मुखपृष्ठम् · ⬆ मेघदूतम् · →
मेघदूतम् — पूर्वमेघः¶
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥१।१॥
मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद् गुरू चेत् ।
मगणः भगणः नगणः तगणः तगणः गुरुः गुरुः
(मान्धाता) (भारत) (नयन) (सर्वत्र) (सर्वत्र) ऽ ऽ
स्वाधिकारात् = स्वकर्तव्यकार्यात् । प्रमत्तः = कृतप्रमादः । अस्तंगमितमहिमा = अस्तंगमितो महिमा सामर्थ्यं यस्य । स्निग्धच्छायातरुषु = सान्द्रच्छायावृक्षवत्सु, निबिडच्छायातरुष्वाश्रमेषु ।
सञ्जीवनी
कश्चिदिति ॥ स्वाधिकारात्स्वनियोगात्प्रमत्तोऽनवहितः ॥ प्रमादोऽनवधानता इत्यमरः । जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् इत्यपादानत्वम् । तस्मात्पञ्चमी ॥ अतएवापराधाद्धेतोः । कान्ताविरहेण गुरुणा दुर्भरेण । दुस्तरेणेत्यर्थः ॥ गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भर इति शब्दार्णवे ॥ वर्षभोग्येण संवत्सरभोग्येण ॥ कालाध्वनोरत्यन्तसंयोगे कालाध्वनोरत्यन्तसंयोगे इति द्वितीया । अत्यन्तसंयोगे च इति समासः । कुमति च इति णत्वम् । भर्तुः स्वामिनः शापेन । अस्तङ्गमितो महिमा सामर्थ्यं यस्य सोऽस्तङ्गमितमहिमा ॥ अस्तमिति मकारान्तमव्ययम् । तस्य द्वितीया- इति योगविभागात्समासः । कश्चिदनिर्दिष्टनामा यक्षो देवयोनिविशेषः ॥ विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः इत्यमरः ॥ जनकतनयायाः सीतायाः स्नानरवगाहनैः पुण्यानि पवित्राण्युदकानि येषु तेषु । पावनेष्वित्यर्थः ॥ छायामधानास्तरवच्छायातरवः ॥ शाकपार्थिवादित्वात्समासः ॥ स्निग्धाः सान्द्राश्छायातरवो नमेरुवृक्षा येषु तेषु । वसतियोग्येष्वित्यर्थः ॥ स्निग्धं तु मसृणे सान्द्रेसान्द्रे इति । छायावृक्षो नमेरुः स्यात्स्यात्इति च शब्दार्णवे ॥ रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम् ॥ वहिवस्यर्तिभ्यश्च इत्यौणादिको । अतिप्रत्ययः ॥ चक्रे कृतवान् ॥कृतवान् अत्र रसो विप्रलम्भाख्यः शृङ्गारः । तत्राप्युन्मादावस्था । अतएवैकत्रानवस्थानं सूचितमाश्रमेष्विति बहुवचनेन ॥ सीतां प्रति रामस्य हनुमत्सन्देशं मनसि निधाय मेघसन्देशं कविः कृतवानित्याहुः ॥ अत्र काव्ये सर्वत्र मन्दाक्रान्तावृत्तम् ।मन्दाक्रान्तावृत्तम् तदुक्तम्-‘तदुक्तम्मन्द्राक्रान्ता जलधिषडगैर्म्भौ नतौताद्गुरुचेत् नतौताद्गुरुचेत्इति ॥
वल्लभदेवव्याख्या
कश्चिद्यक्षः पुण्यजनो रामगिर्याश्रमेषु चित्रकुटाचलतपोवनेषु वसतिं चक्रे व्यधात् । निजपुरीमलकामपहाय तत्र वासे कारणमाह । भर्तुः प्रभोर्धनदस्य शापेनास्तंगमितमहिमा नष्टतेजाः । कीदृशेन । कान्ताविरहगुरुणा प्रियाविरहदुःखेन । तथा वर्षभोग्यण' संवत्सरमनुभाव्येन । किमिति तेनास्य शापोऽदायीत्याह । स्वाधिकारप्रमत्तो निजव्यापारावलिप्तः । स हि जायायां व्यसनित्वात्स्वमधिकारमनपेक्षमाणो राजराजेन । तथैव तव वर्षं विरहोऽस्तु । महिमा ते नश्यत्विति शप्तः । रामाद्रिमतः स आययौ । कीदृशेष्वाश्रमेषु । जनकतनयास्नामपुण्योदकेषु सीतामज्जनपवित्रतोयेषु । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । राघवसंनिधानेऽपि सीतायाः प्रशंमा शृङ्गाराश्रयत्वेन काव्यस्य चिकीर्षितत्वात् । तथा स्निग्धा अपरुषा छायाप्रधानास्तरवो येष्विति सेव्यत्वकथनम् । वर्षं भोग्यो वर्षभोग्यः । काला अत्यन्तमयोगे चेति ममासः । रामगिरिरत्र चित्रकूटः । न तु ऋष्यमूकः । तत्र सीताया वासाभावात् । सर्वत्र मन्दाक्रान्ता वृत्तम् । प्रवासविप्रलम्भो रसः ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥१।२॥
अबलाविप्रयुक्तः = कान्ताविरही । कनकवलयभ्रंशरिक्तप्रकोष्ठः = स्वर्णकटकपतनेन शून्यहस्तः (शून्यकूर्पराधोभागः) । कामी = कामुकः । आश्लिष्टसानुं = आक्रान्तकूटम् । वप्रक्रीडापरिणतगजप्रेक्षणीयं = मृदुद्घातक्रीडायां तिर्याग्दन्तप्रहारस्य गजस्य सदृशं दर्शनीयम् ।
सञ्जीवनी
तस्मिन्निति ॥ तस्मिन्नद्रौ चित्रकूटाद्रौ । अबलाविप्रयुक्तः कान्ताविरही । कनकस्य वलयः कटकम् ॥ कटकं वलयोऽस्त्रियाम्वलयोऽस्त्रियाम् इत्यमरः ॥ तस्य भ्रंशेन पातेन रिक्तः शून्यः प्रकोष्ठः कूर्परादधः प्रदेशो यस्य स तथोक्तः ॥ कक्षान्तरे प्रकोष्ठः स्यात्मकोष्ठः कूर्परादधः इति शाश्वतः‘ ॥ विरहदुःखात्कृश इत्यर्थः । कामी कामुकः स यक्षः । कतिचिन्मासान् । अष्टौ मासानित्यर्थः । शेषान्मासान्गमय चतुरः इति वक्ष्यमाणत्वात् ॥ नीत्वा यापयित्वा । आषाढानक्षत्रेण युक्ता पौर्णमास्याषाढी ॥ नक्षत्रेण युक्तः कालः इत्यण् । टिड्ढाणञ्-टिड्ढाणञ् इत्यादिना ङीप् ॥ साषाढ्यस्मिन्पौर्णमासीत्याषाढो मासः ॥ सांस्मिन्पौर्णमासीति संज्ञायाम् संज्ञायाम्इत्यण् ॥ तस्य प्रथमदिवसे आश्लिष्टसानुमाक्रान्तकूटम् । वप्रक्रीडा उत्खातकेलयः ॥ उत्खातकेलिः क्रीडाद्यैर्वमक्रीडा निगद्यतेनिगद्यते इति शब्दार्णवे ॥ तासु परिणतस्तिर्यग्दन्तप्रहारः ॥ तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः इति हलायुधः ॥ स चासौ गजश्च तमिव प्रेक्षणीयं दर्शनीयं मेघं ददर्श ॥ गजप्रेक्षणीयमित्यत्रेवलोपालुप्तोपमा
॥ केचित् आषाढस्य मथमदिवसेमथमदिवसे इत्यत्र‘ प्रत्यासन्नेनभसि इति वक्ष्यमाण नभोमासस्य प्रत्यासस्य प्रशमदिवसेप्रशमदिवसे इति पाठं कल्पयन्ति तदसङ्गतम् । प्रथमातिरेके कारणाभावान्न भोमासस्य प्रत्यासत्त्यर्थमित्युक्तमिति चेन्न । प्रत्यासत्तिमात्रस्य मासप्रत्यासत्त्यैव प्रथमदिवसस्याप्युपपत्तेः । अत्यन्तप्रत्यासत्तेरुपयोगाभावेनाविवक्षितत्वात् । विवक्षितत्वे वा स्वपक्षेऽपि प्रथमदिवसातिक्रमेण मेघदर्शन कल्पनायां प्रमाणाभावेन तदसम्भवात् । प्रत्युतास्मत्पक्ष एव कुशल सन्देशस्य भाव्यनर्थप्रतीकारार्थस्य पुरतएवानुमानमुक्तं भवतीत्युपयोग सिद्धिः ॥ ननून्मत्तस्य नायं विवेक इति चेन्न । उन्मत्तस्य नानर्थस्य प्रतीकारार्थं प्रवृत्तिरपीति सन्देश एव मा भूत् ॥ तथा च काव्यारम्भ एवाप्रसिद्धः स्यादित्वहो मूलच्छेदी पाण्डित्यप्रकर्षः । कथं तर्हि शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ इत्यादिना भगवत्प्रबोधावधिकस्य शापस्य मासचतुष्टयावशिष्टस्योक्तिः । दशदिवसाधिक्यादिति चेत्सपक्षेऽपि कथं सा विंशतिदिवसैन्यूनत्वादिति सन्तोष्टव्यम् ।सन्तोष्टव्यम् तस्मादीषद्वैषम्यमविवक्षितमिति सुष्ठूक्तं प्रथमदिवसेप्रथमदिवसेइति ॥
वल्लभदेवव्याख्या
ततोऽसौ यक्षः कतिचित्सप्ताष्टान्मासान्नीत्वातिवाह्य तस्मिन्नद्रौ चित्रकूटे मेघं ददर्शालोकितवान् । अबलाविप्रयुक्तः प्रियाविरहितः । अतश्च दौर्बल्यात्कनकलयभ्रंशेन सौवर्णकटकपातेन रिक्तप्रकोष्ठः शून्यभुजः । कामी व्यसनी । कीदृशम् । आश्लिष्टसानुमालिङ्गिताद्रिप्रस्थम् । अतश्च वप्रकीडार्थं तटाघातकेलिनिमित्तं परिणतो दत्तप्रहारो यो गजस्तत्प्रेक्षणीयं दृश्यम् । सानुलग्नेभमित्यर्थः । कदा । आषाढस्य प्रशमदिवसे समाप्तिदिने ग्रीष्मावमाने । केचित्तु शकारथ कारयोर्लिपिसारूप्यमोहात्प्रथम इत्यूचुः कथं कथमपि चैतमेवार्थ प्रतिपन्नाः । वर्षाकालस्य प्रस्तुतत्वादादिदिनमित्येतत्त्वतीव विरुद्धम् ॥
तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोर्
अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥१।३॥
राजराजस्य = कुबेरस्य । अनुचरः = सेवकः । अन्तर्बाष्पः = अन्तः स्तम्भिताश्रुः । कौतुकाधानहेतोः = अभिलाषोत्पादनकारणस्य । दध्यौ = चिन्तयामास । अन्यथावृत्ति = विकृतिं प्राप्नोति,स्वरूपात्प्रच्युतावस्थम् । कण्ठाश्लेषप्रणयिनि = कण्ठालिङ्गनार्थिनि जने ।
सञ्जीवनी
तस्येति ॥ राजानो यक्षाः ॥ राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः इति विश्वः ॥ राज्ञां राजा राजराजः कुबेरः ॥ राजराजो धनाधिपः इत्यमरः । राजाह सखिभ्यष्टच्सखिभ्यष्टच् इति टच्प्रत्ययः ॥ तस्यानुचरो यक्षः । अन्तर्बाष्पो धीरोदात्तत्वादन्तः स्तम्भिताश्रुः सन् । कौतुकाधानहेतोरभिलाषोत्पादकारणस्य ॥ कौतुकं चाभिलाषेस्यादुत्सवे नर्महर्षयोः इति विश्वः ॥ तस्य मेघस्य पुरोऽग्रे कथमपि । गरीयसा प्रयत्नेनेत्यर्थः ॥ ज्ञान हेतुविवक्षायामप्यादि कथमव्ययम् । कथमादि तथाप्यन्तं यत्नगौरवबाढयोः इत्युज्ज्वलः ॥ स्थित्वा चिरं दध्यौ चिन्तयामास ॥ ध्यै चिन्तायाम्चिन्तायाम्इति धातोर्लिट् ॥ मनोविकारोपशमनपर्यन्तमिति शेषः ॥ विकारहेतुमाहमेघालोक इति ॥ मेघालोके मेघदर्शने सति सुखिनोऽपि प्रियादिजनसङ्गतस्यापि चेतश्चित्तमन्यथाभूता वृत्तिर्व्यापारो यस्य तदन्यथावृत्ति भवति । विकृतिमापद्यत इत्यर्थः कण्ठाश्लेषप्रणयिनि कण्ठालिङ्गनार्थिनि जने । दूरे संस्था स्थितिर्यस्य तस्मिन्दूरसंस्थे सति किं पुनः । विरहिणः किमुत वक्तव्यमित्यर्थः । विरहिणां मेघसन्दर्शनमुद्दीपनं भवतीति भावः ॥ अर्थान्तरन्यासोऽलङ्कारः । तदुक्तं दण्डिना - ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः इति ॥
वल्लभदेवव्याख्या
तस्य जीमूतस्य पुरोऽग्रतः कथमपि स्थित्वा राजराजस्य वैश्रवणस्यानुचरो भृत्योऽन्तर्बाष्पो ऽस्रुकण्ठः किमप्यज्ञायमानं वस्तु चिरं दध्यावचिन्तयत् । कीदृशस्य । केतकाधानहेतोः केतकाख्यष्पजननकारणस्य । प्रावृषि तेषामुद्भवात् । अथ जलददर्शनमात्रेण कस्मादस्यान्तर्बाष्पत्वं ध्यानं चेत्याह । सुखिनोऽप्यवियुक्तस्यापि मेघालोके वर्षाकाले चेतोऽन्यथावृक्ति सविपर्ययमनल्पोत्कण्ठासंकुलम् । किं पुनः कण्ठाश्लेषप्रणयिनि प्रियतमाख्ये जने दूरवर्तिनि सति । वर्षासमयमागतमवलोक्य स्वस्था अपि यत्रोत्कण्ठन्ते तत्र विरहिणां का कथेत्यर्थः । कण्ठाश्लेष एव प्रणयोऽर्थिता विद्यते यस्य । मेघा आलोक्यन्ते यस्मिन्निति वर्षाः । स्वरूपात्प्रच्युतावस्थमन्यथावृत्ति ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥१।४॥
नभसि = श्रावणे मासे । दयिताजीवितालम्बनार्थी = प्रियाप्राणरक्षणेच्छुः । कूटजकुसुमैः = गिरिमल्लिकाभिः । जीमूतेन = मेघेन । प्रीतिप्रमुखवचनं = प्रणयप्रधानकथनम् । प्रवृत्तिं = वार्ताम् ।
वार्ता प्रवृत्तिर्वृत्तान्तः इत्यमरः ।
सञ्जीवनी
अथ समाहितान्तःकरणः सकि कृतवानित्यत आह …
प्रत्यासन्न इति ॥ स यक्षः । यश्चिरं दध्यौ स इत्यर्थः । नभसि श्रावणे नमः । श्रावणो नभाः इत्यमरः ॥ प्रत्यासन्ने आषाढस्यानन्तरं सन्निकृष्टे । प्राप्ते सतीत्यर्थः । दयिताजीवितालम्बनार्थी सन् ।सन् वर्षाकालस्य विरहदुःखजनकत्वात् विरहदुःखजनकत्वात्उत्पन्नानर्थ प्रतीकारादनर्थोत्पत्तिप्रतिबन्ध एव वरम्वरम् इति न्यायेन प्रागेव प्रियाप्राणधारणोपायं चिकीर्षुरित्यर्थः । जीवनस्योदकस्य मूतः पटबन्धो वस्त्रबन्धो जीमूतः ॥ पृषोदरादित्वात्साधुः । मूतः स्यात्पटबन्धेऽपि इति रुद्रः ॥ तेन जीमूतेन जलधरेण प्रयोज्येन स्वकुशलमयीं स्वक्षेमप्रधानां प्रवृत्तिं वार्ताम् ॥ वार्ता प्रवृत्तिर्वृत्तान्तः इत्यमरः ॥ हारयिष्यन्प्रापयिष्यन् ऌट् शेषे च इति चकारात्क्रियार्थक्रियोपपदालृट्प्रत्ययः । जीवनार्थं कर्म जीवनप्रदेनैव कर्तव्यमिति भाव ॥ ऋक्रोरन्यतरस्याम्ऋक्रोरन्यतरस्याम्इति कर्मसंज्ञाया विकल्पात् । पक्षे कर्तरि तृतीया ॥ प्रत्यग्रैरभिनवैः कुटजकुसुमैर्गिरिमल्लिकाभिः ॥ कुटजो गिरिमल्लिका। इति हलायुधः ॥ कल्पितार्थाय कल्पितोऽनुष्ठितः पूजाविधिर्यस्मै तस्मै ॥ मूल्ये पूजाविधावर्घः इत्यमरः ॥ तस्मै जीमूताय ॥ क्रियाग्रहणमपि कर्तव्यम् कर्तव्यम् इति सम्प्रदानत्वाच्चतुर्थी ॥ प्रीतिप्रमुखानि प्रीतिपूर्वकाणि वचनानि यस्मिन्कर्मणि तत्प्रीतिप्रमुखवचनं यथा तथा । शोभनमागतं स्वागतं स्वागतवचनं प्रीतः सन्व्याजहार । कुशलागमनं पप्रच्छेत्यर्थः ॥ नाथेन त्वत्र प्रत्यासन्ने मनसि इति साधीयान्पाठः कल्पितः । प्रत्यासन्ने प्रकृतिमापन्ने सतीत्यर्थः । यस्तु तेनैव पूर्वपाठविरोधः प्रदर्शितः सोऽस्माभिः आषाढस्य प्रथमदिवसेप्रथमदिवसे इत्येतत्पाठविकल्प समाधानेनैव समाधाय परिहृतः ॥ ननु चेतन साध्यमर्थं कथमचेतनेन कारयितुं प्रवृत्त इत्यपेक्षायां कविः समाधत्ते
वल्लभदेवव्याख्या
ततोऽसौ गुह्यकस्तस्मै मेघाय स्वागतं व्याजहार । शोभनमागतं तेऽत्स्वित्यब्रवीत् । प्रीतिप्रमुखाणि स्नेहपूर्वकाणि वचनानि यत्र स्वागते तद्यथा । भद्रं स्वस्थोऽसि । कुशलं ते सर्वत्र । विश्रम्यताम् । पवित्रीक्रियतामिदं स्थानमिति । कीदृशोऽसौ । जीमूतेन मेघेन स्वकुशलमयीमात्मश्रेयोरूपां प्रवृत्तिं वार्तां हारयिष्यन्नाययिष्यन् । यतोऽसौ दयिताया जीवितालम्बनं प्राणसंधारणमर्थयते। भर्तृकल्याणाधिगमाद्धि प्रियतमानां समाश्वामो जायते । कीदृशाय तस्मै । सरसैः कुटजकुममैः कल्पितार्घाय विहितपूजाय । अत एवासौ प्रीतः । आषाढस्य प्रशदिवस इति' य एवार्थ उक्तः स एव प्रत्यामने नभसीत्यनूदितः । नभाः श्रावणः । यदि वा जलदनिचितत्वात्प्रत्यासन्ने निकटवर्तिनीव नभसि गगन इति व्याख्येयमिति केचित् । गगम एव जीमूतो वार्तां नयति। स हि प्रीतिं कुर्वन्नाययति । प्रीत्या हारयिष्यन्निति णिजुत्पत्तिः । ततो मृद शेषे चेति' चकारात्क्रियार्थायामुपपदे लृट् । प्रवृत्तिं हारयितुं स्वागतं व्याजहारेत्यर्थः । जीमूतेनेति ह्र्यक्रोरन्यतरस्यामिति' यक्षे यथाप्राप्तं कर्तृत्वम् । तस्मा इति क्रियया यमभिप्रति म संप्रदानमिति' संप्रदानवचनम् ॥
धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥१।५॥
सन्निपातः = सङ्घातः । पटुकरणैः = कार्यसम्पादनशक्तेन्द्रियैः । गुह्यकः = यक्षः । प्रकृतिकृपणाः = स्वभावदीनाः, भेदज्ञानरहिताः ।
सञ्जीवनी
धूमेति ॥ धूमश्च ज्योतिश्च सलिलं च मरुद्वायुश्च तेषां सन्निपातः सङ्घातो मेघः क्व । अचेतनत्वात्सन्देशानर्ह इत्यर्थः । पटुकरणैः समर्थेन्द्रियैः ॥ करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि इत्यमरः ॥ प्राणिभिश्चेतनैः ॥ प्राणी तु चेतनो जन्मी इत्यमरः ॥ प्रापणीयाः प्रापयितव्याः । सन्दिश्यन्त इति सन्देशास्त एवार्थाः क्व। इत्येवमौत्सुक्यादिष्टार्थोद्युक्तत्वात् ॥ इष्टार्थोद्युक्त उत्सुकः इत्यमरः ॥ सम्प्रदानत्वात्कुशलप्रश्नेनाभिमुखीचकारेत्यर्थः । अपरिगणयन्नविचारयन्गुह्यको यक्षस्तं मेघं ययाचे याचितवान् ॥ याचृ याच्ञायाम्याच्ञायाम् ॥ तथाहि । कामार्ता मदनातुराश्चेतनाश्चेतनाश्च तेषु विषये प्रकृतिकृपणाः स्वभावदीनाः । कामान्धानां युक्तायुक्तविवेकशून्यत्वादचेतनयाच्ञा न विरुध्यत इत्यर्थः ॥ अत्र मेघसन्देश योर्विरूपयोर्घटनाद्विषमालङ्कारः । तदुक्तं - विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना चासौ; विषमालङ्कृतिस्त्रिधा ॥ इति । सा चार्थान्तरन्यासानु प्राणिता तत्समर्थकत्वेनैव चतुर्थपादे तस्योपन्यासात् ॥तस्योपन्यासात् सम्प्रति याचनाप्रकारमाह
वल्लभदेवव्याख्या
नन्वचेतमस्य मेघम्य दूत्यं कथमित्याह । ---श्लोकः …
गुह्यकः पुण्यजन औत्सुक्यादुत्कण्ठावशादित्येवमपरिगणयन्नविमृशंस्तं मेघं ययाचे प्रार्थयत । किमित्याह । क्व मेघः क्व संदेशार्था वार्त्तावस्तूनि । मेघस्तावद्धूमज्योतिःसलिलमरतां समुदायः । धूमादिमयान्यचेतनानि ह्यभ्राणि । संदेशार्थाः पटुकरणैश्चतुरेन्द्रियैः प्राणिभिर्मानवैः प्रापणीया नेतुं शक्याः । न तु निर्बुद्धिभिः । कथं तर्ह्येतदसौ न विमृष्टवानित्याह । यस्माद्ये कामार्ता मदनवागुरापीडितास्ते चेतनाचेतनेषु सिंहपादपादिषु प्रणयकृपणाः प्रार्थनादीना भवन्ति । न हि ते विषयमविषयं वा विवेक्तुं समर्था इति भङ्ग्या कविः स्वदोषं निरस्यति ॥
जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥१।६॥
कामरूपं = स्वाभिमतशरीरधारिणम् । प्रकृतिपुरुषं = प्रधानपुरुषम् । मघोनः = इन्द्रस्य । अधिगुणे = औदार्यादिगुणविशिष्टे । मोघा = निष्फला । अधमे = गुणरहिते । लब्धकामा = सफला ।
सञ्जीवनी
जातमिति ॥ हे मेघ त्वां भुवनेषु विदिते भुवनविदिते ॥ निष्ठा इति भूतार्थे क्तः । मतिबुद्धि - इत्यादिना वर्तमानार्थत्वेऽपि क्तस्य च वर्तमाने वर्तमाने इति भुवनशब्दस्य षष्ठयन्ततानियमात्समासो न स्यात् ।स्यात् तेन च पूजायाम् पूजायाम्इति निषेधात् ॥निषेधात् पुष्कराश्चावर्तकाश्च केचिन्मेघानां श्रेष्ठास्तेषां वंशे जातम् । महाकुलप्रसूतमित्यर्थः । कामरूपमिच्छाधीनविग्रहम् । दुर्गादिसञ्चारक्षममित्यर्थः । मघोन इन्द्रस्य प्रकृतिपुरुषं प्रधानपुरुषं जानामि । तेन महाकुलप्रसूतत्वादिगुणयोगित्वेन हेतुना विधिवशाद्दैवायत्तत्वात् ॥विधिवशाद्दैवायत्तत्वात् विधिर्विधाने दैवे च इत्यमरः ॥ वशमापत्ते ॥ वशमिच्छाप्रभुत्वयोः इति विश्वः ॥ दूरे बन्धुर्यस्य स दूरबन्धुर्वियुक्तभार्योऽहं त्वय्यर्थित्वं गतः ॥ ननु याचकस्य याच्ञायां याच्यगुणोत्कर्षः कुत्रोपयुज्यत इत्याशङ्क्य दैवाद्याच्ञा भङ्गेऽपि लाघवदोवाभाव एवोपयोग इत्याह याच्ञेति । तथाहि । अधिगुणेऽधिकगुणे पुंसि विषये याच्ञा मोघा निष्फलापि वरमीषत्प्रियम् । दातुर्गुणाढ्यत्वात्प्रियत्वं याच्या वैफल्यादोषत्मियत्वमिति भावः ॥ अधमे निर्गुणे याच्ञा लब्धकामापि सफलापि न वरम् । ईषत्प्रियमपि न भवतीत्यर्थः ॥ दैवाहृते वरः श्रेष्ठे त्रिषु क्लिबं मनाक्प्रिये इत्यमरः ॥ अर्थान्तरन्यासानुप्राणितः प्रेयोऽलङ्कारः । तदुक्तं दण्डिना-᳚प्रेयः प्रियतराख्यानम्प्रियतराख्यानम् इति ॥ एत दाद्ये पादत्रये चतुर्थपादस्थेनार्थान्तरन्यासेनोपजीवितमिति सुव्यक्तमेतत् ॥सुव्यक्तमेतत्
वल्लभदेवव्याख्या
तामेव याच्ञां चाटुपूर्विकामाह । …
यतस्त्वामहमेवंविधं वेदातोऽहं प्रार्थित्वं प्राप्तः । कीदृशम् । पुष्करावर्तकानां प्रलयमेघानां वंशे कुले जातमिति कुलीनत्वोक्तिः । तथा मघोन इन्द्रस्य प्रकृतिपुरुषममात्यपुरुषमिति प्रभावकथनम् । प्रकृतिषु ह्यमात्याः प्रधानभूताः । इन्द्रम्य च मेघा एव प्रियकराः । प्रकृतिषु प्रकृतिश्चासाविति वा पुरुषः प्रकृतिपुरुषः । स्वाम्यमात्यौ च राष्ट्रं च कोशो दुर्गं बलं सुहृत् । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ कामरूपं मनोज्ञं म्वेच्छारूपं वा । बह्वरूपत्वान्मेघानाम् । तदेव वक्ष्यति । पुष्पमेघीकृतात्मेति । अत एव विधिवशादहं दूरबन्धुरसंनिहितदारस्त्वय्यर्थित्वं गतो याच्ञाकरः संपन्नः । यद्येवंगुणयुक्तोऽहं तर्हि किमित्येतावता मय्यर्थनेत्याह । यस्मादधिगुणे कुलादिगुणोत्कृष्टे पुरुषे याच्ञा वन्ध्या निष्फला वरं भद्रम् । अलज्जावहत्वात् । न त्वधमे निकृष्टे लब्धकामा प्राप्तेष्टार्थापीति । भिन्नलिङ्गत्वेऽपि सामान्योपक्रमात्सामानाधिकरण्यम् । यथा। वरं कृपशताद्वापीत्यादौ' ॥
सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥१।७॥
धनपतिक्रोधविश्लेषितस्य = कुबेररोषवियोजितस्य ।
सञ्जीवनी
सन्तप्तानामिति ॥ हे पयोद, त्वं सन्तप्तानामातपेन वा प्रवासविरहेण वा सञ्ज्वरितानाम् ॥ सन्तापः सञ्ज्वरः समौ इत्यमरः ॥ शरणं पयोदामेनातपखिन्नानां मोषितानां स्वस्थानप्रेरणया च रक्षकोऽसि ॥ शरणं गृहरक्षित्रोः इत्यमरः ॥ तत्तस्मात्कारणाद्धनपतेः कुबेरस्य क्रोधेन विश्लेषितस्य प्रियया वियोजितस्य मे मम सन्देशं वार्ता प्रियाया हर । प्रियां प्रति नयेत्यर्थः । सम्बन्धसामान्ये षष्ठी ॥ सन्देशहरणेनावयोः सन्तापं नुदेत्यर्थः । कुत्र स्थाने सा स्थिता तत्स्थानस्य वा किं व्यावर्तकं तत्राह -गन्तव्येति ॥ बहिर्भवं बाह्यम् ॥ बहिर्देव पञ्चजनेभ्यश्च इति यञ् ॥यञ् बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तया धौतानि निर्मलानि हर्म्याणि धनिकभवनानि यस्यां सा तथोक्ता ॥ हर्म्यादि धनिनां वासः इत्यमरः ॥ अनेन व्यावर्तकमुक्तम् ॥ अलका नामालकेति प्रसिद्धा यक्षेश्वराणां वसतिः स्थानं ते तव गन्तव्या । त्वया गन्तव्येत्यर्थः ॥ कृत्यानां कर्तरि वा इति षष्ठी ॥
