सामग्रीं त्यजन्तु

स्वप्नवासवदत्तम् — षष्ठोऽङ्कः

(ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः – क इह भोः! काञ्चनतोरणद्वारमशून्यं कुरुते ।
(प्रविश्य)
प्रतिहार – आर्य! अहं विजया। किं क्रियताम् ?
काञ्चुकीयः – भवति! निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयाय उदयनाय – एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या च अङ्गारवत्या प्रेषिता आर्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थिताविति।
प्रतिहारी – आर्य! अदेशकालः प्रतिहारस्य। काञ्चुकीयस्य 'निवेद्यतां निवेद्यामिति' ।
काञ्चुकीयः – कथम् अदेशकालो नाम ?
प्रतिहारी – अद्य भर्तुः सूर्यामुखप्रासादगतेन केनापि वीणा वादित – तां च श्रुत्वा भर्त्रा भणितम् – घोषवत्याः शब्द इव श्रूयत इति।
काञ्चुकीयः – ततस्ततः?
प्रतिहारी – ततस्तत्र गत्वा पृष्टः – कुतोऽस्या वीणाया आगम इति । तेन भणितम् अस्माभिर्नर्मदातीरकूर्चगुल्मलग्ना दृष्टा । यदि प्रयोजनमनया, उपनीयतां भर्त्र इति। तां चोपनीतामङ्के कृत्वा मोहं गतो भर्ता। ततो मोहप्रत्यागतेन बाष्पपर्याकुलेन मुखेन भर्त्रा भणितम् – द्रष्टासि घोषवति! सा खलु न दृश्यते इति । आर्य ईदृशोऽनवसर इति । कथं निवेदयामि।
काञ्चुकीयः – भवति! निवेद्यताम् । इदमपि तदाश्रयमेव ।
प्रतिहारी – आर्य! इयं निवेदयामि। एष भर्ता सूर्यामुखप्रासादादवतरति । तदिहैव निवेदयिष्यामि।
काञ्चुकीयः – भवति! तथा।
(उभौ निष्क्रान्तौ)
(मिश्रविश्रम्भकः)
(ततः प्रविशति राजा विदूषकश्च)
राजा –

श्रुतिसुखनिनदे! कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता ।
विहगगणरजोविकीर्णदण्डा प्रतिभयमध्युषिताऽस्यरण्यवासम् ॥६.१॥

प्रतिभयं = भयङ्करम् ।अध्युषिता = स्थिता ।

अपि च, अस्निग्धासि घोषवति! या तपस्विन्या न स्मरसि

श्रोणीसमुद्वहनपार्श्वनिपीडितानि खेदस्तनान्तरसुखान्युपगूहितानि।
उद्दिश्य मां च विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च सस्मितानि ॥६.२॥

खेदस्तनान्तरसुखानि = खेदे (प्रयासे सति) स्तनान्तरसुखानि (कुचमध्यानन्दकराणि; स्तनयोरन्तरं, तस्मिन् सुखानि, खेदे (सति) स्तनान्तरसुखानि स०त०) ।

विदूषकः – अलमिदानीं भवान् अतिमात्रं सन्तप्य।
राजा – वयस्य! मा मैवम्।

चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः ।
तां तु देवीं न पश्यामि यस्या घोषवती प्रिया ॥६.३॥

वसन्तक! शिल्पिजनसकाशान्नवयोगां घोषवतीं कृत्वा शीघ्रमानय।
विदूषकः – यद् भवान् आज्ञापयति ।
(वीणां गृहीत्वा निष्क्रान्तः)
प्रतिहारी – जयतु भर्ता । एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयो देव्याऽङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारमुपस्थितौ ।
राजा – तेन हि पद्मावती तावदाहूयताम्।
प्रतिहारी – यद् भर्ताज्ञापयति। (निष्क्रान्ता)
राजा – किन्नु खलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन विदितः ? (ततः प्रविशति पद्मावती प्रतिहारी च।)
प्रतिहारी – एत्वेतु भर्तृदारिका।
पद्मवती – जयत्वार्यपुत्रः ।
राजा – पद्मावति! किं श्रुतं ? महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च, प्रतीहारमुपस्थिताविति ।
पद्मावती – आर्यपुत्र! प्रियं में ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम् ।
राजा – अनुरूपमेतद् भवत्याभिहितं वासवदत्तास्वजनो मे स्वजन इति। पद्मावति! आस्यताम् । किमिदानीं नास्यते ?
पद्मावती – आर्यपुत्र! किं मया सहोपविष्ट एतं जनं द्रक्ष्यति ?
राजा – कोऽत्र दोषः ?
पद्मावती – आर्यपुत्रस्यापरः परिग्रहः इत्युदासीनमिव भवति।

