सामग्रीं त्यजन्तु

उत्तररामचरितम् — तृतीयोऽङ्कः (छाया)

(ततः प्रविशति नदीद्वयम्)
एका – सखि मुरले! किमसि सम्भ्रान्तेव ?

सम्भ्रान्ता = त्वरिता ।

मुरला – सखि तमसे! प्रेषितास्मि भगवतोऽगस्त्यस्य पत्न्या लोपामुद्रया सरिद्वरां गोदावरीमभिधातुम्। जानास्येव यथा वधूपरित्यागात् प्रभृति –

अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः ।
पुटपाकप्रतीकाशो रामस्य करुणो रसः ॥३।१॥

अभिधातुं = वक्तुम् । अनिर्भिन्नः = निर्भेदमप्राप्तः, बहिरप्रकाशितः । अन्तर्गूढघनव्यथः = अभ्यन्तरगुप्तगाढवेदनः । पुटपाकप्रतीकाशः = बहिर्मृद्विलेपावरुद्धपात्रविशेषे (निभसङ्काशनिकशप्रतीकाशोपमादय इत्यमरः)।

तेन च तथाविधेष्टजनकष्टविनिपातजन्मना प्रकर्षगतेन दीर्घशोकसन्तापेन सम्प्रत्यतितरां परिक्षीणो रामभद्रः। तमवलोक्य कम्पितमिव कुसुमसमबन्धनं मे हृदयम्। अधुना च प्रतिनिवर्तमानेन रामभद्रेण नियतमेव पञ्चवटीवने वधूसहवासविस्त्रम्भसाक्षिणः प्रदेशा द्रष्टव्याः। तेषु च निसर्गधीरस्याप्येवंविधायामनवस्थायामतिगम्भीराभोगशोकक्षोभसंवेगात् पदे पदे महान्ति प्रमादस्थानानि शङ्क‌नीयानि रामभद्रस्य । तद्भगवति गोदावरि! तत्र त्वया सावधानया भवितव्यम् ।

विस्रम्भाः = स्वच्छन्दविलासाः ।

वीचीवातैः शीकरक्षोदशीतैराकर्षद्धिः पद्मकिञ्जल्कगन्धान्।
मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति ॥३।२॥

तमसा – उचितमेव दाक्षिण्यं स्नेहस्य। सञ्जीवनोपायस्तु मौलिक इव रामभद्रस्याद्य सन्निहितः।
मुरला – कथमिव ?
तमसा – श्रूयताम्। पुरा किल वाल्मीकितपोवनोपकण्ठात् परित्यज्य निवृत्ते लक्ष्मणे सीतादेवी प्राप्तप्रसववेदनम् अतिदुःखसंवेगादात्मानं गङ्गाप्रवाहे निक्षिप्तवती। तदैव तत्र दारकद्वयं प्रसूता। भगवतीभ्यां पृथ्वीभागीरथीभ्यामभ्युपपन्ना रसातलं च नीता। स्तन्यत्यागात् परेण च दारकद्वयं तस्याः प्राचेतसस्य महर्षेर्गङ्गादेवी स्वयमर्पितवती ।
मुरला – (सविस्मयम्)

ईदृशानां विपाकोऽपि जायते परमाद्भुतः ।
यत्रोपकरणीभावमायात्येवंविधो जनः ।॥३।३॥

विपाकः = विषमः परिणामः, दशाविपर्यासः ।

तमसा – इदानीं तु शम्बूकवृत्तान्तेन सम्भावितजनस्थानागमनं रामभद्रं सरयूमुखादुपश्रुत्य भगवती भागीरथी यदेव भगवत्या लोपामुद्रया स्नेहादाशङ्कितं तदेवाशङ्कय सीतासमेता केनचिदिव गृहाचारव्यपदेशेन गोदावरीं विलोकयितुमागता।
मुरला – सुष्ठु चिन्तितं भगवत्या भागीरथ्या राजधानीस्थितस्यास्य खलु तैस्तैर्जगतामाभ्युदयिकैः कार्यैर्व्यापृतस्य रामभद्रस्य नियताश्चित्तविक्षेपाः। अव्यग्रस्य पुनरस्य शोकमात्रद्वितीयस्य पञ्चवटीप्रवेशो महाननर्थ इति। तत्कथमिदानीं सीतादेव्या रामभद्र आश्वासनीयः स्यात्?
तमसा – उक्तमेव भगवत्या भागीरथ्या- 'वत्से देवयजनसम्भवे सीते! अद्य खल्वायुष्मतोः कुशलवयोर्द्वादशस्य जन्मसंवत्सरस्य सङ्ख्यामङ्गलग्रन्थिरभिवर्तते। तदात्मनः पुराणश्वशुरमेतावतो मानवस्य राजर्षिवंशस्य प्रसवितारं सवितारमपहतपाप्मानं देवं स्वहस्तावचितैः पुष्पैरुपतिष्ठस्व। न च त्वामवनिपृष्ठचारिणीमस्मत्प्रभावाद् वनदेवता अपि द्रक्ष्यन्ति, किं पुनर्मर्त्याः' इति । अहमप्याज्ञापिता – 'तमसे! त्वयि प्रकृष्टप्रेमैव वधूर्जानकी। अतस्त्वमेवास्याः प्रत्यनन्तरी भव' इति। साऽहमधुना यथादिष्टमनुतिष्ठामि।

उपतिष्ठस्व = पूजय । प्रत्यनन्तरी = निकटवर्तिनी ।

मुरला – अहमप्येतं वृत्तान्तं भगवत्यै लोपामुद्रायै निवेदयामि। रामभद्रोऽप्यागत एवेति तर्कयामि।
तमसा – तदियं गोदावरीहृदान्निष्क्रम्य -

परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकवरीकमाननम्।
करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथेव वनमेति जानकी ॥३।४॥

मुरला – इयं हि सा-

किसलयमिव मुग्धं बन्धनाद् विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम् ॥३।५॥

बन्धनाद् = वृन्तात् । विप्रलूनं = छिन्नम् । ग्लपयति = ग्लानं करोति, ग्लानिं प्रापयति ।

(इति परिक्रम्य निष्क्रान्ते)
॥ इति शुद्धविष्कम्भकः ॥ (नेपथ्ये)
प्रमादः प्रमादः। (ततः प्रविशति पुष्पावचयव्यग्रा सकरुणौत्सुक्यमाकर्णयन्ती सीता)
सीता – अहो! जानामि प्रियसखी मे वासन्ती व्याहरतीति। (पुनर्नेपथ्ये)

सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रै- रग्रे लोलः करिकलभको यः पुरा वर्धितोऽभूत्।

करिकलभः = हस्तिशावकः । सल्लकीपल्लवाग्रैः = गजभक्ष्यलताविशेषाणां किसलयाग्रैः ।

सीता – किं तस्य ? (पुनर्नेपथ्ये)

