अभिज्ञानशाकुन्तलम् — सप्तमोऽङ्कः (सङ्गमः)¶
(ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च)
राजा – मातले! अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।
अनुष्ठितनिदेशः = पालितशासनः (निदेशः = शासनमादेशः) । सत्क्रियाविशेषात् = सत्कारगौरवात्, सम्मानाधिक्यात् । समर्थये = सम्भावयामि ।
मातलिः – (सस्मितम्) आयुष्मन् उभयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥७।१॥
प्रतिपत्त्या = बहुमानेन, गौरवेण, सत्कारेण । अवदानेन = भवत्कृतेन (अवदानं कर्मवृत्तम् इत्यमरः । अवदानं खण्डनेस्यादितिवृत्ते च कर्मणि इति मेदिनी ) ।
राजा – मातले मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य ।
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥७।२॥
अभूमिः = अविषयः, मनसाप्यचिन्तनीयः, कल्पनातीतः । विसर्जनावसरसत्कारः = प्रेषणकाले कृतः सत्कारः । अन्तर्गतप्रार्थनं = हृदगताभिलाषिणम् (अन्तर्गता प्रार्थना यस्य, तम्) । पिनद्धा = स्वयं परिधापिता । उद्वीक्ष्य = निपुणं निरीक्ष्य । आमृष्टवक्षोहरिचन्दनाङ्का = विलुप्तमहेन्द्रवक्षःस्थलचन्दनाङ्किता (आमृष्टा स्पृष्टा वक्षसि यद् हरिचन्दनेन अङ्किता) ।
मातलिः – किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥७।३॥
त्रिदिवं = स्वर्गम् । उद्धृताः = उद्गताः । उद्धृतदानवकण्टकं = समूलोन्मूलितराक्षसरूपकण्टकं (दानवा एव कण्टकाः, उद्धृताः दानवकण्टकाः यस्मात्, तम्) । नतपर्वभिः = बाणैः ।
राजा – अत्र खलु शतक्रतोरेव महिमा स्तुत्यः ।
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः सम्भावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥७।४॥
नियोज्याः = सेवकाः । सम्भावनागुणं = नियोज्यविषयको बहुमानः तस्य गुणम् उत्कर्षं महिमानं वा ।
मातलिः – सदृशं तवैतत् । (स्तोकमन्तरमतीत्य) आयुष्मन् इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ॥७।५॥
नाकपृष्ठप्रतिष्ठितस्य = स्वर्गतलस्थिरीकृतस्य । विच्छित्तिशेषैः = अङ्गरागावशिष्टैः (वर्णैः) । चरितम् = जीवनगाथाम्, अवदानम् । कल्पलतांशुकेषु = कल्पवृक्षसमुत्थितेषु वसनेषु (अंशुकं = वस्त्रं, वसनं, वासः) ।
राजा – मातले असुरसम्प्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः । कतमस्मिन्मरुतां पथि वर्तामहे ।
मातलिः –
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् ॥७।६॥
राजा – मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । (रथाङ्गमवलोक्य) मेघपदवीमवतीर्णौ स्वः ।
मातलिः – कथमवगम्यते ।
राजा –
अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्ते शीकरक्लिन्ननेमिः ॥७।७॥
अरविवरेभ्यः = नेम्यन्तरालेभ्यः (अरः = नेमिः अथवा नाभिनेम्योर्मध्यस्थं काष्ठम् । अरं शीघ्रे च चक्राङ्गे इति विश्वः)। निष्पतद्भिः = निर्गच्छद्भिः । अनुलिप्तैः = रञ्जितैः । हरिद्भिः = त्वदीयैः अश्वैः (हरित् = सूर्यस्य अश्वः) । वारिगर्भोदराणां = जलपूर्णाभ्यन्तराणाम् । पिशुनयति = सूत्रयति, indicates । शीकरक्लिन्ननेमिः = जलकणार्द्रारः (रथः । शीकरः = जलकणः, mist, spray । नेमिः = चक्रधारा, प्रान्तभागः) । अचिरभासां = क्षणिकदीप्तिमतां (विद्युताम्) ।
मातलिः – क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते ।
राजा – (अधोऽवलोक्य) मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि ।
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥७।८॥
संलक्ष्यते = भाति । सन्तानैः = विस्तारैः (सन्तानो निस्तृतौ देववृक्षे चापत्तिगोत्रयोः इति धरणिः) । उन्मज्जतां = सहसोत्प्लुत्य प्रकटी भवताम् । स्कन्धानां = प्रकाण्डानाम् । उदयात् = प्राकट्यात्, आविर्भावात् (पत्रपुञ्जमात्ररूपेण दृष्टास्तरवः साम्प्रतं काण्डादिमन्तो दृश्यन्ते इति तात्पर्यम्)। तनुभावनष्टसलिलाः = क्षीणतालक्षितजलाः (तनुभावेन क्षीणतया नष्टानि अलक्षितानि सलिलानि जलानि यासां, ताः नद्यः) । व्यक्तिं भजन्ति = प्रकटतां यान्ति । (केनापि) उत्क्षिप्ता = ऊर्ध्वं प्रेरयता (भुवनं मत्पार्श्वमानीयते) ।