वल्लभदेवव्याख्या
न च तवास्मदर्थनानङ्गीकरणं युक्तमित्याह । …
हे पयोद संतप्तानामम्बुदानेन त्वं यदा शरणं त्राणं भवसि तन्ममापि विरहसंतप्तस्य संदेशं वार्तां प्रियायाः सकाशं हर नय प्रापय । धनपतिक्रोधविश्लेषितस्येति संतप्तत्वप्रतिपादनम् । क्व मया गन्तव्यमित्याह । गुह्यकाधिपानां वसतिरलका नाम पुरी ते गन्तव्या यातव्या । न च सा दुर्ज्ञानेत्याह' । बाह्योद्याने कैलासोपवने । बाह्यं च तदुदवानं च । तत्र स्थितो यो हरस्तस्य शिरश्चन्द्रिकया धौतानि हर्म्याणि यत्र सा दिनेऽपि विक्षालितसौधा । त इति कृत्यानां कर्तरि वा ॥
त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः ।
कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥१।८॥
पवनपदवीं = वायुमार्गम्, आकाशम् । प्रेक्षिष्यन्ते = उत्कण्ठया द्रक्ष्यन्ति । उद्गृहीतालकान्ताः = अवलोकसौकर्यार्थमुन्नमय्य धृतचिकुराग्राः । आश्वसत्यः = धैर्ययुताः । सन्नद्धे = व्यापृते । विरहविधुरां = वियोगसंपीडिताम् ।
सञ्जीवनी
मदर्थं प्रस्थितस्य ते पथिकाङ्गनाजनाश्वासममानुषङ्गिकं फलमित्याह
त्वामिति ॥ पवनपदवीमाकाशमारूढं त्वाम् । पन्थानं गच्छन्ति ते पथिकाः ॥ पथः ष्कन्ष्कन्इति ष्कन्प्रत्ययः ॥ तेषां वनिताः प्रोषितभर्तृकाः। प्रत्ययात्प्रियागमनविश्वासात् ॥ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु इत्यमरः ॥ आश्व्स्यन्त्यो विश्वसिताः ॥ श्वसिधातोः शत्रन्तात् शत्रन्तात्उगितश्च इति ङीप् ।ङीप् तथोद्गृहीतालकान्ता दृष्टिप्रसारार्थमुन्नमय्य धृतालकाग्राः सत्यः प्रेक्षिष्यन्ते । अत्युत्कण्ठवया द्रक्ष्यन्तीत्यर्थः ॥ मदागमनेन पथिकाः कथमागमिष्यन्तीत्यत्राह -तथाहि । त्वयि सन्नद्धे व्यापृते सतिविरहेण विधुरां विवशां जायां क उपेक्षेत । न कोऽपीत्यर्थः । अन्योऽपि मद्दयतिरिक्तोऽपि यो जनोऽहमिव परार्धनिवृत्तिः परायत्तजीवनको न स्यात् । स्वतन्त्रस्तु न कोऽप्युपेक्षेतेति भावः ॥ अत्रार्थान्तरन्यासोऽलङ्कारः । तदुक्तम् - ‘कार्यकारणसामान्यविशेषाणां परस्परम् । समर्थनं यत्र सोऽर्थान्तरग्यास उदाहृतः ॥ इति लक्षणात् ॥लक्षणात् निमित्तान्यपि ते शुभानि दृश्यन्त इत्याह
वल्लभदेवव्याख्या
वातमार्गं खमुद्गतं भवन्तं पान्थाङ्गना विरहिण्योऽलकानुत्क्षिप्य द्रक्ष्यन्ति । यतः प्रत्ययान्निश्चयोत्पादनादाश्वसन्त्यः । अयं जीमूत उदितः । अत्रावश्यमस्मत्प्राणेश्वरैरागन्तव्यमिति । तद्दर्शनमात्रे कस्मादाशा कृतेत्याह । त्वयि संनद्धे कृतोद्योगे सति वियोगाकुलां प्रेयसीं क उपेक्षेत विरहयेत् । यद्यन्योऽपि जनस्तादृशो न स्यात् । कीदृशः । मादृशः पराधीनवृत्तिः । अथ वा कोऽन्यो जनो जायामुपेक्षेतेत्यत्र सबन्धः । स्वाधीना हि कान्ताभिः सह रममाणाः प्रावृषमतिवाहयन्ति । संनद्धादयः शब्दाः एवमादावोपचारिकाः ॥
तां चावश्यं दिवसगणनातत्परामेकपत्नीम्
अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम्
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥१।९॥
दिवसगणनातत्पराम् = शापावधिशिष्टदिनसंख्यानपरायणाम् । अविहतगतिः = अप्रतिहतगमनः । अव्यापन्नाम् = अनपगतप्राणाम् । सद्यःपाति = तत्कालविनाशि, सद्योभ्रंशनशीलम् । प्रणयि = प्रेमान्वितं । विप्रयोगे = विरहे ।
सञ्जीवनी
न च तस्या नाशाद्व्रतस्खलनाद्वा निरर्थकस्त्वत्प्रयास इत्याह …
तां चेति ॥ हे मेघ , दिवसानामवशिष्टदिनानां गणनायां सङ्ख्याने तत्परामासक्ताम् ॥ तत्परे प्रतितासक्तौ इत्यमरः ॥ अत एवाव्यापन्नाममृताम् । शापावसाने मदामनमत्याशया जीवन्तीमित्यर्थः । एकः पतिर्यस्याः सैकपत्नी ताम् ।ताम् पतिव्रतामित्यर्थः ॥ नित्यं सपत्न्यादिषुसपत्न्यादिषु इति ङीप् नकारश्च ॥ भ्रातुर्मे जायां भ्रातृजायाम् । मातृर्वन्निःशङ्कदर्शनीयामित्याशयः । तां मत्प्रियामविहतगतिरविच्छिन्नगतिः सन्नवश्यं द्रक्ष्यसि चालोकयिष्यसि एव ॥ तथाहि । आशातितृष्णा ॥ आशा दिगतितृष्णयोः इति यादवः ॥ बध्यतेऽनेनेति बन्धो बन्धनम् । वृन्तमिति यावत् ।यावत् आशैव बन्ध आशाबन्धः कर्ता ॥ प्रणयि प्रेमयुक्तमत एव कुसुमसदृशम् ।कुसुमसदृशम् सुकुमारमित्यर्थः । अत एव विप्रयोगे विरहे सद्यःपाति सद्योभ्रंशनशीलमङ्गनानां हृदयं जीवितम् ॥ हृदयं जीविते चित्ते वक्षस्याकृतयोः इति शब्दार्णवे ॥ प्रायशः प्रायेण रुणद्धि प्रतिबध्नाति ॥ अर्थान्तरन्यासः ॥
वल्लभदेवव्याख्या
न च तव निरर्थकः क्लेशो भविष्यतीत्याह । …
यथेदं शुभमीक्ष्यते तथा निश्चितं मे च मुन्दरं त्वामाकाशे बलाकाः सेविष्यन्ते श्रयिष्यन्ते । किमितीत्याह । हितो वातो यथा त्वां मन्दं मन्दं प्रेरयति यथा चायं चातको मयूरो मधुरं कूजति । वामो वामपार्श्वस्थो वल्गुवादी वा। तोयगृधुर्जलमभिलाषुकः । वार्षिकलिङ्गदर्शनाद्बलाका अप्यायास्यन्तीति प्रावृड्धर्मोऽयम् । कीदृक्ष्यस्ताः । गर्भाधानेन स्थिरः परिचयो यासां ताः । मेघगर्जितेन हि ताः सगर्भा भवन्तीति वार्त्ता । आबद्धमाला रचितपङ्क्त्यः । मन्दं मन्दमित्याधिक्ये द्वित्वम् ॥
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥१।१०॥
नदति = व्याहरति । सगन्धः = गर्वान्वितः । आबद्धमालाः = बद्धपङ्क्तयः । बलाकाः = वकाङ्गनाः । गर्भाधानक्षणपरिचयात् = मैथुनोत्सवबोधात् संभोगकालज्ञानाद्वा । नयनसुभगं = दृष्टिप्रियम्, लोचनाकर्षकम्। सेविष्यन्ते = आश्रयिष्यन्ते ।
सञ्जीवनी
सम्प्रति सहाय सम्पत्तिश्चास्तीत्याह
मन्दं मन्दमिति ॥ अनुकूलः पवनो वायुस्त्वां मन्द मन्दम् । अतिमन्दमित्यर्थः ॥ अत्र कथञ्चिद्वीप्सायामेवः द्विरुक्तिर्निर्वाह्या । प्रकारे गुणवचनस्य इत्येतदाश्रयणे तु कर्मधारयवद्भावे सुब्लुकि मन्दमन्दमिति स्यात् । तदेवाह वामनः-‘मन्दमन्दमित्यत्र प्रकारार्थे द्विर्भाव इति । यथा सदृशम् । भाविफलानुरूपमित्यर्थः ॥ यथा । सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे इति यादवः ॥ नुदति प्रेरयति । अयं सगन्धः सगर्वः । सम्बन्धीति के चित् ॥ गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः इत्युभयत्रापि विश्वः ॥ ते तव वामो वामभागस्थः ॥ वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि च इति शब्दार्णवे ॥ चातकः पक्षिविशेषश्च मधुरं श्राव्यं नदति व्याहरतिः ॥ इदं निमित्तद्वयं वर्तते वर्तिष्यते चापरं निमित्तमित्याहगर्भेति ॥ गर्भः कुक्षिस्थो जन्तुः ॥ गर्भोऽपकारके ह्यग्नौ सुखे पनसकण्टके । कुक्षौ कुक्षिस्थजन्तौ च इति यादवः ॥ तस्याधानमुत्पादनं तदेव क्षण उत्सवः । सुख हेतुत्वादिति भावः ॥ निर्व्यापार स्थितौ कालविशेषोत्सवयोः क्षणः इत्यमरः ॥ तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि । आबद्धमालाः ॥ गर्भाधानसुखार्थं त्वत्समीपे बद्धपङ्क्तयः य इत्यर्थः ॥ ऊक्तं च कर्णेदये -‘कर्णेदयेगर्भबलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात्समन्तात्इति ॥ बलका बलाकाङ्गना नयनसुभगं दृष्टिप्रियं भवन्तं नूनं सत्यं सेविष्यन्ते ॥ अनुकूलमारुतचातकशब्दितबलाकादर्शनानां शुभसूचकत्वं शकुनशास्त्रे दृष्टं तद्विस्तरभयान्नालेखि ॥
वल्लभदेवव्याख्या
मन्दं मन्दमिति ॥ अनुकूलः पवनो वायुस्त्वां मन्द मन्दम् । अतिमन्दमित्यर्थः ॥ अत्र कथञ्चिद्वीप्सायामेवः द्विरुक्तिर्निर्वाह्या । प्रकारे गुणवचनस्य इत्येतदाश्रयणे तु कर्मधारयवद्भावे सुब्लुकि मन्दमन्दमिति स्यात् । तदेवाह वामनः-‘मन्दमन्दमित्यत्र प्रकारार्थे द्विर्भाव इति । यथा सदृशम् । भाविफलानुरूपमित्यर्थः ॥ यथा । सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे इति यादवः ॥ नुदति प्रेरयति । अयं सगन्धः सगर्वः । सम्बन्धीति के चित् ॥ गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः इत्युभयत्रापि विश्वः ॥ ते तव वामो वामभागस्थः ॥ वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि च इति शब्दार्णवे ॥ चातकः पक्षिविशेषश्च मधुरं श्राव्यं नदति व्याहरतिः ॥ इदं निमित्तद्वयं वर्तते वर्तिष्यते चापरं निमित्तमित्याहगर्भेति ॥ गर्भः कुक्षिस्थो जन्तुः ॥ गर्भोऽपकारके ह्यग्नौ सुखे पनसकण्टके । कुक्षौ कुक्षिस्थजन्तौ च इति यादवः ॥ तस्याधानमुत्पादनं तदेव क्षण उत्सवः । सुख हेतुत्वादिति भावः ॥ निर्व्यापार स्थितौ कालविशेषोत्सवयोः क्षणः इत्यमरः ॥ तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि । आबद्धमालाः ॥ गर्भाधानसुखार्थं त्वत्समीपे बद्धपङ्क्तयः य इत्यर्थः ॥ ऊक्तं च कर्णेदये -‘कर्णेदयेगर्भबलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात्समन्तात्इति ॥ बलका बलाकाङ्गना नयनसुभगं दृष्टिप्रियं भवन्तं नूनं सत्यं सेविष्यन्ते ॥ अनुकूलमारुतचातकशब्दितबलाकादर्शनानां शुभसूचकत्वं शकुनशास्त्रे दृष्टं तद्विस्तरभयान्नालेखि ॥ यथेदं शुभमीक्ष्यते तथा निश्चितं मे च मुन्दरं त्वामाकाशे बलाकाः सेविष्यन्ते श्रयिष्यन्ते । किमितीत्याह । हितो वातो यथा त्वां मन्दं मन्दं प्रेरयति यथा चायं चातको मयूरो मधुरं कूजति । वामो वामपार्श्वस्थो वल्गुवादी वा। तोयगृधुर्जलमभिलाषुकः । वार्षिकलिङ्गदर्शनाद्बलाका अप्यायास्यन्तीति प्रावृड्धर्मोऽयम् । कीदृक्ष्यस्ताः । गर्भाधानेन स्थिरः परिचयो यासां ताः । मेघगर्जितेन हि ताः सगर्भा भवन्तीति वार्त्ता । आबद्धमाला रचितपङ्क्त्यः । मन्दं मन्दमित्याधिक्ये द्वित्वम् ॥
कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम्
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद् विसकिसलयच्छेदपाथेयवन्तः
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः॥१।११॥
शिलीन्ध्रः = mushroom । उच्छिलीन्ध्राम् = उद्भूतकन्दलिकाम् (उद्गताः शिलीन्ध्राः यस्यां, ताम्) । अवन्ध्याम् = सफलाम् । श्रवणसुभगं = श्रोत्रानन्दम् । मानसोत्काः = मानससरोवरे उत्सुकाः । विसकिसलयच्छेदपाथेयवन्तः = मृणालकन्दखण्डसम्बलवन्तः (विसकिसलयानां [कमलनालाग्रभागानां] छेदाः [खण्डाः] एव पाथेयं येषां, ते)। राजहंसाः = मरालाः (हंसविशेषाः)। सहायाः = सहचराः ।
सञ्जीवनी
कर्तुमिति ॥ यद् गर्जितं कर्तृमहीमुच्छिलन्ध्रामुद्भूतकन्दलिकाम् ॥ कन्दल्यां च शिलीन्ध्रा स्यात्स्यात् इतिशब्दार्णवे ॥ अत एवावन्ध्यां सफलां कर्तुं प्रभवति शक्नोति । शिलीन्ध्राणां भाविसस्यसम्पत्तिसूचकत्वादिति भावः । तदुक्तं निमित्तनिदाने - कालाभ्रयोगादुदिताः शिलीन्ध्राः सम्पन्न सस्यां कथयन्ति धात्रीम्धात्रीम् इति ॥ तच्छ्रवणसुभगं श्रोत्रसुखम् । लोकस्येति शेषः । ते तव गर्जितं श्रुत्वा मानसोत्का मानसे सरस्युन्मनसः । उत्सुका इति यावत् ॥ उत्क उन्मनाः इति निपातनात्साधु ॥ कालान्तरे मानसस्य हिमदुष्टत्वाहिमस्य च हंसानां रोगहेतुत्वादन्यत्र गता हंसाः पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः ॥ बिसकिसलयानां मृणालाग्राणां छेदैः शकलैः पाथेयवन्तः । पथि साधु पाथेयं पथि भोज्यम् ॥भोज्यम् पथ्यतिथिवसतिस्वपतेर्दञ् पथ्यतिथिवसतिस्वपतेर्दञ्॥ तद्दन्तः । मृणालकन्दशकलसम्बलवन्त इत्यर्थः । राजहंसा हंसविशेषाः ॥ राजहंसास्तु ते चञ्चु चरणैर् लोहितैःसिताः इत्यमरः ॥ नभसि व्योम्नि भवतस्तव । आकैलासात्कैलासपर्यन्तम् ॥ पदद्वयं चैतत् ॥ सहायाः सयात्राः सहायस्तु सयात्रः स्यात्स्यात्इति शब्दार्णवे ॥ सम्पत्स्यन्ते भविष्यन्ति ॥
वल्लभदेवव्याख्या
सहायान्तरसंपत्तिमाह । …
तत्त्वदीयं ध्वनितमाकर्ण्य तव राजहंमा अनुचराः कैलासाद्रिपर्यन्तं भविष्यन्ति । यतो मानमोत्का मानमोत्काः मानसोन्मनसः । प्रावृषि हि ते शरणार्थं तत्र यान्ति । किं तद्गर्जितमित्याह । यन्महीमवनिमुच्छिलिन्ध्रामुद्भूतशिलिन्ध्राख्यकुमुमां विधातुं प्रभवति शक्नोति । तानि हि मेघगर्जितेन जायन्ते । अत एव तदवन्ध्यं सफलम् । श्रवणसुभगं कर्णसुखकारीति चाटुपदम् । कीदृशा हंसाः । बिसानां किसलयानि तेषां छेदः खण्डः स एव पाथेयमध्वभोजनं विद्यते येषां ते तथोक्ताः । बिसकिसलयच्छेदपाथेयवन्त इति विग्रहः । आ कैलासादित्यव्ययीभावो विभाषितः ॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम्
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम्॥१।१२॥
आपृच्छस्व = गमनार्थम् अनुमतिं पृच्छस्व । तुङ्गम् = उन्नतम् । मेखलासु = कटीषु । स्नेहव्यक्तिः = प्रेमप्रकाशः । बाष्पम् = ऊष्माणम् ।
सञ्जीवनी
आपृच्छस्वेति । प्रियं सखायं प्रियसखम् ॥ राजाहःसखिभ्यष्टच्राजाहःसखिभ्यष्टच्इति टच् समासान्तः ॥ तुङ्गमुन्नतं पुंसां वन्धैर्नराराधनीयै रघुपतिपदै रामपादन्यासैर्मेखलासु कटकेषु ॥ अथ मेखला । श्रोणिस्थानेऽद्रिकटके कटिबन्धेभबन्धने कटिबन्धेभबन्धने इति यादवः ॥ अङ्कितं चिह्नितम् । इत्थं सङ्खित्वान्महत्त्वात्पवित्रत्वाच्च सम्भावनार्हम् । अमुं शैलं चित्रकूटाद्रिमालिङ्गन्यापृच्छस्व साधो यामीत्यामन्त्रणेन सभाजय ॥ आमन्त्रणसभाजने । आप्रच्छन्नम्आप्रच्छन्नम् इत्यमरः ॥ आङि नुप्रच्छचोरुपसङ्ख्यानम् नुप्रच्छचोरुपसङ्ख्यानम्इत्यात्मनेपदम् ॥ सखित्वं निर्वाहयति -काल इति ॥ काले काले प्रतिप्रावृट्कालम् । सुहृत्समागमनकालश्च कालशब्देनोच्यते । वीप्सायां द्विरुक्तिः ॥ भवतः संयोगं सम्पर्कमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं नेत्रजलं च ॥ बाष्पो नेत्रजलोष्मणोः इति विश्वः ॥ मुञ्चतो यस्य शैलस्यः स्नेहव्यक्तिः प्रेमाविर्भावो भवति । स्निग्धानां हि चिरविर हसङ्गतानां बाष्पपातो भवतीति भावः ॥
वल्लभदेवव्याख्या
इदानीं प्रायेणोपदेशमाह । …
अमुं शैलं चित्रकूटमालिङ्ग्यापृच्छस्व सोत्कण्ठं [अस्पष्टं मुद्रणम्]ज्योककुरु । यतः प्रियसखमिष्टमित्रम् । मेघानां ह्यद्रयः सुहृदः । ततस्तेषामुदयात् । सखा च गमनकाले ज्योक्क्रियते । कीदृशममुम् । तुङ्गमुन्नतम् । तथा सर्वजनपूज्यैः रामपदै रामपादैर्मेखलासु नितम्बभागेष्वङ्कितं मुद्रितमिति पावनत्वोक्तिः । सखिधर्ममाह | यस्याद्रेः काले काले सर्वस्मिन्समागमममये त्वया सह संयोगमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं त्यजतः स्नेहव्यक्तिर्भवति । यः स्निह्यतीत्यर्थः । पर्वता हि जलदवृष्ट्या स्निग्धा भवन्ति वाष्पं च मुञ्चन्ति । एतदेव महत्त्वं यच्चिरेण सख्यौ दृष्टे बाष्पस्नेहौ जायेते । आपृच्छस्वेत्याङि नुप्रच्छ्योरित्यात्मनेपदम् । प्रियश्चासौ सखा चेति प्रियसखः । राजाहःसखिभ्यष्टच् । संयोगमेत्येति बाष्पमोक्षापेक्षं पौर्वकाख्यं स्नेहक्रियापेक्षं वा ॥
मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपम्
सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य॥१।१३॥
श्रोत्रपेयम् = श्रवणयोग्यम् । पदं न्यस्य = विश्रम्य इत्यर्थः । क्षीणः क्षीणः = कृशाङ्गः । परिलघु = निर्भारम् । खिन्नः खिन्नः = क्षीणबलः ।
सञ्जीवनी
सम्प्रति तस्य मार्ग कथयति …
मार्गमिति ॥ हे जलद, तावदिदानीं कथयतः । मत्त इति शेषः । त्वत्प्रयाणस्यानुरूपमनुकूलं मार्गमध्वानम् ॥ मार्गो मृगपदे मासि सौम्यर्थे ऽन्वेषणेऽध्वनि इति यादवः । शृणु । तदनु मार्गश्रवणानन्तरं श्रोत्राभ्यां पेय पानार्हम् । अतितृष्णया श्रोतव्यमित्यर्थः ॥ पेयग्रहणात्सन्देशस्यामृतसाम्यं गम्यते ॥ मे सन्देशं वाचिकम् ॥ सन्देशवाग्वाचिकं स्यात्स्यात् इत्यमरः ॥ श्रोष्यसि । यत्र मार्गे खिन्नः खिन्नोऽभीक्ष्णं क्षीणबलः सन् ॥ नित्यवीप्सयोः इति नित्यार्थे द्विर्भावः ॥ शिखरिषु पर्वतेषु पदं न्यस्य निक्षिप्य । पुनर्बललाभार्थं क्वचिद्विश्रम्येत्यर्थः । क्षीणः क्षीणोऽभीक्ष्णं कृशाङ्गः सन् । अत्रापि कृदन्तत्वात्पूर्ववद्विरुक्तिः ॥ स्रोतसां परिलघु गुरुत्वदोषरहितम् । उपलास्फालनभेदितत्वात्पथ्यमित्यर्थः । तथा च वाग्भटः 'उपलास्फालनक्षेपविच्छेदैः खेदितोदकाः । हिमवन्मलयोद्भूताः पथ्या नद्यो भवन्त्यमूः' इति । पयः पानीयमुपभुज्य शरीरपोषणार्थमभ्यवहृत्य च गन्तासि गमिष्यसि ॥ गमेर्लुट् ॥
वल्लभदेवव्याख्या
हे जलद मम गदतोऽध्वानं तावद्भवद्गमनहितमाकर्णय । तदनन्तरं श्रोत्रपेयं कर्णानन्दनं संदेशं श्रोष्यसि निशमयिष्यसि । कीदृशं मार्गमित्यानुकूल्यमाह । खिन्नः खिन्न इति । श्रान्तः संस्त्वं यत्र मार्गेऽद्रिषु पदं न्यस्य क्रमं निक्षिप्य गन्तामि यास्यसि क्षीणप्रायश्च नदीनामगुरु तोयमुपयुज्येति पीत्वा शीघ्रं यास्यसि । पानविश्रामौ हि पथि सुतरामुपयुज्येते । तदनुतदुपरीत्यादयः पूर्वकविप्रयोगदर्शनात्साधवः । अव्ययेन हि षष्ठीममामो निषिध्यते । श्रोत्रपेयमिति कृत्यैरधिकार्थवचने । खिन्नः खिन्न इत्यादावाधिको द्वित्वमिति कर्मधारयवत्त्वात्सुब्लुप् भवति । आधिक्ये च द्वित्वमाहितमिति महत्या संज्ञया' ज्ञापितम् । गन्तासीति लुट् । परिलघ्विति क्रियाविशेषणम् ॥
अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिर्-
दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं
दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥१।१४॥
किंस्वित् = वितर्के । उन्मुखीभिः = उन्नतं मुखं यासां, ताभिः । स्थूलहस्तावलेपान् = पीवरशुण्डाक्षेपान् (अवलेपः = अहङ्कारः) । उत्पत = उड्डयस्व । उदङ्मुखः = उत्तराभिमुखः (सन्) । परिहरन् = त्यजन् । सरसनिचुलात् = आर्द्रस्थलवेतसात् (वेतस् = वेणु)। चकितचकितम् = आश्चर्यपूर्णम् । दृष्टोत्साहः = अवलोकितोद्यमः (दृष्ट उत्साहो यस्य सः) ।
सञ्जीवनी
अद्रेरिति ॥ पवनो वायुरद्रेश्चित्रकूटस्य शृङ्गं हरति किंस्वित् ॥किंस्विच्छब्दो विकल्पवितर्कार्थादिषु पठितः ॥ इति शङ्कयोन्मुखीभिरुन्नतमुखीभिः ॥ स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इति ङीष् । मुग्धाभिर्मूढाभिः मुग्धः सुन्दरमूढयोः इत्यमरः । सिद्धानां देवयोनि विशेषाणामङ्गनाभिश्चकितचकितं चकितप्रकारं यथा तथा ॥ प्रकारे गुणवचनस्य इति द्विर्भावः । दृष्टोत्साहो दृष्टोद्योगः सन् सरसा आर्द्रा निचुलाः स्थलवेतसा यस्मिंस्तस्मात् ॥यस्मिंस्तस्मात् वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे स्थलवेतसे इति शब्दार्णवे ॥ अस्मात्स्थानादाश्रमात्पथि नभोमार्गे दिङ्गागानां दिग्गजानां स्थूला ये हस्ताः करास्तेषामवलेपानाक्षेपान्परिहरन् । हस्तो नक्षत्रभेदे स्यात्करे भकरयोरपि इति । अवलेपस्तु गर्वे स्यात्क्षेपणे दूषणेऽपि च इति च विश्वः ॥ उदङ्मुखः सन् । अलकाया उदीच्यत्वादित्याशयः ॥ खमाकाशमुत्पतोद्गच्छ ॥ अत्रेदमप्यर्थान्तरं ध्वनयति - रसिको निचुलो नाम महाकविः कालिदासस्य सहाध्यायः परापादितानां कालिदासमबन्धदूषणानां परिहर्ता यस्मिन्स्थाने तस्मात्स्थानादुदङ्मुखोनिर्दोषत्वादुन्नतमुखःसन्पथि सारस्वतमार्गे दिङ्नागानाम् ॥ पूजायां बहुवचनम् ॥बहुवचनम् दिङ्नागाचार्यस्य कालिदासप्रतिपक्षस्य हस्तावलेपान्हस्तविन्यासपूर्वकाणि दूषणानि परिहरन् ॥परिहरन् अवलेपस्तु गर्वे स्यात्क्षेपणे दुषणेऽपि च इति विश्वः ॥ अद्रेरद्रिकल्पस्य विनागाचार्यस्य शृङ्गं प्राधान्यम् ॥ शृङ्गं प्राधान्यसान्वोश्च इत्यमरः ॥ हरति किंस्विदिति हेतुना सिद्धैः सारस्वतसिद्धैमहाकविभिरङ्गनाभिश्च दृष्टोत्साहः सन्खमुत्पतोच्चैर्भवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति ॥ संसर्गतो दोषगुणा भवन्तीत्येतन्मृषा येन जलाशयेऽपि । स्थित्वानुकूलं निचुलश्चलन्तमात्मानमारक्षति सिन्धुवेगात् ॥ इत्ये तच्छ्लोकनिर्माणात्तस्य कनिञ्चुल संज्ञेत्याहुः ॥
