सामग्रीं त्यजन्तु

उत्तररामचरितम् — पञ्चमोऽङ्कः (कुमारविक्रमः)

(नेपथ्ये)
भो भोः सैनिकाः! जातमवलम्बनमस्माकम् ।

नन्वेष त्वरितसुमन्त्रनुद्यमानप्रोद्वल्गत्प्रजवितवाजिना रथेन ।
उत्खातप्रचलितकोविदारकेतुः श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥५।१॥

त्वरितसुमन्त्रनुद्यमानप्रोद्वल्गत्प्रजवितवाजिना = त्वरितेन त्वरायुक्तेन, सुमन्त्रेण तदाख्येन सारथिना, नुद्यमानाः प्रेर्यमाणाः, प्रोद्वल्गन्तः (प्र+उद्+√वल्ग्+शतृ) प्रचलन्तः, प्रजविताः अतिशय वेगयुक्ताः, वाजिनः अश्वाः, यस्मिंस्तेन । उत्खातप्रचलितकोविदारकेतुः = उत्खातेषु निम्नोन्नतप्रदेशेषु, प्रचलितः कम्पितः, कोविदारकेतुः चमरिकतरुनिर्मितरथध्वजो यस्य सः । प्रधनं = युद्धम् (युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् इत्यमरः) ।

(ततः प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः)
चन्द्रकेतुः – आर्य सुमन्त्र! पश्य पश्य!

किरति कलितकिञ्चित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जत्कोटिना कार्मुकेण ।
समरशिरसि चञ्चत्पञ्चचूडश्चमूना- मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥५।२॥

कलितकिञ्चिन्कोपरज्यन्मुखश्रीः = कलितेन आहृतेन (कृतेन), किश्चित्कोपेन ईषन्मन्युना, रज्यन्ती रक्तीभवन्ती, मुखश्रीः = श्राननशोभा यस्य सः । वीरपोतः = शूरशिशुः । किरति = विक्षिपति ।

अत्र 'शरतुषारम्' इत्यत्र लुप्तोपमाऽलङ्कारः । मालिनी वृत्तम् ॥

(साश्चर्यम्)

मुनिजनशिशुरेकः सर्वतः संप्रकोपा- न्नव इव रघुवंशस्याप्रसिद्धिप्ररोहः ।
दलितकरिकपोलग्रन्थिटङ्कारघोर- ज्वलितशरसहस्त्रः कौतुकं मे करोति ॥५।६॥

सुमन्त्रः – आयुष्मन्!

अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैष तुल्यरूपम् ।
कुशिकसुतमखद्विषां प्रमाथे घृतधनुषं रघुनन्दनं स्मरामि ॥५।४॥

प्रमाथे = विनाशे ।

चन्द्रकेतुः – मम त्वेकमुद्दिश्य भूयसामारम्भ इति हृदयमपत्रपते ।

आरम्भः = व्यापारो, युद्धात्मक इति भाव । अपत्रपते = लज्जते ।

अयं हि शिशुरेकको मदभरेण भूरिस्फुरत्- करालकरकन्दलीजटिलशस्त्रजालैर्बलैः ।
क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै- रमन्दमददुर्दिनद्विरदडामरैरावृतः ॥५।५॥

मदभरेण = मदाऽतिशयेनवीरमानजनितेनेति शेषः ।

सुमन्त्रः – वत्स! एभिः समस्तैरपि नालमस्य, किं पुनर्व्यस्तैः ?
चन्द्रकेतुः – आर्य! त्वर्यतां त्वर्यताम् । अनेन हि । महानाश्रितजनप्रमाथोऽस्माकमारब्धः । तथा हि-

प्रमाथः = विनाशः ।

आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णज्वर- ज्यानिर्घोषममन्दन्दुभिरवैराध्मातमुज्जृम्भयन् ।
वेल्लद्भैरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं तृष्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव ॥५।६॥

