ध्वनिः¶
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥का०प्र० १।४॥ वाच्यार्थं व्यङ्ग्यार्थः अतेशे यत्र तदेवोत्तमं काव्यं, ध्वनिः ।
व्युत्पत्तिः¶
लोचनकारेण पञ्च व्युत्पत्तयः दर्शिताः
- ध्वनति इति ध्वनिः वाच्यः शब्दः ।
- ध्वनति इति ध्वनिः वाचकः अर्थः ।
- ध्वन्यते इति ध्वनिः व्यङ्ग्यार्थः ।
- ध्वननं ध्वनिः व्यञ्जनाव्यापारः ।
- ध्वनिः अत्रास्तीति ध्वनिसमुदायं काव्यम् ।
प्रभेदाः¶
- वस्तुध्वनिः – असामान्या प्रस्तुतिः व्यङ्ग्यरूपेण वस्तु प्रकाशयति ।
हे धार्मिक, निर्भयं वने विचर यतः तवभीतिहेतुः कुक्कुरः ह्यः सिंहेन व्यापादितः!
वाच्यार्थस्तु – त्वं पूर्वं कस्माच्चन कुक्कुरात् बिभयन् वनं न गच्छति, अधुना स कुक्कुरः मृतः । अतः स्वैरं भ्रम!
व्यङ्ग्यार्थः – वनं मा प्रविश, तत्र साम्प्रतं केसरी विराजते! (त्वं तु कुक्कुरात् बिभेति, सिंहस्य कथा तु अन्यैव!) - अलङ्कारध्वनिः – वाक्ये अलङ्कारः अवाच्यः सन्नपि व्यङ्ग्यया अलङ्कारं बोधयति ।
अरिभिः सममेव समरशिरसि विगलितं रिपुस्त्रीणाम् ।
वाच्यार्थः – युद्धे अरिभिः सहः तेषां स्त्रीणां विगलितम् (कर्तरि भावे क्तः, अतः स्त्रीणाम् इति षष्ठी) । अर्थात्, द्वयोः युगपत् नाशः ।
व्यङ्ग्यार्थः – अत्र व्यङ्ग्यया उपमालङ्कारप्रतीतिः । युद्धे रिपवः भूमौ यथा पतन्ति, तथैव तेषां भार्यादिकं मृत्युवार्तां श्रुत्वा प्राणान् त्यजन्ति । अत्र उपमा ध्वन्यते । - रसध्वनिः – विभावादिव्यापारपुरःसरं स्थायिभावः रसत्वेन परिणमते ।
ग्रीवाभङ्गाभिरामं मुहुरनुपतति ष्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभिया भूयसा पूर्वकायम्।
शश्वदवकीर्णवर्त्मा श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति॥
वाच्यार्थः – साक्षात् दुष्यन्तस्य बाणैः आत्मानं रक्षितुकामः धावतः कृष्णसारस्य विवरणम् ।
व्यङ्ग्यार्थः – अतीवरमणीयं विवरणं (विभावानुभावदिभिः) स्थायिभावम् उद्दीपयति (भयम्), ततः भयानकरसप्रतीतिः ।
ध्वनिः vs व्यञ्जना¶
पू०प० – भाति यत् व्यञ्जनया एव ध्वनिः प्रतीयते । तर्हि को भेदः ? कुतः व्यञ्जना एव ध्वनित्वेन न स्वीक्रियते?
व्यञ्जना काचित् शब्दवृत्तिः (शब्दशक्तिः) । शब्दप्रयोगेण शब्दशक्त्या कश्चन अर्थः उद्बुध्यते । स अर्थः अन्यैः व्यापारैः सह विपच्यमानः चमत्कारं जनयति । तत् फलमेव ध्वनिः । व्यञ्जना तु तत्र व्यापारत्वेन तिष्ठति (शब्दप्रयोगः करणम्, शब्दस्य वृत्तिः व्यापारः) ।
प्रक्रिया एवं भवति –
- व्यञ्जकशब्दप्रयोगः (करणम्)
- व्यापारः
- शब्दव्यापारः – वाच्यार्थे विरते सति, व्यङ्ग्यार्थस्य उद्बोधः एव अलौकिकः व्यापारः शब्दव्यापारः ।
- कवेः प्रतिभाव्यापारः – कवेः प्रतिभया निर्मितः विन्यासविशेषः ।
- सहृदयस्य चर्वणाव्यापारः – हृदयस्य अन्तःकरणे यः साधारणीकरणस्य तथा च अखण्डस्य रसस्य आस्वादनस्य व्यापारः भवति, सः एव चर्वणाव्यापारः । सामाजिकस्य चित्ते चर्वणाव्यापारानन्तरमेव जायते ।
- फलम् – रसानुभूत्यात्कं फलेमेव ध्वनिः ।
graph TD
K["`<u>**करणम्**</u> – व्यञ्जकः शब्दः अर्थश्च`"] --> V
subgraph V ["`<u>**व्यापारः**</u> – व्यञ्जनावृत्तिः (परिपाकप्रक्रिया)`"]
direction TB
V1[१. शब्दस्य व्यञ्जनाव्यापारः]
V2[२. कवेः प्रतिभाव्यापारः]
V3[३. सहृदयस्य चर्वणाव्यापारः]
end
V -->|"`**<u>फलम्**</u> – अलौकिकश्चमत्कारः`"| F[साध्यम् : ध्वनिः / रसानुभूतिः]
काव्यभेदाः¶
| काव्यभेदः | व्यङ्ग्यार्थस्य स्थितिः | वाच्यार्थ-व्यङ्ग्यार्थयोः सम्बन्धः | पारिभाषिकी संज्ञा |
|---|---|---|---|
| उत्तमम् | प्रधानः (अतिशयी) | व्यङ्ग्यार्थः वाच्यार्थम् अतिक्रम्य मुख्यश्चमत्कारकारी भवति। | ध्वनिकाव्यम् |
| मध्यमम् | गौणः (अप्रधानः) | व्यङ्ग्यार्थः वाच्यार्थस्य शोभां वर्धयितुं तस्याङ्गभावं भजते। | गुणीभूतव्यङ्ग्यम् |
| अधमम् | शून्यः (अभावः) | व्यङ्ग्यार्थम् अभिभूय बाह्यालङ्काराणां चमत्कारः शोभते। | चित्रकाव्यम् |