वल्लभदेवव्याख्या
मार्गप्रारम्भमाह ।…
अस्मात्प्रदेशात्त्वमुत्तराभिमुखः खमुद्गच्छ । सरसा निचुला वेतसा यत्रेति प्रावृड्वर्णनम् । त्वं कीदृशः । चकितचकितं सवासमुद्वक्ताभिर्मुग्धसिद्धवधूभिरित्थं दृष्टोत्साहो दृष्टोद्यमः । कथमित्याह । पवनो वायुः किं स्विदचलशिखरं हरत्यपनयति । अतश्च पातशङ्कया चकितत्वम् । अत एव मुग्धत्वम् । किं कुर्वन् । दिङ्गागानामाशाकरिणां पथि स्थूलहस्तावलेहान्महाकरग्रहान्वर्जयन् । ते हि तं प्रतिद्विरदभ्रान्या ग्रहीतुमिच्छन्ति । दिङ्नागाश्च पातालादारभ्य । यदाह । मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्' । तथा । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे' । चकितचकितमिति प्रकारे द्वित्वम् ॥
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद्
वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः॥१।१५॥
आखण्डलस्य = इन्द्रस्य । आपत्स्यते = लप्स्यते । बर्हेण = पिच्छेन । स्फुरितरुचिना = उज्ज्वलकान्तिना । रत्नछायाव्यतिकरः = मणिप्रभाससम्मिश्रणम्, पद्मरागादिमणिप्रभामिश्रणम् ।
सञ्जीवनी
रत्नेति ॥ रत्नच्छायानां पद्मरागादिमणिप्रभाणां व्यतिकरो मिश्रणमिव प्रेक्ष्यं दर्शनीयमाखण्डलस्येन्द्रस्यैतद्धनुःखण्डम् ॥ एतदिति हस्तेन निर्देशो विवक्षितः । पुरस्तादग्रे वल्मीकाग्राद्वामलूरविवरात् ॥ वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम् पुन्नपुंसकम्इत्यमरः ॥ प्रभवत्याविर्भवति । येन धनुःखण्डेन ते तव श्यामं वपुः । स्फुरितरुचिनोज्वल कान्तिना बर्हेण पिच्छेन ॥ पिच्छबर्हे नपुंसके इत्यमरः ॥ गोपवेषस्य विष्णोर्गोपालस्य कृष्णस्य श्यामं वपुरिव । अतितरां कान्ति शोभामापत्स्यते प्राप्स्यते ॥
वल्लभदेवव्याख्या
एतत्पुरस्तादग्रे वल्मीकाग्रात्पिपीलिकोत्खातमृत्कूटप्रान्तादाखण्डलस्येन्द्रस्य धनुष्खण्डं चापैकदेशः प्रभवत्युत्पद्यते । सर्पगर्भं वल्मीकमिति सुरचापम्य प्रावृषि प्रभव इत्यागमः । कीदृशं तत् । अनेकवर्णत्वाद्रत्नच्छायाव्यतिकर इव बहुविधमणिकान्तिसंपर्कवत्प्रेक्षणीयं रम्यम् । येन च तव कृष्णं शरीरमतितरां कान्तिमापत्स्यते । यथा वल्लवरूपस्य हरेः प्रसरत्कान्तिना पिञ्छेन वपुः कान्तिमाप्तवत् । गोपा हि प्रायेण शवरवन्मयूरपिञ्छधारिणः । प्रसङ्गाच्च वर्षावर्णनमपि कविना क्रियत इति मार्गोपदेशेऽपि नास्य श्लोकस्यानवमरः । व्यतिकरो मिश्रीभावः । धनुष्खण्ड इति नित्यं समाम इति षत्वम् ॥
त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यः सीरोत्कर्षणसुरभि क्षेत्रमारुह्य मालं
किञ्चित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण॥१।१६॥
आयत्तम् = अधीनम् । भ्रूविकारानभिज्ञैः = भ्रूकारापरिचितैः । पीयमानः = सादरं वीक्ष्यमाणः । लघुगतिः = क्षिप्रगमनः । प्रीतिस्निग्धैः = प्राकृतिकप्रेमार्द्रैः । सीरोत्कर्षणसुरभि = हलैः उत्कर्षणकारणात् गन्धयुक्तम् ।
सञ्जीवनी
त्वयीति ॥ कृषेर्हलकर्मणः फलं सस्यं त्वयि ॥ अधिकरणविवक्षायां सप्तमी ॥ आयत्तमधीनम् ॥ अधीनो विघ्न आयत्तः इत्यमरः ॥ इति हेतोः प्रीत्या स्निग्धैः । अकृत्रिमप्रेमार्द्रैरित्यर्थः । भ्रूविलासानां भ्रूविका राणामनभिज्ञैः । पामरत्वादिति शेषः । जनपदवधूनां पल्लीयोषितां
लोचनैः पीयमानः सादरं वीक्ष्यमाणः सन् । मालं मालाख्यं क्षेत्रं शैलप्रायमुन्नतस्थलम् ॥ मालमुन्नतभूतलम् मालमुन्नतभूतलम् इत्युत्पलमालायाम् ॥ सद्यस्तत्कालमेव सीरैर्हलैरुत्कषणेन कर्षणेन सुरभि घ्राणतर्पणं यथा तथारुह्य ॥ तत्राभिव्रुष्येत्यर्थः ॥ सुरभिर्घाणतर्पणः इत्यमरः ॥ किञ्चित्पश्चाल्लघुगतिस्तत्र निर्वृष्टत्वात्क्षिप्रगमनः सन् लघु क्षिप्रतरं द्रुतम् द्रुतम्इत्यमरः ॥ भूयः पुनरप्युत्तरेणैवोत्तरमार्गेणैव व्रज गच्छ ॥ तृतीयाविधाने प्रकृत्यादिभ्य उपसङ्ख्यानम्उपसङ्ख्यानम् इति तृतीया ॥ यथा कश्चिद्बहुवल्लभः पतिः कुत्रचित्क्षेत्रे कलत्रे गूढं विहृत्य ॥ क्षेत्रं शरीरेकेदारे सिद्धस्थान कलत्रयोः इति विश्वः ॥ दाक्षिण्यभङ्गभयान्निचमार्गेण निर्गत्य पुनः सर्वाध्यक्ष इव सञ्चरति तद्वदिति ध्वनिः ॥
वल्लभदेवव्याख्या
मालमुड्डारं" क्षेत्रं किंचिन्मनागारुह्य पश्चादनन्तरमुत्तरेणोत्तरस्यां दिशि भूयो बहुतरं गतिं प्रवलय व्यावर्तय । मालं हि दक्षिणाशास्थं तेन चोत्तरागा गन्तव्येति गतिप्रवलनम् । मालारोहणं वृष्ट्या वधूप्रीत्यर्थम् । मालेन हि तदुपरिभवमाकाशं लक्ष्यते । कीदृशस्त्वम् । वृष्टिदानात्त्वय्यायत्तं कृषिफलमित्यतो हेतोर्जनपदवधूलोचनैः पीयमानः साभिलाषं दृश्यमानः । कीदृशीः । ग्राम्यत्वादभ्रूविलासानभिज्ञैः । अत एव प्रीतिवशात्स्निग्धैररूक्षैः । कीदृशं मालम् । सद्यस्तत्क्षणं सीरेण हलेन यदुत्कषणं विलेखनं तेन सुरभि मुगन्धि । हलोत्कृष्टा हि भूर्जलदजलकणव्यतिकरात्सुरभिर्भवति । प्रवलनं स्फिरणम् । उत्तरेणेत्येनबन्तः ॥
त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना
वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः॥१।१७॥
आसारप्रशमितवनोपप्लवं = धारासम्पातनिवारितदावदहनम् (आसारः धारासम्पातः, प्रसरणम्, सैन्यानां सर्व्वतोव्याप्तिः इत्यमरः यथा पञ्चतन्त्रे ३।४९ तस्मात् दुर्गं दृढं कृत्वा सुभटासारसंयुतम्)। आम्रकूटः = आम्रकूटनामकः (पर्वतः । आम्राः कूटेषु शिखरेषु यस्य सः । कूटः = शिखरः, कुटः = पर्वतः । यथा कुटजकुसुमैः) । मूर्ध्ना वक्ष्यति = शिरसा धारयिष्यति । अध्वश्रमपरिगतं = मार्गश्रमयुतम् (परिगतं = व्याप्तम्) । सानुमान् = पर्वतः (सानुः अस्य अस्तीति) । प्रथमसुकृतापेक्षया = पूर्वकृतोपकराचिन्तया । क्षुद्रः = कृपणः । उच्चैः = समुन्नतैः, श्रेष्ठैः । प्रथमसुकृतापेक्षया = प्रथमानि सुकृतानि तेषाम् अपेक्षया ।
सञ्जीवनी
त्वामिति ॥ आम्राश्चूताः कूटेषु शिखरेषु यस्य स आम्रकूटो नाम सानुमान्पर्वतः ॥ आम्रश्चूतो रसालोऽ सौ इति । कूटोऽस्त्री शिखरं शृङ्गम्शृङ्गम् इति चामरः ॥ आसारो धारावृष्टिः ॥ धारासम्पात आसारः इत्यमरः ॥ तेन प्रशमितो वनोपप्लवो दावाग्निर्येन तम् । कृतोपकारमित्यर्थः । अध्व श्रमेण परिगतं व्याप्तं त्वां साधु सम्यक् मूर्ध्ना वक्ष्यति वोढा ॥ बहेर्लृट् ॥ तथाहि । क्षुद्रः कृपणोऽपि ॥ क्षुद्रो दरिद्रे कृपणे नृशंसे नृशंसे इति यादवः ॥ संश्रयणाय मित्रे सुहृदि ॥ अथः मित्रं सखाः सुहृत् सुहृत्इत्यमरः ॥ प्राप्त आगते सति । प्रथम सुकृतापेक्षया पूर्वोपकारपर्यालोचनया विमुखो न भवति । यस्तथातेन प्रकारेगाच्चैरुन्नतः स आम्रकूटः किं पुनर्विमुखो न भवतीति किमु वक्तव्यमित्यर्थः ॥ एतेन प्रथमावसथे सौख्यलाभात्ते कार्यसिद्धिरस्तीति सूचितम् ।सूचितम् तदुक्तं निमित्तनिदाने - प्रथमावसथे यस्य सौख्यंतस्याखिलेऽध्वनि । शिवं भवति यात्रायामन्यथा त्वशुभं ध्रुवम् ध्रुवम्॥ इति ।
वल्लभदेवव्याख्या
अध्वश्रमेण परिगतं व्याप्तं भवन्तं सानुमानद्रिराम्रकूटो मूर्ध्ना शृङ्गेण साधु मम्यग्वक्ष्यति धारयिष्यति । यत आसारेण प्रशमितवनोपप्लवस्त्वम् । त्वया ह्यस्य वेगवर्षेण दावाग्निर्निर्वापितः । किमित्येतावता शिरसा वहनमित्याह । न क्षुद्रोऽपीत्यादि । संश्रयाय वासार्थं सुहृद्यायाते सति क्षुद्रोऽपि दुर्जनोऽपि विमुखो न भवति । किं पुनर्यस्तथा तेन प्रकारेणोच्चैरुन्नतः । कुतः । प्रथमसुकृतापेक्षया । आदावेतेन मे महदुपकृतम् । इदानीमेतस्याहं प्रत्युपकरोमीति पूर्वोपकार प्रत्यालोचनया न पराङ्मुखीभावः । क्षुद्रः खलो ह्रस्वश्च । उच्चैः प्रांशुर्महामनाश्च । वक्ष्यतीति वहेरूपम् । सानुमान् पर्वतः । तथेत्यनेनोच्चैस्त्वस्य प्रसिद्धिमाह ॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्-
त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम्
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः॥१।१८॥
परिणतफलद्योतिभिः = परिपक्वफलशोभमानैः, पक्वफलप्रकाशितैः । छन्नोपान्तः = आच्छादितपार्श्वः । स्निग्धवेणीसवर्णे = मसृणकेशबन्धकान्तिसदृशे । अमरमिथुनप्रेक्षणीयां = देवदम्पतिदर्शनीयाम् । शेषविस्तारपाण्डुः = अवशिष्टव्यासपीतः । [कृष्णचूचुकः समस्तपीतः कुच इवेत्युपमा]
सञ्जीवनी
छन्नेति ॥ हे मेघ , परिणतैः परिपक्कैः फलैद्योतन्त इति तथोक्तैः । आषाढे वनचूताः फलन्ति पच्यन्तेः च मेघवातेनेत्याशयः । काननाम्रैर्वनचूतैश्छन्नोपान्त आवृत पार्श्वेऽचल आम्रकूटाद्रिः स्निग्धवेणीसवर्णे मसृणकेशबन्धच्छाये । श्यामवर्णं इत्यर्थः ॥ वेणी तु केशबन्धे जलस्रुतौ इति यादवः । त्वयि शिखरं शृङ्गमारूढे सति ॥ ७ यस्य च भावेन भावलक्षणम्भावलक्षणम्इति सप्तमी ॥ मध्ये श्यामः शेषे मध्यादन्यत्र विस्तारे परितः पाण्डुर्हरिणः ॥ हरिणः पाण्डुरः पाण्डुः इत्यमरः ॥ भुवः स्तन इव । अमरमिथुनानाम् । खेचराणामिति भावः । प्रेक्षणीयां दर्शनीयामवस्थां नूनं यास्यति । मिथुनग्रहणं कामिनामेव स्तनत्वेनोत्प्रेक्षा सम्भवतीति कृतम् ।कृतम् यथा परिश्रान्तः कश्चित्कामी कामिनीनां कुचकलशे विश्रान्तः सन्स्वपिति तद्भवानपि भुवो नायिकायाः स्तन इति ध्वनिः ॥
वल्लभदेवव्याख्या
त्वयि शृङ्गमुद्गते सत्याम्रकूटोऽचलो निश्चितं सुरयुगलालोकनीयां रम्यां दशामापत्स्यते । यतः परिणतफलद्योतिभिः पक्वाम्रशोभिभिर्वनाम्रवृक्षेच्छन्नोपान्तच्छादितपर्यन्तः । स्वमपि स्निग्धवेणीसवर्णोऽरूक्षकेशकलापकालः । अतश्च कृष्णचूचुकः समस्तपीतः महीकुच इवेत्युपमा । अत एव देवद्वन्द्वदर्शनम् ॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तम्
तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां
भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य॥१।१९॥
वनचरवधूभुक्तकुञ्जे = किरातवनितासंसेवितलतामण्डपे । तोयोत्सर्गद्रुततरगतिः = जलवर्षेण शीघ्रगमनः । तीर्णः = अतिक्रान्तः । उपलविषमे = पाषाणैः निम्नोन्नतैः । विशीर्णां = प्रसृताम् । भक्तिच्छेदैः = sketch । भूतिम् = हस्तिशृङ्गारः, गजस्य मण्डनम् (वर्णयुतरेखाभिः) ।
सञ्जीवनी
स्थित्वेति ॥ हे मेघ , वने चरन्ति ते वनचराः ॥ तत्पुरुषे कृति बहुलम्बहुलम्इति बहुलग्रहणालुग्भवति ॥ तेषां वधूभिर्मुक्ताः कुञ्जा लतागृहा यत्र तस्मिन् ॥ निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे इत्यमरः ॥ तत्र ते नयनविनोदोऽस्तीत्यर्थः । तस्मिनाम्रकूटे मुहूर्तमल्पकालम् । न तु चिरं स्वकार्यविरोधादिति भावः ॥ मुहूर्तमल्पकाले स्याघटिकाद्वितयेऽपि च इति शब्दार्णवे ॥ स्थित्वा विश्रम्य । तोयोत्सर्गेण त्वामासार- इत्युक्तवर्षेणेन द्रुततरगतिलीघवाद्धेतोरतिक्षिप्रगमनः सन् । तस्माद्राम्र कूटात्परमनन्तरं तत्परं वर्त्म मार्गन्तीर्णोऽतिक्रान्तः । उपलैः पाषाणैर्विषमे विन्ध्यस्याद्रेः पादे प्रस्यन्तपर्वते ॥ पादाः प्रत्यन्तपर्वताः इत्यमरः ॥ विशीर्णो समन्ततो विसृमराम् ॥विसृमराम् एतेन कस्याश्चित्कामुक्या प्रियतम चरणपातोऽपि ध्वन्यते ॥ रेवां नर्मदाम् ॥नर्मदाम् रेवा तु नर्मदा सोमाद्भवा मेखलकन्यका इत्यमरः
॥ गजस्याङ्गे शरीरे भक्तयो रचनाः । रेवा इति यावत् ॥ भक्तिर्निषेवणे भागे रचनायाम्रचनायाम् इति शब्दार्णवे ॥ तासां छेदैभङ्गिभिर्भाभिर्विरचितां भूतिं शृङ्गारमिव भसितमिव वा ॥ भूतिर्मातङ्गशृङ्गारे जातौ मस्मनि सम्पदि इति विश्वः ॥ द्रक्ष्यसि । अयमपि महांस्ते नयन कौतुकलाभ इति भावः ॥
वल्लभदेवव्याख्या
। कीदृशीम् । उपलविषमे विन्ध्याद्रेः पादेऽधोभागे विशीर्णां विक्षिप्ताम् । अतश्च भक्तिच्छेदविच्छित्तिविभागैर्दत्तां गजवपुषि भूतिं सुधामिवेत्युपमा । तोयोत्सर्गेण जलत्यागेन द्रुततरा चतुरा गतिर्यस्येति वर्त्मतरणे कारणम् । वनचरशब्दे न सप्तम्या अलुक् । बाहुलकात् ॥
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर्-
जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय॥१।२०॥
वान्तवृष्टिः = उद्गीर्णवर्षः । जम्बूकुञ्जप्रतिहतरयं = जम्बूकुञ्जैः अवरुद्धवेगम् । वासितं = सुरभितम् । अन्तःसारम् = अभ्यन्तरबलम् । रिक्तः = अन्तःसारशून्यः ।
सञ्जीवनी
तस्या इति ॥ हे मेघ वान्तवृष्टिरुद्गीर्णवर्षः सन् । कृतवमनश्च व्यज्यते । तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च ॥ तिक्तो रसे सुगन्धौ च इति विश्वः ॥ वनगजमदैर्वासितं सुरभितं भावितं च । हिमवद्विन्ध्यमलया गजानां प्रभवा इति विन्ध्यस्य गजप्रभवत्वादिति भावः । जम्बूकुञ्जैः प्रतिहतरयं प्रतिबद्धवेगम् ।प्रतिबद्धवेगम् सुखपेयमित्यर्थः । अनेन लघुत्वं कषायभावना च व्यज्यते । तस्या रेवायास्तोयमादाय गच्छेर्व्रज । हे घन मेघ , अन्तः सारो बलं यस्य तं त्वामनिल आकाशवायुः । शरीरस्थश्च गम्यते । तुलयितुं न शक्ष्यति शक्तो न भविष्यति । तथाहि । रिक्तोऽन्तः । सारशून्यः सर्वोऽपि लघुर्भवति । प्रकम्प्यो भवतीत्यर्थः । पूर्णता सारवत्ता गौरवायाप्रकम्प्यत्वाय भवतीत्यर्थः । अयमत्र ध्वनिः – आदौ वमनशोधितस्य पुंसः पञ्चाच्छेष्मशोषणाय लघुतिक्तकषायाम्बुपानाल्लब्धबलस्य वातप्रकम्पो न स्यादिति । यथाह वाग्भटः - कषायाः स्वादवोष्यस्य विशुद्धौ श्लेष्मणो हिताः । किमु तिक्तकषायाःवा ये निसर्गात्कफापहाः ॥ कृतशुद्धेः क्रमात्पीतपेयादेः पथ्य भोजिनः । वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः ॥ इति ॥
वल्लभदेवव्याख्या
तस्या रेवाया जलमादाय गृहीत्वा त्वं यायाः । यतो वान्तवृष्टिरुत्सृष्टतोयः । कीदृशं जलम् । तिक्तः कटुकैर्वनगजमदैर्वासितं सुरभीकृतम् । विन्ध्यो हि गजावासः । तथा तीरजेन जम्बूषण्डेन जम्बूवनेन प्रतिहतरयं जडीकृतवेगमिति मुग्रहत्वोक्तिः । रेवा हि वेगगामिनी । अनेन गुणमाह । हे घनाम्भःपानादन्तःसारं परिपूर्णं सन्तं मारुतस्त्वां तुलयितुं परिच्छेत्तुं न प्रभविष्यति । यस्मात्सर्व एव कश्चिद्रिक्तः शून्योऽर्थरहितो लघुर्भवत्यवमानास्पदत्वं याति । पूर्णता तु गौरवाय भवति । आढ्यो हि सर्वेणाद्रियते । तेन तव जन्लेन गुरुत्वे सति नानिलात्परिभवप्राप्तिः ॥
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैर्-
आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।
जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः
सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥१।२१॥
सारङ्गाः = भ्रमराः, हरिणाः, गजाश्च । अर्धरूढैः = अर्धविकसितैः, किञ्चिदुद्गतैः । केसरैः = किञ्चलकैः । नीपं = स्थलकदम्बपुष्पम् । जग्ध्वा = भक्षयित्वा । अधिकसुरभिम् = अत्कटगन्धयुतम् । जललवमुचः = जलकणमोचकस्य । अनुकच्छम् = जलप्रायप्रदेशेषु (कच्छानां समीपे इति अनुकच्छम्) । आविर्भूतप्रथममुकुलाः = प्रथमोत्पन्नकुड्मलाः ।
सञ्जीवनी
नीपमिति ॥ सारङ्गा मतङ्गजाः कुरङ्गा भृङ्गा वा ॥ सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजेमतङ्गजे इति विश्वः ॥ अर्धरूढैरेकदेशोद्गतैः केसरैः किञ्जल्कैर्हरितं पालाशवर्ण कपिशं कृष्णपीतं च ॥ पालाशो हरितो । हरित्हरित्इति । श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते कृष्णलोहिते इति चामरः ॥ श्यामवर्णमिति यावत् ॥ वर्णो वर्णेन इति समासः ॥ नीपं स्थलकदम्बकुसुमम् ॥ अथ स्थकदम्बके । नीपः स्यात्पुलके इति शब्दार्णवे ॥ दृष्ट्वा सम्प्रेक्ष्य । विदित्वेति यावत् ।यावत् तथा कच्छेवनूपेष्नुकच्छम् ॥कच्छेवनूपेष्नुकच्छम् अव्ययं विभक्ति- इत्यादिना विभक्त्यर्थेऽव्ययीभावः ॥ जलपायमनूपं स्यात्पुंसि कच्छ स्वथाविधः इत्यमरः ॥ आविर्भूताः प्रथमाः प्रथमोत्पन्ना मुकुला यासां ताः कन्दलीर्भूमिकदलीः ॥ द्रोणपर्णी स्निग्धकन्दा कन्दली भूकदल्यपि इति शब्दार्णवे ॥ जग्ध्वा भक्षयित्वा ॥ अदो जग्धिः- इति जग्ध्यादेशः ॥ अरण्येष्वधिकसुरभिमतिघ्राणतर्पणं दग्धारण्येषु दग्धारण्येषुइति पाठे दग्धम्दग्धम्इत्यधिकविशेषणम् ॥इत्यधिकविशेषणम् अर्थवशात्कन्लीश्च दृष्ट्वैवेत्यन्वयो द्रष्टव्यः ॥ उर्व्या भूमेर्गन्धमाघ्राय जललवमुचोः मेघस्य ते तव मार्गं सूचयिष्यन्त्यनुमापयिष्यन्ति । यत्र यत्र वृष्टिकार्यं कन्दली मुकुलनीपकुसुमादिकं दृश्यते तत्र तत्रः त्वया वृष्टमित्यनुमीयत इति भावः ॥
वल्लभदेवव्याख्या
जललवमुचस्तोयकणवर्षिणस्तव सारङ्गा मयूरा मार्गं सूचयिष्यन्ति चिह्नैरूहिष्यन्ते । नूममनेन पथास्मत्सुहृज्जीमूत आयात इति । तर्हि मेघात्तोयकणाः पातव्या इति तदनुसरणम् । स्वादादिहृतचित्तत्वाद्व्रजंश्चासौ तैर्न लक्षित इति मार्गोन्नयनम् । किं कृत्वा सूचयिष्यन्तीति चिह्नान्याह । अर्धं रूढैः सामिपक्वैः केसरैर्हरितकपिशं नीलपिङ्गं नीपकुममं दृष्ट्वा । तद्धि वर्षासु नवजलपातं विना न जायते । तथाविर्भूतप्रथममुकुला उत्पन्नाद्यकोरकाः कन्दलीलता अनुकच्छं तीरममीपे दृष्ट्वा । ता हि वर्षामु फुल्लन्ति । तथा दग्धारण्येषु निदाघप्लुष्टकाननेष्वधिकसुरभिं गन्धं पृथिव्या आघ्राय शिङ्घित्वा । जलकणपाताद्धि तत्र सौगन्ध्याविर्भावः । जललवमुच इति मेघविशेषणं न तु जसन्तम् ॥
अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणाः
श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः
सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि॥१।२२॥
प्रक्षिप्तश्लोकः ।
मानयिष्यन्ति = पूजयिष्यन्ति । सहचरी = रमणी, पत्नी । सम्भ्रः = भयादिजनिते वेगः, भयः, त्वरा । [मेघगर्जनेन भयकारणात् आलिङ्गनम् अथवा तद्द्वारा रिरंसायाः उत्पत्तिकारणाद् आलिङ्गनम् । ]
सञ्जीवनी
प्रक्षिप्तमपि व्याख्यायते
अम्भ इति ॥ अम्भोबिन्दूनां वर्षोदबिन्दूनां ग्रहणेः । सर्वं सहा पतितमम्बु न चातकस्य हितम्हितम् इति शास्त्राः भूस्पृष्टोदकस्य तेषां रोगहेतुत्वादन्तराल एव स्वीकारे । च तुरांश्चातकान्वीक्षमाणाः कौतुकात्पश्यन्तः श्रेणीभूता बद्धपङ्क्तिः ॥ अभूततद्भावे च्विः ॥ बलाका बकपङ्कीः परिगणनयैका द्वे तिस्र इति सङ्ख्यानेन निर्दिशन्तो हस्तेन , दर्शयन्तः सिद्धाः स्तनितसमये त्वद्गर्जितकाले सोत्कम्पाः न्युत्कम्पपूर्वकाणि प्रियसहचरीणां सम्भ्रमेणालिङ्गितान्याः साद्य । स्वयं ग्रहणा श्लेषसुखमनुभूयेत्यर्थः ॥ त्वां मानायष्यन्ति । त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥
उत्पश्यामीति ॥ हे सखे मेघ , मत्प्रियार्थं यथा तथा द्रुतं क्षिप्रम् ॥ लघु क्षिप्रमरं द्रुतम् द्रुतम् इत्यमरः ॥ यियासोर्यातुमिच्छोरपि ॥ यातेः सन्नन्तादुप्रत्ययः ॥ ते तव ककुभैः कुटजकुसुमैः सुरभौ सुगन्धिनि ॥ ककुभः कुजेऽर्जुने कुजेऽर्जुने इति शब्दार्णवे ॥ पर्वते पर्वते प्रतिपर्वतम् ॥ वीप्सायां द्विरुक्तिः ॥ कालक्षेपं कालविलम्बम् ॥ क्षेपो विलम्बे निन्दायाम् इति विश्वः ॥ उत्पश्याम्युत्प्रेक्षे ॥ विलम्ब हेतुं दर्शयन्नाशुगमनं प्रार्थयते -शुक्लेति ॥ सजलानि सानन्दबाष्पाणि नयनानि येषां तैः शुक्लापाङ्गैर्मयूरैः ॥ मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः इति यादवः ॥ केकाः स्ववाणीः ॥ केका वाणी मयूरस्य इत्यमरः ॥ स्वागतीकृत्य स्वागतवचनीकृत्य प्रत्युद्यातः प्रत्युद्भवः । मयूरवाणीकृतातिथ्य इत्यर्थः । भवान्कथमपि यथाकथञ्चिदाशु गन्तुं व्यवस्पेदुद्युञ्जीत ॥ प्रार्थने लिङ् । शेषे प्रथमः इति प्रथमपुरुषः । शेषश्चायं भवच्छब्दो युष्मदस्मच्छब्दव्यतिरेकात् ॥ स्वागतीकृत्य केकाः इत्यत्र केकास्वारोप्यमाणस्य स्वागतवञ्चनस्य प्रकृतप्रत्युद्गमनोपयोगात्परिणामालङ्कारः । तदुक्तमलङ्कार सर्वस्वे - आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः इति ॥