आध्मातम् = प्रवृद्धम् । निस्तीर्णः = दत्तः। उज्जृम्भयन् = उत्पादयन् । वेल्लद्भैरवरुण्डखण्डनिकरैः = वेल्लद्भिः लुठद्भिः, भैरवाणां भयङ्कराणाम्, रुण्डखण्डानां कबन्धानां तच्छिरसां च, निकरैः समूहैः । तृष्यत्कालकरालवक्त्रविधसव्याकीर्यमाणाम् = तृष्यतः पिपासतः, कालस्य मृत्योः, यत् करालवक्त्रं भयङ्करमुखम् तस्य विघसैः भुक्तशिष्टेः (अमृतं विघसो यज्ञशेषयोः इत्यमरः), व्याकीर्यमाणाम् इव = संस्तीर्यमाणाम् इव, ' ।

शार्दूलविक्रीडितं वृत्तम् ॥

सुमन्त्रः– (स्वगतम्) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्रसम्प्रहारमनुजानीमः । (विचिन्त्य) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् । प्रत्युपस्थिते रणे का गतिः ?
चन्द्रकेतुः – (सविस्मयलज्जासम्भ्रमम्) हन्त घिक्! अपावृत्तान्येव सर्वतः सैन्यानि मम ।

अपावृत्तानि = पराङ्मुखीभूतानि (पलायन्त इत्यर्थः) ।

सुमन्त्रः – (रथवेगं निरूप्य) आयुष्मन् । एष ते वाग्विषयीभूतः स वीरः ।

वाग्विषयीभूतः = वाचां वाणीनाम्, विषयीभूतः = गोचरीभूतः, प्राग्दूरवर्तित्वादयमसम्भाष्योऽभूत्साम्प्रतं निकटस्थत्वात् संभाषणीयो जात इति भावः ।

चन्द्रकेतुः – (विस्मृतिमभिनीय) आर्य कि नामधेयमाख्यातमाह्वायकैः ?
सुमन्त्रः– 'लव' इति ।
चन्द्रकेतुः –

भो भो लव! महाबाहो! किमेभिस्तव सैनिकैः ।
एषोऽहमेहि मामेव, तेजस्तेजसि शाम्यतु ॥५।७॥

सुमन्त्रः – कुमार! पश्य पश्य ।

विनिवर्तित एष वीरपोतः पृतनानिर्मथनात्त्वयोपहूतः ।
स्तनयित्नुरवादिभावलीनामवमर्दादिव दृप्तसिंहशावः ॥५।८॥

स्तनयित्नुरवात् = स्तनयित्नोः मेघस्य, रवात् गर्जनात् । अवमर्दात् = दलनात् । पृतनानिर्मथनात् = पृतनानाम् सेनानाम्, निर्मथनात् संहारात् । उपहूतः = आहूतः ।

(ततः प्रविशति धीरोद्धतपराक्रमो लवः)
लवः – साधु राजपुत्र! साधु । सत्यमैक्ष्वाकः खल्वसि । तदहं परागत एवास्मि ।

परागतः = सम्प्राप्तः ।

(नेपथ्ये महान् कलकलः)
लवः – (सावष्टम्भं परावृत्य) कथमिदानीं भग्ना अपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः घिग्जाल्मान्!

सावष्टम्भम् = स्थैर्यपूर्वकम् । परावृत्य = विवृत्तवदनीभूय । पर्यवष्टम्भयन्ति = समीपस्थिता भवन्ति ।

अयं शैलाघातक्षुभितवडवावक्त्रहुतभुक्- प्रचण्डक्रोधार्चिर्निचयकवलत्वं व्रजतु मे ।
समन्तादुत्सर्पद्धनतुमुलहेलाकलकलः पयोराशेरोधः प्रलयपवनास्फालित इव ॥५।९॥