परिग्रहः = विवाहः ।

राजा – कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरतीति बहुदोषमुत्पादयति । तस्मादास्यताम् ।
पद्मावती – यदार्यपुत्र आज्ञापयति । (उपविश्य) आर्यपुत्र! तातो वाऽम्बा वा किन्नु खलु भणिष्यतीत्याविग्नेव संवृत्ता।

आविग्ना = भीता (आ+√विज्), कष्टग्रस्ता, confused, agitated।

राजा – पद्मावति! एवमेतत् ।

किं वक्ष्यतीति हृदयं परिशङ्कितं मे
कन्या मयाप्यपहृता न च रक्षिता सा ।
भाग्यैश्चलैर्महदवाप्तगुणोपघातः
पुत्रः पितुर्जनितरोष इवास्मि भीतः ॥६.४॥

महदवाप्तगुणोपघातः = मान्यजनप्राप्तगुणनाशः । चलैः = चञ्चलैः ।

पद्मावती – न किं शक्यं रक्षितुं प्राप्तकाले ?
प्रतिहारी – एष काञ्चुकीयो धात्री च प्रतीहारमुपस्थितौ।
राजा – शीध्रं प्रवेश्यताम् ।
प्रतिहारी – यद् भर्ताऽऽज्ञापयति ? (ततः प्रविशति काञ्चुकीयो धात्री प्रतीहारी च ।)
काञ्चुकीयः –

सम्बन्धिराज्यमिदमेत्य महान् प्रहर्षः
स्मृत्वा पुनर्नृपसुतानिधनं विषादः ।
किं नाम दैव! भवता न कृतं यदि स्याद्
राज्यं परैरपहृतं कुशलं च देव्याः ॥६.५॥

प्रतिहारी – एष भर्ता, उपसर्पत्वार्यः
काञ्चुकीयः – (उपेत्य) जयत्वार्यपुत्रः ।
धात्री – जयतु भर्ता।
राजा – आर्य!

पृथिव्यां राजवंश्यानामुदयाऽस्तमयप्रभुः ।
अपि राजा स कुशली मया काङ्क्षितबान्धवः ? ॥६.६॥

उदयास्तमयप्रभुः = उत्कर्षाऽपकर्षसमर्थः ।

काञ्चुकीयः – अथ किम् ? कुशली महासेनः । इहापि सर्वगतं कुशलं पृच्छति ।
राजा – (आसनादुत्थाय) किमाज्ञापयति महासेनः?
काञ्चुकीयः – सदृशमेतद् वैदेहीपुत्रस्य । नन्वासनस्थेनैव भवता श्रोतव्यो महासेनस्य सन्देशः ।
राजा – (उपविशति) यदाज्ञापयति महासेनः।
काञ्चुकीयः – दिष्ट्या परैरपहृतं राज्यं पुनः प्रत्यानीतमिति । कुतः

कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते।
प्रायेण हि नरेन्दश्रीः सोत्साहैरेव भुज्यते ॥६.७॥

राजा – आर्य! सर्वमेतन्महासेनप्रभावः ।कुत –

अहमवजितः पूर्वं तावत् सुतैः सह लालितो
दृढमपहृता कन्या भूयो मया न च रक्षिता।
निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता
ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥६.८॥

काञ्चुकीयः – एष महासेनस्य सन्देशः । देव्याः सन्देशमिहात्रभवती कथयिष्यति ।
राजा – हा! अम्ब!

षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता।
मम प्रवासदुःखार्ता माता कुशलिनी ननु ? ॥६.९॥

धात्री – अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति।
राजा – सर्वगतं कुशलमिति ? अम्ब? ईदृशं कुशलम् ।
धात्री – मेदानीं भर्तातिमात्रं सन्तप्तम्।
काञ्चुकीयः – धारयत्वार्यपुत्रः। उपरताऽप्यनुपरता 'महासेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण।
अथवा

कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति ?
एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च ॥६.१०॥

राजा –आर्य मा मैवम्,

महासेनस्य दुहिता शिष्या देवी च मे प्रिया।
कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि ॥६.११॥

धात्री – आह भट्टिनी – उपरता वासवदत्ता। मम वा महासेनस्य वा यादृशौ गोपालकपालकौ,तादृश एव त्वं प्रथममेवाभिप्रेतो जामातेति । एतन्निमित्तमुज्जयिनीमानीतः। अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता । आत्मनश्चपलतयाऽनिर्वृत्तविवाहमङ्गल एवं गतः। अथ चावाभ्यां तव च वासवदत्तायाश्च प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः । एषा चित्रफलका तव सकाशं प्रेषिता। दृष्ट्वा निर्वृतो भव।
राजा – अहो! अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या।

वाक्यमेतत् प्रियतरं राज्यलाभशतादपि।
अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः ॥६.१२॥

पद्मावती – आर्यपुत्र! चित्रगतगुरुजनं दृष्ट्वाभिवादयितुमिच्छामि।

अभिवादयितुम् = अभिनन्दितुम् ।

धात्री – (चित्रफलकां दर्शयति) पश्यतु पश्यतु भर्तृदारिका।
पद्मावती – (दृष्ट्वा आत्मगतम्) हम्! अतिसदृशी खल्वियमार्याया आवन्तिकायाः (प्रकाशम्) आर्यपुत्र! सदृशी खल्वियमार्यायाः ?
राजा – न सदृशी। सैवेति मन्ये। भोः कष्टम् ।

अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम्?
इदं च मुखमाधुर्यं कथं दूषितमग्रिना ॥६.१३॥

पद्मावती – आर्यपुत्रस्य प्रतिकृत्याः सदृशतया जानामीयमार्यायाः सदृशीति ।
राजा – देवि! चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नामिव त्वां पश्यामि। किमिदिम् ?
पद्मावती – आर्यपुत्र! अस्याः प्रतिकृत्याः सदृशीहैव प्रतिवसति।
राजा – कि वासवदतायाः ?
पद्मावती – आम्।
राजा – तेन हि शीघ्रमानीयताम्।
पद्मावती – आर्यपुत्र! मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षिप्तः।प्रोषितभर्तृका परपरुषदर्शनं परिहरति। तदार्यां मया सहागतां दृष्ट्वा जानात्वार्यपुत्रः ।
राजा –

यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति।
परस्परगता लोके दृश्यते रूपतुल्यता ॥६.१४॥

प्रतिहारी – (प्रविश्य) जयतु भर्ता। एष उज्जयिनीयो ब्राह्मणः, भट्टिन्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः, तं प्रतिग्रहीतुं प्रतिहारमुपस्थितः ।
राजा – पद्मावति! किन्नु स ब्राह्मणः?
पद्मावती – भवितव्यम् ।
राजा – शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः ।
प्रतिहारी – यद् भर्ताज्ञापयति।
राजा – पद्मावति! त्वमपि तामानय ।
पद्मावती – यद् आर्यपुत्र आज्ञापयति ।
(ततः प्रविशति यौगन्धरायणः प्रतिहारी च)
यौगन्धरायणः – भोः । (आत्मगतम्)

प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं
कामं मया कृतमिदं हितमित्यवेक्ष्य।
सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ
किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥६.१५॥

प्रतिहारी – एष भर्ता। उपसर्पत्वार्यः ।
यौगन्धरायणः – जयतु भवान् जयतु ।।
राजा – श्रुतपूर्व इव स्वरः । भो ब्राह्मण । किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता?
यौगन्धरायणः – अथ किम् ?
राजा – तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका।
प्रतिहारी – यद् भर्ताज्ञापयति । (ततः प्रविशति पद्मावती आवन्तिका प्रतिहारी च।)
पद्मावती – एतत्वार्या । प्रियं ते निवेदयामि।
आवन्तिका – किं किम् ?
पद्मावत – भ्राता ते आगतः ।
आवन्तिका – दिष्ट्येदानीमपि स्मरति ।
पद्मावती – जयत्वार्यपुत्र, । एष न्यासः ।
राजा – निर्यातय, पद्मावति! साक्षिमन्न्यासो निर्यातयितव्यः । इहात्रभवान् रैभ्यः अत्रभवती चाधिकरणं भविष्यतः।
पद्मावती – आर्य! नीयतामिदीनमार्या ।
धात्री – अम्मो! भर्तृदारिका वासवदत्ता ?
राजा – कथं महासेनपुत्री ? देवि! प्रविश त्वमभ्यन्तरं पद्मावत्या सह।
यौगन्धरायणः – भो राजन्!

भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः।
तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ॥६.१६॥

राजा – भवतु पश्यामस्तावद् रूपसादृश्यम्! संक्षिप्यतां जवनिका।
यौगन्धरायणः – जयतु स्वामी।
वासवदत्ता – जयत्वार्यपुत्रः।
राजा – अये! असौ यौगन्धरायणः, इयं महासेनपुत्री ?

किन्नु सत्यमिदं, स्वप्नः ? सा भूयो दृश्यते मया।
अनयोऽप्येवमेवाहं दृष्ट्या वञ्चितस्तदा ॥६.१७॥

यौगन्धरायणः – स्वामिन्! देव्यपनयेन कृतापराधः खल्वहम्। तत् क्षन्तुमर्हति स्वामी। (इति पादयोः पतति)
राजा – यौगन्धरायणो भवान् ननु ।

मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्च मन्त्रितैः।
भवद्यत्नैः खलु वयं मज्जमानाः समुद्धृताः ॥६.१८॥

यौगन्धरायणः – स्वामिभाग्यानामनुगन्तारो वयम् ।
पद्मावती – अहो! आर्या खल्वियम्। आर्ये । सखीजनसमुदाचारेणाऽजानन्त्याऽतिक्रान्तः समुदाचारः। तच्छीर्षेण प्रसादयामि।
वासवदत्ता – उत्तिष्ठोत्तिष्ठाविधवे! उत्तिष्ठ अर्थिस्वं नाम शरीरमपराध्यति ।
पद्मावती – अनुगृहीतास्मि।
राजा – वयस्य! यौगन्धरायण! देव्यपनये का कृता ते बुद्धिः?
यौगन्धरायणः – कौशाम्बीमात्रं परिपालयामीति ।
राजा – अथ पद्मावत्या हस्ते किं न्यासकारणम्?
यौगन्धरायणः – पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति ।
राजा – इदमपि रुमण्वता ज्ञातम् ?
यौगन्धरायणः – स्वामिन्! सर्वैरेव ज्ञातम्।
राजा – अहो! शठः खलु रुमण्वान्।
यौगन्धरायणः – स्वामिन्! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनिवर्ततामत्र भवान् रैभ्योऽत्र भवती च ।
राजा – न, न, सर्व एव वयं यास्यामो देव्या पद्मावत्या सह।
यौगन्धरायणः – यदाज्ञापयति स्वामी।
(भरतवाक्यम्)

इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम्।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥६.१९॥

॥ समाप्तं नाटकमिदम् ॥

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
श्रुतिसुखनिनदे! कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता — —
श्रोणीसमुद्वहनपार्श्वनिपीडितानि खेदस्तनान्तरसुखान्युपगूहितान… — —
चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः — —
किं वक्ष्यतीति हृदयं परिशङ्कितं मे कन्या मयाप्यपहृता न च रक्… — —
सम्बन्धिराज्यमिदमेत्य महान् प्रहर्षः स्मृत्वा पुनर्नृपसुतानि… — —
पृथिव्यां राजवंश्यानामुदयाऽस्तमयप्रभुः — —
कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते — —
अहमवजितः पूर्वं तावत् सुतैः सह लालितो दृढमपहृता कन्या भूयो म… — —
षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता — —
कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति… — —
महासेनस्य दुहिता शिष्या देवी च मे प्रिया — —
वाक्यमेतत् प्रियतरं राज्यलाभशतादपि — —
अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम्? इदं च मुखमाधुर… — —
यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति — —
प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं कामं मया कृतमिदं हितमित… — —
भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः — —
किन्नु सत्यमिदं, स्वप्नः ? सा भूयो दृश्यते मया — —
मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्च मन्त्रितैः — —
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् — —