वल्लभदेवव्याख्या
अस्मद्धितार्थं त्वरितमपि जिगमिषोस्तव ककुभकुसुममुगन्धौ सर्वस्मिन्नद्रौ तवाहं कालहारमुत्पश्याम्युत्प्रेक्षे । कुत इत्याह । यस्मात्प्रियमित्रैः शुक्लापाङ्गैर्मयूरैः सनयमजलैर्नेत्रोदकयुक्तैः केकाः स्वागतीकृत्य वाग्भिः स्वागतं कृत्वा प्रत्युद्गत इत्युक्तिप्रत्युक्तिवशात्कालक्षेपः । अतश्चार्थये त्वाम् । अस्मदर्थं कथमपि भवान्गन्तुं व्यवस्येद्व्यायामं कुर्यात् । अहमार्तस्त्वं चोन्नत इति भावः । सनयनजलत्वमत्र चिरेण मित्रालोकनात् ॥
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर्-
नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः
सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः॥१।२३॥
सूचिभिन्नैः = मुकुलाग्रविकसितैः (सूच्या गर्भकण्टकेन भिन्नैर्विदारितैः । तेषां ह्यन्तःस्था सूचिर्भित्त्वा विनिर्याति)। केतकैः = केतकीपुष्पैः । पाण्डुच्छायोपवनवृतयः = पीतशोभान्वितोद्यानावरणाः, पीतवर्णोद्यानप्राचीरयुताः । गृहबलिभुजाम् = काकादिग्रामपक्षिणाम् । आकुलग्रामचैत्याः = सङ्कीर्णग्रामवृक्षाः, व्याप्तग्राममार्गवृक्षाः (आकुलानि ग्रामेषु चैत्यानि येषु, ते तथोक्ताः । आकुलः = सङ्कीर्णः) ।
सञ्जीवनी
पाण्ड्विति ॥ हे मेघ , त्वय्यासने सन्निकृष्टे सति दशार्णो नाम जनपदाः सूचिभिन्नैः सूचिषु मुकुलाग्रेषु भिन्नैर्विकसितैः ॥ केतकी मुकुलाग्रेषु सूचिः स्यात् इति शब्दार्णवे ॥ केतकैः केतकीकुसुमैः पाण्डुच्छाया हरितवर्णा उपवनानां वृतयः कण्टकशाखावरणा येषु ते तथोक्ताः ॥ प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृतिः इत्यमरः ॥ तथा गृहबलिभुजां काकादिग्रामपक्षिणां नीडारम्भैः कुलाय निर्माणैः ॥ कुलायो नीडमस्त्रियाम्नीडमस्त्रियाम्इत्यमरः ॥ चित्याया इमानि चैत्यानि रथ्यावृक्षाः ॥ चैत्यमायतने बुद्धबन्द्ये चोदेशपादपे चोदेशपादपे इति विश्वः ॥ आकुलानि सङ्कीर्णानि ग्रामेषु चैत्यानि येषु ते तथोक्ताः । तथा परिणतैः पक्कैः फलैः श्यामानि यानि जम्बूवनानि तैरन्ता रम्याः ॥ मृताववसिते रम्ये समाप्तावन्त इष्यतेइष्यते इति शब्दार्णवे ॥ तथा कतिपयेष्वेव दिनेषु स्थायिनो हंसा येषु ते तथोक्ता एवंविधाः सम्पत्स्यन्ते भविष्यन्ति ॥ पोटायुवतिस्तोककतिपय - इत्यादिना कविपयशब्दस्योत्तरपदत्वेऽपि न तच्छब्दस्योत्तरत्वमस्त्यस्य शास्त्रस्य प्रायिकत्वात् ॥
वल्लभदेवव्याख्या
त्वयि निकटे सति दशार्णाख्या जनपदा एवंविधाः संपत्स्यन्ते भविष्यन्ति । कीदृशाः । केतकैः पुष्पैः पाण्डुच्छायाः शुक्लशोभा उपवनवृतय उद्यानकण्ठ्यो येषाम् । मितत्वात्केतकानाम् । सूच्या गर्भकण्टकेन भिन्नैर्विदारितैः । तेषां ह्यन्तःस्था सूचिर्भित्त्वा विनिर्याति । तथा गृहबलिभुजां काकानां नीडारम्भैरालयक्रमैराकुलानि व्याप्तानि ग्रामचैत्यानि येषु । वर्षभयाद्धि पक्षिणः प्रावृषि नान्यत्र निर्यान्ति । चैत्यं बुद्धालयः । यदि वा महाभोगप्रज्ञाततमो वनस्पतिश्चैत्यः । तथा फलानां परिणत्या पाकेन श्यामा जम्बूवनान्ता यत्र । कपित्थानीव हि जम्बूफलानि पाकेन श्यामायन्ते । कतिपयदिनस्थायिनश्च हंसा येषु । मेघालोके मानसगमनात् ॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि॥१।२४॥
अविकलं = सम्पूर्णम् । फलं = प्रयोजनम् । सभ्रूभङ्गं = भ्रूभङ्गेन सह वर्तमानम् (कामोद्दीपकमित्यर्थः) । चलोर्मि = तरङ्गितम् । प्रथितविदिशालक्षणां = विदिशा इति प्रसिद्धनामधेयाम् । वेत्रवत्याः = वेत्रवत्याख्यानद्याः । कामुकत्वस्य = विलासितायाः । तीरोपान्तस्तनितसुभगं = तटप्रान्तगर्जितमनोहरम् ।
सञ्जीवनी
तेषामिति ॥ दिक्षु प्रथितं प्रसिद्धं विदिशेति लक्षणं नामधेयं यस्यास्ताम् ॥यस्यास्ताम् लक्षणं नाम्नि चिन्हे च इति विश्वः ॥ तेषां दशार्णानां सम्बन्धिनीं ।धीयन्तेऽस्यामिति धानी ॥ करणाधिकरणयोश्च इति ल्युट् ॥ राज्ञां धानी राजधानी ॥ कृद्योगलक्षणा षष्ठी समस्यतेसमस्यते इति वक्तव्यात्समासः ॥ तां प्रधाननगरीम् ॥ प्रधाननगरी राज्ञां राजधानीति कथ्यतेकथ्यते इति शब्दार्णवे ॥ गत्वा प्राप्य सद्यः कामुकत्वस्य विलसितायाः ॥ विलासी कामुकः कामी स्त्रीपरो रतिलम्पटः इति शब्दार्णवे ॥ अविकलं समग्रं फलं प्रयोजनं लब्धा लप्स्यते । त्वयेति शेषः ॥ कर्मणि लुट् ॥ कुतः । यस्मात्कारणात्स्वादुः मधुरम् । चला ऊर्मयो यस्य तच्चलोर्मि तरङ्गितं वेत्रवत्या नाम नद्याः पयः सभ्रूभङ्ग भ्रुकुटियुक्तम् ।भ्रुकुटियुक्तम् दशनपीडयेति भावः । मुखमिवाधरमिवेत्यर्थः । तीरोपान्ते तटप्रान्ते यत्स्तनितं गर्जितं तेन सुभगं यथा तथा स्तनितशब्देन भणितमपि व्यपदिश्यते । ऊर्ध्वमुच्चलितकण्ठनासिकं हुङ्कृतं स्वनितमल्पघोषवत्स्वनितमल्पघोषवत्इति लक्षणात् ॥लक्षणात् पास्यसि । पिबतेरॢट् ॥ कामिनामधरास्वादः सुरतादतिरिच्यते सुरतादतिरिच्यते इति भावः ॥
वल्लभदेवव्याख्या
तेषां दशार्णानां विदिशाख्यां राजधानीं गत्वा तत्क्षणमविकलं परिपूर्णं कामुकत्वस्य फलं त्वं लब्धा प्राप्स्यसि । कुत इत्याह । यद्यस्माद्वेत्रवत्याः सरितस्तदेवंविधं पयः पास्यमि । कीदृशम् । तीरोपान्ते स्तनितेन पक्षिकूजितेन स्खलितेन वा सुभगं सुन्दरं स्वादु रुच्यं चलोर्मि स्खलितवीचि । अत एव सभ्रूभेदेन मुखेन तुल्यम् । अत एव कामित्वफललाभः । कामी हि कामिन्याः कुटिलभ्रु वक्त्रं स्वादु धयति । ऊर्मीणां भ्रुव उपमानम् । यदिति हेतुपदम् । तदिति पयोनिर्देशः । विदिशाशब्दः पृषोदरादिः । लक्षणं नाम । लब्धेति तृन्नन्तः ॥
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्-
त्वत्सम्पर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम्
उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि॥१।२५॥
विश्रामहेतोः = मार्गायासापनयनार्थम् । प्रौढपुष्पैः = विकसितकुसुमैः । कदम्बैः = नीपवृक्षैः । पुलकितं = सञ्जातरोमाञ्चम् । पण्यस्त्रीरतिपरिमलोद्गारिभिः = वेश्याणां रमणसौरभमुद्गिरद्भिः, वेश्यारमणसुगन्धप्रसारिभिः । शिलावेश्मभिः = प्रस्तरगृहैः (कन्दरैः, गुहाभिः) । उद्दामानि = उत्कटानि (यौवनानि) । प्रथयति = प्रकटयति ।
सञ्जीवनी
नीचैरिति ॥ हे मेव , तत्र विदिशासमीपे । विश्रामो विश्रमः खेदापनयः ॥ भावार्थे घञ्प्रत्ययः ॥ तस्य हेतोः । विश्रामार्थमित्यर्थः ॥ षष्ठी हेतुप्रयोगे हेतुप्रयोगेइति षष्ठी ॥ विश्रामेत्यत्र नोदात्तोपदेशस्य मान्तस्यानाच मेः इति पाणिनीये वृद्धिप्रतिषेधेऽपि विश्रामो वा इति चन्द्रव्याकरणे विकल्पेन वृद्धिविधानादूपसिद्धिः ॥ प्रौढपुष्पैः प्रबुद्धकुसुमैः कदम्बैनीपवृक्षैस्त्वत्सम्पर्कात्तव सङ्गात् । पुलका अस्य जाताः पुलकितमिव सञ्जातपुलकमिव स्थितम् ॥ तारकादित्वादितच्प्रत्ययः ॥ नीचैरित्याख्या यस्य तं नीचैराख्यं गिरिमधिवसेः । गिरौ वसेरित्यर्थः ॥ उपान्वध्याङ्वसः इति कर्मत्वम् ॥कर्मत्वम् यो नीचैर्गिरिः । पण्याः क्रेयाः स्त्रियः पण्यस्त्रियो वेश्याः ॥ वारस्त्री गणिका वेश्या पण्यस्त्री रूपजीविनी इति शब्दार्णवे ॥ तासां रतिषु यः परिमलो गन्धविशेषः ॥ विमर्दोत्थे परिमलो गन्धे जनमनोहरेजनमनोहरे इत्यमरः । तमुद्गिरन्त्याविष्कुर्वन्तीति तथोक्तानि तैः । शिलावेश्मभिः कन्दरैर्नागराणां पौराणामुद्दामान्युत्कटानि यौवनानि प्रथयति प्रकटयति ॥ उत्कटयौवनाः क्वचिदनुरक्ता वाराङ्गना विश्रम्भविहाराका ड्क्षिण्यो मात्राद्दिभयान्निशथिसमये कञ्चन विविक्तं देशमाश्रित्य रमन्ते । तच्चात्र बहुलमस्तीति प्रसिद्धिः ॥ अत्रोद्वारशब्दो गौणार्थत्वान्न जुगुप्सावहः । प्रत्युत काव्यस्यातिशोभाकर एव । तदुक्तं दण्डिना निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥ इति ॥
वल्लभदेवव्याख्या
कौबेरीमाशां तव यियासोरुज्जयिनीं प्रति यद्यपि वक्रः पन्थाः कुटिलोऽध्वा तथाप्युज्जयिन्याः सौधोत्सङ्गप्रणयविमुखो हर्म्याङ्कोपभोगवितृष्णो मा भूः । अवश्यं गच्छेरित्यर्थः । यस्मात्तत्र नागरिकाणां नेत्रविभ्रमैर्यदि न रमसे न क्रीडसे तद्वञ्चितोऽसि । द्रष्टव्यादर्शनात् । कीदृशीः । विद्युद्दामस्फुरितचकितैः शम्पागुणविलसनत्रस्तैः । तथा लोलापाङ्गैश्चतुरपर्यन्तैः ॥
विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्न्-
उद्यानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम्॥१।२६॥
विश्रान्तः = कृतविश्रामः । उद्यानानाम् = आरामाणाम् । यूथिकाजालकानि = मागधीपुष्पमुकुलानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां = कपोलघर्मसलिलदूरीकरणविमर्दम्लानस्रोत्रकमलान् (गण्डयोः स्वेदस्य अपनयने या रुजा तया क्लान्तानि कर्णयोः उत्पलानि येषां, तेषाम्) । पुष्पलावीमुखानां = कुसुमावचायिकानां स्त्रीणाम् । छायादानात् = आतपनिवारणात् । क्षणपरिचितः = किञ्चित्कालम् ।
सञ्जीवनी
विश्रान्त इति ॥ विश्रान्तः संस्तत्र नीचैर्गिरौ विनीताध्वश्रमः सन् । अथ विश्रान्तेरनन्तरम् । वनेऽरण्ये या नद्यस्तासां तीरेषु जातानि स्वयंरूढानि । अकृत्रिमाणीत्यर्थः ॥ नदनदी - इति पाठे पुमान्स्त्रिया इत्येकशेषो दुर्वारः ॥ तेषामुद्यानानामारामाणां सम्बन्धीनि यूथिकाजालकानि मागधीकुसुममुकुलानि ॥ अथ मागधी । गणिका यूथिका इत्यमरः ॥ कोरकजालककलिका कुड्मलमुकुलानि तुल्यानि इति हलायुधः ॥ नवजलकणैः सिञ्चन्नाद्रकुर्वन् ॥ अत्र सिञ्चतेराद्रीकरणार्थत्वाद्द्रवद्रव्यस्य करणत्वम् । यत्र तु क्षरणमर्थस्तत्र द्रवद्रव्यस्य कर्मत्वम् । यथा रेतः सिक्त्वा कुमारीषु कुमारीषु । सुखैर्निषिञ्चन्तमिवामृतं त्वचि इत्येवमादि । एवं किरतीत्यादीनामपि रजः किरति मारुतः । अवाः किरन्वयोवृद्धास्तं लाजैः पौरयोषितः इत्यादिष्वर्थभेदाश्रयणेन रजोलाजादीनां कर्मत्वकरणत्वे गमयितव्ये ॥ तथा गण्डयोः कपोलयोः स्वेदस्यापनयनेन प्रमार्जनेन या रुजा पीडा ॥ भिदादित्वादङ्प्रत्ययः ॥ तया क्लान्तानि म्लानानि कर्णोत्पलानि येषां तेषां तथोक्तानाम् । पुष्पाणि लुनन्तीति पुष्पलाव्यः पुष्षावचायिकाः खियः ॥ कर्मण्यण् । टिड्ढाणञ्-टिड्ढाणञ् इत्यादिना ङीप् । तासाम्मुखानाम् । छायाया अनातपस्य दानात् । कान्तिदानञ्च ध्वन्यते ॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः इत्यमरः ॥ कामुकदर्शनात्कामिनीनां मुखानेकाशो भवतीति भावः ॥ क्षणपरिचितः क्षणं संसृष्टः सन् ।सन् न तु चिरम् ।चिरम् गच्छ ॥
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां
सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ।
विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां
लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि॥१।२७॥
उत्तराशाम् = उदीचीदिशम् । सौधोत्सङ्गप्रणयविमुखः = धवलभवनोर्ध्वभागपरिचयपराङ्गमुखः (उत्सङ्गः = उपरि भागः । प्रणयः = परिचयः) । विद्युद्दामस्फुरितचकितैः = तडिल्लतास्फुर्णभीतैः । लोलापाङ्गैः = चञ्चलकटाक्षैः (लोला = चञ्चला) ।
सञ्जीवनी
वक्र इति ॥ उत्तराशामुदीचीं दिशं प्रति प्रस्थितस्य -भवतः पन्था उज्जयिनीमार्गो वक्रो यदपि । दूरो यद्यपीत्यर्थः । विन्ध्यादुत्तरवाहिन्या निर्विन्ध्यायाः प्राग्भागे कियत्यपि दूरे स्थितोज्जयिनी । उत्तरपथस्तु निर्विन्ध्यायाः पश्चिम इतिवक्रत्वम् ॥ तथाप्युज्जीयन्या विशालनगरस्य ॥ वि शालोज्जयिनी समा इत्युत्पलः । सौधानामुत्सङ्गेषूपरिभागेषु प्रणयः परिचयः ॥ प्रणयः स्यात्परिचये यात्रायां सौहृदेऽपि च इति यादवः ॥ तस्य विमुखः पराङ्मुखो मा स्म भूः । न भवेत्यर्थः ॥ स्मोत्तरे लङ् च इति चकारादाशीरर्थे लङ् । न माङ्योगेमाङ्योगे इत्यडागमप्रतिषेधः ॥ तत्रोज्जयिन्यां विद्युद्दाम्नां विद्युलतानां स्फुरितेभ्यः स्फुरणेभ्यश्च कितैर्लोलापाङ्गैश्चञ्चलकटाक्षैः पौराङ्गनानां लोचनैर्न रमसे यदि तर्हित्वं वञ्चितः प्रतारितोऽसि । जन्मवैफल्यं भवेदित्यर्थः ॥ सम्प्रत्युज्जयिनीं गच्छतस्तस्य मध्येमार्गं निर्विन्ध्यासम्बन्धमाहस्या
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु॥१।२८॥
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः = तरङ्गचलनेन मुखरपक्षिणां पङ्क्तिरूपरसनागुणयुक्तायाः । स्खलितसुभगं = मदस्खलमनोहरम्, उपस्खलमनोहरम् । रसाभ्यन्तरः = जलाभ्यन्तरः, शृङ्गारेण अन्तरङ्गश्च (रसः अभ्यन्तरे यस्य, सः) । विभ्रमः = विलासः । सन्निपत्य = सङ्गत्य (आलिङ्ग्य)।
सञ्जीवनी
वीचीति ॥ हे सखे,सखेपथ्युज्जयिनीपथे वाचिक्षोभेण
तरङ्गन्चलनेन स्तनितानां मुखराणाम् ॥ कर्तरि क्तः ॥ विहगानां हंसानां श्रेणिः पङ्तिरेव काञ्चीगुणो यस्यास्तस्याः स्खलितेनोपस्खलनेन मदस्खलितेन च सुभगं यथा तथा संसर्पन्त्याः प्रवहन्त्या गच्छन्त्याश्च तथा दर्शितः प्रकटित आवर्तेऽम्भसां भ्रम एव नाभिया ॥ दावर्तोऽम्भसां भ्रमः इत्यमरः ॥ निष्क्रान्ता विन्ध्यानिर्विन्ध्या नाम नदीम् ॥नदीम् निरादयः क्रान्ताद्यर्थे पञ्चम्याः इति समासः । द्विगुप्राप्ता पन्नालम्-पन्नालम् इत्यादिना परवल्लिङ्गताप्रतिषेधः ॥ तस्या नद्याः सन्निपत्य सङ्गत्य । रसो जलमभ्यन्तरे यस्य सः । अन्यत्र रसेन शृङ्गारेणाभ्यन्तरोऽन्तरङ्गो भव । सर्वथा तस्या रसमनुभबेत्यर्थः ॥ शृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ ॥ आस्वादे च रसं प्राहुः इति शब्दार्णवे ॥ ननु तत्प्रार्थनामन्तरेण कर्थं तत्रानुभवो युज्यत इत्यत आह -स्त्रीणामिति ॥ स्त्रीणां प्रियेषु विषये विभ्रमो विलास एवाद्यं प्रणयवचनं प्रार्थनावाक्यं हि । स्त्रीणामेष स्वभावो यद्विलासैरेव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्रमश्चात्र नाभिसन्दर्शनादिरुक्त एव ॥ निर्विन्ध्याया विरहावस्थां वर्णयंस्तन्निराकरणं प्रार्थयते ।
वल्लभदेवव्याख्या
इदानीमुज्जयिनीमार्गोपदेशमाह । …
निर्विन्ध्याख्या नदी । तस्याः पथि प्रवाहे संनिपत्य संश्लिष्य रसाभ्यन्तरो भव पानीयगर्भः स्याः । अपः पिबेरित्यर्थः । अथ च रमाभ्यन्तरः शृङ्गारवासितो भवेरिति वक्रोक्तिः । तां कामयेथा इत्यर्थः । कामिनीसाधर्म्यमाह । कीदृश्यास्तस्याः । वीचिक्षोभण कल्लोलकम्पेन स्तनिता कोकूयमाना या विहगश्रेणी पक्षिमाला सैव काञ्चीगुणो रशनादाम यस्याः । तथाभ्यादौ स्खलितेन परिलुठितेन सुभगं सुन्दरं संसर्पन्त्या वहन्त्याः । तथा दर्शितावर्त एव नाभिर्यस्या तस्याः । आह्वानाभावे कथं मम रागिता युक्तेत्याह । नारीणां विभ्रमो विलास एव यस्मात्प्रियेषु प्रणयवचनं प्रार्थनावचः प्रीतिवाक्यं वा । यदालोकनवशादानानां विभ्रमाः प्रवर्तन्ते तैरेवासावभ्यर्थितो भवेत् । साक्षात्तु तासां प्रार्थना लाघवकारिणी । अत्र चावर्तनाभिदर्शनादिको विलासः प्रवृत्त एव ॥
वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः
पाण्डुच्छायातटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः॥१।२९॥
वेणीभूतप्रतनुसलिला = वेण्याकारस्वल्पजला (वेणीभूतं प्रतनु सलिलं यस्याः सा) । तटरुहतरुभ्रंशिभिः = तीरोत्पन्नवृक्षस्रंसिभिः । जीर्णपर्णैः = शुष्कपत्रैः । अतीतस्य = प्रोषितस्य । व्यञ्जयन्ती = प्रकाशयन्ती । उपपाद्यः = कर्तव्यः, सम्पादनीयः ।
सञ्जीवनी
वेणीति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं यस्याः सा तथोक्ता । अन्यत्र वेणीभूत केशपाशेति च ध्वन्यते । रुहन्तीति रुहाः ॥ इगुपधलक्षणः कप्रत्ययः ॥ तटयो रुहा ये तरवस्तेभ्यो भ्रश्यन्तीति तथोक्तैः । जीर्णपर्णैः शुष्कपत्रैः पाण्डुच्छाया पाण्डुवर्णा । अत एव हे सुभग , विरहावस्थया पूर्वोक्तप्रकारया करणेन ॥ अतीतस्यैतावन्तं कालमतीत्य गतस्य । प्रोषितस्येत्यर्थः । ते तव सौभाग्यं सुभगत्वम् ॥सुभगत्वम् हृद्वगसिन्ध्वन्ते पूर्वपदस्य च इत्युभयपदवृद्धिः ॥ व्यञ्जयन्ती प्रकाशयन्ती । स खलु सुभगो यमङ्गनाः कामयन्त इति भावः । असौ पूर्वोक्ता सिन्धुर्नदी निर्विन्ध्या ॥ स्त्री नद्यां ना नदे सिन्धुर्देशभेदेऽम्बुधौ गजेगजेइति वैजयन्ती ॥ येन विधिना व्यापारेण कार्य त्यजति स विधिस्त्वयैवोपपाद्यः । कर्तव्य इत्यर्थः । स च विधिरेकत्र वृष्टिरन्यत्र सम्भोगस्तदभावनिबन्धनत्वात्कार्शस्येति भावः ॥ इयं पञ्चमी मदनावस्था । तदुक्तं रतिरहस्ये नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैवस्युः ॥ इति ॥ तामतीतस्य इति पाठमाश्रित्य सिन्धुर्नाम नद्यन्तरमिति व्याख्यातम् ।व्याख्यातम् किन्तु सिन्धुर्नाम कश्वचिन्नदः काश्मीरदेशेऽस्ति । नदी तु कुत्रापि नास्तीत्युपेक्ष्यमित्याचक्षेत ॥
वल्लभदेवव्याख्या
हे सुभग तां निर्विध्यां कार्श्यं कर्तृ येन विधिना प्रकारेण प्रकृतिस्थं त्यजति स विधिर्भवतैव संपाद्यः । वर्षेस्तत्रेवेत्यर्थः । एवं हि तोयपूरागमान्नदी कृशा न भवति । कस्मात्कार्श्यत्यागाय तत्र वर्षामीत्याह । यतसतवातीतस्य विरहावस्थया सौभाग्यं वाज्जभ्यं व्यञ्जयन्तीं कथयन्तीम् । तथा हि त्वद्विरहेण वेणीभूतं प्रतनुत्वात्सलिलं यस्याः । वेणी केशपाशः । तथा तटरुहेभ्यस्तीरजेभ्यस्तरुभ्यो भ्रष्टैर्जीर्णपर्णैःर्जर्जरकिसलयैः पाण्डुरीभुताम् । प्रियविरहे हि नारी तनुः पाण्डुश्च भवति ॥
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्
पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम्॥१।३०॥
स्वल्पीभूते = अल्पावशिष्टे । गां = भूमिम् । खण्डं = शकलम् । दिवः = नाकस्य ।
सञ्जीवनी
प्राप्येति ॥ विदन्तीति विदाः ॥ इगुपधलक्षणः कः ॥ ओकसो वेद्यस्थानस्य विदाः कोविदाः ॥ ओकारलुप्ते ष्टषोदरादित्वात्साधुः ॥ उदयनस्य वत्सराजस्य कथानां ॥ वासवदत्ता हरणाद्यद्भुतोपाख्यानानां कोविदास्तत्त्वज्ञा ग्रामेषु ये वृद्वास्ते सन्ति येषु तानवन्तींस्तन्नामजनपदान्प्राप्य तत्र पूर्वोद्दिष्टां पूर्वोक्तां सौधोत्सङ्गमणयविमुखो मा स्म भूरुन्जयिन्याः इत्युक्तां श्रीविशालां सम्पत्तिमहतीम् ॥ शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यतेदृश्यते इति १। शाश्वतः ॥ विशालां पुरीमुज्जयिनीमनुसर व्रज ॥ कथमिव स्थिताम् । सुचरितफले पुण्यफले स्वर्गोपभोगलक्षणे स्वल्पीभूते । अत्यल्पावशिष्टे सतीत्यर्थः । गां भूमिं गतानाम् ॥ गौरिला कुम्भिनी क्षमा इत्यमरः ॥ पुनरपि भूलोकगतानामित्यर्थः । स्वर्गिणां स्वर्गवतां जनानां शेषभुङ्क्तशिष्टैः पुण्यैः सुकृतैर्हृतमानीतम् ।सुकृतैर्हृतमानीतम् स्वर्गार्थानुष्ठितकर्मशेषाणां स्वर्गदानावश्यम्भावादिति भावः । कान्ति रस्यास्तीति कान्तिमदुज्ज्वलम् । सारभूतमित्यर्थः । एकं भुक्तादन्यत् ॥ एके मुख्यान्यकेवलाः इत्यमरः ॥ दिवः स्वर्गस्य खण्डमिव स्थितामित्युत्प्रेक्षा । एतेनातिक्रा न्तसकल भूलोकनगर सौभाग्यसारत्वमुज्जयिन्या व्यज्यते ॥
वल्लभदेवव्याख्या
ततोऽवन्तीनाम जनपदानासाद्य पूर्वोद्दिष्टां पूर्वोक्तां नगरीमुज्जयिनीमनुसर गच्छ । कीदृशांस्तान् । उदयनकथा बृहत्कथावत्सराजवृत्तान्तः । तत्र कोविदाः प्रवीणा ग्रामवृद्धाश्चिरन्तना येषु । तस्य तत्र वर्णनीयत्वात् । पुरीं कीदृशीम् । श्रिया ऋद्ध्या विशालामनल्पां विविधाश्च शाला यस्यास्ताम् । यां चोत्पेक्षामहे । दिव एकं भास्वरं खपदमिव । स्वर्गैकदेशस्य कस्तवागम इत्याह । स्वर्गिणां पुण्यवतं सुचरितफले सुकृतफले उपभुक्तत्वादल्पीभूते किंचिच्छिष्टे सति गां गतानां भुवं प्राप्तानां पुण्यशेषेणाहतं भुवमानीतं मूर्तिमत्स्वर्गखण्डमिवेत्यर्थः । अवन्तीनां निवासो जनपदोऽवन्तयः ॥ ३० ॥
दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः॥१।३१॥
मदकलं = मदादव्यक्तमधुरम्, moan । दीर्घीकुर्वन् = विस्तारयन्निति भावः । स्फुटितकमलामोदमैत्रीकषायः = विकसितराजीवसुरभिसम्पर्कसुरभिः । सुरतग्लानिं = सम्भोगखेदम् । प्रार्थनाचाटुकारः = समागमयाचनायां मधुरवचनप्रोयोक्ता प्रियतमः । पटु = प्रस्फुटम् ।
सञ्जीवनी
दीर्घीकुर्वन्निति ॥ यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु ॥ प्रत्यूषोऽहर्मुखं कल्यम्कल्यम्इत्यमरः ॥ पटु प्रस्फुटम् । मदकलं मदेनाव्यक्तमधुरम् ॥ ध्वनौ तु मधुरास्फुटे । कलः इत्यमरः ॥ सारसानां पक्षिविशेषाणाम् ॥ सारसो मैथुनी कामी गोनर्दः पुष्कराष्ट्र्यः इति यादवः ॥ यद्वा सारसानां हंसानाम् ॥ चक्राङ्गः सारसो हंसः इति शब्दार्णवे ॥ कूजितं रुतं दीर्घीकुर्वन् । विस्तारयन्नित्यर्थः । यावद्वातं शब्दानुवृत्तेरिति भावः । एतेन प्रियतमः स्वचाटुवाक्यानुसारि क्रीडापक्षिकूजितमविच्छिन्नी कुर्वन्नितिच गम्यते । स्फुटितानां विकसितानां कमलानामामोदेन परिमलेन सह या मैत्री संसर्गस्तेन कषायः सुरभिः ॥ रागद्रव्ये कषायोऽस्त्री निर्यासे सौरभे रसेरसे इति यादवः ॥ अन्यत्रः विमर्दगन्धीत्यर्थः ॥ विमर्दोत्थे परिमलो गन्धे जन मनोहरे । आमोदः सोऽतिनिर्हारी इत्यमरः ॥ अङ्गानुकूलो गात्रसुखस्पर्शः । अन्यत्र गाढालिङ्गनदत्तगात्र संवाहन इत्यर्थः । भवभूतिना चोक्तं - अशिथिलपरिरम्मैदेत्तसंवाहनानि इति ॥ संवाह्यन्ते च सुरतश्रान्ताः प्रियैयुवतयः । एतत्कविरेव वक्ष्यति - सम्भोगान्ते मम समुचितो हस्तसंवाहनानाम् हस्तसंवाहनानाम्इति ॥ शिप्रा नाम काचित्तत्या नदी तस्या वातः शिप्रावातः ॥ शिप्राग्रहणं शैत्यद्योतनार्थम् ॥ प्रार्थना सुरतस्य याञ्चा तत्र चाटु करोतीति तथोक्तः । पुनः सुरतार्थं प्रियवचन प्रयोक्तेत्यर्थः ॥ कर्मण्यण्प्रत्ययः ॥ प्रियतमो वल्लभ इव स्त्रीणां सुरतग्लानिं सम्भोगखेदं हरति नुदति । चाटूक्तिभिर्विस्मृतपूर्व रतिखेदाः स्त्रियः प्रियतमप्रार्थनां सफलयन्तीति भावः ॥ प्रार्थनाचाटुकारः इत्यत्र खण्डितनायिकानुनीता इति व्याख्याने सुरत ग्लानिहरणं न सम्भवति । तस्याः पूर्वं सुरताभावात्पश्चात्तनसुरतग्लानिहरणं तु नेदानीन्तन कोपशमनार्थं चाटुवचनसाध्यमित्युत्प्रेक्षैवोचिता विवेकिनाम् ॥ ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता इति दशरूपके ॥
वल्लभदेवव्याख्या
यत्रोज्जयिन्यां कामिनीनां सिप्रासरिदनिलः सुरतग्लानिं मोहनखेदं हरत्यपास्यति । कीदृशः । सारसानां लक्ष्मणानां मदेन मधुरं स्फुटं च कूजितं दी|कुर्वन्प्रमारयन् । तथा प्रभातेषु स्फुटितानि विकसितानि यानि कमलानि तेषामामोदः सौरभं तस्य मैत्र्या संपर्केण कषायः कषायरसयुक्तः । भावित इत्यर्थः । अङ्गानुकूलो गात्रसुखकारी । शीतलसुरभित्वात् । क इव हरतीत्याह । प्रार्थनया चाटुकारः प्रियकृत्प्रेयान्यथा कामिन्या अङ्गग्लानिमपहरति । सिप्राख्योज्जयिन्यां नदी ॥ ३१ ॥
हारांस्तारांस्तरलगुटिकान् कोटिशः शङ्खशुक्तीः
शष्पश्यामान् मरकतमणीनुन्मयूखप्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान्
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः॥१।३१॥
प्रक्षिप्तम् । पश्य १।३२
विपणिरचितान् = पण्यवीथिकाप्रसारितान् (रचितः = न्यस्तः, निहितः, प्रदर्शितः, प्रसारितः) । तरलगुटिकान् = मध्यमणीभूतमहारत्नान् । तारान् = शुद्धान् । शष्पश्यामान् = बालगृणवद्धरितवर्णान् । संलक्ष्यन्ते = दृश्यन्ते । भङ्गान् = शकलान् । विद्रुमाणां = प्रवालानाम् (coral) ।
सञ्जीवनी
इतः परं प्रक्षिप्तमपि व्याख्यायते ॥
हारानिति ॥ यस्यां विशालायां कोटिशो विपणिषु
पण्यवीथिकासु । विपणिः पण्यवीथिका इत्यमरः ॥ रचितान्प्रसारितान् ॥ इदं विशेषणं यथालिङ्गं सर्वत्र सम्बध्यते ॥ ताराञ्छ्रुद्धान् ॥ तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके इति विश्वः ॥ तरलगुटिकान्मध्यमणीभूतमहारत्नान् ॥ तरलो हारमध्यगः इत्यमरः ॥ पिण्डे मणौ महारत्ने गुटिका बद्धपारदेबद्धपारदे इति शब्दार्णवे । हारान्मुक्तावलीः । तथा कोटिशः शङ्खांश्च शुक्तीश्च मुक्तास्फोटांश्च ॥ मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ इत्यमरः ॥ शष्पं बालतृणं तद्वच्छयामान् ॥ शष्पं बालतृणं घासो यवसं तृणमर्जुनम् तृणमर्जुनम् इत्यमरः ॥ उन्मयूखमरोहानुद्गतरम्याङ्करान्मरकतमणीन्गारुडरत्नानि । तथा निद्रुमाणां भङ्गान्प्रवालखण्डांश्च दृष्ट्वा सलिलनिधयः समुद्रास्तोयमाश्रमवशेषो येषां ते तादृशाः संलक्ष्यन्ते । तथानुमीयन्त इत्यर्थः । रत्नाकरादप्यतिरिच्यते रत्न सम्पद्विरिति भावः ॥
प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे
हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः ।
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-
दित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः॥१।३१॥
प्रक्षिप्तम् । पश्य १।३२
रमयति = विनोदयति । स्तम्भम् = आलानम् ।
सञ्जीवनी
इतः परं प्रक्षिप्तमपि व्याख्यायते ॥
प्रद्योतस्येति ॥ अत्र प्रदेशे वत्सराजो वत्सदेशाधीश्वर उदयनः । प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः प्रियदुहितरं वासवदत्तां जहे जहार । अत्र स्थले तस्यैव राज्ञ प्रद्योतस्य हैमं सौवर्णं तालद्रुमवनमभूत् ।तालद्रुमवनमभूत् अत्र नलगिरिर्नामेन्द्रदत्तस्तदयो गजो दर्पान्मदात्स्तम्भमालानमुत्पाट्योद्धृत्योद्भ्रान्त उत्पत्य भ्रमणं कृतवान् । इतीत्थम्भूताभिः कथाभिरित्यर्थः । अभिज्ञः पूर्वोक्तकथाभिज्ञः कोविदोजन आगन्तून्देशान्तरादागतान् ॥ औणादिकस्तुन्प्रत्ययः ॥ -बन्धून्यत्र विशालायां रमयति विनोदयति ॥ अत्र भाविकालङ्कारः । तदुक्तं - अतीतानागते यत्र प्रत्यक्षत्वेन लक्षिते । अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ॥तदुदाहृतम् इति ॥
जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा
लक्ष्मीं पश्यँल्ललितवनितापादरागाङ्कितेषु॥१।३२॥
जालोद्गीर्णैः = गवाक्षनिर्गतैः । भवनशिखिभिः = गृहमयूरैः । लक्ष्मीं = शोभाम् । अध्वखेदः = मार्गपरिश्रमः । ललितवनितापादरागाङ्कितेषु = अङ्गनाचरणलाक्षारसचिह्नितेषु (लाक्षारसः = आलता) ।
सञ्जीवनी
जालोद्गीर्णैरिति ॥ जालोद्गीणैर्गवाक्षमार्गनिर्गतैः ॥ जालं गवाक्ष आनाये जालके कपटे गणेगणे इति यादवः । केशसंस्कारधूपैः । वनिताकेशवासनार्यैर्गन्धद्रव्यधूपैरित्यर्थः ॥ अत्र संस्कार धूपयोस्तादर्थ्येपि यूपदार्वादिवत्प्रकृतिविकारत्वाभावादश्वघासादिषत्षष्ठीसमासो न चतुर्थीसमासः ॥ उपचितवपुः परिपुष्टशरीरः । बन्धौ बन्धुरिति वा प्रीत्या भवन शिखिभिर्गृह मयूरैर्दत्तो नृत्यमेवोपहार उपायनं यस्मै स तथोक्तः ॥ उपायनमुपग्राह्यमुपहारस्तथोपदा इत्यमरः ॥ कुसुमैः सुरभिषु सुगन्धिषु ॥ -ललितवनिताः सुन्दरस्त्रियः ॥ ललितं त्रिषु सुन्दरम् सुन्दरम्इति शब्दार्णवे । तासां पादरागेण लाक्षारसेनाङ्कितेषु चिहितेषु हर्म्येषु धनिक भवनेष्वस्या उज्जयिन्या लक्ष्मीं पश्यन्नध्वनाध्वगमनेन खेदं क्लेशं नयेथा अपनय ॥
वल्लभदेवव्याख्या
युगलकम् ॥
अस्या उज्जयिन्याः सौधेष्वध्वखिन्नानन्तरात्मा निशामतिवाह्य चण्डेश्वरम्य शंभोर्धामायतनं याया गच्छेः । कीदृशः । जालोद्गीर्णैर्गवाक्षविवरनिर्गतैरङ्गनामूर्धजोपस्कारधूमैरुपचितवपुः पीवरतनुः । धूमप्रायत्वादभ्राणाम् । तथा गृहमयूरैः सुहृत्स्नेहाद्दत्तो वितीर्णो नृत्तमेवोपहारो बलिर्यस्य । ते हि त्वामालोक्य सुहृत्स्नेहान्नृत्यन्ति । कीदृशेषु हर्म्येषु । कुसुमैरूपकारपुष्पैः सुगन्धिषु । तथा ललितानां सविलासानां वनितानां पादानामलक्तकेनाङ्कितेषु चिह्नितेषु । त्वं कीदृशः । गणैः प्रीत्यालोक्यमानः । कुतः । भर्तुः शम्भोः कण्ठच्छविर्गलनिभकान्तिरित्यतो हेतोः । कीदृशं धाम । पुण्यं पवित्रम् । तथा गन्धवत्याख्याया नद्या मरुद्भिर्वातैर्धूतोद्यानमुल्लसितोपवनम् । कीदृशैः । कुवलयरजोगन्धिभिरुत्पलरेणुसौरभं विद्यते येषां तैः । तथा तोयक्रीडायां जलकेलौ निरताः सक्ता या युवतयस्तासां स्नानेन तिक्तैः कटुकैः । अङ्गरागसंक्रमणात् ॥
भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः
पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः॥१।३३॥
कण्ठच्छविः = गलकान्तिः । धूतोद्यानं = कम्पिताक्रीडम् । यायाः = गच्छेः । तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः = जलक्रीडाव्यापृततरुणीस्नानद्रव्यसुरभिभिः ।
सञ्जीवनी
भर्तुरिति ॥ भर्तुः स्वामिनो नीलकण्ठस्य भगवतः कण्ठस्येव छविर्यस्यासौ कण्ठच्छविरिति हेतोर्गणैः प्रमथैः ॥ गणस्तु गणनायां स्याद्वशे प्रमथे चयेचये इति शब्दार्णवे ॥ सादरं यथा तथा वीक्ष्यमाणः सन् । प्रियवस्तुसादयादतिप्रियत्वं भवेदिति भावः । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् ॥ तद्धितार्थ-तद्धितार्थ इत्यादिना समासः ॥ तस्य गुरोत्रैलोक्यनाथस्य चण्डीश्वरस्यः कात्यायनीवल्लभस्य पुण्यं पावनं धाम महाकालाख्यं स्थानं याया गच्छ ॥ विध्यर्थे लिङ् ॥ श्रेयस्करत्वात्सर्वथा यातव्यमिति भावः ॥ उक्तं च स्कान्दे आकाशे तारकं लिङ्गं पाताले हाटकेश्वरम् । मर्त्यलोके महाकालं दृष्ट्वा काममवाप्नुयात् ॥ इति ॥ न केवलं मुक्तिस्थानमिदं किन्तु विलासस्थानमपीत्याह -धूतेति ॥ कुवलयरजोगन्धिभिरुत्पलपरागगन्धवद्भिस्तोयक्रीडासु निरतानामासक्तानां युवतीनां स्नानं स्नानीयं चन्दनादि ॥ करणे ल्युट् ॥ स्नानीयेऽभिषवे स्नानम्स्नानम्इति यादवः ॥ तेन तिक्तैः सुरभिभिः कटुतिक्तकषायास्तु सौरभे च प्रकीर्तिताः इति हलायुधः । सौगन्ध्यातिशयार्थं विशेषणद्वयम् । गन्धवत्या नाम नद्यास्तत्रत्याया मरुद्भिर्मारुतैर्धूतोद्यानं कम्पिताक्रीडमिति धाम्नो विशेषणम् ॥
अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।
कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम्
आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्॥१।३४॥
नयनविषयं = नेत्रपथम् । सन्ध्याबलिपटहतां = सायङ्कालिकपूजोपहारे पटहवाद्यभावम्, तत्तुल्यध्वनिम् । आमन्द्राणाम् = ईषद्गम्भीराणाम् । अविकलम् = अखण्डम् ।
सञ्जीवनी
अपीति ॥ युग्मं ! हे जलधर, महाकालं नाम पूर्वोक्तं चण्डीश्वरस्थानमन्यस्मिन्सन्न्ध्यातिरिक्तेऽपि कालासाद्य प्राप्य ते तवं स्थातव्यम् ।स्थातव्यम् त्वया स्थातव्यमित्यर्थः ॥ कृत्यानां कर्तरि वा इति षष्ठी ॥ यावद्यावता कालेन भानुः सूर्ये नयनविषयं दृष्टिपथमत्येत्यतिक्रामति । अस्तमयकालपर्यन्तं स्थातव्यमित्यर्थः ॥ यावदित्येतदवधारणार्थे । यावत्तावच्च साकल्येऽवधौ मानवधारणेमानवधारणे इत्यमरः ॥ किमर्थमत आह-कुर्वन्निति ॥ श्लाघनीयां प्रशस्यां शूलिनः शिवस्य सन्ध्यायां बलिः पूजा तत्र पटहतां कुर्वन्सम्पादयन्नामन्द्राणामीषद्गम्भीराणां गर्जितानामविकलमखण्डं फलं लप्स्यसे प्राप्स्यसि ॥ लभेः कर्तरि ऌट् ॥ महाकालनाथबलिपटहत्वेन विनियोगात्ते गर्जितसाफल्यं स्यादित्यर्थः ॥
वल्लभदेवव्याख्या
हे जनधरान्यस्मिन्नपि कालेऽवसरे महाकालाभिधानं भगवन्तमासाद्य तावत्त्वयासितव्यं यावदर्कश्चक्षुर्गोचरतां चक्षुर्दृश्यत्वमुपैति । प्रातःसंध्यासमयपर्यन्तमित्यर्थः । किमर्थमित्याह । शूलिनो महाकालस्य संध्याबल्यर्थं पटहतां तूर्यत्वं श्लाघनीयां विदधत्त्वमामन्द्राणां सर्वमधुराणां गर्जितानां परिपूर्णं फलं प्राप्स्यसि । देवानां हि बलिकाले ढक्कापटहादिवाद्यैर्भाव्यम् । तत्र तु भवद्ध्वनितान्येव पटहीभविष्यन्तीति तत्साफल्यम् । स्थातव्यं त इति कृत्यानां कर्तरि वा ॥
पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून्
आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्॥१।३५॥
पादन्यासैः = चरणनिक्षेपैः । क्वणितरशना = शब्दितमेखलाः । लीलावधूतै = विलासकम्पितैः । रत्नच्छायाखचितवलिभि = कङ्कणमणिकान्तिरूषिदण्डैः, मणिप्रभाव्याप्तदण्डैः । चामरैः = प्रकीर्णकैः । क्लान्तहस्ताः = खिन्नकराः । नखपदसुखान् = नक्षरक्षतसुखकरान् । आमोक्ष्यन्ते = परित्यक्ष्यन्ति ।
सञ्जीवनी
पादन्यासैरिति । तत्र सन्ध्याकाले ॥ पादन्यासैश्चरणनिक्षेपैर्नृत्याङ्गैः क्वणिताः शब्दायमाना रशना यासां तास्तथोक्ताः ॥ क्वणतेरकर्मकत्वात् गत्यर्थाकर्मक - इत्यादिना कर्तरि क्तः ॥ लीलया विलासेनावधूतैः कम्पितैरत्नानां कङ्कणमणीनां छायया कान्त्या खचिता रूषिता वलयश्चामरदण्डा येषां तैः ॥ वलिश्चामरदण्डे च जराविश्लथचर्मणि इति विश्वः ॥ चामरैर्वालव्यजनैः क्लान्तहस्ताः ॥ एतेन दैशिकं नृत्यं सूचितम् । तदुक्तं नृत्यसर्वस्वे -नृत्यसर्वस्वे ‘खड्गकन्दुकवस्त्रादिदण्डिकाचामरस्रजः । वीणां च धृत्वा यत्कुर्युर्नृत्यं तद्दैशिकं भवेत् ॥भवेत् इति ॥ वेश्या महाकाल नाथमुपेत्य नृत्यन्त्यो गणिकास्त्वत्तो नखपदेषु नखक्षतेषु सुखान्सुखकरान् ॥ सुखहेतौ सुखे सुखम् सुखम् इति शब्दार्णवे ॥ वर्षस्याग्रबिन्दून्प्रथम बिन्दून्प्राप्य त्वयि मधुकरश्रेणिदीर्घान्कटाक्षानपाङ्गानामोक्ष्यन्ते । परैरूपकृताः सन्तः सद्यः प्रत्युपकुर्वते प्रत्युपकुर्वते इति भावः । कामिनीदर्शनीयत्वलक्षणं शिवोपासनाफलं सद्यो लप्स्यस इति ध्वनिः ॥
वल्लभदेवव्याख्या
तत्र महाकालधाम्नि वेश्या भगवद्गणिकास्त्वत्तो भवत्सकाशान्नखपदसुखकरान्वर्षाग्रबिन्दून्प्रथमजलकणानासाद्य प्रीतिवशात्त्वयि भ्रमरपालीपृथुलान्कटाक्षानाक्षेप्स्यन्ति । कीदृश्यस्ताः । पादन्यासेन क्वणितरशना रणन्मेखलाः । तथा विलासवलितैर्बालव्यजनैः खिद्यमानकरा इति सौकुमार्योक्तिः । ता हि देवं वीजयन्त्यः सेवन्ते । कोदृशैस्तैः । रत्नच्छायया खचिताः प्रकटीकृता वलय उदरलेखा यैः । तासां हि वासोयुगाच्छादितानां चामरमणिभासा मध्यवलयः प्रकटीभवन्ति ॥
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या॥१।३६॥
अभिलीनः = अभिव्याप्तः । आर्द्रनागाजिनेच्छां = शोणितक्लिन्नगजचर्माभिलाषम् । शान्तोद्वेगस्तिमितनयनं = व्यतीतभयनिश्चललोचनं यथा तथा । प्रतिनवजपापुष्परक्तं = नव्यजपाप्रसूनारुणम् । दृष्टभक्तिः = प्रत्यक्षीकृतसत्कारः ।
सञ्जीवनी
पश्चादिति । पश्चात्सन्ध्याबल्यनन्तरं पशुपतेः शिवस्य नृत्यारम्भे ताण्डवप्रारम्भे प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसूमारुणं सन्ध्यायां भवं सान्ध्यं तेजो दधानः । उच्चैरुन्नतं भुजा एव तरवस्तेषां वनं मण्डलेन मण्डलाकारेणामिलीनोऽभिव्याप्तः सन् ॥ कर्तरि क्तः ॥ भवान्या भवपत्त्न्या ॥ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन मातुलाचार्याङ्गामानुक् मातुलाचार्याङ्गामानुक् इति ङीष् आनुगागमश्च ॥ शान्त उद्वेगो । नागाजिनदर्शन भयं ययोस्ते अत एव स्तिमिते निश्चलेः नयने यस्मिन्कर्मणि तत्तथोक्तम् ॥ उद्वेगस्त्वरिते क्लेशे भये मन्थरगामिनि इति शब्दार्णवे ॥ भक्तिः पूज्येष्वनुरागः ॥ भावार्थे क्तिन्प्रत्ययः ॥ दृष्टा भक्तिर्यस्य स दृष्टभक्तिः सन् । पशुपतेरार्द्रं शोणितार्द्रं यन्नागाजिनं गजचर्म ॥ अजिनं चर्म कृत्तिः स्त्री इत्यमरः ॥ तत्रेच्छां हर निवर्तय । त्वमेव तत्स्थाने भवेत्यर्थः । गजासुरमर्दनानन्तरं भगवान्महादेवस्तदीयमार्द्राजिनं भुजमण्डलेन बिभ्रत्ताण्डवं चकारेति प्रसिद्धिः ॥ दृष्टभक्तिरिति कथं रूपसिद्धिः । दृष्टशब्दस्य स्त्रियाः पुंवत् -पुंवत् इत्यादिना पुंवद्भावस्य दुर्घटत्वादपूरणीप्रियादिष्विति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठादिति । तदेतच्चोद्यम् । दृढभक्तिरिति शब्दमाश्रित्य प्रतिविहितं गणव्याख्याने दृढं भक्तिरस्येति नपुंसकं पूर्वपदम् । अदार्च्चनिवृत्तिपरत्वे दृढशब्दा लिङ्गविशेषस्यानुपकारित्वात्स्त्रीत्वमविवक्षितमिति ॥ भोजराजस्तु – भक्तौ च कर्मसाधनायामित्यनेन सूत्रेण भज्यते सेव्यत इति कर्मार्थत्वे भवानीभक्तिरित्यादि भवति । भावसाधनायां तु स्थिरमक्तिर्भवान्यामित्यादि भवति इत्याह । तदेतत्सर्वं सम्यग्विवेचितं रघुवंशसञ्जीविन्यां दृढभक्तिरिति ज्येष्ठे ज्येष्ठे इत्यत्र । तस्माद्दृढभक्तिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वेन नपुंसकत्वेन च रूपसिद्धिरस्तीति स्थितम् ॥ इत्थं महाकालनाथस्य सेवामकारमभिधाय पुनरपि नगरसञ्चाररप्रकारमाह
वल्लभदेवव्याख्या
पश्चादनन्तरं तत्र पशुपतेः शंभोर्नृत्तारम्भ आर्द्रगजाजिनेच्छां रुधिरसरसगजचर्माभिलाषं हर नाशय । तव तन्निभत्वात् । तथा हि कीदृशस्त्वम् । उच्चैरुद्गतं भुजतरुवनं दोर्द्रुमषण्डं मण्डलेन तिर्यगभिलीनः संश्रितः । तथाभिनवजपापुष्पवल्लोहितं सांध्यं तेजो बिभ्रत् । एवं च नवगजाजिनकाङ्क्षाहरणम् । भवान्या गोर्या दृष्टभक्तिरालोकितेत्थं विधमेवनः । कथम् । विद्युदुन्मेषाभावाच्छान्तोद्वेगानि निवृत्तखेदान्यत एव स्तिमितानि नयनानि यत्र दर्शने ॥
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीं
तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः॥१।३७॥
रमणवसतिं = प्रियभवनम् । रुद्धालोके = आवृतप्रकाशे । कनकनिकषस्निग्धया = सुवर्णशाणरेखातेजसा (स्निग्धो नाम प्रभा, कान्तिः)। तोयोत्सर्गस्तनितमुखरः = वृष्टिगर्जितशब्दायमानः (स्तनितः=ध्वनितः, मुखरः=वाचालः) । विक्लवाः = विह्वलाः, भीरवः । योषिताम् = अभिसारिकाणाम् (अभिसारयते कान्तं या मन्मथवशंवदा । स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका) । सूचिभेद्यैः = निबिडैः ।
सञ्जीवनी
गच्छन्तीनामिति ॥ तत्रोज्जयिन्यां नक्तं रात्रौ रमणवसतिं प्रियभवनं प्रति गच्छतीनां योषिताम् । अभिसारिकाणामित्यर्थः । सूचिभिर्भेद्यैः । अतिसान्द्रैरित्यर्थः । तमोभी रुद्धालोके निरुद्धदृष्टिप्रसारे नरपतिपन्थे राजमार्गे कनकस्य निकषो निकष्यत इति व्युत्पत्त्या निकष उपलगतरेखा तस्येव स्निग्धं तेजोयस्यास्तया ॥ स्निग्धं तु मसृणे सान्द्रे रम्ये क्लिबे च तेजसि इति शब्दार्णवे ॥ सुदाम्नाद्रिणैकदिक्सौदामनी विद्युत् ॥विद्युत् तेनैकदिक् तेनैकदिक्इत्यण्प्रत्ययः ॥ मेघदूतम् । तयोर्वीं मार्गं दर्शय । किञ्च तोयोत्सर्ग स्तनिताभ्यां वृष्टिगर्जिताभ्यां मुखरः शब्दायमानो मा स्म भूः । कुतः । ता योषितो विक्लवा भीरवः । ततो दृष्टिगर्जिते न कार्ये इत्यर्थः ॥ नात्रतोयोत्सर्गसहितं स्तनितमिति विग्रहः । विशिष्टस्येव केवलस्तनितस्याप्यनिष्टत्वात् ।केवलस्तनितस्याप्यनिष्टत्वात् न च द्वन्द्वपक्षेऽल्पाच्तरपूर्वनिपातशास्त्रविरोधः । लक्षण हेत्वोः क्रियायाः इति सूत्र एव विपरीत निर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनादिति ॥
वल्लभदेवव्याख्या
तत्रोज्जयिन्यामभिसारिकाणां सौदामिन्या तडिता राजमार्गं दर्शय प्रकाशय। यतो नक्तं रात्रौ प्रियतमवसतिं व्रजन्तीनाम् । अत एवातिघनत्वात्सूच्या भेद्यस्तमोभी रद्धालोकेऽवष्टब्धप्रकाशे पथि । कीदृश्या तया । कनकनिकषवत्सुवर्णघर्षणवत्स्निग्धयारूक्षया । एवं च कृत्वा तोयोत्सर्गार्थं स्तनितेन गर्जितडम्बरेण मुखरः सशब्दो मा भूः । यतस्ता योषिद्भावात्कातराम्बग्नवः[अस्पष्टं मुद्रणम्] ॥