उत्सर्पद्धनतुमुलहेलाकलकलः = उत्सर्पन् प्रसरन्, घनः निबिडः, तुमुलः सङ्कुलः, यो हेलायाः रणक्रीडायाः, कलकलः कोलाहलः । प्रलयपवनास्फालितः = प्रलयपवनेन संवर्तवायुना, आस्फालितः ताडितः । क्षुभितः = संचलितः । वडवावक्त्रहुतभुक् = वडवानलः । प्रचण्डक्रोधार्चिर्निचय = प्रचण्डः कठोरः, क्रोधः कोपः, एव अर्चिषां ज्वालानाम्, निचयः समूहः । कवलत्वम् = ग्रासत्वं, भक्ष्यत्वमित्यर्थः ।

शिखरिणी वृत्तम् ॥

(सवेगं परिक्रामति)
चन्द्रकेतुः – भो भोः कुमारः!

अत्यद्भुतादपि गुणातिशयात्प्रियो मे तस्मात्सखा त्वमसि, यन्मम तत्तवैव ।
तत्किं निजे परिजने कदनं करोषि नन्वेष दर्पनिकषस्तव चन्द्रकेतुः ॥५।१०॥

कदनं = पीडनम् । वसन्ततिलका वृत्तम् ॥

लवः – (सहर्षसंभ्रमं परावृत्य) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य। तत्किमेभिः? एनमेव तावत्संभावयामि।

प्रसन्नकर्कशा = प्रसादयुक्ता कठोरा च । विकर्तनकुलकुमारस्य = सूर्यवंशराजपुत्रस्य ।

(पुनर्नेपथ्ये कलकलः)
लवः – (सक्रोधनिर्वेदम्) आः! कदर्थीकृतोऽहमेभिर्वीरसंवादविन्नकारिभिः पापैः । (इति तदभिमुखं परिक्रामति)

सक्रोधनिर्वेदम् = क्रोधेन खेदेन च सहितम् । कदर्थीकृतः = अवमानितः ।

चन्द्रकेतुः – आर्य! दृश्यतां द्रष्टव्यमेतत् ।

दर्पेण कौतुकवता मयि बद्धलक्ष्यः पश्चाद्वलैरनुसृतोऽयमुदीर्णधन्वा ।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते मेघस्य माघवतचापधरस्य लक्ष्मीम् ॥५।११॥

समुद्धतमरुत्तरलस्य= समुद्धतेन = सञ्चालितेन मरुता वायुना, तरलस्य = चञ्चलस्य ।

सुमन्त्रः – कुमार एवैनं द्रष्टुमपि जानाति । वयं तु केवलं परवन्तो विस्मयेन ।
चन्द्रकेतुः – भो भो राजानः!

संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता- वत्रैकस्मिन् कवचनिचितैर्नद्धचर्मोत्तरीये ।
कालज्येष्ठेरपरवयसि ख्यातिकामैर्भवद्भि- र्योऽयं बद्धो युधि समभरस्तेन धिग्वो धिगस्मान् ॥५।१२॥

कवचनिचितैः = कवचैः वर्मभिः, निचिताः = व्याप्ताः तैः बद्धकवचैरित्यर्थः । समभरः = समेषां सर्वेषां, भरः भारः ।

लवः – (सोन्माथम्) आः! कथमनुकम्पते नाम? (ससंभ्रमं विचिन्त्य) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत् सैन्यानि संस्तम्भयामि । (इति ध्यानं नाटयति)

कालहरणप्रतिषेधाय = समययापनवारणाय । संस्तम्भयामि = मोहोत्पादनेन निवृत्तव्यापाराणि करोमीति भावः ।

सुमन्त्रः – तत्किमकस्मादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति ?

उल्लोलाः = चञ्चलाः ।

लवः – पश्याम्येनमधुना प्रगल्भम् ।

प्रगल्भम् = अतिशयधृष्टम् ।

सुमन्त्रः – (ससंभ्रमम्) वत्स! मन्ये कुमारकेणानेन जृम्भकास्त्रमामन्त्रितमिति ।
चन्द्रकेतुः – अत्र कः सन्देहः ?

