सामग्रीं त्यजन्तु

अभिज्ञानशाकुन्तलम् — पञ्चमोऽङ्कः (प्रत्याख्यानम्)

(ततः प्रविशत्यासनस्थो राजा विदूषकश्च)
विदूषकः – (कर्णं दत्त्वा) भो वयस्य सङ्गीतशालाभ्यन्तरेऽवधानं देहि । कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ।

सङ्गीतशालाभ्यन्तरे = सङ्गीतशालायाः अभ्यन्तरे मध्ये । कलविशुद्धायाः = कला मधुरस्फुटध्वनियुक्ता विशुद्धा शङ्कितभीतादिदोषरहिता, तस्या । वर्णपरिचयं = स्थाप्यारोहावरोहात्मकगानक्रियाभ्यासम् ।

राजा – तूष्णीं भव । यावदाकर्णयामि ।
(आकाशे गीयते)

अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम् ॥५।१॥

कमलवसतिमात्रनिर्वृतो = कमलमेव वसतिः कमलवसतिमात्रम्, तेन निर्वृतः सुखी ।

राजा – अहो रागपरिवाहिणी गीतिः ।

रागपरिवाहिणी = रागस्य रञ्जनस्य परिवाहः निष्पन्दः यस्याम् (अनुरागयुक्ता, अत्यन्तरञ्जिका) इत्यर्थः) । गीतिः = गानम् ।

विदूषकः – किं तावद्गीत्या अवगतोऽक्षरार्थः ।
राजा – (स्मितं कृत्वा) सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतोऽस्मि । सखे माधव्य मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धाः स्म इति ।

प्रणयः = रतिक्रीडापरिचयः । उपालम्भः = दोषवचनम् । निपुणम् = सुष्ठु ।

विदूषकः – यद्भवानाज्ञापयति । (उत्थाय) भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ।

शिखण्डके = शिखायां, काकपक्षे ।

राजा – गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् ।

नागरिकवृत्त्या = विदग्धव्यवहारेण ।

विदूषकः – का गतिः ।
(इति निष्क्रान्ताः)
राजा – (आत्मगतम्) किं नु खलु गीतार्थमाकर्ण्येष्टजनविरहादृतेऽपि बलवदुत्कण्ठितोऽस्मि । अथवा –

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥५।२॥

(इति पर्याकुलस्तिष्ठति)

पर्याकुलः = व्यग्रः ।

(ततः प्रविशति कञ्चुकी)
कञ्चुकी – अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।

आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनार्था ॥५।३॥

प्रतिपन्नः = आपन्नः, प्राप्तः । अवरोधगृहेषु = अन्तःपुरेषु । बहुतिथे = बहुसंख्ये । प्रस्थानविक्लवगतेः = गमनारम्भव्याकुलपदविन्यासः यस्य, तस्य । अवलम्बनार्था = शरीरावलम्बनप्रयोजना ।

भोः कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम्। अथवाऽविश्रमोऽयं लोकतन्त्राधिकारः । कुतः –

भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥५।४॥

कामं = तथापि, मन्ये । अनतिपात्यम् = अनतिक्रमणीयं, कालक्षेपानर्हम् । उपरोधकारि = विघ्नजनकम् । अविश्रमः = विश्रान्तिरहितः ।

यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च) एष देवः ।

प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवते श्रान्तमना विविक्तम् ।
यूथानि सञ्चार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः ॥५।५॥

स्वाः प्रजाः अपत्यानि इव प्रजाः तन्त्रयित्वा संव्यवहार्य।

(उपगम्य)
जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसन्देशमादाय सस्त्रीकास्तपस्विनः सम्प्राप्ताः । श्रुत्वा देवः प्रमाणम् ।
राजा – (सादरम्) किं काश्यपसन्देशहारिणः ।
कञ्चुकी – अथ किम् ।
राजा – तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः । अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि ।
कञ्चुकी – यदाज्ञापयति देवः ।
(इति निष्क्रान्तः)
राजा – (उत्थाय) वेत्रवति अग्निशरणमार्गमादेशय ।

आदेशय = प्रदर्शय ।

प्रतीहारी – इत इतो देवः ।
राजा – (परिक्रामति । अधिकारखेदं निरूप्य) सर्वः प्रार्थितमर्थमधिगम्य सुखी सम्पद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव ।

औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥५।६॥

चरितार्थता = अभीष्टसिद्धिः, इष्टलाभः । दुःखोत्तरा = दुःखं उत्तरं यस्या सा, दुःखमात्रसारा एव । अवसाययति = समापयति ।