मातलिः – साधु दृष्टम् । (सबहुमानमवलोक्य) अहो उदाररमणीया पृथिवी ।
उदारा = विशाला ।
राजा – मातले कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सांध्य इव मेघपरिघः सानुमानालोक्यते ।
अवगाढः = प्रविष्टः, plunged, immersed । कनकरसनिस्यन्दी = द्रवसुवर्णोद्गारी, कनकमयधातुरसनिस्यन्दी (निष्यन्द = स्रवः)। सान्ध्यः = सन्ध्यकालोद्भवः, सन्ध्यायां भवः । मेघपरिघः = परिघाकारो मेघः (लोहबद्धलगुडः) ।
मातलिः – आयुष्मन् एष खलु हेमकूटो नाम किम्पुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य ।
स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥७।९॥
राजा – तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि ।
मातलिः – प्रथमः कल्पः । (नाट्येनावतीर्णौ)
प्रथमः कल्पः = मुख्यः प्रक्षः, श्रेष्ठो विधिः (मुख्यः स्यात् प्रथमः कल्पः इत्यमरः), good idea, noble resolve ।
राजा – (सविस्मयम्)
उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शनतयाऽनिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते ॥७।१०॥
उपोढशब्दाः = आरब्धस्वनः (उपोढाः प्रारब्धाः शब्दाः स्वनाः यैः, ताः चक्रनेमयः) । अनिरुद्धतः = रथवेगम् अस्तम्भयतः ।
मातलिः – एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजा – मातले कतमस्मिन्प्रदेशे मारीचाश्रमः ।
मातलिः – (हस्तेन दर्शयन्)
वल्मीकार्धनिमग्नमूर्तिरुरसा सन्दष्टसर्पत्वचा कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥७।११॥
वल्मीकार्धनिमग्नमूर्तिः = वामलूरमृत्कूटसन्निविष्टा (वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम् इत्यमरः) । सन्दष्टाः = संलग्नाः। त्वचः = निर्मोकाः । सन्दष्टसर्पत्वचा = संसक्तसर्पकञ्चुकेन । जीर्णलताप्रतानवलयेन = शुष्कवल्लीतन्तुवेष्टनेन (प्रतानः = किसलयः, तन्तुः, groundcover) । अत्यर्थम् = अत्यन्तम् । सम्पीडितः = (निबन्धनेन) क्लेशितः । अंसव्यापि = स्कन्धप्रसृतम् । निचितं = व्याप्तम् । मण्डलं = समूहः ।
राजा – नमस्ते कष्टतपसे ।
मातलिः – (संयतप्रग्रहं रथं कृत्वा) एतौ अदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।
राजा – स्वर्गादधिकतरं निर्वृतिस्थानम् अमृतहृदमिवावगाढोऽस्मि ।
अवगाढः = प्रविष्टः, निमग्नः ।
मातलिः – (रथं स्थापयित्वा) अवतरत्वायुष्मान् ।
राजा – (अवतीर्य) मातले भवान्कथमिदानीम् ।
मातलिः – संयन्त्रितो मया रथः । वयमप्यवतरामः ।
(तथा कृत्वा) इत आयुष्मन् ।
(परिक्रम्य) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजा – ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥७।१२॥
विबुधस्त्री = अपसराः, देवाङ्गना ।
मातलिः – उत्सर्पिणी खलु महतां प्रार्थना ।
उत्सर्पिणी = ऊर्ध्वं सर्पति, तच्छीला । प्रार्थना = अभिलाषः ।
(परिक्रम्य । आकाशे) अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि ? दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति ।
राजा – (कर्णं दत्त्वा) अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः – (राजानमवलोक्य) अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
राजा – यथा भवान्मन्यते ।
(इति स्थितः)
मातलिः – आयुष्मन् साधयाम्यहम् ।
(इति निष्क्रान्तः)
राजा – (निमित्तं सूचयित्वा)
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥७।१३॥
पूर्वावधीरितं = प्राक् तिरस्कृतम् । परिवर्तते = परिणमति ।
(नेपथ्ये) मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ।
राजा – (कर्णं दत्त्वा) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते ।
(शब्दानुसारेणावलोक्य । सविस्मयम्) अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ।
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् ।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥७।१४॥