तां कस्यांचिद् भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ।
दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः॥१।३८॥
सुप्तपारावतायां = सुप्तकपोतायाम् । चिरविलसनात् = बहुसमयस्फुरणात् । खिन्नविद्युत्कलत्रः = कान्तसौदामनीभार्यः । भवनवलभौ = गृहाच्छादनोपरिभागे । अभ्युपेतार्थकृत्याः = अङ्गीकृतप्रयोजनकार्याः ।
सञ्जीवनी
तामिति ॥ चिरं विलसनात्स्फुरणात्खिन्नं विद्युदेव कलत्रं यस्य स भवान्सुप्ताः पारावताः कलरवा यस्यां तस्यां विविक्तायामित्यर्थः ॥ पारावतः कलरवः कपोतः इत्यमरः ॥ जनसञ्चारस्तत्रासम्भावित एवेति भावः । कस्याञ्चिद्भवनवलभौ । गृहाच्छादनोपरिभाग इत्यर्थः
॥ आच्छादनं स्याद्वलभी गृहाणाम् गृहाणाम्इति हलायुधः ॥ तां रात्रिं नीत्वा सूर्ये दृष्टे सति । उदिते सतीत्यर्थः पुनरप्यध्वशेषं वाहयेत् । तथाहि सुहृदां मित्राणामभ्युपेताङ्गीकृतार्थस्य प्रयोजनस्य कृत्या क्रिया यैस्ते । अभ्युपेतसुहृदर्था इत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ कृत्या क्रियादेवतयोः कार्ये स्त्री कुपिते त्रिषुत्रिषुइति यादवः ॥ कृञः श च इति चकारात्क्यप् ॥ न मन्दायन्ते खलु न मन्दा भवन्ति हि । न विलम्बन्त इत्यर्थः ॥ लोहितादिडाज्भ्यः क्यष्क्यष्इति क्यष् ।क्यष् वा क्यषः इत्यात्मनेपदम् ॥इत्यात्मनेपदम्
वल्लभदेवव्याख्या
तां पूर्वोक्तां रात्रिं कस्यामपि भवनवलभौ गृहोपरिपुरे नीत्वातिवाह्य ततः मूर्योदये भूयोऽपि भवान्मार्गमवशिष्टं वाहयेदुल्लङ्घयेत् । यस्मान्मित्राणां यैरर्थकृत्यं प्रयोजनमभ्युपेतमूरीकृतं शिरसाङ्गीकृतं ते न खलु मन्दायन्ते नैवालसा भवन्ति । कीदृश्यां वलभौ । सुप्ताः पारावताः कपोतविशेषाः यत्र । ते हि कण्ठरुतश्रवणार्थं नागरकैर्गृहे धार्यन्ते । त्वं कीदृशः । चिरं विलसनात्स्विन्नं श्रान्तं विद्युदेव कलत्रं भार्या यस्य सः । अत एव वलभौ विश्रमणम् । अमन्दो मन्दो भवति मन्दायते । भृशादित्वात्क्यङ् । अर्थश्चासौ कृत्यमर्थकृत्यम् । अर्थः प्रयोजनम् । अवश्यकार्यत्वाच्चास्य कृत्यत्वम् ॥
तस्मिन् काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः॥१।३९॥
खण्डीतानां = नायिकानाम् (अन्योपभोगचिह्नितः पतिः प्रातरागच्छति यस्याः सा) । प्रालेयास्रं = हिमरूपम् अश्रु (प्रालेयमेव अश्रम्)। प्रत्यावृत्तः = प्रत्यागतः । कररुधि = किरणरोधके, हस्तरोधके (करं रुणद्धीति कररुत्, तस्मिन्)। अनल्पाभ्यसूयः = प्रचुररोषः, अधिकेर्ष्यः ।
सञ्जीवनी
तस्मिन्निति । तस्मिन्काले पूर्वोक्ते सूर्योदयकाले प्रणयिभिः प्रियतमैः खण्डितानां योषितां नायिका विशेषाणाम् ॥ ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता इति दशरूपके ॥ नयनसलिलं शान्तिं नेयं नेतव्यम् ॥नेतव्यम् नयतिर्द्विकर्मकः ॥ अतो हेतोर्भानोर्वर्माशु शीघ्रं त्यज । तस्यावरको मा भूरित्यर्थः ॥ विपक्षेऽनिष्टमाचष्टे -सोऽपि भानुः । नलान्यम्बुजानि यस्याः सन्तीति नलिनी पद्मिनी ॥ तृणेऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम्स्त्रियाम्इति शब्दार्णवे ॥ तस्याः स्वकान्तायाः कमलं स्वकुसुममेव वदनं तस्मात्प्रालेयं हिममेवास्रमश्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । नलिन्याश्च भर्तुर्भानोर्देशान्तरे नलिन्यन्तरगमनात्खण्डितात्वमित्याशयः । ततस्त्वयि । करानंशून्रुणद्धीति
कररुत् ।कररुत्क्विप् ।क्विप् तस्मिन्कररुधि सति । हस्तरोधिनि सतीति च गम्यते ॥ बलिहस्तांशवः कराः इत्यमरः ॥ अनल्पाभ्यसूयोऽधिकविद्वेषः स्यात् । प्रायेणेच्छाविशेषविघाताद्वेषो रोषविशेषश्च कामिनां भवतीति भावः । किं च आत्मानं चार्कमीशानं विष्णुं वा द्वेष्टि यो जनः । श्रेयांसि तस्य नश्यन्ति रौरवं च भवेद्ध्रुवम् ॥भवेद्ध्रुवम् इति निषेधात्कार्यहानिर्भविष्यतीति ध्वनिः ॥
वल्लभदेवव्याख्या
अतः कारणाद्भानोः सूर्यस्य वर्त्म मार्गं त्यज । माच्छादको भूरित्यर्थः । यतस्तस्मिकाले प्रभाताख्ये खण्डितानां विप्रलब्धानामङ्गनानां प्रियैरा-
गत्यास्रु नेत्रजलं शमनीयम् । यदि त्वमस्य पटनिभो भवसि तदालोकनपाटवाभावान्निशाशङ्कया नागमनं स्यादिति वर्त्म भानोस्त्यज । किं च सोऽपि भानुः खण्डितायाः कमलिन्याः प्रियायाः कमालादेव वदनात्प्रालेयमवश्यायमेवास्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । तेनापि पद्मिन्याः प्रार्थना कार्येत्यर्थः । अतस्त्वयि कररुधि रश्मिरोधकेऽनल्पाभ्यसूयो भवेत् । त्वयि महान्तं रोषं भावयेत् । यस्य हि प्रियां प्रार्थयमानस्य यः करमवष्टम्भीयात्तस्य तत्र मन्युर्भवति । निद्राकषायमुकुलीकृतेत्यादि' ॥
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्माऽपि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि॥१।४०॥
प्रकृतिसुभगः = स्वभावसुन्दरः । कुमुदविशदानि = कैरवधवलानि । मोघीकर्तुं = निष्फलीकर्तुम् । चटुलशफरोद्वर्तनप्रेक्षितानि = चञ्चलमीनोल्लुण्ठनावलोकनानि (चटुलानि शफराणां मीनविशेषाणाम् उद्वर्तनानि, तानि च प्रेक्षितानि) । छायात्मा = प्रतिबिम्बविग्रहः । प्रसन्ने = विमले ।
सञ्जीवनी
गम्भीराया इति ॥ गम्भीरा नाम सरित् ॥ उदात्तनायिका च ध्वन्यते ॥ तस्याः प्रसन्नेऽनुरक्तत्वाद्दोषरहिते चेतसीव प्रसन्नेऽतिनिर्मले पयसि । प्रकृत्या स्वभावेनैव सुभगः सुन्दरः ॥ सुन्दरेऽधिकभाग्ये च दुर्दिनेतरवासरे । तुरीयांशे श्रीमति च सुभगः इति शब्दार्णवे ॥ ते तव छायाचासावात्मा च । सोऽपि प्रतिबिम्बशरीरं च प्रवेशं लप्स्यते । अपिशब्दात्मवेशमनिच्छोरपीति भावः । तस्माच्छायाद्वारापि प्रवेशावश्यम्भावित्वादस्या गम्भीरायाः । कुमुदवद्विशदानि धवलानि चटुलानि शीघ्राणि शफराणां मीनानामुद्वर्तनान्युलुण्ठनान्येव प्रेक्षितान्यवलोकनानि ॥ त्रिषु स्याच्चटुलं शीघ्रम्शीघ्रम् इति विश्वः ॥ एतावदेव गम्भीराया अनुरागलिङ्गम् । धैर्याद्धाष्टर्षात् । वैयात्यादिति यावत् । मोघीकर्तुं विफलीकर्तुं नार्हसि । नानुरक्ता विप्रलधव्येत्यर्थः ॥ धूर्तलक्षणं तु - क्लिश्नाति नित्यं गमितां कामिनीमिति सुन्दरः । उपैत्यरक्तां यत्नेन रक्तां धूर्तों विमुञ्चति इति ॥
वल्लभदेवव्याख्या
गम्भीराख्यायाः सरितः पयसि प्रसन्ने तव स्वभावसुन्दरच्छायारूपोऽप्यात्मा प्रतिबिम्बरूपश्चेतसीव प्रवेशं लप्स्यते । तस्मात्कारणादस्या नद्याः कैरवसितानि चपलशफरोद्वर्तनप्रेक्षितानि कम्पमानमीनम्फुरितावलोकितानि धाैर्याद्गाम्भीर्यान्मोघीकर्तुं वन्ध्ययितुं नार्हसि । ततो मा गम इत्यर्थः । गमनाद्धि तानि निष्फलानि स्युः । यश्च नागरः स प्रेयस्यां रागेण वीक्षमाणायां विलम्बते । स हि तस्याश्चेतसि प्रविष्टः ॥
तस्याः किञ्चित्करधृतमिव प्राप्तवानीरशाखं
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः॥१।४१॥
प्राप्तवानीरशाखम् = आसादितवेतसविटपम् । मुक्तरोधोनितम्बं = त्यक्ततटकटि (मुक्तः रोधः एव नितम्बः येन, तं सलिलम्) । सलिलवसनं = जलवस्त्रम् (सलिलमेव वसनम्) । लम्बमानस्य = अवस्रंसमानस्य । ज्ञातास्वादः = अनुभूतरसः । विवृतजघनां = प्रकटितकटिपूर्वभागम् (विवृतं जघनं यस्याः, ताम्)।
सञ्जीवनी
तस्या इति ॥ हे सखे,सखेप्राप्ता वानीरशाखा वतेसशाखा येन तत्तथोक्तमतएव किञ्चिदीषत्करधृतं हस्तावलम्बितमिव स्थितम् । मुक्तस्त्यक्तो रोधस्तटमेव नितम्बः कटिन तत्तथोक्तम् ॥ नितम्बः पश्चिमे श्रोणिभागेऽद्रिकटके कटौ इति यादवः ॥ नीलं कृष्णवर्णं तस्या गम्भीरायाः सलिलमेव वसनं नीत्वापनीय ॥ प्रस्थानसमये प्रेयसीवसनग्रहणं विरहतापविनोदनार्थमिति प्रसिद्धम् ॥प्रसिद्धम् लम्बमानस्य पीतसलिलभराल्लम्बमानस्य । अन्यत्र जघनारूढस्य । ते तव प्रस्थानं प्रयाणं कथमपि कृच्छ्रेण भावि ॥ कृच्छ्रत्वे हेतुमाह -ज्ञातेति ॥ ज्ञातास्वादोऽनु भूतरसः कः पुमान्विवृतं प्रकटीकृतं जघनं कटिस्तत्पूर्वभागो वा यस्यास्ताम् ॥ जघनं स्यात्कटौ पूर्वश्रोणिमागापरांशयोः इति यादवः ॥ विहातुं त्यक्तुं समर्थः । नकोऽपीत्यर्थः ॥
वल्लभदेवव्याख्या
तस्या गम्भीराया नीलं मलिनमेव वसनमम्बरं पानवशाद्धृत्वापास्य तव लम्बमानस्य जलभरमन्थरत्वात्तचेव तिष्ठतः प्रस्थानं कथमपि भावि प्रयाणं कथमपि भविष्यति । यम्माद्यो ज्ञातास्वादोऽमुभूतरसः स पुनिमजघनां तीरपृथुनितम्बां युवतिं कस्त्यक्तुं समर्थः । त्वं च पानी यपानाद्विदितास्वादः । सापि पुलिनमेव जघनं यस्याः सा पुलिनजघना । कीदृशं सलिलवसनम् । प्राप्तं लब्धवद्वानीरशाखा वेतसीलताः । वानीरशाखाश्लिष्टमित्यर्थः । प्राप्तापन्ने च दितीयया । यदि वा प्राप्ता वानीरशाखा येनेति बहुव्रीहिः । अतश्चोत्प्रेक्षते । करधृतमिव हस्तावष्टब्धं यथा । अंशुकं हरतो हि कामिनो नार्यः कराभ्यां रुन्धन्ति । नीलं हरितम् । ग्रीष्मेऽल्पत्वात् । अतश्च हरणान्मुक्तमुत्सृष्टं रोधस्तीरमेव नितम्बो येन । यदप्यम्बरं ह्रियते तन्मुक्तनितम्बं भवति । भविष्यतीति भावि॥ ४१ ॥
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम्॥१।४२॥
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः = भवद्वृष्टिफुल्लितभूमिगन्धसंसर्गरमणीयः (निष्यन्दो नाम जलस्रवणम्, जलधारा, वृष्टिरित्यर्थः । त्वन्निष्यन्देन उच्छ्वसितायाः वसुधायाः गन्धस्य सम्पर्केण रम्यः) । परिणमयिता = परिपाकयिता । उदुम्बराणाम् = वृक्षविशेषाणाम् । स्रोतोरन्ध्रध्वनितसुभगं = नासाकुशरशब्दसुन्दरं यथा स्यात् तथा (श्रोतःशब्देनेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते । श्रोतोऽम्बुवेगेन्द्रिययोः इत्यमरः)।
सञ्जीवनी
त्वदिति ॥ त्वन्निष्यन्देन तव दृष्टयोच्छु सिताया उपबृंहिताया वसुधाया भूमेर्गन्धस्य सम्पर्केण रम्यः । सुरभिरित्यर्थः ॥ स्रोतः शब्देनेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते ॥ स्रोतोऽम्बुवेगेन्द्रिययोः इत्यमरः ॥ स्रोतोरन्ध्रेषु नासाग्रकुहरेषु यवनितं शब्दस्तेन सुभगं यथा तथा दन्तिभिर्गजैः पीयमानः । वसुधागन्धलोभादाघ्रायमाण इत्यर्थः । अनेन मान्द्यमुच्यते । काननेषु वनेषूदुम्बराणां जन्तुफलानाम् ॥ उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः इत्यमरः ॥ परिणमयिता परिपाकयिता ॥ मितां ह्रस्वः इति ह्रस्वः ॥ शीतो वायुः । देवपूर्वं देवशब्दपूर्वं गिरिम् ।गिरिम् देवगिरिमित्यर्थः । उपजिगमिषोरुपगन्तुमिच्छाः ॥ गमेः सन्नन्तादुप्रत्ययः ॥ ते तव नीचैः शनैर्वास्यति । त्वां वीजयिष्यतीत्यर्थः ॥ सम्बन्धमात्रविवक्षायां षष्ठी ॥ देवपूर्वं गिरिम्गिरिम् इत्यत्र देवपूर्वत्वं गिरिशब्दस्य । न तु संज्ञिनस्तदर्थस्येति । संज्ञायाः संज्ञित्वाभावादवाच्यवचनं दोषमाहुरालङ्कारिकाः । तदुक्तमेकावल्यां - यदवाच्यस्य वचनमवाच्यवचनं हि तत्तत्इति ॥ समाधानं तु देवशब्दविशेषितेन गिरिशब्देन शब्दपरेण मेघोपगमनयोग्यो देवगिरिर्लक्ष्यत इति कथञ्चिसम्पाद्यम् ॥कथञ्चिसम्पाद्यम्
वल्लभदेवव्याख्या
ततो देवगिरिमुपजिगमिषोर्यियासोस्तव सतुषारः पवनो नीचैर्वास्यति मन्थरं गमिष्यति । कीदृशः । तव निष्यन्देन तोयमोक्षणोच्छ्वसिता विकसिता हृषिता यासौ वसुधा भूमिस्तस्या गन्धसंपर्केण सौरभव्यतिकरेण पुण्यो मनोज्ञः । तथा सौख्याद्दन्तिभिः पीयमानः । कथम् ।
स्रोतोरन्ध्रं करविवरं तस्य ध्वनितं शूत्कारस्तेन सुभगं रम्यम् । सशूस्कृतमित्यर्थः । मुषिरे हि वातप्रवेशादधिको ध्वनिर्भवति । स्रोतः करः करिणः । यथा । प्रासप्रोतसोतसान्तःक्षतेनेति माघस्य । तथा कानमे वन उदुम्बरफलानां परिणमयिता पाचयिता । तद्वशात्पाकोत्पत्तेः ॥ ४२ ॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलार्द्रैः ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूनाम्
अत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः॥१।४३॥
नियतवसतिम् = अचलवासं, स्थायिनम् (नियता वसतिः यस्य सः, तम्) । पुष्पमेघीकृतात्मा = सुमनवर्षकमेघीकृतकायः (पुष्पाणां मेघः पुष्पमेघः, अपुष्पमेघः पुष्पमेघः कृतः पुष्पमेघीकृतः, पुष्पमेघीकृतः आत्मा येन सः – पुष्पमेघ+च्वि + √कृ + तः) । सम्भृतम् = सञ्चितम् । पुष्पासारैः = प्रसूनसम्पातैः (पुष्पाणाम् आसारैः । आसारो नाम धारासम्पातः, महावृष्टिः) । अत्यादित्यम् = अतिक्रान्तसूर्यम् (अतिक्रान्तः आदित्यम्) ।
सञ्जीवनी
तत्रेति ॥ तत्र देवगिरौ नियता वसतिर्यस्य तम् । नित्यसन्निहितमित्यर्थः ॥ पुरा किल तारकाख्यासुरविजयसन्तुष्टः सुरप्रार्थनावशाद्भगवान्भवानीनन्दनः स्कन्दो नित्यमहमिह सह शिवाभ्यां वसामीत्युक्त्वा तत्र वसतीति प्रसिद्धिः ॥ स्कन्दं कुमारं स्वामिनम् । पुष्पाणां मेघः पुष्पमेघः । पुष्पमेघीकृतात्मा कामरूपत्वात्पुष्पवर्षुकमेघीकृतविग्रहः सन्व्योमगङ्गाजलार्द्रैः । पुष्पासारैः पुष्पसम्पातैः धारासम्पात आसारः इत्यमरः ॥ भवान्स्वयमेव स्त्रपयत्वभिषिञ्चतु । स्वयम्पूजाया उत्तमत्वादिति भावः ॥ तथा च शम्भुरहस्ये - स्वयं यजति चेद्देवमुत्तमा सोदरात्मजैः । मध्यमा या यजेद्धृत्यैरधमा याजनक्रिया ॥ इति ॥ स्कन्दस्य पूज्यत्वसमर्थनेनार्थेनार्थान्तरं न्यस्यति रक्षेति ॥ तद्भगवान् । स्कन्द इत्यर्थः ॥ विधेयप्राधान्यानपुंसकनिर्देशः ॥ वासवस्येमा वासव्यः ॥ तस्येदमः इत्यण् ॥ तासां वासवीनामैन्द्रीणां चमूनां सेनानां रक्षया कारणेन । रक्षार्थमित्यर्थः ॥ षष्ठी हेतुप्रयोगे हेतुप्रयोगे इति षष्ठी ॥ नवशशिभृता भगवता चन्द्रशेखरेण । वहतीति वहः ॥ पचाद्यच् ॥ हुतस्य वहो हुतवहो वह्निस्तस्य मुखे सम्भृतं सञ्चितं आदित्यमतिक्रान्तमत्यादित्यम् ॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया इति समासः ॥ तेजो हि साक्षाद्भगवतो हरस्यैव मूर्त्यन्तरमित्यर्थः । अतः पूज्यमिति भावः । मुखग्रहणं तु शुद्धत्वसूचनार्थम् । तदुक्तं शम्भुरहस्ये - गवां पश्चाद्विजस्याङ्घ्रियोगिनां त्वत्कवेर्वचः । परं शुचितमं विद्यान्मुखं स्त्रीवह्निवाजिनाम् ॥स्त्रीवह्निवाजिनाम् इति ॥
वल्लभदेवव्याख्या
तत्र देवगिरौ सदासंनिहितं कुमारं त्वं सुरसरिदुदकरसैः कुसुमवर्षैः पुष्पमेघीकृतात्मत्वात्स्नपयेः पूजयेः । यस्माद्वासवीनां चमूनामैन्द्रीणां सेनानां रक्षार्थं नवशशिभृता चन्द्रमौलिनात्यादित्यं सूर्यादप्यधिकं तत्तेजो वीर्यं संभृतं क्षिप्तम् । असुरोपद्रुतसुररक्षार्थं हि कार्तिकेयो हरेण गौर्यां जनित इत्यागमः । तच्च शुक्रं स्वस्थानचलितमग्निना पीतमभूत् । वासवीनामिति दुर्लभः प्रयोगः । वृद्धाच्छेनाणो बाधितत्वात् । अतिक्रान्त आदित्यो येन तदत्यादित्यम् ॥
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी
पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति ।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं
पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः॥१।४४॥
ज्योतिर्लेखावलयि = तेजोराजिमण्डलयुतम् । गलितं = पतितम् । बर्हं = पिच्छम् । कुवलयदलप्रापि = नीलोत्पलपत्रप्रापकं यथा स्यात् तथा । धौतापाङ्गं = धवलितनेत्रप्रान्तम् । अद्रिग्रहणगुरुभिः (गर्जितैः) = देवगिरिगमनमहद्भिः (अद्रेः ग्रहणेन गुरु, तैः । पर्वतः मेघगर्जनं विशेषयति कन्दरगुहाप्रतिध्वनिभिः ।) । गर्जितैः = स्तनितैः । पावकेः = कार्तिकेयस्य ।
सञ्जीवनी
ज्योतिरिति ॥ ज्योतिषस्तेजसो लेखा राजयस्तासां बल्यं मण्डलं यस्यास्तीति तथोक्तम् । गलितं भ्रष्टम् ।भ्रष्टम् न तु लौल्यात्स्वयं छिन्नमिति भावः । यस्य मयूरस्य बर्हे पिच्छम् ।पिच्छम् पिच्छबर्हे नपुंसके इत्यमरः ॥ भवानी गौरी । पुत्रप्रेम्णा पुत्रस्नेहेन कुवलयस्य दलं पत्रं तत्प्रापि तद्योगि यथा तथा कर्णे करोति । दलेन सह धारयती-त्यर्थः । यद्वा कुवलयस्य दलप्रापि दलभाजि दलार्हे कर्णं करोति ॥ क्लिबन्तात्सप्तमी ॥ दलं परिहृत्य तत्स्थाने बर्हे धत्त इत्यर्थः ॥ नाथस्तु कुवलयदलक्षेपि इति पाठमनुसृत्य क्षेपो निन्दापसारणं वा इति व्याख्यातवान् ॥ हरशशिरुचा हरशिरश्चन्द्रिकया धौतापाङ्गं स्वतोऽपि शौक्ल्यादतिधवलितनेत्रान्तम् ॥ अपाङ्गौ नेत्रयोरन्तौ इत्यमरः ॥ पावकस्याग्नेरपत्यं पावकिः स्कन्दः ॥ अत इञ्इञ्इति इञ् ॥ तस्य तं पूर्वोक्तं मयूरं पश्चात्पुष्पाभिषेचनानन्तरमद्रेर्देवगिरेः कर्तुः ॥ ग्रहणेन गुहासङ्क्रमणेन गुरुभिः । प्रतिध्वानमहद्भिरित्यर्थः । ॥ गजितैर्नर्तयेथा नृत्यं कारय । मार्दङ्गिकभावेन भगवन्तं कुमारमुपासस्वेति भावः ॥ नर्तयेथाः इत्यत्र अणावकर्मकाच्चित्तवत्कर्तृकात् अणावकर्मकाच्चित्तवत्कर्तृकात् इत्यात्मनेपदापवादः । निगरणचलनार्थेभ्यश्च इति परस्मैपदं न भवति तस्य न पादम्याङ्यमाङ्यसपरिमुहरु चिन्नृतिवदवसः इति प्रतिषेधात् ॥
वल्लभदेवव्याख्या
पश्चादनन्तरं पावकेः स्कन्दस्य तं वाहनं मयूरं गर्जितैर्नर्तयेथा लास्यं कारयेथाः । जलदरवनिशमनाद्धि बर्हिणो नृत्यन्ति । तमित्युक्तम् । कं तमित्याह । यस्य गलितं भ्रष्टं बर्हं पक्षं गौरी पुत्रप्रीत्या कर्णे करोत्यवतंसीकुरुते । तच्च कुवलयपदप्राप्युत्पलस्थानारूढम् । ज्योतिर्लेखावलयं तेजोराजिमण्डलं विद्यते यस्य तत्तथोक्तम् । हरशशिरुचा शिवशिरश्चन्द्र-
श्चन्द्रिकया धौतापाङ्गं क्षालितनेत्रान्तम् । गर्जितैः कीदृशैः । अद्रिग्रहणगुरुभिः पर्वतप्राप्तिपीवरैः । अद्रिग्रहणशब्दे न कर्तृपष्ठीसमासः । नर्तयेथा इति न पादमीत्यादिनात्मनेपदम् ॥
आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा
सिद्धद्वन्द्वैर्जलकणभयाद् वीणिभिर्मुक्तमार्गः ।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥१।४५॥
शरवणभवं = बाणतृणवनोत्पन्नम् । आराध्य = उपास्य । वीणिभिः = वीणाधारकैः । मुक्तमार्गः = परित्यक्तपथः । उल्लङ्घिताध्वा = अतिक्रान्तमार्गः । सिद्धद्वन्द्वैः = देवयोनिविशेषाणां युगलैः (सिद्धमिथुनैः) । सुरभितनयालम्भजां = गोप्रोक्षणजाताम् । स्रोतोमूर्त्या = जलप्रवाहरूपेण । परिणतां = रूपान्तरं प्राप्ताम् । मानयिष्यन् = सत्कारयिष्यन् । व्यालम्बेथाः = नीचैः भव ।
सञ्जीवनी
आराध्येति ॥ एनं पूर्वोक्तं शरा बाणतृणानि ॥ शरो बाणे बाणतृणेबाणतृणे इति शब्दार्णवे ॥ तेषां वनं शरवणं प्रनिरन्तः शरे-शरे इत्यादिना णत्वम् । तत्र भवो जन्म यस्य तं शरवणभवम् ॥ अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः इति वामनः । अवर्ज्योऽगतिकत्वादाश्रयणीय इत्यर्थः ॥ देवं स्कन्दम् ॥ शरजन्मा षडाननः इत्यमरः ॥ आराध्योपास्य वीणिभिवणावद्भिः ॥ व्रीह्यादित्वादिनिः ॥ सिद्धद्वन्द्वैः सिद्धमिथुनैः । भगवन्तं स्कन्दमुपवीणयितुमागतैरिति भावः । जलकणभयात् । जलसेकस्य वीणाक्वणनप्रतिबन्धकत्वादिति भावः । मुक्तमार्गस्त्यक्तवर्मा सन्नुल्लङ्घिताध्वा । कियन्तमध्वानं गत इत्यर्थः । सुरभितनयानां गवामालम्भेन संज्ञपनेन जायत इति तथोक्ताम् । भुवि लोके स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपविशेषमापन्नां रन्तिदेवस्य दशपुरपतेर्महाराजस्य कीर्तिम् ।कीर्तिम् चर्मण्वत्याख्यां नदीमित्यर्थः । मानविष्यन्सत्कारयिष्यन्व्यालम्बेथाः । आलम्ब्यावतरेरित्यर्थः ॥ पुरा किल राज्ञो रन्तिदेवस्य गवालम्भेष्वेकत्र सम्भृताद्रक्त निष्यन्दाच्चर्मराशेः काचिन्नदी सस्यन्दे । सा चर्मण्वतीत्याख्यायत इति ॥
वल्लभदेवव्याख्या
