सामग्रीं त्यजन्तु

स्वप्नवासवदत्तम् — द्वितीयोऽङ्कः

(ततः प्रविशति चेटी)
चेटी – कुञ्जरिके! कुञ्जरिके! कुत्र कुत्र भर्तृदारिका पद्मावती ? किं भणसि,एषा भर्तृदारिका माधवीलतामण्डपस्य पार्श्वतः कन्दुकेन क्रीडतीति। यावद् भर्तृदारिकाम् उपसर्पामि। (परिक्रम्य अवलोक्य ) अम्मो। इयं भर्तृदारिका उत्कृतकर्णचूलिकेन व्यायामसञ्जातस्वेदबिन्दुविचित्रितेन परिश्रान्तरमणीयदर्शनेन मुखेन कन्दुकेन क्रीडन्तीत एवागच्छति। यावदुपसर्पामि।

अम्मो = विस्मयद्योतकमव्ययम् ।

(ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा वासवदत्तया सह)
वासवदत्ता – हला! एष ते कन्दुकः ।
पद्मवती – आर्ये! भवतु इदानीम् एतावत् ।
वासवदत्ता – हला! अतिचिरं कन्दुकेन क्रीडित्वा अधिकसञ्जातरागौ परकीयाविव ते हस्तौ संवृत्तौ ।
चेटी – क्रीडतु क्रीडतु तावद् भर्तृदारिका। निर्वर्त्यतां तावदयं कन्याभावरमणीयः कालः।
पद्मावती – आर्ये! किमिदानीं मामपहसितुमिव निध्यायसि ?

निध्यायसि = पश्यसि ।

वासवदत्ता – नहि नहि। हला। अधिकमद्य शोभते । अभित इव तेऽद्य वरमुखं पश्यामि।

अभित इव = सर्वत इव ।

पद्मावती – अपेहि। मेदानीं मामपहस।
वासवदत्ता – एषास्मि तूष्णीका भविष्यन्महासेनवधु!
पद्मावती – क एष महासेनो नाम।
वासवदत्ता – अस्ति उज्जयिनीयो राजा प्रद्योतो नाम तस्य परिमाणनिर्वृत्तं नामधेयं महासेन इति।

परिमाणनिर्वृत्तं = परिमितिनिष्पन्नं, बलस्येति शेषः ।

चेटी – भर्तृदारिका तेन राज्ञा सह सम्बन्धं नेच्छति ।
वासवदत्ता – अथ केन खलु इदानीमभिलषति।
चेटी – अस्ति वत्सराज उदयनो नाम। तस्य गुणान् भर्तृदारिका अभिलषति।
वासवदत्ता – (आत्मगतम्) आर्यपुत्रं भर्तारमभिलषति । (प्रकाशम् ) केन कारणेन ?
चेटी – सानुक्रोश इति ।
वासवदत्ता – ( आत्मगतम्) जानामि जानामि । अयमपि जन एवमुन्मादितः ।
चेटी – भर्तृदारिके! यदि स राजा विरूपो भवेत् ।
वासवदत्ता – नहि नहि। दर्शनीय एव।
पद्मावती – आर्ये! कथं त्वं जानासि ?
वासवदत्ता – (आत्मगतम्) आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः किमिदानीं करिष्यामि? भवतु दृष्टम् । (प्रकाशम्) हला! एवम् उज्जयिनीयो जनो मन्त्रयते ।
पद्मावती – युज्यते । न खल्वेष उज्जयिनीदुर्लभः सर्वजनमनोऽभिरामं खलु सौभाग्यं नाम। [ ततः प्रविशति धात्री ]
धात्री – जयतु भर्तृदारिका। भर्तृदारिके! दत्तासि।
वासवदता – आर्ये। कस्मै ?
धात्री – वत्सराजायोदयनाय।
वासवदत्ता – अथ कुशली स राजा ?
धात्री – कुशली स आगतः । तस्य भर्तृदारिका प्रतीष्टा च।

प्रतीष्टा = स्वीकृता ।

वासवदत्ता – अत्याहितम् ।
धात्री – किम् अत्र अत्याहितम् ?
वासवदत्ता – न खलु किञ्चित् । तथा नाम सन्तप्य उदासीनो भवतीति ।
धात्र – आर्ये! आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति।
वासवदत्ता – आर्ये! स्वयमेव तेन वरिता?
धात्री – नहि नहि। अन्यप्रयोजनेनेहागतस्याभिजनविज्ञानवयोरूपं दृष्ट्वा स्वयमेव महाराजेन दत्ता।
वासवदत्ता – ( आत्मगतम्) एवम्। अनपराद्ध इदानीमार्यपुत्रः। (प्रविश्यापरा)
चेटी – त्वरतां त्वरतां तावदार्या। अद्यैव किल शोभनं नक्षत्रम् । अद्यैव कौतुकमङ्गलं कर्तव्यमित्यस्माकं भट्टिनी भणति।
वासवदत्ता – ( आत्मगतम्) यथा यथा त्वरते, तथा तथान्धीकरोति मे हृदयम् ।
धात्री – एत्वेतु भर्तृदारिका ।
( निष्क्रान्ताः सर्वे )
(इति द्वितीयोऽङ्कः)