वध्वा सार्धं पयसि विहरन्सोऽयमन्येन दर्पा- दुद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः ॥३।६॥

अभियुक्तः = आक्रान्तः । सन्निपत्य = स्वयमागत्य ।

सीता – (ससम्भ्रमं कतिचित्पदानि गत्वा) आर्यपुत्र! परित्रायस्व परित्रायस्व मम तं पुत्रकम्। (स्मृतिमभिनीय सवैक्लव्यम्) हा धिक्, हा धिक्! तान्येव चिरपरिचितान्यक्षराणि पञ्चवटीदर्शनेन मां मन्दभागिनीमनुबध्नन्ति । हा आर्यपुत्र! (इति मूर्च्छति)

अनुबध्नन्ति = अनुसरन्ति ।

(प्रविश्य)
तमसा – वत्से! समाश्वसिहि, समाश्वसिहि। (नेपथ्ये)
विमानराज! अत्रैव स्थीयताम्।
सीता – (समाश्वस्य ससाध्वसोल्लासम्) अहो! जलभरभरितमेघमन्थरस्तनितगम्भीरमांसलः कुतोन्वेष भारतीनिर्घोषो भ्रियमाणकर्णविवरां मामपि मन्दभागिनीं झटित्युत्सुकयति ।

उत्सुकयति = उत्कण्ठितां करोति ।

तमसा – (सस्नेहास्त्रम्) अयि वत्से!

अपरिस्फुटनिस्वाने कुतस्त्येऽपि त्वमीदृशी ।
स्तनयित्नोर्मयूरीव चकितोत्कण्ठितं स्थिता ॥३।७॥

कुतस्त्ये = कस्मादपि कारणात्, अविज्ञातनिमित्तादित्यर्थः ।

सीता – भगवति! किं भणस्यपरिस्फुटेति। मया पुनः स्वरसंयोगेन प्रत्यभिज्ञातमार्यपुत्र एव व्याहरतीति ।
तमसा – श्रूयते, तपस्यतः किल शूद्रस्य दण्डधारणार्थमैक्ष्वाको राजा जनस्थानमागत इति।
सीता – दिष्ट्या अपरिहीनराजधर्मः खलु स राजा।

अपरिहीनराजधर्मः = अन्यूनधर्मः ।

(नेपथ्ये)

यत्र द्रुमा अपि मृगा अपि बन्धवो मे यानि प्रियासहचरश्चिरमध्यवात्सम्।
एतानि तानि बहुनिर्झरकन्दराणि गोदावरीपरिसरस्य गिरेस्तटानि ॥३।८॥

सीता – (दृष्ट्वा) हा कथं प्रभातचन्द्रमण्डलापाण्डुरपरिक्षामदुर्बलेनाकारेणायं निजसौम्यगम्भीरानुभावमात्रप्रत्यभिज्ञातव्य आर्यपुत्र एव। भगवति तमसे! धारय माम्। (इति तमसामाश्लिष्य मूर्च्छति)।
तमसा – वत्से! समाश्वसिहि समाश्वसिहि । (नेपथ्ये)
अनेन पञ्चवटीदर्शनेन –

अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः ।
उत्पीड इव धूमस्य मोहः प्रागावृणोति माम् ॥३।९॥

उद्दामम् = अत्यन्तम् ।

हा प्रिये जानकि!
तमसा – (स्वगतम्) इदं तदाशङ्कितं गुरुजनेन।
सीता – (समाश्वस्य) हा कथमेतत् ? (पुनर्नेपथ्ये)
हा देवि! दण्डकारण्यवासप्रियसखि विदेहराजपुत्रि! (इति मूर्च्छति)
सीता – हा धिक्, हा धिक्! मां मन्दभागिनीं व्याहृत्यामीलन्नेत्रनीलोत्पलो मूर्च्छित एवार्यपुत्रः। हा कथं धरणिपृष्ठे निरुद्धनिःश्वासनिःसहं विपर्यस्तः। भगवति तमसे! परित्रायस्व परित्रायस्व। जीवयार्यपुत्रम्। (इति पादयोः पतति)।

विपर्यस्तः = विपरीतः पतितः, अधोमुखः इत्यर्थः ।

तमसा –

त्वमेव ननु कल्याणि सञ्जीवय जगत्पतिम्।
प्रियस्पर्शी हि पाणिस्ते तत्रैष निरतो जनः ॥३।१०॥

सीता – यद् भवतु तद भवतु । यथा भगवत्याज्ञापयति ।
(इति ससम्भ्रमं निष्क्रान्ता) (ततः प्रविशति भूम्यां निपतितः सास्रया सीतया स्पृश्यमानः साह्लादोच्छ्वासो रामः )
सीता – जाने पुनः प्रत्यागतमिव जीवितं त्रैलोक्यस्य ।
रामः – हन्त! भोः किमेतत् ?

आश्च्योतनं नु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः।
आतप्तजीवितपुनः परितर्पणोऽयं सञ्जीवनौषधिरसो नु हृदि प्रसिक्तः ॥३।११॥

आश्च्योतनम् = रसक्षरणम् । निष्पीडिताः = निष्पिष्टाः । सेकः = सेचनम् । प्रसिक्तः = प्रलिप्तः ।

अपि च –

स्पर्शः पुरा परिचितो नियतं स एव सञ्जीवनश्च मनसः परितोषणश्च।
सन्तापजां सपदि यः परिहृत्य मूर्च्छा- मानन्दनेन जडतां पुनरातनोति ॥३।१२॥

आतनोति = विस्तारयति, करोति । सपदि = तत्कालम् ।

सीता – (ससाध्वसकरुणमुपसृत्य) एतावदेवेदानीं मम बहुतरम्।
रामः – (उपविश्य) न खलु वत्सलया सीतादेव्याऽभ्युपपन्नोऽस्मि ?
सीता – हा धिक्! हा धिक्! किमिति मामार्यपुत्रो मार्गिष्यते ?
रामः – भवतु, पश्यामि।
सीता – भगवति तमसे! अपसरावस्तावत्। मां प्रेक्ष्यानभ्यनुज्ञातेन सन्निधानेन राजाऽधिकं कोपिष्यति।
तमसा – अयि वत्से! भागीरथीप्रसादाद् वनदेवतानामप्यदृश्याऽसि संवृत्ता।
सीता – आम् अस्ति खल्वेतत् ।
रामः – हा प्रिये जानकि!
सीता – (समन्युगदगदम्) आर्यपुत्र! असदृशं खल्वेतद्वचनमस्य वृत्तान्तस्य (सास्रम्) अथवा किमिति वज्रमयी जन्मान्तरेष्वपि पुनरसम्भावितदुर्लभदर्शनस्य मामेव मन्दभागिनीमुद्दिश्य वत्सलतयैवंवादिन आर्यपुत्रस्योपरि निरनुक्रोशा भविष्यामि ? अहमेवैतस्य हृदयं जानामि, ममाप्येषः ।