शरवणभुवं कुमारमेवं पुष्पासारैः स्नपनादिप्रकारेणाराध्य किंचिच्चाध्वानमतिक्रम्य रन्तिदेवम्य राज्ञः कीर्तिं चर्मण्वत्याख्यां मानयिष्यन्पूजयितुं व्यालम्बेथाः श्रयेथा गच्छेः । कीदृशीम् । सुरभितनया गावस्तासामालम्भनं प्रोक्षणं ततो जाता प्रसूता भुवि च स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपान्तरं गताम् । तेन हि नृपेण क्रतुष्वतिबृंहीयस्यो गावः संक्षापिता यासं रुधिराच्चर्मभ्यश्च चर्मण्वती सम्पन्नेत्यागमः । त्वं कीदृशः । सिद्धमिथुनस्तोयबिन्दुत्रासान्मुक्तमार्गः परिहृतपथः । यतो वीणिभिर्वल्लकीहस्तैः । तन्त्रीर्हि' जलार्द्रा विस्वरा भवति । अपरासाद्य वीर्यं सोढुमक्षमया गङ्गया शरवणे त्यक्तमित्यतः शरजत्वं स्कन्दस्य । प्रतिरन्तःशरेक्षुप्लक्षेत्यादिना णत्वम् ॥
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात् प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी-
रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्॥१।४६॥
शार्ङ्गिणः = भगवतो विष्णोः । वर्णचौरे = कान्त्यपहारके । पृथुं = स्थूलं, विस्तृतं, विशालम् (प्रवाहं) । तनुं = कृशं, सूक्ष्मम् । आवर्ज्य = नियम्य, नमयित्वा । स्थूलमध्येन्द्रनीलं = स्थूलमध्यस्थनीलमणिम् । मुक्तागुणं = मुक्ताहारम् ।
सञ्जीवनी
त्वयीति ॥ शार्ङ्गिणः कृष्णस्य वर्णस्य कान्तेश्चौरे वर्णचौरे । तत्तुल्यवर्ण इत्यर्थः । त्वयि जलमादातुमवनते सति पृथुमपि दूरत्वात्तनुं सूक्ष्मतया प्रतीयमानं तस्याः सिन्धोश्चर्मण्वत्याख्यायाः प्रवाहम् ।प्रवाहम् गगने गतिर्येषां ते गगनगतयः खेचराः सिद्धगन्धर्वादयः ॥ अयमपि बहुव्रीहिः पूर्ववज्जन्माद्युत्तरपदेषु द्रष्टव्यः ॥ नूनं सत्यं दृष्टीरावर्ज्य नियम्यैकमेकयष्टिकं स्थूलो महान्मध्यो मध्यमणीभूत इन्द्रनीलो यस्य तं भुवो भूमेर्मुक्तागुणं मुक्ताहारमिव प्रेक्षिष्यन्ते ॥ अत्रात्यन्तनीलमेघसङ्गतस्य प्रवाहस्य भूकण्ठमुक्तागुणत्वेनोत्प्रेक्षणादुत्प्रेक्षैवेय मितीवशब्देन व्यज्यते । निरुक्तकारस्तु तत्र तत्रोपमा यत्र इवशब्दस्य दर्शनम् दर्शनम्इतीवशब्ददर्शनादत्राप्युपमैवेति बभ्राम ॥
वल्लभदेवव्याख्या
त्वयि तोयं ग्रहीतुमवनते लम्बमाने सति तस्याः मिन्धोश्चर्मण्वत्याः
प्रवाहं सिताख्या नभश्चराश्चक्षूंषि दूरमत्यर्थमावर्ज्य निक्षिप्य कौतुकाद्द्रक्ष्यन्ति । यतो भुवः स्थूलमध्येन्द्रनीलमेकं मुक्तागुणं मौक्तिकदामेव । स्रोतसो मुक्तागुणनिभत्वादम्बुदस्य च महानीलतुल्यत्वात् । कीदृशं
प्रवाहम् । पृथुमपि तनुं विस्तीमपि स्वल्पम् । कुतः । दूरभावाद्विप्रकर्षात् । दूराद्धि महदपि स्वल्पं दृश्यते । अत एव मुक्तागुणसारूप्यम् । त्वयि कीदृशे । सजलत्वात्कृष्णस्य वर्णचौरे नीले । एतेनेन्द्रनीलनिभत्वमुक्तम् ॥
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं
पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम्॥१।४७॥
परिचितभ्रूलताविभ्रमाणाम् = अवगतभ्रूव्रततिविलासानां (विभ्रमो नाम विलासः) । पक्ष्मोत्क्षेपात् = नेत्रलोमोन्नयनकारणात् । उपरिविलसत्कृष्णशारप्रभाणाम् = उपरिशोभमानरक्तसितकान्तीनाम् (सारः = कृष्णः श्वेतो रक्तो वा । कृष्णस्त्वुक्तः, रक्तो न सामुद्रिकशास्त्रसम्मतम्)। कुन्दक्षेपानुगमधुकरश्रीमुषां = कुन्दपुष्पसञ्चालनानुसारिभ्रमरकान्तिहारिणाम् (कुन्दानां क्षेपान् अनुगच्छन्तीति कुन्दक्षेपानुगमाः ते च मधुकराः तेषां मुष्णातीति, तेषाम् नेत्रकौतुहलानां)। पात्रीकुर्वन् = विषयीकुर्वन् ।
सञ्जीवनी
तामिति ॥ तां चर्मण्वतीमुत्तीर्य भ्रुवो लता इव भ्रूलताः । उपमितसमासः । तासां विभ्रमा विलासाः परिचिताः क्लृप्ता येषु तेषां पक्ष्माणि नेत्रलोमानि ॥ पक्ष्म सूत्रे च सूक्ष्मांशे किञ्जल्के नेत्र लोमनि इति विश्वः ॥ तेषामुत्क्षेपादुन्नमनाद्धेतोः । कृष्णाश्च ताः शाराश्च कृष्णशारा नीलशबलाः ॥ वर्णो वर्णेन इति समासः ॥ कृष्णरक्तसिताः शाराः इति यादवः । ततश्च शारशब्दादेव सिद्धे कार्ष्ण्ये पुनः कृष्णपदोपादानं कार्ष्ण्यप्राधान्यार्थम् । रक्तत्वं तु न विवक्षितमुपमानानुसारात्तस्य स्वा भाविकस्य स्त्रीनेत्रेषु सामुद्रिकविरोधादितरस्याप्रसङ्गात् । क्वचिद्भावकथनं तूपपत्तिविषयम् ॥ उपरि विलसन्त्यः कृष्णशाराः प्रभा येषां तेषाम् । कुन्दानि माध्यकुसुमानि ॥ माध्यं कुन्दम् कुन्दम्इत्यमरः । तेषां क्षेप इतस्ततश्चलनं तस्यानुग अनुसारिणो ये मधुकरास्तेषां श्रियं मुष्णन्तीति तथोक्तानाम् ।तथोक्तानाम् क्षिप्यमाणकुन्दानुविधायिमधुकर कल्पानामित्यर्थः । दशपुरं रन्तिदेवस्य नगरं तस्य वध्वः स्त्रियः ॥ वधूर्जाया स्नुषा स्त्री च इत्यमरः ॥ तासां नेत्रकौतूहलानां नेत्राभिलाषाणाम् ।नेत्राभिलाषाणाम् साभिलाषदृष्टीनामित्यर्थः । आत्मबिम्बं स्वमूर्ति पात्रीकुर्वन्विषयीकुर्वन्त्रज गच्छ ॥
वल्लभदेवव्याख्या
तां चर्मण्वतीमतीत्य दशपुराख्ये नगरे युवतिनयनकौतुकानामात्मानं पात्रीकुर्वस्तासां नेत्रविषयं नयनन्गच्छेः । दशपुरनिकटेन याया यथा तन्नागरिकास्त्वामीक्षेरन्नित्यर्थः । कीदृशानाम् । नागरिकत्वात्परिचिता अभ्यस्ता भ्रूशाखाविलासा येषाम् । तथा त्वदालोकनवशात्पक्ष्मोत्क्षेपेणोपरि विलसन्ती स्फुरन्ती कृपणशारप्रभा येषाम् । अतश्च कुन्दकुसुमस्य यः क्षेपः प्रेरणां तस्यानुगा अनुयायिनो ये भ्रमरास्तेषां श्रियं शोभां मुष्णन्ति यानि तेषाम् । कुन्दानां मितत्वादलीनां च कालत्वात् । यद्यपि कौतूहलविशेषणान्येतानि तथापि वस्तुबलात्तद्वत्तां नेत्राणामिवैते गुणाः ॥
ब्रह्मावर्तं जनपदमथच्छायया गाहमानः
क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः ।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि॥१।४८॥
छायया = अनातपमण्डलेन । गाहमानः = प्रविशन् । क्षत्रप्रधनपिशुनं = क्षत्रिययुद्धसूचकम् ।
सञ्जीवनी
ब्रह्मावर्तमिति ॥ अथानन्तरं ब्रह्मावर्त नामजनपदं देशम् ॥देशम् अत्र मनुः - सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ इति ॥ छाययानातपमण्डलेन गाहमानः प्रविशन्न तु स्वरूपेण ! पीठक्षेत्राश्रमादीनि परिवृत्यान्यतो व्रजेत् व्रजेत्इति वचनात् ।वचनात् क्षत्रप्रधनपिशुनम् ।क्षत्रप्रधनपिशुनम् अद्यापि शिरःकपालादिमत्तया कुरुपाण्डवयुद्धसूचकमित्यर्थः ॥ युद्धमायोधनं जन्यं मधनं प्रविदारणम्प्रविदारणम् इत्यमरः ॥ तत्मसिद्धं कुरूणामिदं कौरवं क्षेत्रं भजेथाः । कुरुक्षेत्रं व्रजेत्यर्थः गाण्ड्यस्यास्तीति गाण्डीवं धनुर्विशेषः ॥ संज्ञायाम् संज्ञायाम्इति मत्वर्थीयो वप्रत्ययः ॥ गाण्ड्यजगा- कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ इत्यमरः ॥ तद्धनुर्यस्य स गाण्डीवधन्वाऽर्जुनः ॥ वा संज्ञायाम् संज्ञायाम् इत्यनङादेशः ॥ सितशरशतैर्निशितबाणसहसै राजन्यानां राज्ञां मुखानि धाराणामुदकधाराणां पातैः कमलानि त्वमिवाभ्यवर्षदभिमुखं दृष्टवान् ।दृष्टवान् शरवर्षेण शिरांसि विच्छेदेत्यर्थः ॥
वल्लभदेवव्याख्या
ततो ब्रह्मावर्ताख्यं जनपदमधश्छायया प्रतिबिम्बेन संस्पृशंस्तत्कुरुक्षेत्रं यायाः । कीदृशम् । क्षत्रप्रधनपिशुनं राजन्यकसमरसूचकम् । अद्यापि शरशकलाद्यालोकनात् । यत्र च क्षत्रियाणां तीक्ष्णशरशतैरर्जुनो वदनान्यभ्यषिञ्जत्संधुक्षयामास निर्भरीचकार । भवानिव जलवृष्टिभिर्नलिनानीति शरबाहुल्यकथनम् ॥
हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।
कृत्वा तासामधिगममपां सौम्य सारस्वतीनाम्
अन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः॥१।४९॥
हालां = मदिराम् । अभिमतरसाम् = अभीप्सितस्वादाम् । लाङ्गली = हलधरो बलरामः (लाङ्गलम् अस्य अस्तीति) । समरविमुखः = युद्धपराङ्गमुखः । सिषेवे = सेवितवान् । अधिगमम् = अभिमुखगमनम् (सेवामित्यर्थः) ।
सञ्जीवनी
हित्वेति ॥ बन्धुप्रीत्या कुरुपाण्डवस्नेहेन । न तु भयेन । समरविमुखो युद्धनिःस्पृहः । लाङ्गलमस्यास्तीति लाङ्गली हलधरः । अभिमतरसामभीष्टस्वादां तथा रेवत्याः स्वप्रियाया लोचने एवाङ्कः प्रतिबिम्बितत्वाच्चिह्नं यस्यास्तां हालां सुराम् ॥सुराम् सुरा हलिप्रिया हाला इत्यमरः ॥ अभिप्रयुक्तं देशभाषापदमित्यत्र सूत्रे हालेति देशमाषापदमप्यतीव कविप्रयोगात्साधुकविप्रयोगात्साधु इत्युदाजहार वामनः ॥ हित्वा त्यक्त्वा । दुस्त्यजामपीति भावः । याः सारस्वती-अपः सिषेवे । हे सौम्य सुभग , त्वं तासां सरस्वत्या नद्या इमाः सारस्वत्यस्तासामभिगमं सेवां कृत्वान्तोऽन्तरात्मनि शुद्धो निर्मलो निर्दोषो भविता ॥ ण्वुल्तृचौ इति तृच् ॥तृच् अपि सद्य एव पूतो भविष्यसीत्यर्थः ॥ वर्तमानसामीप्ये वर्तमानवद्वा इति वर्तमानप्रत्ययः ॥ वर्णमाश्रेण वर्णेनैव कृष्णः श्यामः । न तु पापेनेत्यर्थः । अन्तः शुद्धिरेव सम्पाद्या न तु बाह्या । बहिःशुद्धोऽपि सूतवधप्रायश्चित्तार्थं सारस्वतसलिलसेवी तत्र भगवान्बलभद्र एव निदर्शनम् । अतो भवतापि सरस्वती सर्वथा सेवितव्येति भावः ॥
वल्लभदेवव्याख्या
हे सोम्य दर्शनीयं तासां सरस्वतीसम्बन्धिनीनामपामभिगमं सेवनं विधाय निश्चेतनस्त्वमप्यन्तःस्वच्छोऽभ्यन्तरनिर्मलो भविता भविष्यसि । केवलं वर्णमात्रेण कृष्णः काल इति महापुण्यत्वोक्तिः । अथ च वस्तुस्वभाव एवैष यन्मेघानां पानीयपानाद्बहिःकृष्णत्वमिति । तामामित्युक्तम् । कामामित्याह । या अपो लाङ्गलो हलधरो हालां मुरां हित्वोपेक्ष्य सिषेवे भेजे । बन्धूनां कुरुपाण्डवानां प्रीत्या वेसुख्यरक्षया । स हि तैर्योद्धुमर्थितः । द्वयेऽपि मे बान्धवाः । तत्कुत्र व्रजामीति विचार्य वेश्म त्याक्त्वा सारस्वततीर्थयात्रामकरोत् । हालात्यागेन नियमग्रहणं तीर्थसेवने प्रतिपादयति । कीदृशीं हालाम् । अभिमतरसामिष्टास्वादाम् । स हि सुराप्रियः । रेवती तद्भार्या । तस्या लोचने एवाङ्कश्चिह्नं प्रतिविम्बवशाद्यस्याः । भवितेति तृजन्तः । स हि कालसामान्ये । सोम व सोम्यः । शाखादिभ्यो यत् ॥
तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां
जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः
शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता॥१।५०॥
गौरीवक्त्रभ्रुकुटिरचनां = गिरिजामुखभङ्गकारणम् । इन्दुलग्नोर्मिहस्ता = चन्द्रस्पृष्टवीचिकराः (इन्दौ लग्नाः ऊर्मयः एव हस्तौ यस्याः)। फेनैः = डीण्डीरैः ।
सञ्जीवनी
तस्मादिति ॥ तस्मात्कुरुक्षेत्रात्कनखलस्याद्रेः समीपेऽनुकनखलम् ॥ अनुर्यत्समया इत्यव्ययीभावः ॥ शैलराजाद्धिमवतोऽवतीर्णा सगरतनयानां स्वर्गसोपानपङ्किम् । स्वर्गप्राप्तिसाधनभूतामित्यर्थः । जह्नोर्नाम राज्ञः कन्यां जाह्नवीं गच्छेर्गच्छ ॥ विध्यर्थे लिङ् ॥ या जाह्नवी गौर्या वक्त्रे या भ्रुकुटिरचना सापत्न्यरोषादद्भ्रूभङ्गकरणं तां फेर्नैर्विहस्यावहस्येव ॥ धावल्यात्फेनानां हासत्वनोत्प्रेक्षा ॥ इन्दौ शिरोमाणिक्यभूते लग्ना ऊर्मय एव हस्ता यस्याः सेन्दुलग्नोमिंहस्ता सती शम्भोः केशग्रहणमकरोत् ।केशग्रहणमकरोत् यथा काचित्प्रौढा नायिका सपत्नीमसहमाना स्ववाल्लभ्यं प्रकटयन्ती स्वभर्तारं सह शिरोरत्नेन केशेष्वाकर्षति तद्वदिति भावः ॥ इदं च पुरा किल भगीरथमार्थनया भगवतीं गगनपथात्पतन्तीं गङ्गां गङ्गाधरो जटाजूटेन जाति कथामुपजीव्योक्तम् ॥
वल्लभदेवव्याख्या
तस्मात्सरस्वतीदेशादनकनखलं कनखलाख्यतीर्थ समोपे हिमवतः प्रभृतां
जाह्नवीं यायाः । कीदृशीम । सगरात्मजानां यष्टिसहस्रसंख्यानां स्वर्गार्थं सोपानपङ्क्तिं निःश्रेणिमालाम् । तत्प्राप्तापायत्वात् । ते हि पाताले कपिलेन रोषाद्दग्धा भगीरथावतारितया भागीरथ्याप्लावितभस्मा-
नस्त्रिदिवमापुः । या च देवी भुवमवतरन्ती गौरीवक्त्रभ्रुकुटिरचनां दिण्डीरैरवहस्येव सपत्नीव शंभोः केशग्रहणमकरोदिति युवतिधर्मारोपः । इन्दौ लग्ना ऊर्मय एव हस्ता यस्याः सा । करेण हि केशाकर्षणं क्रियते । मत्संनिधावेवानया केशा गृह्यन्त इति गौर्या भ्रुकुटिबन्धः । केशेषु धारणाद्गङ्गायाः केशग्राहित्वम् । सा हि स्वर्गात्पतन्ती हरेण जटाग्रे धृतेत्यागमः । भ्रूकुटिवद्भ्रुकुटिशब्दः संयोगादिरप्यस्तीति न वृत्तभङ्गः ॥
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी
त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्या सपदि भवतः स्रोतसि च्छाययासौ
स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा॥१।५१॥
पश्चार्धलम्बी = पूर्वार्धेन जलोन्मुखः इत्यर्थः । तिर्यक् = तिरश्चीनम् । अभिरामा = मनोज्ञा, मनोहारिणी ।
सञ्जीवनी
तस्या इति ॥ सुरगज इव कश्चिद्दिग्गज इव व्योम्नि पश्चादर्थं पश्चार्धम् । पश्चिमार्धमित्यर्थः ॥ पृषोदरादित्वात्साधुः ॥ तेन लम्बत इति पश्चार्धलम्बी सन्पश्चार्धभागेन व्योम्नि स्थित्वा । पूर्वार्धेन जलोन्मुख इत्यर्थः । अच्छ स्फटिकविशदं निर्मलस्फटिकावदातं तस्या गङ्गाया अम्भस्तिर्यक्तिरश्चीनं यथा तथा पातुं त्वं तर्कयेविचारयेश्चेत् । सपदि स्रोतसि प्रवाहे संसर्पन्त्या सङ्क्रामन्त्या भवतश्छायया प्रतिबिम्बेनासौ गङ्गास्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनासङ्गमो यया सा तथाभूतेवाभिरामा स्यात् ॥
वल्लभदेवव्याख्या
तस्या जाह्नव्या अमलस्फटिकधवलमुदकं त्वं चेत्पातुं तर्कयेः पश्येस्तत्प्रवाहे प्रसरन्त्या भवतच्छायया कान्या सपदि तत्क्षणं मा गङ्गास्थानोपनतयमुनासंगमेवाभिरामा स्यात् । प्रयागादन्यत्रापि संपन्नकालिन्दीसमागमा यथा रम्या भवेत् । त्वत्प्रतिबिम्बस्य यमुनाकारत्वात् । कीदृशस्त्वम् । सुरगज इवैरावणवन्नभसि पूर्वार्धेनोत्तरभागेण लम्बते यः स पूर्वार्धलम्बी ॥
आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्॥१।५२॥
अन्वयः – आसीनानां मृगाणां नाभिगन्धैः सुरभितशिलं तस्या एव प्रभवम् तुषारैः गौरं अचलं प्राप्य अध्वश्रमविनयने तस्य शृङ्गे निषण्णः शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयां शोभां वक्ष्यसि ।
अध्वश्रमविनयने = मार्गपरिश्रमशमने (विनीयते अनेनेति विनयनम् । अध्वनः श्रमस्य विनयनं, तस्मिन्)। निषण्णः = उपविष्टः । प्रभवम् = उत्पत्तिस्थानम् । वक्ष्यसि = धारयिष्यसि ।
सञ्जीवनी
आसीनानामिति ॥ आसीनानामुपविष्टानां मृगाणां कस्तूरिकामृगाणाम् ॥ अन्यथा नाभिगन्धानुपपत्तेः ॥ नाभिगन्धैः कस्तूरीगन्धैस्तेषां तदुद्भवत्वात् । अत एव मृगगनाभिसंज्ञा च ॥ मृगनाभिर्मृगमदः कस्तूरी च इत्यमरः ॥ अथवा नाभयः कस्तूर्यः ॥ नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः इति विश्वः ॥ तासां गन्धैः सुरभिताः सुरभीकृताः शिला यस्य तं तस्या गङ्गाया एव प्रभवत्यस्मादिति प्रभवः कारणम् । तुषारैगौरं सितम् ॥ अवदातः सितो गौरः इत्यमरः ॥ अचलं प्राप्य । विनीयतेऽनेनेति विनयनम् ॥ करणे ल्युट् ॥ अध्वश्रमस्य विनयनेऽपनोदके तस्य हिमाद्रेः शृङ्गे निषण्णः सन् । शुभ्रो यस्त्रिनयनस्य त्र्यम्बकस्य वृषो वृषभः ॥ सुकृते वृषभे वृषः इत्यमरः ॥ तेनोत्खातेन विदारितेन पङ्केन सहो पमेयामुपमातुमर्हा शोभां वक्ष्यसि वोढासि ॥ वहतेऌट् ॥ त्रिनयन- इत्यत्र पूर्वपदात्संज्ञायामगः इति णत्वं न भवति क्षुभ्रादिषु च इति निषेधात् ॥ तस्याः प्रभवमित्यादिना हिमाद्रौ मेवस्य वैवाहिको गृहविहारो ध्वन्यते ॥
वल्लभदेवव्याख्या
तस्या एव खनद्याः प्रभवं जनकमचलमद्रिं हिमवन्तमासाद्य तदीयशिखरे स्थितस्त्वं हरवृषशिरीषदारितकर्दमसदृशीं मनोहरां शोभां वक्ष्यसि धारयिष्यसि । तस्य वृषभसितत्वात्तव च पङ्ककालत्वात् ।कीदृशमचलम् । मृगाणां कस्तूरिकाकुरङ्गाणामुपविष्टानां नाभिगन्धैः सुगन्धीकृतशिलम् । तुषारैर्हिमैर्गौरं शुभ्रम् । तुहिनशीतलत्वाच्च शृङ्गस्य मार्गस्वेदनिवर्तकत्वम् । प्रभवत्यस्मादिति प्रभवः ॥ ५२ ॥
तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा
बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।
अर्हस्येनं शमयितुमलं वारिधारासहस्रै-
रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम्॥१।५३॥
सरलस्कन्धसंघट्टजन्मा = पूतिकाष्ठप्रकाण्डसङ्घर्षजातः (सरलः = वृक्षविशेषः)। आपन्नार्तिप्रशमनफलाः = आर्तदुःखविनशनपराः । उल्काक्षपितचमरीबालभारः = स्फुलिङ्गदग्धचमरीकेशनिचयः (उल्काभिः स्फुलिङ्गैः क्षपिताः दग्धाः चमरीणां बालभाराः केशसमूहाः येन, स दवाग्निः)।
सञ्जीवनी
तमिति ॥ वायौ वनवाते सरति वाति सति सरलानां देवदारुद्रुमाणां स्कन्धाः प्रदेशविशेषाः ॥ अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधेस्तरोः इत्यमरः ॥ तेषां सङ्घट्टनेन सङ्घर्षगेन जन्म यस्य स तथोक्तः ॥ जन्मोत्तरपदत्वाद्वचधिकरणोऽपि बहुव्रीहिः साधुरित्यक्तम् ॥ उल्काभिः स्फुलिङ्गैः क्षपिता निर्दग्धाश्वमरीणां बालभाराः केशसमूहा येन । दव एवाग्निर्दवाग्निर्वनवह्निः ॥ वने च वनवह्नौ च दवो दाव इतीष्यतेइतीष्यते इति यादवः ॥ तं हिमाद्रिं बाधेत चेत्पीडयेद्यदि । एनं दवाग्निं वारिधारासहस्रैः शमयितुमर्हसि ॥ युक्तं चैतदित्याह -उत्तमानाम्महतां सम्पदः समृद्धय आपन्नानामार्तनामार्तिप्रशमनमापनिवारणमेव फलं प्रयोजनं यासां तास्तथोक्ता हि । अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥
वल्लभदेवव्याख्या
तं नगं यदि दावानलो बाधेत दहेत्तदेनमग्नि त्वमासारेण वेगवद्वर्षेण निर्वापयितुमर्हसि । यस्मान्महतामृद्धय आपन्नार्तिप्रशमितफलाः । यदि ह्यार्तानामापन्न विनाश्यते तत्किं समृद्ध्या प्रयोजनम् । कीदृशो दवाग्निः । वाते वहति सति सरलस्कन्धसंघट्टजन्या देवदारुविटपसंयोगसमुत्थितः । तत्संघट्टवशाद्धि दावानलो जायते । तथोल्काभिर्ज्वालाभिर्दग्धचमरीबालभारः ॥
ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन्
मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान् कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्
के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः॥१।५४॥
तुमुलकरकावृष्टिपातावकीर्णान् = भयानकोपलवर्षणावक्षिप्तान् । संरम्भोत्पतनरभसाः = क्रोधोत्प्लवनवेगयुताः । मुक्ताध्वानं = परित्यक्तशरभमार्गम् । शरभाः = अष्टापदमृगविशेषाः ।
सञ्जीवनी
य इति ॥ तस्मिन्हिमाद्रौ संरम्भः कोपः ॥ संरम्भः सङ्क्रमे कोपेकोपे इति शब्दार्णवे ॥ तेनोत्पतन उत्प्लवने रभसो वेगो येषां ते तथोक्ताः ॥ रमसो वेगहर्षयोः इत्यमरः ॥ ये शरभा अष्टापद मृगविशेषाः ॥ शरभः शलभे चाष्टापदे प्रोक्तो मृगान्तरेमृगान्तरे इति विश्वः ॥ मुक्तोऽध्वा शरभोत्प्लवनमार्गों येन तं भवन्तं सपदि स्वाङ्गभङ्गाय लङ्घयेयुः ॥ सम्भावनायां लिङ् ॥ भवतोऽतिदूरत्वात्स्वाङ्गभङ्गाविरिक्तं फलं नास्ति लङ्घनस्येत्यर्थः । तान् शरभांस्तुमुलाः सङ्कुलाः करका वर्षोपलाः ॥ वर्षो पलस्तु करका इत्यमरः ॥ तासां वृष्टिस्तस्याः पातेनावकीर्णान्विक्षिप्तान्कुर्वीथाः कुरुष्व ॥ विध्यर्थे लिङ् ॥ क्षुद्रोऽप्यधिक्षिपन्प्रतिपक्षः सद्यः प्रतिक्षेप्तव्य इति भावः । तथाहि निष्फलायम्भरत्नाः आरम्भन्त इत्यारम्भाः कर्माणि तेषु यत्न उद्योगः स निष्पलो येषां ते तथोक्ताः । निष्कर्मोपक्रमा इत्यर्थः । अतः के वा परिभवपदं तिरस्कारपदं नं स्युर्न भवन्ति सर्व एव भवन्तीत्यर्थः ॥ यदत्र घनो पलस्तु करके इति यादववचनात्करकशब्दस्य नियतपुंलिङ्गताभिप्रायेण करकाणामावृष्टिः इति केषाञ्चिद्व्याख्यानं तदन्ये नानुमन्यन्ते । वर्षोपलस्तु करका इत्यमरवचन व्याख्याने क्षरिस्वामिना । कमण्डलौ च करकः सुगते च विनायके इति नानार्थे पुंस्यपि वक्ष्यतीति वदतोभयलिङ्गताप्रकाशनात् । यादवस्य तु पुंलिङ्गताविधाने तात्पर्यं न तु स्त्रीलिङ्गतानिषेध इति न तद्विरोधोऽपि । करकस्तु करङ्के स्याद्दाडिमे च कमण्डलौ । पक्षिभेदे करे चापि करका च घनोपले इति विश्वप्रका शवचने तूभयलिङ्गता व्यक्तैवेति न कुत्रापि विरोधवार्ता । अत एव रुद्रः-‘वर्षोपलस्तु करका करकोऽपि च दृश्यतेदृश्यते इति ॥