अबालसत्त्वः = प्रौढस्येव सत्त्वं यस्य । आमर्देन = स्वकृताकर्षणवेगेन ।
(ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः)
बालः – जृम्भस्व सिंह दन्तांस्ते गणयिष्ये ।
प्रथमा – अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि ।
अपत्यनिर्विशेषाणि = पुत्रवत्पालितानि । विप्रकरोषि = क्रोशयसि, उत्पीडयसि, कुपितान् करोषि । संरम्भः = धार्ष्ट्यं, निर्बन्धः ।
राजा – किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति ।
वत्सलयति = स्नेहयति ।
द्वितीया – एषा खलु केसरिणी त्वां लङ्घयिष्यति यद्यस्याः पुत्रकं न मुञ्चसि ।
लङ्घयिष्यति = अभिभविष्यति, प्रहरिष्यति । पुत्रकं = शिशुम् ।
बालः – (सस्मितम्) अहो बलीयः खलु भीतोऽस्मि । (इत्यधरं दर्शयति)
राजा –
महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥७।१५॥
एधापेक्षः = काष्ठापेक्षः (वह्निः) । प्रतिभाति = प्रकाशते ।
प्रथमा – वत्स एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।
बालः – कुत्र । देह्येतत् ।
(इति हस्तं प्रसारयति)
राजा – कथं चक्रवर्तिलक्षणमप्यनेन धार्यते । तथा ह्यस्य ।
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥७।१६॥
जालग्रथिताङ्गुलिः = अन्तरालसंश्लिष्टाङ्गुलिः । इद्धरागया = समृद्धलौहित्यया । अलक्ष्यपत्रान्तरम् = अप्रकटितपत्रसन्धिः । विभाति = शोभते ।
द्वितीया – सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर ।
प्रथमा – तथा ।
(इति निष्क्रान्ता)
बालः – अनेनैव तावत्क्रीडिष्यामि ।
(इति तापसीं विलोक्य हसति)
राजा – स्पृहयामि खलु दुर्ललितायस्मै ।
दुर्ललिताय = दुर्दान्ताय, धृष्टाय । स्पृहयामि = वाञ्छामि ।
आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥७।१७॥
अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् = अपरिस्फुटिताक्षरश्राव्यवचनवाक्योचारणान् (अवक्तावर्णा एव रमणीयाः वचः प्रवित्तिः येषां, तान्) ।
तापसी – भवतु । न मामयं गणयति ।
(पार्श्वमवलोक्य) कोऽत्र ऋषिकुमाराणाम् ।
(राजानमवलोक्य) भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् ।
दुर्मोचहस्तग्रहेण = दृढतरमुष्टिबद्धशालिना (दुर्मोचः = मोचयितुमशक्यः) । डिम्भलीलया = बालसुलभक्रीडया । बाध्यमानं = पीड्यमानम् ।
राजा – (उपगम्य । सस्मितम्) अयि भो महर्षिपुत्र ।
एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया ।
सत्त्वसंश्रय सुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥७।१८॥
आश्रमविरुद्धवृत्तिना = आश्रमविपरीताचरणेन ।
तापसी – भद्रमुख न खल्वयमृषिकुमारः ।
राजा – आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवन्तर्किणः ।
(यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य । आत्मगतम्)
अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः ॥७।१९॥
कृतिनः = कृतकृत्यस्य भाग्यवतः । प्ररूढः = उत्पन्नः
तापसी – (उभौ निर्वर्ण्य) आश्चर्यमाश्चर्यम् ।
राजा – आर्ये किमिव ।
तापसी – अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिताऽस्मि । अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति।
संवादिनी = सदृशी । अप्रतिलोमः = अविरुद्धः, अनुकूलः ।
राजा – (बालकमुपलालयन्) न चेन्मुनिकुमारोऽयमथ कोऽस्य व्यपदेशः ।
तापसी – पुरुवंशः ।
राजा – (आत्मगतम्) कथमेकान्वयो मम । अतः खलु मदनुकारिणमेनमत्रभवती मन्यते । अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् ।
भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् ।
नियतैकव्रतियतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम् ॥७।२०॥
एकान्वयः = समानवंशः । उशन्ति = वाञ्छन्ति ।
(प्रकाशम्) न पुनरात्मगत्या मानुषाणामेष विषयः ।
तापसी – यथा भद्रमुखो भणति । अप्सरःसम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता ।
राजा – (अपवार्य) हन्त द्वितीयमिदमाशाजननम् ।
