (शब्दप्रधानम्) ।
• वाच्यचित्रम् (अर्थप्राधानम्) ।

इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम प्रथम उल्लासः ।।