व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति ।
अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ॥५।१३॥

व्यतिकरः = सम्पर्कः । प्रणिहितम् = प्रयत्नेन निक्षिप्तम् । ग्रस्तमुक्तं = तमसा प्राग्ग्रस्तं ज्योतिषा पश्चान्मुक्तम् । हिनस्ति = बाधते, विषयज्ञानाऽसमर्थ करोतीति तात्पर्यम् । लिखितम् इव = चित्राऽर्पितम् इव । अस्पन्दं = चेष्टारहितम् । नियतं = निश्चितम् ।

आश्चर्यमाश्चर्यम्!

पातालोदरकुञ्जपुज्जिततमःश्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदारकूटकपिलज्यातिज्वलद्दीप्तिभिः ।
कल्पाक्षेपकठोरभैरवमरुद्ध्यस्तैरभिस्तीर्यते लीनाम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥५।१४॥

सुमन्त्रः – कुतः पुनरस्य जृम्भकाणामागमः स्यात् ?
चन्द्रकेतुः – भगवतः प्राचेतसादिति मन्यामहे ।
सुमन्त्रः – वत्स! नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु। यतः-

कृशाश्वतनया ह्येते कृशाश्वात्कौशिकं गताः ।
अथ तत्सम्प्रदायेन रामभद्रे स्थिता इति ॥५।१५॥

चन्द्रकेतुः – अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः पश्यन्ति ।

प्रचीयमानसत्त्वप्रकाशाः = प्रचीयमानः उपचीयमानः, सत्त्वस्य सत्त्वगुणस्य, प्रकाशः आविर्भावः येषु, ते ।

सुमन्त्रः – वत्स! सावधानो भव । परागतस्ते प्रतिवीरः ।

परागतः = सम्प्राप्तः ।

कुमारौ – (अन्योन्यं प्रति) अहो! प्रियदर्शनः कुमारः । (सस्नेहानुरागं निर्वर्ण्य)

यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः ।
निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो ममैतस्मिन्दृष्टे हृदयमवधानं रचयति ॥५।१६॥

जन्मान्तरनिबिडबद्धः = जन्मान्तरेषु अन्येषु जन्मसु, निबिडं दृढं यथा स्यात् तथा बद्धः दृढारूढः इति भावः ।

सुमन्त्रः – भूयसां जीविनामेव धर्म एषः, यत्र स्वरसमयी कस्यचित्क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षुराग इति । तदप्रतिसङ्ख्येयनिबन्धनं प्रमाणमामनन्ति ।

अप्रतिसंख्येयनिबन्धनम् = अप्रतिसंख्येयम् (प्रतिसंख्यातुम् अशक्यम्) अविचारणीयं, निबन्धनं मूलं (अहेतुकम्) यस्य तत् । आमनन्ति = असकृद्वदन्ति ।

अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥५।१७॥

कुमारौ – (अन्योन्यमुद्दिश्य)

एतस्मिम्मसृणितराजपट्टकान्ते मोक्तव्याः कथमिव सायकाः शरीरे ?
यत्प्राप्तौ मम परिरम्भणाभिलाषादुन्मीलत्पुलककदम्बममास्ते ॥५।१८॥

उन्मीलत्पुलककदम्बम् = उन्मीलत् उद्यत्, पुलकानां रोमाञ्चानाम्, कदम्बं समूहः, यस्मिंस्तत् ।

किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना ? शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः ।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे ।
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥५।१९॥

उद्यतेऽपि = प्रहर्तुमुत्तोलितेऽपि । शार्दूलविक्रीडितं वृत्तम्॥

सुमन्त्रः – (लवं निर्वर्ण्य सास्रमात्मगतम्) हृदय! किमन्यथा परिप्लवसे ? ईदृशः –

परिप्लवसे = चञ्चलीभवसि ।

मनोरथस्य यद्बीजं तद् देवेनादितो हृतम् ।
लताया पूर्वलूनायां प्रसवस्योद्भवः कुतः ॥५।२०॥

