सामग्रीं त्यजन्तु

छन्दांसि

वृत्तम् अक्षराणि लक्षणम् उदाहरणम्
वियोगिनी १०+११ विषमे ससजा गुरुर्युजौ सभराश्चेत् कथिता वियोगिनी
स-स-ज-ग् (यतिः १-६, ७-१०), स-भ-र-ग्-ग् (यतिः १-७, ८-११)
विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमदूर्जिताश्रयं नृपं ऊचे वचनं वृकोदरः ॥ (कि० २।१)
इन्द्रवज्रा ११ स्यादिन्द्रवज्रा यदि तौ जगौ गः
त-त-ज-ग्-ग्
ऽऽ। ऽऽ। ।ऽ। ऽऽ
कर्पूरगौरं करुणावतारं संसारसारम् भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा॥
उपेन्द्रवज्रा ११ उपेन्द्रवज्रा जतजास्ततो गौ
ज-त-ज-ग्-ग्
।ऽ। ऽऽ। ।ऽ। ऽऽ
त्वमेव माता च पिता त्वमेव।...
उपजातिः ११ अनन्तरोदीरितलक्ष्मभाजौ ।
पादौ यदीयावुपजातयस्ताः ॥
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ (रघु० २।१)

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥ (कु० १।१)
ऽऽ। ऽ ऽ । ।ऽ । ऽऽ ।ऽ ।ऽऽ ॥ ऽ।ऽऽ

।ऽ। ऽऽ। ।ऽ। ऽ। ऽऽ। ऽऽ। । ऽ।ऽ।
अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनाभिमुख्यम् ॥
ऽऽ ।ऽ ऽ । । ऽ। ऽ॥ ऽ ।ऽऽ ॥ऽ। ऽ।

येषां न विद्या न तपो न दानम्।...
वंशस्थम् १२ जतौ तु वंशस्थमुदीरितं जरौ
ज-त-ज-र
।ऽ। ऽऽ। ।ऽ। ऽ।ऽ
नमामि नारायणपादपङ्कजं
करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥

श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥

अथाजिनाषाढधरः प्रगल्भवाग्-
ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं
शरीरबद्धः प्रथमाश्रमो यथा ॥
तोटकम् १२ इह तोटकमम्बुधिसैः प्रथितम्
स-स-स-स
।।ऽ ।।ऽ ।।ऽ ।।ऽ
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे ।
हृदये कलये विमलं चरणं भव शङ्करदेशिक मे शरणम् ॥
पुष्पिताग्रा १२+१३
१२+१३
अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा
न-न-र-य, न-ज-ज-र-ग्
न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः।
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि॥ (कि० १।४५)
वसन्ततिलका १४ उक्ता वसन्ततिलका तभजा जगौ गः
त-भ-ज-ज-ग्-ग्
ऽऽ। ऽ।। ।ऽ। ।ऽ। ऽऽ
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्य-भृत्य-परिचारक-भृत्य-भृत्य-
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहिता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजनाः न परित्यज्यन्ति ॥
मालिनी १५ ननमयययुतेयं मालिनी भोगिलोकैः (भोगिनः ८, लोकाः ७)
न-न-म-य-य
।।। ।।। ऽऽऽ ।ऽऽ ।ऽऽ
जयतु जयतु देवो देवकीनन्दनोऽयम्
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥

वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि ॥

सरसिजमनुविद्धं शैवलेनापि रम्यम्।
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम्
मन्दाक्रान्ता १७ मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत् (जलधयः ४, षट् ६, अगाः ७)
म-भ-न-त-त-ग्
ऽऽऽ ऽ।। ।।। ऽऽ। ऽऽ। ऽऽ
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥


तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातुः ॥
पृथ्वी १७ जसौ जसयला वसु-ग्रहयतिश्च पृथ्वी गुरुः। (वसवः ८, ग्रहाः ९)
ज-स-ज-स-य-ल-ग (।ऽ। ।।ऽ ।ऽ। ।।ऽ ।ऽऽ ।ऽ)
स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम्
अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी॥

जहाति सहसाननं झटिति पृच्छति स्वागतं
नमस्यति कृताञ्जलिः श्रुतिमनोहरं भाषते।
ददाति कुसुमं फलं शिथिलयत्यभीष्टां क्रियाम्
अहो न परिचीयते कृपणवञ्चनाचातुरी॥
शिखरिणी १७ रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी (रसाः ६, रुद्राः ११)
य-म-न-स-भ-ल-ग्
।।ऽ ऽऽऽ ।।। ।।ऽ ऽ।। ।ऽ
शिवः शक्त्याः युक्तो यदि भवति शक्तः प्रभवितुं
न चेद् एवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः।
आर्या १२+१८
१२+१५
(मात्रा/जातिः)
यस्याः पादे प्रथमे द्वादशमात्रास्तथा तृतीयेऽपि ।
अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या ॥
शार्दूलविक्रीडितम् १९ सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितम् (सूर्याः १२, अश्वाः७) म-स-ज-स-त-त-ग्
केयूराणि न भूषयन्ते पुरुषम् ...
स्रग्धरा २१ म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् (त्रि-मुनयः ७+७+७)
म-र-भ-न-य-य-य
ऽऽऽ ऽ।ऽ ऽ॥ ॥। ।ऽऽ ।ऽऽ ।ऽऽ
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥१॥

गणव्यवस्था

 सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत्।
 वर्णः संयोगपूर्वश्च तथा पादान्तगोऽपि वा॥

 आदिमध्यावसानेषु भजसा यान्ति गौरवम्।
 यरता लाघवं यान्ति मनौ तु गुरुलाघवम्॥

अन्या युक्तिः - यमाताराजभानसलगम् ॥

कृतज्ञता

  • गानम् अन्तर्जालाद् ... अधोलिखितानां वाचा ।
    • स्वा० केशवानन्दाः ।
    • श्रीकुटुम्बशास्त्रिवर्याः ।
    • डा० ऋतेशा