(प्रकाशम्) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ।
तापसी – कस्तस्य धर्मदारपरित्यागिनो नाम सङ्कीर्तयितुं चिन्तयिष्यति ।
सङ्कीर्तयितुं = कथयितुम्, उच्चारयितुम् ।
राजा – (स्वगतम्) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथ वाऽनार्यः परदारव्यवहारः ।
(प्रविष्य मृन्मयूरहस्ता)
तापसी – सर्वदमन शकुन्तलावण्यं प्रेक्षस्व ।
बालः – (सदृष्टिक्षेपम्) कुत्र वा मम माता ।
उभे – नामसादृश्येन वञ्चितो मातृवत्सलः ।
द्वितीया – वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
राजा – (आत्मगतम्) किं वा शकुन्तलेत्यस्या मातुराख्या । सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते ।
बालः – मातः रोचते म एष भद्रमयूरः ।
(इति क्रीडनकमादत्ते)
प्रथमा – (विलोक्य । सोद्वेगम्) अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते ।
राजा – अलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् ।
सिंहशावविमर्दात् = केसरिकिशोरसङ्घर्षात् । परिभ्रष्टं = च्युतम् ।
(इत्यादातुमिच्छति)
उभे – मा खल्वेतदवलम्ब्य कथम् । गृहीतमनेन ।
(इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)
अवलम्ब्य = आदाय । उरोनिहितहस्ते = वक्षःस्थापितकरे ।
राजा – किमर्थं प्रतिषिद्धाः स्मः ।
प्रथमा – शृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति ।
राजा – अथ गृह्णाति ।
प्रथमा – ततस्तं सर्पो भूत्वा दशति ।
राजा – भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ।
विक्रिया = (परिणतिरूपो) विकारः ।
उभे – अनेकशः ।
राजा – (सहर्षम् । आत्मगतम्) कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि । (इति बालं परिष्वजते)
द्वितीया – सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः ।
व्यापृतायै = प्रसक्तायै, रतायै ।
(इति निष्क्रान्ते)
बालः – मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।
राजा – पुत्रक मया सहैव मातरमभिनन्दिष्यसि ।
बालः – मम खलु तातो दुष्यन्तः । न त्वम् ।
राजा – (सस्मितम्) एष विवाद एव प्रत्याययति ।
प्रत्याययति = प्रत्ययं जनयति ।
(ततः प्रविशत्येकवेणीधरा शकुन्तला)
शकुन्तला – विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशाऽऽसीदात्मनो भागधेयेषु । अथ वा यथा सानुमत्याऽऽख्यातं तथा सम्भाव्यत एतत् ।
राजा – (शकुन्तलां विलोक्य) अये सेयमत्रभवती शकुन्तला यैषा
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥७।२१॥
वसने = वस्त्रयुगलम् । परिधूसरे = मलिने (सर्वतः धूसरे) । वसाना = परिदधाना । नियमक्षाममुखी = व्रतनियमाचरणादिशुष्कवदना । अतिनिष्करुणस्य = अतिनिर्दयस्य ।
शकुन्तला – (पश्चात्तापविवर्णं राजानं दृष्ट्वा) न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ।
बालः – (मातरमुपेत्य) मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति ।
राजा – प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
शकुन्तला – (आत्मगतम्) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः ।
राजा – प्रिये ।
स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥७।२२॥
उपरागः = राहुग्रसनम् । स्मृतिभिन्नमोहतमसः = स्मरणापगतमोहान्धकारस्य (स्मृत्या भिन्नं दूरीकृतं मोह एव तमः अज्ञानं यस्य)।
शकुन्तला – जयतु जयत्वार्यपुत्रः ।
(इत्यर्धोक्ते बाष्पकण्ठी विरमति)
बाष्पकण्ठी = दुःखज उष्मा बाष्पः कण्ठे यस्याः ।
राजा – सुन्दरि ।
बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥७।२३॥
असंस्कारपाटलोष्ठपुटम् = अकृत्रिममनोहरम्, अकृत्रिमारुणप्रभोद्भासितोष्ठपुटललितम् ।
बालः – मातः क एषः ।
शकुन्तला – वत्स ते भागधेयानि पृच्छ ।
राजा – (शकुन्तलायाः पादयोः प्रणिपत्य)
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवम्प्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥७।२४॥