(नेपथ्ये)
वैतालिकौ – विजयतां देवः ।
प्रथमः –

स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥५।७॥

खिद्यसे = क्लेशमनुभवसि ।

द्वितीयः –

नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥५।८॥

परिसमाप्तं = निष्पन्नम् । अतनुषु = बहुलेषु ।

राजा – एते क्लान्तमनसः पुनर्नवीकृताः स्मः ।

क्लान्तमनसः = श्रान्तचित्ताः । पुनर्नवीकृताः = उत्साहिताः ।

(इति परिक्रामति)
प्रतीहारी – एष अभिनवसम्मार्जनसश्रीकः सन्निहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ।

अभिनवसम्मार्जनसश्रीकः = नूतनस्वच्छीकृतसशोभः (सश्रीकः = सशोभः) । आलिन्दः = बहिर्द्वारप्रकोष्ठः, गृहाभ्यन्तरशय्यार्थवेद्याञ्च ।

राजा – (आरुह्य परिजनांसावलम्बी तिष्ठति) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः ।

अंसावलम्बी = स्कन्धाश्रितः ।

किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधामित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥५।९॥

उपोढतपसाम् = अतिप्रवृद्धतपोऽनुष्ठानानाम् । वीरुधां = लतादिनाम् । अत्यारूढबहुप्रतर्कम् = आकलितानेकाशङ्कम् । अपरिच्छेदाकुलं = नानातर्काकुलितम् । विष्टम्भितः = अवरुद्धः । असच्चेष्टितम् = अनुचिताचरितम् ।

प्रतीहारी – सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि ।

सभाजयितुं = वर्धापयितुम् ।

(ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः । पुरश्चैषां कञ्चुकी पुरोहितश्च)
कञ्चुकी – इत इतो भवन्तः ।
शार्ङ्गरवः – सखे शारद्वत!

महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥५।१०॥

अभिन्नस्थितिः = अत्यक्तमर्यादः । जनाकीर्णं = जनव्याप्तं, लोकसङ्कुलंं, जनसम्मर्धः । हुतवहपरीतं = पावकज्वालावलीढम्, अग्निव्याप्तम् ।

शारद्वतः – स्थाने भवान्पुरप्रवेशादित्थम्भूतः संवृत्तः । अहमपि

अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥५।११॥

अभ्यक्तं = तैलमर्दनेन सम्पादितदेहम् । सुखसङ्गिनं = विषयाभोगासक्तम् ।

शकुन्तला – (निमित्तं सूचयित्वा) अहो किं मे वामेतरन्नयनं विस्फुरति ।
गौतमी – जाते प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु ।
(इति परिक्रामति)
पुरोहितः – (राजानं निर्दिश्य) भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।
शार्ङ्गरवः – भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः –

कामम् = अतिशयेन । अभिनन्दनीयं = प्रशंसनीयं, स्तुत्यम् ।

भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥५।१२॥

अनुद्धताः = विनीताः ।

प्रतीहारी – देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः ।
राजा – (शकुन्तलां दृष्ट्वा) अथात्रभवती

का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥५।१३॥

अस्फुटशरीरलावण्या = अनतिविभाव्यमानाङ्गसौन्दर्यविभवा ।

प्रतीहारी – देव कुतूहलगर्भोपहितः (कुतुहलगर्भः प्रहितः) न मे तर्कः प्रसरति । ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ।
राजा – भवतु । अनिर्वर्णनीयं परकलत्रम् ।

अनिर्वर्णनीयंम् = अद्रष्टव्यम् (निर्वर्णनं = निपुणं विलोकनम् । निर्वर्णयति) ।

शकुन्तला – (हस्तमुरसि कृत्वा । आत्मगतम्) हृदय किमेवं वेपसे । आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव ।
पुरोहितः – (पुरो गत्वा) एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसन्देशः । तं देवः श्रोतुमर्हति ।
राजा – अवहितोऽस्मि ।
ऋषयः – (हस्तानुद्यम्य) विजयस्व राजन् ।
राजा – सर्वानभिवादये ।
ऋषयः – इष्टेन युज्यस्व ।
राजा – अपि निर्विघ्नतपसो मुनयः ।
ऋषयः –

कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥५।१४॥

घर्मांशौ = सूर्ये ।

राजा – अर्थवान्खलु मे राजशब्दः । अथ भगवान्लोकानुग्रहाय कुशली काश्यपः ।
शार्ङ्गरवः – स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह ।

अनामयप्रश्नपूर्वकं = आरोग्यप्रश्नपुरःसरम् ।

राजा – किमाज्ञापयति भगवान् ।
शार्ङ्गरवः – यन्मिथःसमयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः –

मिथःसमयाद् = परस्परसङ्केतात् । उपायंस्त = परिणीतवान् ।

त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सत्क्रिया ।
समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः ॥५।१५॥

तदिदानीमापन्नसत्त्वेयं प्रतिगृह्यतां सहधर्माचरणायेति ।
गौतमी – आर्य किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति ।

नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः ।
एकैकस्मिन्नेव चरिते भणामि किमेकैकम् ॥५।१६॥

शकुन्तला – (आत्मगतम्) किं नु खल्वार्यपुत्रो भणति ।
राजा – किमिदमुपन्यस्तम् ।

उपन्यस्तं = कथितम् ।

शकुन्तला – (आत्मगतम्) पावकः खलु वचनोपन्यासः ।

वचनोपन्यासः = उच्चारितवाक्यम् ।

शार्ङ्गरवः – कथमिदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः ।

लोकवृत्तान्तनिष्णाताः = लोकव्यवहारपटवः ।

सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः ॥५।१७॥

राजा – किमत्रभवती मया परिणीतपूर्वा ?
शकुन्तला – (सविषादं आत्मगतम्) हृदय साम्प्रतं ते आशङ्का ।
शार्ङ्गरवः –

किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा ।

राजा – कुतोऽयमसत्कल्पनाप्रश्नः ।
शार्ङ्गरवः –

मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥५।१८॥

राजा – विशेषेणाधिक्षिप्तोऽस्मि ।
गौतमी – जाते मुहूर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति ।
(इति यथोक्तं करोति)
राजा – (शकुन्तलां निर्वर्ण्य । आत्मगतम्)

इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् ।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परिभोक्तुं नापि शक्नोमि हातुम् ॥५।१९॥

उपनतम् = अप्रयत्नप्राप्तम् । अव्यवस्यन् = अनिर्धार्यन् । विभाते = प्रातःकाले, प्रभाते ।

(इति विचारयन्स्थितः)
प्रतीहारी – (स्वगतम्) अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति ।
शार्ङ्गरवः – भो राजन् किमिति जोषमास्यते ।

जोषं = तूष्णीम् ।

राजा – भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये ।

अभिव्यक्तसत्त्वलक्षणां = स्फुटगर्भचिह्नाम् । प्रतिपत्स्ये = स्वीकरिष्ये ।

शकुन्तला – (अपवार्य) आर्यस्य परिणय एव सन्देहः । कुत इदानीं मे दूराधिरोहिण्याशा ।
शार्ङ्गरवः – मा तावत् ।

कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥५।२०॥

कृताभिमर्शां = कृतबलात्काराम् (विहितस्पर्शाम्) । विमान्यः = अवज्ञेयः । अनुमन्यमानः = अनुमोदमानः । मुष्टं = चोरितम् । प्रतिग्राहयता = दानरूपेण मन्यमानेन ।

शारद्वतः – शार्ङ्गरव विरम त्वमिदानीम् । शकुन्तले वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् ।

प्रत्ययप्रतिवचनं = विश्वासोत्पादकं प्रतिवचनम् ।

शकुन्तला – (अपवार्य) इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन । आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् ।
(प्रकाशम्) आर्यपुत्र – (इत्यर्धोक्ते) संशयित इदानीं परिणये नैष समुदाचारः ।
पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य साम्प्रतमीदृशैरक्षरैः प्रत्याख्यातुम् ।

व्यवसितम् = उद्यमः आरब्धः । आत्मा = स्वरूपम् । शोचनीयः = सचेतोभिः शोच्यतां गतः । स्वभावोत्तानहृदयम् = प्रणयातिशयपेशलविमलमनसं, निसर्गसरलाशयम् (उत्तानम् = आर्जवयुक्तं, कपटरहितम्) । समयपूर्वं = प्रतिज्ञापूर्वम् । प्रतार्य = वञ्चयित्वा । प्रत्याख्यातुं = निराकर्तुम् ।

राजा – (कर्णौ पिधाय) शान्तं पापम् ।

व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् ।
कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥५।२१॥

कूलङ्कषा = तटसङ्घर्षिणी, तीरोत्पाटनप्रवणा । प्रसन्नं = स्वच्छं, निर्मलम् । व्यपदेशः = कुलम् । आविलयितुं = दूषयितुम् । सिन्धुः (स्त्री०) = नदी [सिन्धिः पु० = समुद्रः] ।

शकुन्तला – भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।
राजा – उदारः कल्पः ।