पूर्वलूनायां = प्रागेव छिन्नायां सत्याम् ।

चन्द्रकेतुः – अवतराम्यार्य सुमन्त्र! स्यन्दनात् ।
सुमन्त्रः – कस्य हेतोः ?
चन्द्रकेतुः – एकस्तावदयं वीरपुरुषः पूजितो भवति, अपि च खल्वार्य! क्षत्रधर्मः परिपालितो भवति । 'न रथिनः पादचारमभियुञ्जन्तीति शास्त्रविदः परिभाषन्ते ।
सुमन्त्रः – (स्वगतम्) आः! कष्टां दशामनुप्रपन्नोऽस्मि ।

अनुप्रपन्नः = प्राप्तः ।

कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु ।
कथं वाऽभ्यनुजानातु साहसैकरसां क्रियाम् ॥५।२२॥

चन्द्रकेतुः – यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृच्छन्ति, तत्किमार्यो विमृशति ?

अर्थसंशयेषु = कर्तव्याऽकर्तव्य सन्देहेषु । विमृशति = विचारयति ।

सुमन्त्रः – आयुष्मन्! एवं यथाधर्ममभिमन्यसे ।

एष सांग्रामिको न्याय एष धर्मः सनातनः ।
इयं हि रघुसिंहानां वीरवारित्रपद्धतिः ॥५।२२॥

चन्द्रकेतुः – अप्रतिरूपं वचनमार्यस्य ।

अप्रतिरूपं = निरुपमम् ।

इतिहासं पुराणं व धर्मप्रवचनानि च ।
भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥५।२३॥

सुमन्त्रः – (सस्नेहास्रं परिष्वज्य)

जातस्य ते पितुरपीन्द्रजितो निहन्तु- र्वत्सस्य वत्स! कति नाम दिनान्यमूनि ?
तस्याप्यपत्यमनुतिष्ठति वीरधर्मे दिष्टद्यागतं दशरथस्य कुलं प्रतिष्ठाम् ॥५।२४॥

चन्द्रकेतुः – (सकष्टम्)

अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः ।
इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥५।२५॥

सुमन्त्रः – हृदयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।
लवः – हन्त! मिश्रीकृतक्रमो रसो वर्तते ।

यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम, कलहकामः पुनरयम् ।
रणस्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु- र्धृतप्रेमा बाहुर्विकचविकरालव्रणमुखः ॥५।२६॥

समुपोढे = उदये । विकचविकरालव्रणमुखः = विकचानि विस्तृतानि, विकरालानि प्रतिशयविशालानि, व्रणानि क्षतचिह्नानि, मुखे = अग्रे यस्य सः । शिखरिणी वृत्तम् ॥

चन्द्रकेतुः – (अवतरणं निरुपयन्) आर्य! अयमसावैक्ष्वाकश्चन्द्रकेतुरभिवादयते ।
सुमन्त्रः – अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । अपि च –

देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति- स्त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरुणामपि ।
ऐन्द्रावैष्णवमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते देयादेव व रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम् ॥५।२७॥

लवः – अतीव नाम शोभते रथस्थ एव । कृतं कृतमत्यादरेण ।
चन्द्रकेतुः – तर्हि महाभागोऽप्यन्यं रथमलङ्कुरोतु ।
लवः – आर्य! प्रत्यारोपय रथोपरि राजपुत्रम् ।
सुमन्त्रः – त्वमप्यनुरुध्यस्व वत्सस्य चन्द्रकेतोर्वचनम् ।

अनुरुध्यस्व = अनुसर ।

लवः – को विचारः स्वेषूपकरणेषु ? किं त्वरण्यसदो वयमनभ्यस्तरथचर्याः ।

अरण्यसदः = अरण्ये सीदन्तीति ('सत्सूद्विषे०' इति क्विप्) वनवासिन इत्यर्थः ।

सुमन्त्रः – जानासि वत्स ? दर्पसौजन्ययोर्यदाचरितम् । यदि पुनस्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायमस्य स्नेहेन हृदयमभिष्यन्दयेत्।