निरनुक्रोशा = निर्दया ।

रामः – (सर्वतोऽवलोक्य) हा! न किञ्चिदत्र।
सीता – भगवति तमसे! तथा निष्कारणपरित्यागिनोऽपि एतस्यैवंविधेन दर्शनेन कीदृश इव मे हृदयानुबन्ध इति न जानामि।

हृदयानुबन्धः = मनोवस्था ।

तमसा – जानामि वत्से! जानामि।

तटस्थं नैराश्यादपि च कलुषं विप्रियवशा- द्वियोगे दीर्धेऽस्मिञ्झटिति घटनात् स्तम्भितमिव।
प्रसन्नं सौजन्याद् दयितकरुणैर्गाढकरुणं द्रवीभूतं प्रेम्णा तव हृदयमस्मिन् क्षण इव ॥३।१३॥

रामः – देवि!

प्रसाद इव मूर्त्तस्ते स्पर्शः स्नेहार्द्रशीतलः ।
अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि ॥३।१४॥

सीता – एते खलु ते अगाधमानसंदर्शितस्नेहसम्भारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः। येषां प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मम जन्मलाभः।

अगाधमानसंदर्शितस्नेहसम्भारा = अगाध अतिगम्भीरं, मानसं चित्तं, तेन सन्दर्शितः प्रदर्शितः, स्नेहसम्भाराः = प्रेमसमूहः यैः (सम्भारः सम्भृतौ गणे इति विश्वः) । आनन्दनिष्यन्दिनः = हर्षस्राविणः । उल्लापाः = उच्चैः विलापाः ।

रामः – अथवा कुतः प्रियतमा? नूनं सङ्कल्पाभ्यासपाटवोपादान एष भ्रमो रामभद्रस्य ।

सङ्कल्पाभ्यासपाटवोपादानः = सङ्कल्पस्य सीताविषयकचिन्तायाः, अभ्यासः पुनः पुनरावृत्तिः, तस्य पाटवं पटुत्वम्, तदेवोपादनं कारणं यस सः ।

(नेपथ्ये)
अहो महान् प्रमादः प्रमादः। ('सीतादेव्या स्वकरकलितैः' इत्यर्थं पठ्यते)
रामः – (सकरुणौत्सुक्यम्) किं तस्य?
(पुनर्नेपथ्ये 'वध्वा सार्धम्' इत्युत्तरार्द्ध पठ्यते)
सीता – क इदानीमभियोक्ष्यते ?
रामः – क्वासौ क्वासौ दुरात्मा यः प्रियायाः पुत्रकं वधूद्वितीयमभिभवति ?
(इत्युत्तिष्ठति)
वासन्ती – (सम्भ्रान्ता) कथं देवो रघुनन्दनः?
सीता – हा कथं मे प्रियसखी वासन्ती ?
वासन्ती – जयतु जयतु देवः।
रामः – (निरूप्य) कथं देव्याः प्रियसखी वासन्ती?
वासन्ती – देव! त्वर्यतां त्वर्यताम्। इतो जटायुशिखरस्य दक्षिणेन सीतातीर्थेन गोदीवरीमवतीर्य सम्भावयतु देव्याः पुत्रकं देवः।
सीता – हा तात जटायो! शून्यं त्वया विनेदं जनस्थानम्।
रामः – अहह!! हृदयमर्मच्छिदः खल्वमी कथोद्घाताः।

हृदयमर्मच्छिदः = हृन्मर्मभेदकाः, हृदयमर्माणि छिन्दन्तीति । कथोद्घाताः = पूरावृत्तोपन्यासाः ।

वासन्ती – इत इतो देवः।
सीता – भगवति! सत्यमेव वनदेवता अपि मां न प्रेक्षन्ते।
तमसा – अयि वत्से! सर्वदेवताभ्यः, प्रकृष्टतममैश्वर्यं मन्दाकिनीदेव्यास्तत् किमित्याशङ्कसे?
सीता – ततोऽनुसरावः। (इति परिक्रामति)
रामः – भगवति गोदावरि! नमस्ते।
वासन्ती – (निरूप्य) देव! मोदस्व विजयिना वधूद्वितीयेन देव्याः पुत्रकेण।
रामः – विजयतामायुष्मान्।
सीता – अहो! ईदृशो मे पुत्रकः संवृत्तः ।
रामः – हा देवि! दिष्ट्या वर्धसे।

येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्‌कुरेण व्याकृष्टस्ते सुतनु! लवलीपल्लवः कर्णमूलात्।
सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः ॥३।१५॥

उद्गच्छद्विसकिसलयस्निग्धदन्ताङ्‌कुरेण = उद्गच्छन्तौ प्ररोहन्तौ, विसकिसलयस्निग्धौ दन्ताङ्कुरौ यस्य, तेन ।

सीता – अवियुक्त इदानीमयं दीर्घायुरनया सौम्यदर्शनया भवतु।
रामः – सखि वासन्ति! पश्य पश्य कान्तानुवृत्तिचातुर्यमपि शिक्षितं वत्सेन।

कान्तानुवृत्तिचातुर्यं = कान्तायाः प्रिययाः, अनुवृत्तिः चित्तरञ्जनं, तत्र चातुर्यम् नैपुण्यम् ।

लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः पुष्यत्पुष्करवासितस्य पयसो गण्डूषस‌ङ्क्रान्तयः।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन- र्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥३।१६॥

पुष्यत्पुष्करवासितस्य = पुष्यद्भिः (पुष्टिं गच्छद्भिः) विकसद्भिरिति यावत्, पुष्करैः कमलैः, वासितस्य सुरभीकृतस्य ।

सीता – भगवति तमसे! अयं तावदीदृशो जातः। तौ पुनर्न जानामि कुशलवावेतावता कालेन कीदृशौ संवृत्ताविति ।
तमसा – यादृशोऽयं तादृशौ तावपि।
सीता – ईदृश्यहं मन्दभागिनी यस्या न केवलं निःसह आर्यपुत्रविरहः, पुत्रविरहोऽपि।
तमसा – भवितव्यतेयमीदृशी।
सीता – किं वा मया प्रसूतया येन तादृशमपि मम पुत्रकयोरीषद्विरल-कोमल-धवल-दशनोज्ज्वल-कपोलमनुबद्धमुग्धकाकली-विहसितं निबद्धकाकशिखण्डकम् अमलमुखपुण्डरीकयुगलं न परिचुम्बितमार्यपुत्रेण।
तमसा – अस्तु देवताप्रसादात्।
सीता – भगवति तमसे! एतेनापत्यसंस्मरेणोच्छ्वसितप्रस्नुतस्तनी इदानीं वत्सयोः पितुः सन्निधानेन क्षणमात्रं संसारिण्यस्मि संवृत्ता।