उदारः = महान् । कल्पः = प्रत्ययः, न्यायः सङ्कल्पः ।

शकुन्तला – (मुद्रास्थानं परामृश्य) हा धिक् हा धिक् । अङ्गुलीयकशून्या मेऽङ्गुलिः ।
(इति सविषादं गौतमीमवेक्षते)
गौतमी – नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् ।

प्रभ्रष्टं = करात् च्युतं, गलितम् ।

राजा – (सस्मितम्) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
शकुन्तला – अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि ।
राजा – श्रोतव्यमिदानीं संवृत्तम् ।
शकुन्तला – नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते सन्निहितमासीत् ।
राजा – श‍ृणुमस्तावत् ।
शकुन्तला – तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।

अनुकम्पिना = दयामानेन । उपच्छन्दितः = अभ्यर्थितः ।हस्ताभ्यासं = करसमीपम् । कृतः प्रणयः = ग्रहणरूपी प्रीतिः कृता । सगन्धेषु = बान्धवेषु (समानः गन्धः सम्बन्धः येषां ते , तेषु) ।

राजा – एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः ।

आकृष्यन्ते = विमार्गं नीयन्ते, वशीक्रियन्ते, आबध्यन्ते ।

गौतमी – महाभाग नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य ।

मन्त्रयितुं = वक्तुम् । कैतवस्य = छलस्य, कपटाचारस्य ।

राजा – तापसवृद्धे ।

स्त्रीणामशिक्षितपटुत्वममानुषीषु सन्दृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥५।२२॥

परभृताः = कोकिलाः । प्रतिबोधवत्यः = प्रतिबोध आसाम् अस्ति, ताः ।

शकुन्तला – (सरोषम्) अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ।

हृदयानुमानेन = अन्तःकरणप्रमाणेन । धर्मकञ्चुकप्रवेशिनः = धर्मछद्मव्यवहारपरस्य, दाम्भिकस्य, बहिर्धार्मिकस्य (धर्मस्य कञ्चुकं प्रावरणं प्रवेष्टुं शीलमस्यास्तीति, तस्य) । अनुकृतिम् = अनुकरणम् । प्रतिपत्स्यते = अङ्गीकरिष्यति ।

राजा – (आत्मगतम्) सन्दिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया

अकैतवः = अकृत्रिमः, निष्कपटः ।

मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने ।
भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य ॥५।२३॥

विस्मरणदारुणचित्तवृत्तौ = विवाहवार्ताविस्मरणदारुणमनसि (विगतं स्मरणं यस्य स, विस्मरणेन स्मृतिलोपात् दारुणा निरनुक्रोशा चित्तवृत्तिः मनोव्यापारः यस्य, तस्मिन्) । वृत्तं = सम्पन्नम् । रहः = एकान्ते । अतिरुषा = अतिक्रोधेन ।

(प्रकाशम्) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते ।
शकुन्तला – सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य हस्ताभ्याशमुपगता ।

हस्ताभ्याशं = करसमीपम् । उपगता = प्राप्ता, वशंवदा । स्वच्छन्दचारिणी = पुंश्चली । कृता = घोषिता ।

शार्ङ्गरवः – इत्थमात्मकृतं चापलं दहति ।

अतः परीक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥५।२४॥

रहः = एकान्ते । सङ्गतं = समागमः ।

राजा – अयि भोः किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः क्षिणुथ ।

संयुतदोषाक्षरैः = दोषाधायकैः क्रूराक्षरैः । क्षिणुथ = अधिक्षिपथ ।

शार्ङ्गरवः – (सासूयम्) श्रुतं भवद्भिरधरोत्तरम् ।

आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य ।
परातिसन्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥५।२५॥

परातिसन्धानं = परवञ्चनम् । आप्तवाचः = प्रमाणभूताः ।

राजा – भोः सत्यवादिन् अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसन्धाय लभ्यते ?

अभ्युपगतं = स्वीकृतम् । अतिसन्धाय = प्रतार्य, वञ्चयित्वा ।

शार्ङ्गरवः – विनिपातः ।

विनिपातः = अधमः, नरके निपतनम् ।

राजा – विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् ।
शारद्वतः – शार्ङ्गरव किमुत्तरेण । अनुष्ठितो गुरोः सन्देशः । प्रतिनिवर्तामहे वयम् ।
(राजानं प्रति)

तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥५।२६॥

सर्वतोमुखी = सर्वप्रकारा । उपपन्ना = युक्ता । प्रभुता = स्वतन्त्रता ।

गौतमि गच्छाग्रतः ।
(इति प्रस्थिताः)
शकुन्तला – कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां परित्यजथ ।

कितवेन = धूर्तेन, छलिना । विप्रलब्धा = प्रतारिता, वञ्चिता ।

(इत्यनुप्रतिष्ठते)
गौतमी – (स्थित्वा) वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ।