अभिष्यन्दयेत् = द्रवीभवेत् (melt) ।

लवः – अन्यच चन्द्रकेतो! सुजनः स राजर्षिः श्रूयते । (सलज्जमिव)

यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ क इव न गुणैस्तं राजानं जनो बहु मन्यते ।
तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाऽकरोत् ॥५।२८॥

चन्द्रकेतुः – किन्नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ?

तातप्रतापोत्कर्षे = तातस्य पितुः रामचन्द्रस्येत्यर्थः, प्रतापस्य तेजसः, उत्कर्षे प्रकर्षे । अमर्षः = असहिष्णुता ।

लवः – अस्त्विहामर्षो मा भूद्वा । अन्यदेतत्पृच्छामि । दान्तं हि राजानं राघवं शृणुमः । स किल नात्मना दृप्यति, नाप्यस्य प्रजा वा दृप्ता जायन्ते । तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ?

ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
सा योनिः सर्ववैराण सा हि लोकस्य निष्कृतिः ॥५।२९॥

इति ह स्म तां निन्दन्ति इतरामभिष्टुवन्ति ।

कामं दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुर्हृदो निष्प्रलाति ।
शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥५।३०॥

विप्रकर्षति = दूरीकरोति । निष्प्रलाति = अतिशयेन नाशयति ।

सुमन्त्रः – परिभूतोऽयं बत कुमारः प्राचेतसान्तेवासी। वदत्ययमभ्युपपन्नामर्षेण संस्कारेण ।

अभ्युपपन्नः = उत्पन्नः ।

लवः – यत्पुनश्चन्द्रकेतो! वदसि 'किन्नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्ष' इति, तत्पृच्छामि किं व्यवस्थितविषयः क्षात्रधर्म इति ।
सुमन्त्रः – नैव खलु जानासि दैवमैक्ष्वाकम्! तद्विरमातिप्रसङ्गात् ।

सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।
जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि ॥५।३१॥

निर्बन्धम् = रूक्षवादाग्रहम् ।

लवः – (सहासम्) आर्य! जामदग्नस्य दमनः स राजेति कोऽयमुच्चैर्वादः ?

उच्चैर्वादः = महावीरत्वद्योतिकोक्तिः ।

सिद्धं ह्येतद्वाचि वीर्यं द्विजानां बाह्वोर्वीर्यं यत्तु तत्क्षत्रियाणाम् ।
शस्त्रग्राही ब्राह्मणो जामदग्न्यस्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ॥५।३२॥

चन्द्रकेतुः – (सोन्माथमिव) आर्य सुमन्त्र! कृतमुत्तरोत्तरेण ।

सोन्माथम् = पीडासहितम् ।

कोऽप्येष सम्प्रति नवः पुरुषावतारो वीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तात चरितान्यपि यो न वेद ॥५।३३॥

लवः – को हि रघुपतेश्चरितं महिमानं च न जानाति ? यदि नाम किञ्चिदस्ति वक्तव्यम् । अथवा शान्तम् ।

वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।
यानि त्रीणि कुतोमुखान्यपि पदान्यासघरायोधने ।
यद्वा कौशलमिन्द्रसूनुनिघने तत्राप्यभिज्ञो जनः ॥५।३४॥

चन्द्रकेतुः – आः तातापवादिन्! भिन्नमर्याद! अति हि नाम प्रगल्भसे ।

भिन्नमर्याद = भिन्ना उल्लङ्घिता, मर्यादा सदाचारो येन, तत्सम्बुद्धौ । प्रगल्भसे = धृष्टो भवसि ।

लवः – अये! मय्येव भ्रकुटीमुखः संवृत्तः ।
सुमन्त्रः – स्फुरितमनयोः क्रोधेन । तथा हि-