उच्छ्वसितप्रस्नुतस्तनी = उच्छ्वसितौ स्फीतौ (दुग्धागमनादिति भावः), प्रस्नुतौ दुग्धनिष्यन्दिनौ, स्तनौ पयोधरौ यस्याः तथाभूता ।

तमसा – किमत्रोच्यते ? प्रसवः खलु प्रकर्षपर्यन्तः स्नेहस्य। परं चैतदन्योन्यसंश्लेषणं पित्रोः ।

अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात्।
आनन्दग्रन्थिरेकोऽयमपत्यमिति बध्यते ॥३।१७॥

वासन्ती – इतोऽपि देवः पश्यतु-

अनुदिवसमवर्धयत् प्रिया ते यमचिरनिर्गतमुग्धलोलबर्हम्।
मणिमुकुट इवोच्छिखः कदम्बे नदति स एष वधूसखः शिखण्डी ॥३।१८॥

पुष्पिताग्रा वृत्तम् ॥

सीता – (सकौतुकस्नेहास्त्रम्) एष स, एष सः।
रामः – मोदस्व वत्स! मोदस्व ।
सीता – एवं भवतु ।
रामः –

भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षुः प्रचलितचटुलभूताण्डवैर्मण्डयन्त्या।
करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि ॥३।१९॥

मालिनी वृत्तम् ॥

हन्त! तिर्यञ्चोऽपि परिचयमनुरुन्धते।

अनुरुन्धते = अनुसरति (लिहाज करते हैं) ।

कतिपयकुसुमोद्गमः कदम्बः
प्रियतमया परिवर्धितोऽयमासीत्।

सीता – (निरूप्य सास्त्रम्) सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण ।
रामः –

स्मरति गिरिमयूर इव एष देव्याः।
स्वजन इवात्र यतः प्रमोदमेति ॥३।२०॥

वासन्ती – अत्र तावदासनपरिग्रहं करोतु देवः ।
(राम उपविशति)
वासन्ती –

एतत्तदेव कदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते।
अत्र स्थिता तृणमदाद् बहुशो यदेभ्यः सीता ततो हरिणकैर्न विमुच्यते स्म ॥३।२१॥

वसन्ततिलकं वृत्तम् ॥

रामः – इदं तावदशक्यमेव द्रष्टुम् ।
(इत्यन्यतो रुदन्नुपविशति)
सीता – सखि वासन्ति! किं त्वया कृतमार्यपुत्रस्य मम चैतद् दर्शयन्त्या। हा धिक्! हा धिक्! स एवार्यपुत्रः, सैव प्रियसखी वासन्ती, त एव विविधविस्त्रम्भसाक्षिणो गोदावरीकाननोद्देशाः, त एव जातनिर्विशेषा मृगपक्षिपादपाः, सैव चाहम्। मम पुनर्मन्दभाग्याया दृश्यमानमपि सर्वमेवैतन्नास्तीति । तदीदृशो जीवलोकस्य परिवर्तः ।

गोदावरीकाननोद्देशाः = गोदावर्याख्यनदीवनप्रदेशाः ।

वासन्ती – सखि सीते! कथं न पश्यसि रामभद्रस्यावस्थाम् ?

नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं सततमपि नः स्वेच्छादृश्यो नवो नव एव यः।
विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः कथमपि स उन्नेतव्यस्तथापि दृशोः प्रियः ॥३।२२॥

नयनोत्सवं = नेत्रयोरानन्दम्, नेत्रकौमुदी (eye candy) । विकलकरणः = विकलेन्द्रियः । परिदुर्बलः = समधिककृशः । उन्नेत्तव्यः = प्रत्यभिज्ञातव्यः । हरिणी वृत्तम् ।

सीता – प्रेक्षे, सखि! प्रेक्षे।
तमसा – पश्यन्ती प्रियं भूयाः।
सीता – हा दैव! एष मया विनाऽहमप्येतेन विनेति स्वप्नेऽपि केन सम्भावितमासीत्। तन्मुहूर्तमात्रं जन्मान्तरादिव लब्धदर्शनं बाष्पसलिलान्तरेषु पश्यामि तावद् वत्सलमार्यपुत्रम् ।

बाष्पसलिलान्तरेषु = बाष्पसलिलानाम् अश्रुजलानाम्, अन्तरेषु अवकाशेषु (अश्रुजलानां पतनोद्गमान्तरालेषु) ।

तमसा – (परिष्वज्य सास्त्रम्)

विलुलितमतिपूरैर्बाष्पमानन्दशोक- प्रभवमवसृजन्ती तृष्णयोत्तानदीर्घा।
स्नपयति हृदयेशं स्नेहनिष्यन्दिनी ते धवलबहलमुग्धा दुग्धकुल्येव दृष्टिः ॥३।२३॥

अवसृजन्ती = उत्पादयन्ती । आनन्दशोकप्रभवम् = आनन्दशोकौ हर्षमन्यू, प्रभवौ कारणं यस्य तम् । अतिपूरैः = अतिशयप्रवाहैः । उत्ताना = विस्फारिता।

वासन्ती –

ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः।
कलमविरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः पुनरिदमयं देवो रामः स्वयं वनमागतः ॥३।२४॥

स्फुटितकमलामोदप्रायाः = स्फुटितानि विकसितानि, कमलानि पद्मानि, तेषामामोदः सौरभम्, प्रायः बहुलो येषु ते, तादृशाः ।

रामः – एहि सखि वासन्ति! नन्वितः स्थीयताम्।
वासन्ती – (उपविश्य, सास्रम्) महाराज! अपि कुशलं कुमारलक्ष्मणस्य।
रामः – (अश्रुतिमभिनीय) –

करकमलवितीर्णैरम्बुनीवारशष्पै- स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत्।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि द्रव इव हृदयस्य प्रस्तरोद्भेदयोग्यः ॥३।२५॥

प्रस्तरोद्भेदयोग्यः = प्रस्तरस्य पाषाणस्य, उद्भेदः विदारणम्, तस्मिन् योग्यः समर्थः ।

वासन्ती – महाराज! ननु पृच्छामि, अपि कुशलं कुमारलक्ष्मणस्येति ।
रामः – (आत्मगतम्) अये महाराजेति निष्प्रणयमामन्त्रणपदं सौमित्रिमात्रे च बाष्पस्खलिताक्षरः कुशलप्रश्नः। तथा मन्ये विदितसीतावृत्तान्तेयमिति । (प्रकाशम्) आं कुशलं कुमारस्य।