प्रत्यादेशव्यलीकं = (मत्कृतम्) प्रत्याख्यानजनिताप्रीतिः (प्रत्यादेशात् प्रत्याख्यानात् जातं यत् व्यलीकम् अप्रियम्, तत् । व्यलीकं त्वप्रियेऽनृते इत्यमरः) । उपैतु = दूरीभवतु । क्षिप्तां = परिधापिताम् । धुनोति = तिरस्करोति ।
शकुन्तला – उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामाभिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः ।
सुचरितप्रतिबन्धकं = पुण्यकर्मप्रतिरोधकम् । परिणामाभिमुखं = फलितम् । सानुक्रोशः = सदयः, सानुरागः । विरसः = अपरक्तः ।
(राजोत्तिष्ठति)
शकुन्तला – अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः ।
दुःखभागी = दुःखभोगशीलः ।
राजा – उद्धृतविषादशल्यः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बद्धबिन्दुरधरं परिबाधमानः ।
तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥७।२५॥
उद्धृतविषादशल्यः = उत्खातदुःखशङ्कुः (उद्धृतं विषादशल्यं विषाद एव शल्यः येन स । त्वदश्रुमार्जनं कृत्वा कथयिष्यामि)। अधरं परिबाधमानः = सर्वतः पीडयन्, नेत्रयोः निर्गत्य कपोलावतिक्रम्य अधरे स्थितः । आकुटिलपक्ष्मविलग्नम् = ईषद्वक्रेनेत्रलोमसम्बद्धम् । विगतानुशयः = अपगतपश्चातापः ।
(इति यथोक्तमनुतिष्ठति)
शकुन्तला – (नाममुद्रां दृष्ट्वा) आर्यपुत्र इदं तदङ्गुलीयकम् ।
राजा – अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा ।
उपलम्भात् = प्राप्तेः ।
शकुन्तला – विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् ।
विषमं = विसदृशम् ।
राजा – तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् ।
प्रतिपद्यतां = प्राप्नोतु ।
शकुन्तला – नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु ।
(ततः प्रविशति मातलिः)
मातलिः – दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान्वर्धते ।
राजा – अभूत्सम्पादितस्वादुफलो मे मनोरथः । मातले न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ।
सम्पादितस्वादुफलः = सञ्जातमधुरफलः ।
मातलिः – (सस्मितम्) किमीश्वराणां परोक्षम् । एत्वायुष्मान् । भगवान्मारीचस्ते दर्शनं वितरति ।
वितरति = ददाति ।
राजा – शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि ।
शकुन्तला – जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।
जिह्रेमि = लज्जे ।
राजा – अप्याचरितव्यमभ्युदयकालेषु । एह्येहि ।
(सर्वे परिक्रामन्ति)
(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः)
मारीचः – (राजानमवलोक्य) दाक्षायणि ।
पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः ॥७।२६॥
रणशिरसि = समरमूर्ध्नि । विनिवर्तितकर्म = समाप्तस्वकार्यम् । कुलिशं = वज्रम् । कोटिमत् = निर्व्यापारत्वेन कुण्ठितास्त्रं
अदितिः – सम्भावनीयानुभावाऽस्याकृतिः ।
सम्भावनीयानुभावा = प्रभावशालिनी (यत्राकृतिस्तत्र गुणाः वसन्ति इति न्यायात्)। सम्भावनीयः = ऊह्यः । अनुभावः = प्रभावः ।
मातलिः – आयुष्मन् एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प ।
पुत्रप्रीतिपिशुनेन = अपत्यस्नेहसूचकेन, पुत्रसहचरत्वाद् राज्ञः स्नेहं सूचयता नेत्रेण) ।
राजा – मातले ।
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं द्वन्द्वं दक्षमरीचिसम्भवमिदं तत्स्रष्टुरेकान्तरम् ॥७।२७॥
सुषुवे = जनयामास । आस्पदं = प्रतिष्ठाम् ।
मातलिः – अथ किम् ।
राजा – (उपगम्य) उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति ।
वासवनियोज्यः = इन्द्रसेवकः (नियोज्यः = किङ्करः) ।
मारीचः – वत्स चिरं जीव । पृथिवीं पालय ।
अदितिः – वत्स अप्रतिरथो भव ।
अप्रतिरथः = भुवनैकवीरः (प्रतिकूलो रथो यस्य स प्रतिरथः, न प्रतिरथः) ।
शकुन्तला – दारकसहिता वां पादवदनं करोमि ।
मारीचः – वत्से ।
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥७।२८॥
जयन्तप्रतिमः = इन्द्रपुत्रोपमः (जयन्तः प्रतिमः उपमा यस्य, सः) ।