करुणपरिदेविनी = करुणं विलपन्ती (परिदेवनं = विलापः) । प्रत्यादेशपरुषे = प्रत्याखानेन निराकृत्य परुषैः ।

शार्ङ्गरवः – (सरोषं निवृत्य) किं पुरोभागे स्वातन्त्र्यमवलम्बसे ।

पुरोभागे = दोषदर्शिनि ।

(शकुन्तला भीता वेपते)
शार्ङ्गरवः – शकुन्तले ।

यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥५।२७॥

उत्कुलया = अतिक्रान्तकुलमर्यादया (उत्क्रान्ता कुलात्, तया) । क्षितिपः = राजा ।

तिष्ठ । साधयामो वयम् ।
राजा – भोस्तपस्विन् किमत्रभवतीं विप्रलभसे ।

विप्रलभसे = वञ्चयसि ।

कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥५।२८॥

वशिनाम् = इन्द्रियसंयमिनाम् । वृत्तिः = चित्तवृत्तिः व्यापारो वा । परपरिग्रहसंश्लेषपराङ्मुखी = अन्यकलत्रसम्पर्ककलङ्कविमुखी, परकलत्रस्वीकृतिनिर्वर्तनशीला ।

शार्ङ्गरवः – यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः ।
राजा – भवन्तमेवात्र गुरुलाघवं पृच्छामि ।

मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥५।२९॥

परस्त्रीस्पर्शपांसुलः = परदारसंसर्गदूषितः ।

पुरोहितः – (विचार्य) यदि तावदेवं क्रियताम् ।
राजा – अनुशास्तु मां भवान् ।
पुरोहितः – अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् । त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव ।

अवस्थितं = निर्धारितं, निश्चितम् ।

राजा – यथा गुरुभ्यो रोचते ।
पुरोहितः – वत्से अनुगच्छ माम् ।
शकुन्तला – भगवति वसुधे देहि मे विवरम् ।
(इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च)
(राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति)

शापव्यवहितस्मृतिः = शापमूढमतिः । शकुन्तलागतमेव चिन्तयति = शकुन्तलाविषयं वृत्तान्तमेव निमित्तीकृत्य शोचति ।

(नेपथ्ये)
आश्चर्यमाश्चर्यम् ।
राजा – (आकर्ण्य) किं नु खलु स्यात् । (प्रविश्य)
पुरोहितः – (सविस्मयम्) देव अद्भुतं खलु संवृत्तम् ।
राजा – किमिव ।
पुरोहितः – देव परावृत्तेषु कण्वशिष्येषु -

सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।

बाहूत्क्षेपं = दुःखातिरेकाद् बाहुद्वयमूर्ध्वं क्षिप्त्वा ।

राजा – किं च ।
पुरोहितः –

स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥५।३०॥

उत्क्षिप्य = उत्तोल्य, उत्थाय । संस्थानम् = आकृतिः । स्त्रीसंस्थानं = नार्याः आकृतिः इव आकृतिः यस्याः, सा ।

(सर्वे विस्मयं रूपयन्ति)
राजा – भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् ।

प्रत्यादिष्टः = प्रत्याख्यातः ।

पुरोहित – (विलोक्य) विजयस्व ।
(इति निष्क्रान्तः)
राजा – वेत्रवति पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।

पर्याकुलः = श्रान्तः, व्यग्रः । आदेशय = सूचय ।

प्रतीहारी – इत इतो देवः ।
(इति प्रस्थिता)
राजा –

कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम् ॥५।३१॥

प्रत्याययति = विश्वासमुत्पादयति ।

(इति निष्क्रान्ताः सर्वे) ॥इति पञ्चमोऽङ्कः ॥

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् — —
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुको भवति यत्… — —
आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः — —
भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति — —
प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवते श्रान्तमना विविक्… — —
औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्ति… — —
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंव… — —
नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक… — —
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं धर्मारण्यचरेषु… — —
महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्ट… — —
अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् — —
भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः — —
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या — —
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि — —
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सत्क… — —
नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः — —
सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते — —
किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा — —
मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु — —
इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्… — —
कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः — —
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् — —
स्त्रीणामशिक्षितपटुत्वममानुषीषु सन्दृश्यते किमुत याः प्रतिबो… — —
मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमान… — —
अतः परीक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः — —
आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य — —
तदेषा भवतः कान्ता त्यज वैनां गृहाण वा — —
यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया — —
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव — —
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये — —
सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च… — —
स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं ज… — —
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् — —