क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भिन्नं भ्रुवो- श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥५।३५॥

उद्धतधूतकुन्तलभरः = उद्धतं सातिशयं यथा, तथा धूताः चलिताः, कुन्तलभराः केशभाराः यस्मिन् सः, (चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः इत्यमरः) । उद्भ्रान्तभृङ्गस्य =उद्भ्रान्ताः ऊर्ध्वं भ्रमन्तः, भृङ्गाः भ्रमराः, यस्मिंस्तस्य ।

लवः – कुमार! कुमार! एह्येहि । विमर्दक्षमां भूमिमवतरावः ।

विमर्दक्षमां = युद्धयोग्याम् ।

(इति निष्कान्ताः सर्वे)
॥ पञ्चमोऽङ्कः ॥

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
नन्वेष त्वरितसुमन्त्रनुद्यमानप्रोद्वल्गत्प्रजवितवाजिना रथेन — —
किरति कलितकिञ्चित्कोपरज्यन्मुखश्री- रविरतगुणगुञ्जत्कोटिना का… — —
मुनिजनशिशुरेकः सर्वतः संप्रकोपा- न्नव इव रघुवंशस्याप्रसिद्धि… — —
अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैष तुल्यरूपम् — —
अयं हि शिशुरेकको मदभरेण भूरिस्फुरत्- करालकरकन्दलीजटिलशस्त्रज… — —
आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णज्वर- ज्यानिर्घोषममन्दन्दु… — —
भो भो लव! महाबाहो! किमेभिस्तव सैनिकैः — —
विनिवर्तित एष वीरपोतः पृतनानिर्मथनात्त्वयोपहूतः — —
अयं शैलाघातक्षुभितवडवावक्त्रहुतभुक्- प्रचण्डक्रोधार्चिर्निच… — —
अत्यद्भुतादपि गुणातिशयात्प्रियो मे तस्मात्सखा त्वमसि, यन्मम… — —
दर्पेण कौतुकवता मयि बद्धलक्ष्यः पश्चाद्वलैरनुसृतोऽयमुदीर्णधन… — —
संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता- वत्रैकस्मिन् कवचनि… — —
व्यतिकर इव भीमस्तामसो वैद्युतश्च प्रणिहितमपि चक्षुर्ग्रस्तमु… — —
पातालोदरकुञ्जपुज्जिततमःश्यामैर्नभो जृम्भकै- रुत्तप्तस्फुरदार… — —
कृशाश्वतनया ह्येते कृशाश्वात्कौशिकं गताः — —
यदृच्छासंवादः किमु गुणगणानामतिशयः पुराणो वा जन्मान्तरनिबिडबद… — —
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया — —
एतस्मिम्मसृणितराजपट्टकान्ते मोक्तव्याः कथमिव सायकाः शरीरे ?… — —
किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना ? शस्त्रेणाप… — —
मनोरथस्य यद्बीजं तद् देवेनादितो हृतम् — —
कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु — —
एष सांग्रामिको न्याय एष धर्मः सनातनः — —
इतिहासं पुराणं व धर्मप्रवचनानि च — —
जातस्य ते पितुरपीन्द्रजितो निहन्तु- र्वत्सस्य वत्स! कति नाम… — —
अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः — —
यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी तथैवास्मिन्दृष्टिर्मम… — —
देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति- स्त्वां मैत… — —
यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ क इव न गुणैस्तं राजान… — —
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः — —
कामं दुग्धे विप्रकर्षत्यलक्ष्मीं कीर्तिं सूते दुर्हृदो निष्प… — —
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया — —
सिद्धं ह्येतद्वाचि वीर्यं द्विजानां बाह्वोर्वीर्यं यत्तु तत्… — —
कोऽप्येष सम्प्रति नवः पुरुषावतारो वीरो न यस्य भगवान्भृगुनन्द… — —
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्री… — —
क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः किञ्चित्कोकनदच्छद… — —