अदितिः – जाते भर्तुरभिमता भव । अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु । उपविशत ।
अभिमता = अभीष्टा ।
(सर्वे प्रजापतिमभित उपविशन्ति)
मारीचः – (एकैकं निर्दिंशन्)
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥७।२९॥
त्रितयं = त्र्यवयवम् ।
राजा – भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः ।
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥७।३०॥
घनोदयः = मेघोद्गमः ।
मातलिः – एवं विधातारः प्रसीदन्ति ।
राजा – भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीतां
स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वां
तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।
स्मृतिशैथिल्यात् = स्मृतिभ्रंशात् ।
यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥७।३१॥
अपक्रामति = तिरोहिते ।
मारीचः – वत्स अलमात्मापराधशङ्कया । सम्मोहोऽपि त्वय्यनुपपन्नः । श्रूयताम् ।
राजा – अवहितोऽस्मि ।
मारीचः – यदैवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः ।
अङ्गुलीयकदर्शनावसानः = मुद्रिकादर्शनसमाप्तिसीमः (शापः) ।
राजा – (सोच्छ्वासम्) एष वचनीयान्मुक्तोऽस्मि ।
शकुन्तला – (स्वगतम्) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तमात्मानं स्मरामि । अथ वा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः । अतः सखीभ्यां सन्दिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति।
मारीचः – वत्से चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य ।
शापादसि प्रतिहता स्मृतिरोधरूक्षे भर्तर्यपेततमसि प्रभुता तवैव ।
छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥७।३२॥
राजा – यथाह भगवान् ।
मारीचः – वत्स कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ।
राजा – भगवन् अत्र खलु मे वंशप्रतिष्ठा ।
(इति बालं हस्तेन गृह्णाति)
मारीचः – तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य ।
रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥७।३३॥
अप्रतिरथः = निःसप्त्नः । अनुद्धातस्तिमितगतिना = अस्खलितनिकम्पवेगेन । तीर्णजलधिः = उत्तीर्णसागरः ।
राजा – भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे ।
अदितिः – भगवन् अस्या दुहितृमनोरथसम्पत्तेः कण्वोऽपि तावत्च्छ्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति ।
दुहितृमनोरथसम्पत्तेः = पुत्रीमनोरथसिद्ध्या ।
शकुन्तला – (आत्मगतम्) मनोरथः खलु मे भणितो भगवत्या ।
मारीचः – तपःप्रभवात्प्रत्यक्षं सर्वमेव तत्रभवतः ।
राजा – अतः खलु मम नातिक्रुद्धो मुनिः ।
मारीचः – तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः । कः कोऽत्र भोः ।
(प्रविश्य)
शिष्यः – भगवन् अयमस्मि ।
मारीचः – गालव इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुन्तला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति ।
शिष्यः – यदाज्ञापयति भगवान् ।
(इति निष्क्रान्तः)
मारीचः – वत्स त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व ।
राजा – यदाज्ञापयति भगवान् ।
मारीचः – अपि च ।
तव भवतु विडौजाः प्राज्यवृष्टिः प्रजासु त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व ।
युगशतपरिवर्तानेवमन्योन्यकृत्यैर्नयतमुभयलोकानुग्रहश्लाघनीयैः ॥७।३४॥
विततयज्ञः = विस्तृतानेकयज्ञः, आहतानेकाश्वमेधादियज्ञः । वज्रिणम् = इन्द्रम् । विडौजाः = इन्द्रः । प्राज्यवृष्टिः = पर्याप्तवर्षः ।
राजा – भगवन् यथाशक्ति श्रेयसे यतिष्ये ।
मारीचः – वत्स किं ते भूयः प्रियमुपकरोमि ।
राजा – अतः परमपि प्रियमस्ति । यदीह भगवान्प्रियं कर्तुमिच्छति तर्हीदमस्तु ।
(भरतवाक्यम्)
प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम् ।
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥७।३५॥
परिगतशक्तिः = सर्वशक्तिसम्पन्नः ।
(निष्क्रान्ताः सर्वे)
॥ इति सप्तमोऽङ्कः ॥
॥ समाप्तं नाटकमिदम् ॥