बाष्पस्खलिताक्षरः = बाष्पेण अश्रुभिः स्खलिताखराणि अस्पष्टवचनानि यस्मिन् सः ।

वासन्ती – (रुदती) अयि देव! किं परं दारुणः खल्वसि?
सीता – सखि वासन्ति! किं त्वमेवंवादिनीं भवसि ? प्रियार्हः खलु सर्वस्यार्यपुत्रो विशेषतो मम प्रियसख्याः।
वासन्ती –

त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्गे।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां तामेव शान्तमथवा किमिहोत्तरेण ॥३।२६॥

अनुरुध्य = अनुनीय ।

(इति मुह्यति)
तमसा – स्थाने वाक्यनिवृत्तिर्मोहश्च ।

वाक्यनिवृत्तिः = वाग्व्यापारनिरोधः ।

रामः – सखि! समाश्वसिहि, समाश्वसिहि।
वासन्ती – (समाश्वस्य) तत्किमिदमकार्यमनुष्ठितं देवेन ?
सीता – सखि वासन्ति! विरम विरम।
रामः – लोको न मृष्यति।
वासन्ती – कस्य हेतोः?
रामः – स एव जानाति किमपि ।
तमसा – चिरादुपालम्भः।
वासन्ती –

अयि कठोर! यशः किल ते प्रियं, किमयशो ननु घोरमतः परम्।
किमभवद्विपिने हरिणीदृशः, कथय नाथ! कथं बत मन्यसे ॥३।२७॥

सीता – त्वमेव सखि वासन्ति! दारुणा कठोरा च यैवमार्यपुत्रं प्रदीप्तं प्रदीपयसि।

प्रदीप्तं प्रदीपयसि = सन्तप्तं सन्तापयसि ।

तमसा – प्रणय एवं व्याहरति शोकश्च ।
रामः – सखि! किमत्र मन्तव्यम् ?

त्रस्तैकहायनकुरङ्ग‌विलोलदृष्टे- स्तस्याः परिस्फुरितगर्भभरालसायाः।
ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्या‌द्भिरङ्गलतिका नियतं विलुप्ता ॥३।२८॥

नियतं = निश्चितम् । विलुप्ता = नाशिता (व्यापादिता) ।

सीता – आर्यपुत्र! ध्रिये, एषा ध्रिये।

ध्रिये = अवतिष्ठे ।

रामः – हा प्रिये जानकि! क्वासि ?
सीता – हा धिक्! हा धिक्! अन्य इवार्यपुत्रः प्रमुक्तकण्ठं रोदिति ।

प्रमुक्तकण्ठं = अत्युच्चैःस्वरं यथा स्यात् तथा ।

तमसा – वत्से! साम्प्रतिकमेवैतत्। कर्त्तव्यानि खलु दुःखितैर्दुःखनिर्वापणानि।

साम्प्रतिकम् = युक्तम् । र्दुःखनिर्वापणानि = दुःखोपशमनानि ।

पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया।
शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥३।२९॥

पूरोपीडे = पूरस्य प्रवाहस्य, उत्पीडे आधिक्ये सति । परीवाहः = जलनिःसारणम् ।

विशेषतो रामभद्रस्य यस्य बहुतरप्रकारकष्टो जीवलोकः ।

इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव घर्मो ग्लपयति।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ- स्तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितम् ॥३।३०॥

अभियुक्तेन = सावघानेन । ग्लपयति = शोषयति । शिक्षरिणी वृत्तम् ॥

रामः – कष्टं भोः! कष्टम्।

दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम्।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥३।३१॥

विकलः = विह्वलः, शोकेनेति शेषः । वहति = धारयति । अन्तर्दाहः = अन्तःकरणतापः । हरिणी वृत्तम् ॥

सीता – एवं न्विदम्।
रामः – हे भगवन्तः पौरजानपदाः।

न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत- स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता।
चिरपरिचितास्ते ते भावाः परिद्रवयन्ति मा- मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥३।३२॥

परिद्रवयन्ति = द्रवीभूतं कुर्वन्ति । हरिणी वृत्तम् ।

वासन्ती – (स्वगतम्) अतिगम्भीरमापूरणं मन्युसम्भारस्य। (प्रकाशम्) देव अतिक्रान्ते धैर्यमवलम्ब्यताम्।

मनुसम्भारस्य = क्रोधराशेः ।

रामः – सखि! किमुच्यते धैर्यमिति ।

देव्या शून्यस्य जगतो द्वादशः परिवत्सरः ।
प्रणष्टमिव नामापि न च रामो न जीवति ॥३।३३॥

परिवत्सरः = संवस्तरः ।

सीता – मोहितास्म्येतैरार्यपुत्रवचनैः।
तमसा – एवमेव वत्से!

नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः।
एतास्ताः मधुनो धाराः श्च्योतन्ति सविषास्त्वयि ॥३।३४॥

स्नेहार्द्राः = स्नेहेन अनुरागेण, आर्द्राः शीतलाः । शोकदारुणाः = शोकेन मन्युना, दारुणाः निष्ठुराः । श्च्योत्यन्ति = स्रवन्ति ।

रामः – अयि वासन्ति! मया खलु-

यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दंशः।
तथैव तीव्रो हृदि शोकशङ्‌कुर्मर्माणि कृन्तन्नपि किं न सोढः॥३।३५॥

तिरश्चीनम् = तिर्यगेव तिरश्चीनम् (तिरस् + अञ्च् + क्विप् + ख [स्वार्थे] = तिरस् + च् + ईन्)। अलातशल्यं = उल्मुककीलकम् । प्रयुत्प्तं = निखातम् । शोकशकः = मन्युरूपकीलकम् ।

सीता – एवमस्मि मन्दभागिनी पुनरप्यायासकारिण्यार्यपुत्रस्य।

आयासकारिणी = कष्टदायिनी ।

रामः – एवमतिनिष्कम्पस्तम्भितान्तःकरणस्यापि मम संस्तुततत्तत्प्रियवस्तुदर्शनादुद्दामोऽयमावेगः। तथाहि –

संस्तुतानि = परिचितानि । उद्दामः = संवृद्धः ।

लोलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं यो यो यत्नः कथमपि मयाऽऽधीयते तं तमन्तः ।
भित्त्वा भित्त्वा प्रसरति बलात् कोऽपि चेतोविकार- स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥३।३६॥

लोलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं = लोलः चञ्चलः, उल्लोलः महातरङ्गः यस्य स लोलोल्लोलः, क्षुभितः यः करुणः शोकः तस्य उज्जृम्भणम् अभिवृद्धिः, तस्य स्तम्भनार्थं निवारणार्थम् । अप्रतिहतरयः = अप्रतिरुद्धवेगः। सैकतम् = बालकामयम् । सेतुमिव = आालिमिव । ओघः = प्रवाहः ।

सीता – एतेनार्यपुत्रस्य दुर्वारदारुणारम्भेण दुःखसङ्‌क्षोभेण परिमुषितनिजदुःखं किमपि प्रमुग्धं मे हृदयम्।

परिमुषितनिजदुःखं = परिमुषितम् अपहृतम्, निजम् आत्मीयम्, दुःखं यस्य तत् । प्रमुग्धं = विमूढं संवृत्तम् ।

वासन्ती – (स्वगतम्) कष्टमभ्यापन्नो देवः। तदन्यतः क्षिपामि तावत्। (प्रकाशम्) चिरपरिचितानीदानीं जनस्थानभागाननवलोकनेन मानयतु देवः।

अभ्यापन्नः = प्राप्तः ।

रामः – एवमस्तु (इत्युत्थाय परिक्रामति)।
सीता – सन्दीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि।
वासन्ती – (सकरुणम्) देव देव!

अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद् गोदावरीसैकते।
आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः॥३।३७॥

तन्मार्गदत्तेक्षणः = तस्याः सीतायाः, मार्गे आगमनवर्ग्मनि, दत्ते स्थापिते, ईक्षणे नेत्रे येन सः तथाभूतः ।

अत्रोपमाऽलकारः। शार्दूलविक्रीडितं वृत्तम् ॥

सीता – दारुणासि वासन्ति! दारुणासि, या एतैर्हृदयमर्मगूढशल्यसङ्घट्टनैः पुनः पुनरपि मां मन्दभागिनीमार्यपुत्रं च सन्तापयसि।

हृदयमर्मगूढशल्यसङ्घट्टनैः = हदयमर्मणि, गूढे गुप्तं, यत् शल्यं शोकशङ्कुरुपम्, तस्य घट्टनैः चालनैः ।

रामः – अयि चण्डि जानकि! इतस्ततो दृश्यस इव न चानुकम्पसे।

हा हा देवि! स्फुटति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ्‌मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥३।३८॥

विष्वक् = समन्तात् । अविरलाः = अविच्छिन्ना । विधुरः = प्रियारहितः । स्थगयति = छादयति । उत्प्रेक्षालङ्कारः ॥

(इति मूर्छति)
सीता – हा धिकः पुनरपि प्रमूढ आर्यपुत्रः ।
वासन्ती – देव! समाश्वसिहि, समाश्वसिहि।
सीता – आर्यपुत्र! मां मन्दभागिनीमुद्दिश्य सकलजीवलोकमङ्गलाधारस्य ते वारं वारं संशयितजीवितदारुणो दशापरिणाम इति हा हतास्मि।

संशयितजीवितदारुणः = संशयितम् सन्देहविषयभूतम्, जीवितम् जीवनम्, यस्मिन् सः । दशापरिणामः = अवस्थापरिपाकः ।

(इति मूर्च्छति)
तमसा – वत्से! समाश्वसिहि, समाश्वसिहि। पुनस्त्वत्पाणिस्पर्श एव सञ्जीवनोपायो रामभद्रस्य ।
वासन्ती – कथमद्यापि नोच्छ्वसिति। हा प्रियसखि सीते! क्वासि ? सम्भावयात्मनो जीवितेश्वरम्।
सीता – (ससम्भ्रममुपसृत्य हृदि ललाटे च स्पृशति)
वासन्ती – दिष्ट्या प्रत्यापन्नचेतनो रामभद्रः।
रामः –

आलिम्पन्नमृतमयैरिव प्रलेपैरन्तर्वा बहिरपि वा शरीरधातून् ।
संस्पर्शः पुनरपि जीवन्नकस्मादानन्दादपरविधं तनोति मोहम्॥३।३९॥

आलिम्पन्निव = सर्वतः लिप्तान् कुर्वन्निव । अपरविधं = दुःखजन्यपूर्वमूर्च्छाव्यतिरिक्तं सुखजन्यमित्यर्थः । तनोति = विस्तारयति ।

(आनन्दनिमीलिताक्ष एव) सखि वासन्ति! दिष्ट्या वर्धसे।
वासन्ती – देव! कथमिव ?
रामः – सखि! किमन्यत्। पुनः प्राप्ता जानकी।
वासन्ती – अयि देव रामभद्र! क्व सा?
रामः – (स्पर्शसुखभिनीय) पश्य, नन्वियं पुरत एव।
वासन्ती – अयि देव! किमिति मर्मच्छेददारुणैरेभिः प्रलापैः प्रियसखीदुःखदग्धामपि मां पुनर्मन्दभाग्यां दहसि ?
सीता – अपसर्तुमिच्छामि। एष पुनः चिरप्रणयसम्भारसौम्यशीतलेनार्यपुत्रस्पर्शेन दीर्घदारुणमपि झटिति सन्तापमुल्लाघयता वज्रलेपोपनद्ध इव पर्यस्तव्यापार आसञ्जित इव मेऽग्रहस्तः ।

चिरप्रणयसंभारसौम्यशीतलेन = चिरप्रणयस्य बहु कालप्रेम्णः, संभारेण समूहेन, सौम्यः आह्लादकरः, तथा शीतला शीतः, संतापाऽपहारक इति भावः, तेन । वज्रलेपोपनद्धः = वजलेपेन दृढलेपविशेषेण, उपनद्धः बद्धः । पर्यस्तव्यापारः = पर्यस्तः अपगतः, व्यापारः क्रिया यस्य सः, निष्पन्द इत्यर्थः। आसञ्जित = लग्नः ।

रामः – सखि! कुतः प्रलापाः?

गृहीतो यः पूर्व परिणयविधौ कङ्कणधर- श्चिरं स्वेच्छास्पर्शेरमृतशिशिरैर्यः परिचितः ।

सीता – आर्यपुत्र! स एवेदानीमसि त्वम्!
रामः –

स एवायं तस्यास्तुहिननिकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीकन्दलनिभः ॥३।४०॥

तुहिननिकरौपम्यसुभगः = तुहिननिकरेण हिमराशिना सह, यत् औपम्यम् सादृश्यम्, तेन सुभगः मनोरमः ।

(इति गृह्णाति)
सीता – हा धिक्! हा धिक्! आर्यपुत्रस्पर्शमोहितायाः प्रमादः खलु मे संवृत्तः ।
रामः – सखि वासन्ति! आनन्दनिमीलितेन्द्रियः प्रियास्पर्शसाध्वसेन परवानस्मि। तत् त्वं तावदेनां धारय।
वासन्ती – कष्टम्! उन्माद एव।
(सीता ससम्भ्रमं हस्तमाक्षिप्यापसर्पति)।
रामः – हा धिक्! प्रमादः।

करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः।
परिकम्पिनः प्रकम्पी करान्मम स्विद्यतः स्विद्यन् ॥३।४१॥