वल्लभदेवव्याख्या
त्वां च गर्जन्तं तत्राद्रौ ये शरभाख्याः सत्त्वा दर्पोत्सेकान्मदोद्रेकादसहमानाः सन्तोऽलङ्घ्यमपि लङ्यिष्यन्ति जिघृक्षन्ति तांस्त्वं तुमुलकरकावृष्टिहासावकीर्णान्विषमोपलवर्षस्मिताच्छादितान्कुर्वीथाः । बाधेथा इत्यर्थः । न तच्चित्रं यत्ते नश्यन्ति । यतो निष्फल आरम्भे यत्नो येषां ते तथाविधाः के परिभवस्य स्थानं पात्रं न भवेयुः । अवश्यं ते परिभूयन्त इत्यर्थः । त्वदाक्रमणेच्छा शरभाणां निष्फला । तव ग्रहोतुमशक्यत्वात् ॥
तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः
शश्वत् सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः ।
यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः
कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः॥१।५५॥
परीयाः = प्रदक्षिणं कुरु । उद्धूतपापाः = निर्गतकल्मषाः । करणविगमात् = शरीरपरित्यागात् । व्यक्तं = स्पष्टम् । दृषदि = प्रस्तरे । उपचितबलिं = रचितपूजाविधिम् ।
सञ्जीवनी
तत्रेति ॥ तत्र हिमाद्रौ द्रुषदि कस्यांविच्छिलायां व्यक्तं प्रकटं शश्वत्सदा सिद्धयोगिभिः ॥ सिद्धिर्निष्पत्तियोगयोः इति विश्वः ॥ उपचितबलि रचितपूजाविधिम् ॥रचितपूजाविधिम् बलिः पूजोपहारयोः इति यादवः ॥ अर्धश्चासाबिन्दुश्चेत्यर्धेन्दुः ॥ अर्धः खण्डे समेंऽशके इति विश्वः ॥ स मौलौ यस्य तस्येश्वरस्य चरणन्यासं पादविन्यासम् । भक्तिः पूज्येष्वनुरागस्तया नम्रः सन्परीयाः प्रदक्षिणं कुरु ॥ परिपूर्वादिणो लिङ् ॥ यस्मिन्पादन्यासे दृष्टे सत्युद्भूतपापा निरस्तकल्मषाः सन्तः श्रद्दधाना विश्वसन्तः पुरुषाः । श्रद्धा विश्वासः । आस्तिक्य बुद्धिरिति यावत् । श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या इति श्रत्पूर्वाद्दधातेः शानच् ॥ करणस्य क्षेत्रस्थ विगमादूर्ध्वं देहत्यागानन्तरम् ॥ करणं साधकतमं क्षेत्रगात्रेन्द्रियेषु च इत्यमरः ॥ स्थिरं शाश्वतं गणानां प्रमथानां पदं स्थानम् ॥ गणाः प्रमथसङ्ख्यौघाः इति वैजयन्ती । तस्य प्राप्तये सङ्कपन्ते समर्थ भवन्ति ॥ क्लृप्तेः पर्याप्तिवचनस्यालमर्थत्वात्तद्योगे नमःस्वस्ति- इत्यादिना चतुर्थी ॥ अलमिति पर्याप्त्यर्थग्रहणम् पर्याप्त्यर्थग्रहणम्इति भाष्यकारः ॥ व्यक्तं व्यञ्जयामास शिवः श्रीचरणद्वयम् ॥ हिमाद्रौ शाम्भवादीनां सिद्धये सर्वकर्मणाम् ॥ दृष्ट्वा श्रीचरणन्यासं साधकः स्थितये तनुम् ॥ इच्छाधीनशरीरो हि विचरेच्च जगत्त्रयम् ॥जगत्त्रयम् इति शम्भुरहस्ये ॥
वल्लभदेवव्याख्या
तत्र हिमवति दृषदि शिलायामर्धेन्दुमौलेः शिवस्य व्यक्तं चरणन्यासं प्रकटां पादमुद्रां त्वं भक्त्या प्रणतः परीयाः प्रदक्षिणीकुर्याः । यस्मात्तस्मिन्नवलोकिते क्षपितकिल्बिषाः सन्तः श्रद्दधाना भक्ताः करणविगमादूर्ध्वं देहपातादनन्तरमस्य देवस्य स्थिरगणपदप्राप्तये कल्पन्ते । अनश्वराः प्रमथाः संपद्यन्ते । अत एव सदा सिद्धैर्निवेदितोपहारम् । इन्दोरर्धमर्धेन्दुर्मालौ शेखरे यस्य सोऽर्धेन्दुमौलिः । कलामात्रधारित्वेऽपि संस्थानापेक्षमर्धत्वम् । इणः परिपूर्वस्य लिङः सिपि परीया इति रूपम् । करणानीन्द्रियाणि विद्यन्ते यत्र तत्करणं वपुः । अर्श आदिभ्योऽच् ॥
शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
संरक्ताभिस्त्रिपुरविजयो गीयते किन्नराभिः ।
निर्ह्रादस्ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात्
संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः॥१।५६॥
मुरजे = मृदङ्गे । निर्ह्रादः = शब्दः । संरक्ताभिः = प्रेमानुरक्ताभिः ।
सञ्जीवनी
शब्दायन्त इति ॥ हे मेघ , अनिलैः पूर्यमाणाः कीचका वेणुविशेषाः ॥ वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः इत्यमरः । कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे द्रुमान्तरे इति विश्वः ॥ मधुरं श्रुतिसुखं यथा तथा शब्दायन्ते शं कुर्वन्ति । स्वनन्तीत्यर्थः ॥ शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणेकरणे इत्यादिना क्यङ् ॥ अनेन वंशवाद्य सम्पत्तिरुक्ता । संसक्ताभिः संयुक्ताभिर्वंशवाद्यानुषक्ताभिर्वा ॥ संरक्ताभिः इति पाठे संरक्तकण्ठीभिरित्यर्थः ॥ किन्नरीभिः किन्नरस्त्रीभिः । त्रयाणां पुराणां समाहारस्त्रिपुरम् ॥ तद्धितार्थोत्तरपद- इति समासः । पात्रादित्वान्नपुंसकत्वम् ॥ तस्य विजयो गीयते । कन्दरेषु दरीषु ॥ दरी तु कन्दरो वा स्त्री इत्यमरः ॥ ते तव निर्ह्रादो मुरजे वाद्यभेदे ध्वनिरिव । मुरजध्वनिरिवेत्यर्थः । स्याच्चेत्तार्हि तत्र चरणसमीपे पशुपतेर्नित्यसन्निहितस्य शिवस्य सङ्गीतम् ॥सङ्गीतम् तौर्यत्रिकं तु सङ्गीतं न्यायारम्भे प्रसिद्धके । तूर्याणां त्रितये च इति शब्दार्णवे ॥ तदेवार्थः सङ्गीतार्थः सङ्गीतवस्तु ॥ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषुइत्यमरः ॥ समग्रः सम्पूर्णो भावी ननु भविष्यति खलु ॥ भविष्यति गम्यादयः इति भविष्यदर्थे णिनिः ॥
वल्लभदेवव्याख्या
तव ध्वनिः कन्दरासु गुहासु निर्ह्रादी घूर्णमानो मुरज इव यदि भवेत्तत्तत्र हरस्य संगीतार्थो गुणनिकावस्तु समस्तोऽखण्डो भावी भविष्यति । अन्या हि तव सामग्री विद्यते । तथा हि कीचका वंशा वातैरुद्धूता मधुरं शब्दायन्ते ध्वनन्ति । भाविताभिश्च किंपुरुषाङ्गनाभिस्त्रिपुरदाहाख्यं काव्यं गीयते । त्वदीयश्च शब्दप्रतिबिम्बो मुरजनिभो यदि स्यात्तत्संगीतार्थः पशुपतेस्तच्च भावी समस्तः । शब्दं कुर्वन्ति शब्दायन्ते । निर्ह्रादी गम्भीरः ॥
प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्
हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः॥१।५७॥
प्रालेयार्द्रेः = हिमपर्वतस्य । तिर्यगायामशोभी = तिरश्चीनदैर्घ्यशोभी ।
सञ्जीवनी
प्रालेयेति ॥ प्रालेयाद्रेर्हिमाद्रेरुपतरं तटसमीपे ॥ अव्ययं विभक्ति - इत्यादिना समीपार्थेऽव्ययीभावः ॥ ताम् । स्तान् ॥ विप्सायां द्विरुक्तिः ॥ विशेषान्द्रष्टव्यर्थान् ॥ विशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि इति शब्दार्णवे ॥ अतिक्रम्यानुसरेर्गच्छेरित्यनागतेन सम्बन्धः ॥ हंसानां द्वारं हंसद्वारम् ॥हंसद्वारम् मानसप्रस्थायिनो हंसाः क्रौञ्चरन्ध्रेण सञ्चरन्ते इत्यागमः ॥ भृगुपतेर्जामदग्न्यस्य यशोवर्त्म । यशःप्रवृत्तिकारणमित्यर्थः । यत्क्रौञ्चस्याद्रे रन्ध्रमस्ति तेन क्रौञ्चबिलेन बलेदैत्यस्य नियमने बन्धनेऽभ्युद्यवस्य प्रवृत्तस्य विष्णोर्व्यापकस्य त्रिविक्रमस्य श्यामः कृष्णवर्णः पाद इव तिर्यगायामेन क्षिप्रवेशनार्थं तिरश्चीनदैर्घ्येण शोभत इति तथाविधः सन्नुदीचीमुत्तरां दिशमनुसरेरनुगच्छ ॥ पुरा किल भगवतो देवाद्धूर्जटेर्धनुरुपनिषदमधीयानेन भृगुनन्दनेन स्कन्धस्य स्पर्धया क्रौञ्चशिखरिणमतिनिशितविशिखमुखेन हेलया मृत्पिण्डभेदं भित्त्वा तत एव क्रौञ्चक्रोडादेव सद्यः समुज्जृम्भिते कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगज्जालमाप्लावितमिति कथा श्रूयते ॥
वल्लभदेवव्याख्या
प्रालेयाद्रेर्हिमवत उपतटं पर्यन्ते तांस्तान्विशेषांश्चरणन्यासादीनद्भुतानतिक्रम्योल्लङ्घ्य यत्कौञ्चाद्रिच्छिद्रं हंसानां द्वारभूतं विद्यते तेन रन्ध्रेण त्वं कौबेरीमाशामभिसरेर्गच्छेः । तिर्यग्य आयामो विस्तारस्तेन शोभमानः । अतश्च बलिवचनोत्थितस्य विष्णो: श्यामश्चरण इवेत्युपमा । कीदृग्रन्ध्रम् । भृगुपतिः परशुरामस्तदीयस्य यशसो वर्त्म प्रसरणमार्गः । तेन क्रौञ्चस्य भज्यमानत्वात् । प्रालेयं हिमम् । अतिक्रम्येति परावरयोगे चेति क्त्वा ॥
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं
राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः॥१।५८॥
दशमुखभुजोच्छ्वासितप्रस्थसन्धेः = रावणबाहुविघटितशिखरसन्धेः । शृङ्गोच्छ्रायैः = शिखरौनत्यैः । वितत्य = व्याप्य । राशीभूतः = सञ्चितः ।
सञ्जीवनी
गत्वेति ॥ क्रौञ्चबिलनिर्गमनानन्तरमूर्ध्वं च गत्वा दशमुखस्य रावणस्य भुजैर्बाहुभिरुच्छ्वासिता विश्लेषिताः प्रस्थानां सानूनां सङ्घयो यस्य तस्य ॥ एतेन नयनकौ तुकसद्भाव उक्तः ॥ त्रिर्दशपरिमाणमेषामस्तीति त्रिदशाः ॥ सङ्ख्ययाव्यया- इत्यादिना बहुव्रीहिः । बहुव्रीहौ सङ्ख्यये डच्-डच् इत्यादिना समासान्तो डजिति क्षीरस्वामी ॥ त्रिदशानां देवानां वनितास्तासां दर्पणस्य ॥ कैलासस्य स्फटिकत्वाद्रजतत्वाद्वा बिम्बग्राहित्वेनेदमुक्तम् ॥ कैलासस्यातिथिः स्याः । यः कैलासः कुमुदविशदैर्मिर्मलैः शृङ्गाणामुच्छ्रायैरौन्नत्यैः खमाकाशं वितत्य व्याप्य प्रतिदिनं दिने दिने राशीभूतस्त्र्यम्बकस्य त्रिलोचनस्याट्ट्सोऽतिहास इव स्थितः ॥ अट्टावतिशयक्षौमौ इति यादवः ॥ धावल्याद्धासत्वेनोत्प्रेक्षा । हासादीनां धावल्यं कविसमयसिद्धम् ॥
वल्लभदेवव्याख्या
ऊर्ध्वमनन्तरं गत्वा कैलासाद्रेरतिथिः स्याः । तं गछेरित्यर्थः । कीदृशस्य । दशमुखभुजोच्छ्वासितप्रस्थसंधेः पौलस्त्यबाहुदलितसानुबन्धस्य । स हि तेन दर्पादुन्मूलयितुमिष्टोऽभूत् । तथा सुरललनानां दर्पणस्यादर्शनिभस्य । स्फाटिकत्वेन मुखावलोकनात् । यश्च कैरवधवलैरुन्नतैः शिखरैर्नभो व्याप्य स्थितः । अतश्चोत्प्रेक्षते । अनुक्षपं पुञ्जीभूतः शिवस्याट्टहास उद्यतस्मितमिव ॥
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
कृत्तद्विरददशनच्छेदगौरस्य तस्य ।
शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम्
अंसन्यस्ते सति हलभृतो मेचके वाससीव॥१।५९॥
उत्पश्यामि = तर्कयामि । स्निग्धभिन्नाञ्जनाभे = चिक्कणमर्दितकजलछवौ । कृत्तद्विरददशनच्छेदगौरस्य = छिन्नगजदन्तखण्डधवलस्य । मेचके = नीले । अंसन्यस्ते = स्कन्धधारिते । स्तिमितनयनप्रेक्षणीयां = निश्चलनयनदर्शनीयाम् ।
सञ्जीवनी
उत्पश्यामीति ॥ स्निग्धं मसृणं भिन्नं मर्दितं च यदञ्जनं कज्जलं तस्यामेवाभा यस्य तस्मिंस्त्वयि तटगते सानुं गते सति सद्यः कृत्तस्य छिन्नस्य द्विरददशनस्य गजदन्तस्य छेदवद्भौरस्य धवलस्य तस्याद्रेः कैलासस्य मेचके श्यामले ॥ कृष्णे नीलासितश्यामकालश्वामलमेचकाः इत्यमरः ॥ वाससि वस्त्रेऽसन्यस्ते सति हलभृतो बलभद्रस्येव स्तिमिताभ्यां नयनाभ्यां प्रेक्षणीयां शोभां भवित्रीं भाविनीमुत्पश्यामि । शोभा भविष्यतीति तर्कयामीत्यर्थः ॥ श्रोती पूर्णोपमालङ्कारः ॥
वल्लभदेवव्याख्या
त्वयि शिखरस्थिते सति तस्य कैलासस्यानिमिषलोचनदृश्यां भाविनीं शोभामुत्प्रेक्षेऽहम् । तस्य कस्येव । अंसन्यस्ते स्कन्धप्रावृते मेचके कृष्णे वस्त्रे हलधरस्येव । मेघस्य कालत्वात् । स्निग्धभिन्नाञ्जनाभेऽरूक्षपिष्टकज्जलनिभ इति मेघविशेषणम् । तस्य तु तत्क्षणच्छिन्नदन्तिदन्तखण्डवलक्षस्य । गौरोऽपि शुभ्रः ॥
हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता
क्रीडाशैले यदि च विचरेत्पादचारेण गौरी ।
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः
सोपानत्वं कुरु मणितटारोहणायाग्रयायी॥१।६०॥
भुजगवलयं = पन्नगकङ्कणम् । अग्रयायी = पुरोगन्ता । भङ्गीभक्त्या = पूर्वनिर्माणेन । विरचितवपुः = कल्पितगात्रः । स्तम्भितान्तर्जलौघः = घनीभूतान्तरजलप्रवाहः ।
सञ्जीवनी
हित्वेति ॥ तस्मिन्क्रीडाशैले कैलासे ॥ कैलासः कनकाद्रिश्च मन्दरो गन्धमादनः । क्रीडार्थं निर्मिताः शम्भोदेवैः क्रीडाद्रयोऽभवन् ॥क्रीडाद्रयोऽभवन् इति शम्भुरहस्ये । शम्भुना शिवेन भुजग एव वलयः कङ्कणं हित्वा गौर्या भीरुत्वात्य क्त्वा दत्तहस्ता सती गौरी पादचारेण विचरेद्यदि तर्ह्य पुरोगतस्तथा स्तम्भितो घनीभावं प्रापितोऽन्तर्जलस्यौः प्रवाहो यस्य स तथाभूतः । भङ्गीनां पर्वणां भक्त्या रचनया विरचितवपुः कल्पितशरीरः सन् ।सन् मणीनां तटं मणितटं तस्यारोहणाय सोपानत्वं कुरु । सोपानभावं भजेत्यर्थः ॥
वल्लभदेवव्याख्या
तस्मिंश्च केलिपर्वते कैलासे शिवेनालम्बितकरा पार्वती यदि पादचारेण चरणाभ्यां विहरेच्चङ्क्रम्येत तदस्यास्त्वमारोहणेषु सोपामत्वं कुर्याः । यतो भङ्गीभक्त्या तरंगविच्छित्या कल्लोलाकारेण विरचितदेहः । अत एव तत्सुखपदस्पर्शं पारुष्याभावाच्छीतलत्वाच्च चरणप्रीतिकारि । स्तम्भितं निश्चलीकृतमन्तरुदरे जलं येन । अन्यथा हि पादसादः स्यात् । भयंकरत्वादेव नीलं सर्पकटकं हित्वा त्यक्त्वा । पादाभ्यां चारो गमनं पादचारः ॥
तत्रावश्यं वलयकुलिशोद्घट्टनोद्गीर्णतोयं
नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्
क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः॥१।६१॥
यन्त्रधारा = fountain; क्रीडालोलाः = केलिचपलाः, क्रीडासक्ताः, प्रमत्ताः । वलयकुलिशोद्घट्टनोद्गीर्णतोयं = कङ्कणकोटिप्रहारवान्तजलं (वलयानां कुलिशानि कङ्कणकोटयः तेषाम् उद्घट्टनानि प्रहाराः तैः उद्गीर्णं तोयं येन तम्) ।
सञ्जीवनी
तत्रेति । तत्र कैलासेऽवश्यं सर्वथा सुरयुवतयो वलयकुलिशानि कङ्कणकोटयः ॥ शतकोटिवाचिना कुलिशशब्देन कोटिमात्रं लक्ष्यते ॥ तैरुद्धट्टनानि प्रहारास्तैरुद्रीर्णमुत्सृष्टं तोयं येन तं त्वां यन्त्रेषु धारा यन्त्रधारास्तासां गृहत्वं कृत्रिमधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति ॥ हे सखे मित्र, घर्मे निदाघे लब्धस्य ॥ घर्मलब्धत्वं चास्य देवभूमिषु सर्वदा सर्वर्तुसमाहारात्प्राथमिक मेघत्वाद्वा । यथोक्तं आषाढस्य प्रथम- इति ॥ तव ताभ्यः सुरयुवतिभ्यो मोक्षो न स्याद्यदि तदा क्रीडालोलाः क्रीडासक्ताः । प्रमत्ता इत्यर्थः । ताः सुरयुवतीः श्रवणपरुषैः कर्णकटुभिर्गर्जितैः करणैर्भाययेस्त्रासयेः । अत्र हेतुभयाभावादात्मनेपदं षुगागमश्च न ॥
वल्लभदेवव्याख्या
तत्राद्रौ जनितललिलोद्गारं वर्षन्तं त्वामभ्यन्तरप्रवेशान्निश्चितं त्रिदशवनिता नाकयुवत्यो यन्त्रधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति । यदि किलानिलवशाद्वेश्ममध्ये निक्षिप्तो विरलं वर्षसि तदा त्वमेव यन्त्रधारामयं गृहं संपद्यसे । ग्रीष्मे हि संतापनिवारणायाढ्या धारागृहान्कुर्वते । एवं सति धर्मे लब्धस्य तव ताभ्यः सकाशात्केलिलम्पटाभ्यो यदि त्यागो मोक्षो न स्यात्तत्कर्णकटुकैर्गर्जितैस्ता भाययेस्त्रासयेः । यथोद्विज्य त्वां मुञ्चेयुरिति भावः । उद्गारः प्रसरः ॥
हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
कुर्वन् कामं क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन् कल्पद्रुमकिसलयान्यंशुकानीव वातै-
र्नानाचेष्टैर्जलदललितैर्निर्विशेस्तं नगेन्द्रम्॥१।६२॥
निर्विशेः = समुपभुङ्क्ष्व । हेमाम्भोजप्रसवि = स्वर्णकमलोत्पादकं (सलिलम्) । अंशुकानि = वस्त्राणि ।
सञ्जीवनी
हेमेति ॥ हे जलद, हेमाम्भोजानां प्रसवि जनकम् ॥ जिदृक्षि- इत्यादिनेनिप्रत्ययः ॥ मानसस्य सरसः सलिलमाददानः । पिबन्नित्यर्थः । तथैरावतस्येन्द्रगजस्य । कामचारित्वाद्वा शिवसेवार्थमिन्द्रागमनाद्वा समागतस्येति भावः । क्षणे जलादानकाले मुखे पटेन या प्रीतिस्तां कुर्वन् । तथा कल्पद्रुमाणां किसलयानि पल्लवभूतान्यंशुकानि सूक्ष्मवस्त्राणीव ॥ अंशुकं वस्त्रभात्रे स्यात्परिधानोत्तरीययोः । सूक्ष्मवस्त्रे नाऽतिदीप्तौ इति शब्दार्णवे ॥ वातैर्मेववातैर्धुन्वन् । नाना बहुविधाश्चेष्टास्तोयपानादयो येषु तैर्ललितैः क्रीडितैः ॥ ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदागारे क्रीडिते जातपल्लवेजातपल्लवे इति शब्दार्णवे ॥ तं नगेन्द्रं कैलासं कामं यथेष्टं निर्विशेः समुपभुङ्क्ष्व ॥ निर्देशो भृतिभोगयोः इत्यमरः । यथेच्छविहारो मित्रगृहेषु मैत्र्याः फलम् । सहजमित्रं च ते कैलासः । मेघपर्वतयोरब्जसूर्ययोरब्धिचन्द्रयोः शिखिजीमूतयोः समीराग्ज्योर्मित्रता स्वयमिति भावः ॥
वल्लभदेवव्याख्या
छायया प्रतिविम्बेन भिन्नो द्विधाभूतस्त्वं सितमणिनिर्मलं तं पर्वतं निर्विशेरुपभुञ्जीथाः । उपभोगमाह । कीदृशस्त्वम् । हेमाम्भोजानि सुवर्णपद्मानि प्रसूते जनयति यत्तदुदकं मानससंवन्ध्याददानो गृह्णन् । प्रसवोऽत्र गीर्णः । तथा कामात्स्वेच्छात एवैरावणस्य क्षणं मुखपटप्रीतिं कुर्वन् । गजा हि मुखपटेन प्रीयन्ते । सजलपृषतैस्तोयकणयुक्तैरनिलः सुरतरुवासांसि धुन्वन्दोलयन् । धुनोतेः सौवादिकस्य ह्रस्वान्तस्याभ्युपगमाद्धुन्वन्निति रूपम् ॥
तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
या वः काले वहति सलिलोद्गारमुच्चैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम्॥१।६३॥
कामचारिन् = स्वेच्छाविहारिन् । उत्सङ्गे = उच्चप्रदेशे, अङ्के । स्रस्तगङ्गादुकूलां = परिभ्रष्टजाह्नवीक्षौमाम् । उच्चैर्विमाना = समुन्नतसप्तभूमिसमन्वितभवना । सलिलोद्गारं = जलमोचनम् । अभ्रवृन्दं = जीमूतजातम् । मुक्ताजालग्रथितं = मुक्ताराशिगुम्फितम् । अलकं = चूर्णकुन्तलानि । विमाना = सप्तभूमिसमन्वितभवना ।
सञ्जीवनी
तस्येति ॥ प्रणयिनः प्रियतमस्येव तस्य कैलास स्यो त्सङ्ग ऊर्ध्वभागे कटौ च ॥ उत्सङ्गो मुक्तसंयोगे सक्थन्यूर्ध्वतलेऽपि च इति मालतीमालायाम् ॥ गङ्गा दुकूलम शुभ्रवस्त्रमिवेत्युपमितसमासः ॥ दुकूलं सूक्ष्म वस्त्रेस्यादुत्तरीये सितांशुके इति शब्दार्णवे ॥ अन्यत्र तु गङ्गैव दुकूलम् ॥ तत्स्रस्तं यस्यास्तां तथोक्तामलकां कु बेरनगरीं दृष्ट्वा । कामिनीमिवेति शेषः । हे कामचारिन्,कामचारिन्त्वं पुनस्त्वं तु न ज्ञास्यस इति न । किं तु ज्ञास्यस एवेत्यर्थः ॥ कामचारिणस्ते पूर्वमपि बहुकृत्वो दर्शन सम्भावादज्ञानमसम्भावितमेवेति निश्चयार्थं नञ्द्वयप्रयोगः । तदुक्त – स्मृतिनिश्चयसिद्ध्यर्थेषुतदुक्तम् स्मृतिनिश्चयसिद्ध्यर्थेषु नद्वयप्रयोगः इति ॥ उच्चै रुन्नतानि विमानानि सप्तभूमिकभवनानि यस्यां सा ॥ विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि इति यादवः ॥ मेघसंवाहनस्थानसूचनार्थमिदं विशेषणम् ॥ अन्यत्र विमाना निष्कोपा या अलका । वो युष्माकं काले । मेघकाल इत्यर्थः ॥ कालस्य सर्वमेघसाधारण्याद्व इति बहुवचनम् ॥ सलिलमुद्गिरतीति सलिलोद्गारम् । स्रवत्सलिलधारामित्यर्थः ॥ अभ्रवृन्दं मेघकदम्बकं कामिनी स्त्री मुक्ताजालैमौक्तिकसरैर्ग्रथितं प्रत्युप्तम् ॥ पुंश्चल्या मौक्तिके मुक्ता इति यादवः ॥ अलकमिव चूर्णकुन्तलानीव ॥ जातावे कवचनम् ॥ अलकाश्चूर्णकुन्तलाः इत्यमरः ॥ वहति बिभर्ति ॥ अत्र कैलासस्यानुकूलनायकत्व मलकायाश्च स्वाधीनपतिकाख्यनायिकात्वं ध्वन्यते । एकायत्तोऽनुकूलः स्यात्स्यात्इति । प्रियोपलालिता नित्यं स्वाधीनपतिका मता इति च लक्षयन्ति । उदाहरन्ति च - लालयन्नलकप्रान्तान्रचयन्पत्रमञ्जरीन् ।लालयन्नलकप्रान्तान्रचयन्पत्रमञ्जरीन् एकां विनोदयन्कान्तां छायावदनुवर्तते इति ॥
वल्लभदेवव्याख्या
तत्र कैलासे दृष्ट्वास्मत्पुरीमलकां न न ज्ञास्यसे । अपि तु निःसंदेहं वेत्स्यस्येव यथा नूनमियं सालकेति । यतस्तस्याद्रेरुत्सङ्गेऽङ्के स्रस्त भ्रष्टं गङ्गैव दुगूलमम्बरं यस्यास्ताम् । जाह्नवी हि तत्र वहति । या चालका वः काले युष्माकं समये वर्षाख्येऽभ्रवृन्दं वहति । कीदृशम् । सलिलमुद्गिरति स्रवतीति सलिलोद्गारम् । कर्मण्यण् । का यथा कीदृशं किं वहतीत्याह । मुक्ताजालालंकृतमलकं यया कामिनी बिभर्ति । सापि प्रियस्योत्सङ्गे स्रस्तदुगूला भवति । सलिलस्य मुक्ताजालमुपमानम् । अभ्राणां लम्लाटकेशाः । उचैर्विमाना प्रांशुगृहा । कामचारिन्निति मेघस्य जडत्वं निराकृतम् ॥