सीता – हा धिक्! हा धिक्! अद्याप्यनुबद्धघूर्णमानवेदनं न संस्थापयात्मानम् ।

अनुबद्धघूर्णमानवेदनम् = अनुबद्धा उत्पना, घूर्णमाना उद्गच्छन्ती, वेदना दुःखं यस्य तम् ।

तमसा – (सस्नेहकौतुकस्मितं निर्वर्ण्य)

सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा।
मरुन्नवाम्भः प्रविधूतसिक्ता कदम्बयष्टिः स्फुटकोरकेव ॥३।४२॥

प्रविधूतसिक्ता = प्रविधूता परिकम्पिता, सिक्ता आर्द्रीकृता ।

सीता – (स्वगतम्) अवशेनैतेनात्मना लज्जापितास्मि भगवत्या तमसया। किमिति किलैषा मंस्यते 'एष परित्याग एषोऽभिषङ्ग' इति ।

अभिषङ्गः = अनुरागः ।

रामः – (सर्वतोऽवलोक्य) हा! कथं नास्त्येव ? नन्वकरुणे वैदेहि!
सीता – अकरुणास्मि, यैवंविधं त्वां पश्यन्त्येव जीवामि ।
रामः – क्वासि देवि! प्रसीद । न मामेवंविधं परित्यक्तुमर्हसि।
सीता – आर्यपुत्र! विपरीतमेवैतत् ।
वासन्ती – देव! प्रसीद प्रसीद । स्वेनैव लोकोत्तरेण धैर्येण संस्तम्भयातिभूमिं गतमात्मानम्। कुत्र मे प्रियसखी?

अतिभूमिं गतम् = सीमान्तं प्राप्तम् ।

रामः – व्यक्तं नास्त्येव । कथमन्यथा वासन्त्यपि तां न पश्येत्। अपि खलु स्वप्न एष स्यात्। न चास्मि सुप्तः। कुतो रामस्य निद्रा ? सर्वथा स एवैष भगवान् अनेकवारपरिकल्पनानिर्मितो विप्रलम्भः पुनः पुनरनुबध्नाति माम्।

विप्रलम्भः = भ्रमः ।

सीता – मयैव दारुणया विप्रलब्ध आर्यपुत्रः ।

विप्रलब्धः = वञ्चितः ।

वासन्ती – देव! पश्य पश्य –

पौलस्त्यस्य जटायुषा विघटितः कार्णायसोऽयं रथ- स्ते चैते पुरतः पिशाचवदनाः कङ्कालशेषाः खराः।
खड्गच्छिन्नजटायुपक्षतिरितः सीतां चलन्ती वह- नन्तर्व्याकुलविद्युदम्बुद इव द्यामभ्युदस्थादरिः ॥३।४३॥

सीता – (सभयम्) आर्यपुत्र! तातो व्यापाद्यते अहमप्यपह्रिये। तस्मात् परित्रायस्व परित्रायस्व।
रामः – (सवेगमुत्थाय) आः पाप! तातप्राणसीतापहारिन्! क्व यासि ?
वासन्ती – आर्य देव! राक्षसकुलप्रलयधूमकेतो! किमद्यापि ते मन्युविषयः?

मन्युविषयः = कोपपात्रं, कोपभाजनम् ।

सीता – अहो! अहमद्भ्रान्ताऽस्मि ।
रामः – अन्य एवायमधुना विपर्ययो वर्तते-

विपर्ययः = सीतावियोगरूपविपर्यासः, मिथ्याबोधः ।

उपायानां भावादविरतविनोदव्यतिकरै- र्विमर्दैर्वीराणां जगति जनिताद्भुतरसः ।
वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् कथं तूष्णीं सह्यो निरवधिरयं त्वप्रतिविधः ॥३।४४॥

अविरतविनोदव्यतिकरैः = अविरताः सन्तताः (अविरलाः),विनोदानाम् दुःखविस्मृतिहेतूनाम्, व्यतिकराः सम्बन्धाः येषु तैः । रिपुघातावधिः = रिपूणां रावणादीनां, घातः वधः, अवधिः पर्यन्तः, सीमा इत्यर्थः यस्य सः । सह्यः = प्रतीकाराभावाज्जोषंभावेन मर्षणीयः । अप्रतिविधः = प्रतिविधानरहितः । विमर्दैः = प्रहारैः ।

सीता – निरवधिरिति हा हतास्मि मन्दभागिनी।
रामः – हा कष्टम्!

व्यर्थं यत्र कपीन्द्रसख्यमपि मे, वीर्यं हरीणां वृथा प्रज्ञा जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि।
मार्गं यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषये तत्र प्रिये! क्वासि मे ? ॥३।४५॥

पत्त्रिणाम् = बाणानाम्, (पत्त्री रोप इषुर्द्वयोः इत्यमरः) । अविषये = अगोचरे ।

सीता – बहुमानितास्मि पूर्वविरहे।
रामः – सखि वासन्ति! दुःखायैव सुहृदामिदानीं रामस्य दर्शनम्। कियच्चिरं त्वां रोदयिष्यामि तदनुजानीहि मां गमनाय ।
सीता – (सोद्वेगमोहं तमसामाश्लिष्य) भगवति तमसे! कथं गच्छत्येवार्यपुत्रः ।
तमसा – वत्से! समाश्वसिहि, समाश्वसिहि। नन्वावामप्यायुष्मतोः कुशलवयोर्वर्षवर्धनमङ्गलानि सम्पादयितुं भागीरथीपदान्तिकमेव गच्छावः ।
सीता – भगवति! प्रसीद। क्षणमात्रमपि तावद् दुर्लभदर्शनं जनं प्रेक्षे।
रामः – अस्ति चेदानीमश्वमेधाय सहधर्मचारिणी मे।
सीता – (सोत्कम्पम्) आर्यपुत्र! का?
वासन्ती – परिणीतमपि किम् ?
रामः – नहि नहि। हिरण्मयी सीताप्रतिकृतिः ।
सीता – (सोच्छ्वासास्रम्) आर्यपुत्र इदानीमसि त्वम्। अहो! उत्खातमिदानीं मे परित्यागशल्यमार्यपुत्रेण।
रामः – तत्रापि तावद् बाष्पदिग्धं चक्षुर्विनोदयामि।

बाप्पदिग्धम् = अश्रुलिप्तम् ।

सीता – धन्या खलु सा चैवमार्यपुत्रेण बहुमन्यते या चार्यपुत्रं विनोदयन्त्याशानिबन्धनं जाता जीवलोकस्य ।
तमसा – (सस्मितस्नेहास्रं परिष्वज्य) अयि वत्से! एवमात्मा स्तूयते।
सीता – (सलज्जमधोमुखी स्वगतम्) परिहसितास्मि भगवत्या।
वासन्ती – महानयं व्यतिकरोऽस्माकं प्रसादः। गमनं पुनर्यथा कार्यहानिर्न भवतु तथास्ताम्।

व्यतिकरः = समागमः ।

रामः – तथास्तु ।
सीता – प्रतिकूलेदानीं मे वासन्ती संवृत्ता।
तमसा – वत्से! एहि गच्छावः ।
सीता – (सकष्टम्) एवं करिष्यावः ।
तमसा – कथं वा गम्यते ? यस्यास्तव-

प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः।
मर्मच्छेदपरैर्यत्नैराकर्षो न समाप्यते ॥३।४६॥

प्रत्युप्तस्य इव = निखातस्य इव ।

सीता – नमो नमोऽपूर्वपुण्यजनितदर्शनाभ्यामार्यपुत्रचरणकमलाभ्याम् ।
(इति मूर्च्छति)
तमसा – वत्से! समाश्वसिहि समाश्वसिहि ।
सीता – (समाश्वस्य) कियच्चिरं वा मेघान्तरेण पूर्णिमाचन्द्रस्य दर्शनम्।
तमसा – अहो संविधानकम्!

एको रसः करुण एव निमित्तभेदा- द्भिन्नः पृथक् पृथगिवाश्रयते विवर्तान्।
आवर्तबुदबुदतरङ्गमयान् विकारा- नम्भो यथा सलिलमेव तु तत्समग्रम् ॥३।४७॥

रामः – अयि विमानराज! इतः इतः। (सर्वे उत्तिष्ठन्ति)।
तमसावासन्त्यौ – (सीतारामौ प्रति)

अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता।
स च मुनिरनुयातारुन्धतीको वसिष्ठ- स्त्वयि वितरतु भद्रं भूयसे मङ्गलाय ॥३।४८॥

(इति निष्क्रान्ताः सर्वे)
॥ इति तृतीयोऽङ्कः ॥

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
अनिर्भिन्नो गभीरत्वादन्तर्गूढघनव्यथः — —
वीचीवातैः शीकरक्षोदशीतैराकर्षद्धिः पद्मकिञ्जल्कगन्धान् — —
ईदृशानां विपाकोऽपि जायते परमाद्भुतः — —
परिपाण्डुदुर्बलकपोलसुन्दरं दधती विलोलकवरीकमाननम् — —
किसलयमिव मुग्धं बन्धनाद् विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्… — —
सीतादेव्या स्वकरकलितैः सल्लकीपल्लवाग्रै- रग्रे लोलः करिकलभको… — —
वध्वा सार्धं पयसि विहरन्सोऽयमन्येन दर्पा- दुद्दामेन द्विरदपत… — —
अपरिस्फुटनिस्वाने कुतस्त्येऽपि त्वमीदृशी — —
यत्र द्रुमा अपि मृगा अपि बन्धवो मे यानि प्रियासहचरश्चिरमध्यव… — —
अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः — —
त्वमेव ननु कल्याणि सञ्जीवय जगत्पतिम् — —
आश्च्योतनं नु हरिचन्दनपल्लवानां निष्पीडितेन्दुकरकन्दलजो नु स… — —
स्पर्शः पुरा परिचितो नियतं स एव सञ्जीवनश्च मनसः परितोषणश्च — —
तटस्थं नैराश्यादपि च कलुषं विप्रियवशा- द्वियोगे दीर्धेऽस्मिञ… — —
प्रसाद इव मूर्त्तस्ते स्पर्शः स्नेहार्द्रशीतलः — —
येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्‌कुरेण व्याकृष्टस्ते सुतनु… — —
लीलोत्खातमृणालकाण्डकवलच्छेदेषु सम्पादिताः पुष्यत्पुष्करवासित… — —
अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् — —
अनुदिवसमवर्धयत् प्रिया ते यमचिरनिर्गतमुग्धलोलबर्हम् — —
भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षुः प्रचलितचटुलभूताण्डवैर… — —
कतिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितोऽयमासीत् — —
स्मरति गिरिमयूर इव एष देव्याः — —
एतत्तदेव कदलीवनमध्यवर्ति कान्तासखस्य शयनीयशिलातलं ते — —
नवकुवलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं सततमपि नः स्वेच्छादृश्यो… — —
विलुलितमतिपूरैर्बाष्पमानन्दशोक- प्रभवमवसृजन्ती तृष्णयोत्तानद… — —
ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः स्फुटितकमलामोदप्र… — —
करकमलवितीर्णैरम्बुनीवारशष्पै- स्तरुशकुनिकुरङ्गान्मैथिली यानप… — —
त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं… — —
अयि कठोर! यशः किल ते प्रियं, किमयशो ननु घोरमतः परम् — —
त्रस्तैकहायनकुरङ्ग‌विलोलदृष्टे- स्तस्याः परिस्फुरितगर्भभरालस… — —
पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया — —
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुम… — —
दलति हृदयं गाढोद्वेगं द्विधा तु न भिद्यते वहति विकलः कायो मो… — —
न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत- स्तृणमिव वने शून्य… — —
देव्या शून्यस्य जगतो द्वादशः परिवत्सरः — —
नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः — —
यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दंशः — —
लोलोल्लोलक्षुभितकरुणोज्जृम्भणस्तम्भनार्थं यो यो यत्नः कथमपि… — —
अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौ… — —
हा हा देवि! स्फुटति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदव… — —
आलिम्पन्नमृतमयैरिव प्रलेपैरन्तर्वा बहिरपि वा शरीरधातून् — —
गृहीतो यः पूर्व परिणयविधौ कङ्कणधर- श्चिरं स्वेच्छास्पर्शेरमृ… — —
स एवायं तस्यास्तुहिननिकरौपम्यसुभगो मया लब्धः पाणिर्ललितलवलीक… — —
करपल्लवः स तस्याः सहसैव जडो जडात्परिभ्रष्टः — —
सस्वेदरोमाञ्चितकम्पिताङ्गी जाता प्रियस्पर्शसुखेन वत्सा — —
पौलस्त्यस्य जटायुषा विघटितः कार्णायसोऽयं रथ- स्ते चैते पुरतः… — —
उपायानां भावादविरतविनोदव्यतिकरै- र्विमर्दैर्वीराणां जगति जनि… — —
व्यर्थं यत्र कपीन्द्रसख्यमपि मे, वीर्यं हरीणां वृथा प्रज्ञा… — —
प्रत्युप्तस्येव दयिते तृष्णादीर्घस्य चक्षुषः — —
एको रसः करुण एव निमित्तभेदा- द्भिन्नः पृथक् पृथगिवाश्रयते वि… — —
अवनिरमरसिन्धुः सार्धमस्मद्विधाभिः स च कुलपतिराद्यश्छन्दसां य… — —