सामग्रीं त्यजन्तु

ध्वन्यालोकः — परिचयः

उपयोगीनि उपकरणानि

सहायकसामग्र्यः

• http://ashtadhyayi.com (सूत्रपाठः, धातुपाठः, गणपाठः, कोषाः)
• http://sanskritsahitya.org (काव्यसङ्ग्रहः, अन्वेषाणादिसौकर्यम्)

टीकाः

विषयपरिचयः

ग्रन्थकारः

• आनन्दवर्धनः (~950)
• काश्मीरवासी (राजतरङ्गिणीतः ज्ञायते)
• कृतयः - ध्वन्यालोकः, अर्जुनचरितम्, विषमबाणलीला, देवीशतकम्, तत्त्वालोकः (वेदान्तविषयकदार्शनिकग्रन्थः)

लोचनटीकाकर्ता

• अभिनवगुप्तः (दशमशताब्देः पूर्वार्द्धः)
• कृतयः - अभिनवभारती (नाट्यशाखम्), लोचनम् (ध्वन्यालोकः), तन्त्रालोकः, ईश्वरप्रत्यभिज्ञाविमर्शिनी
• साहित्यशास्त्रे अवदानम्
• रसास्वादप्रक्रिया
• सहृदयस्य व्याख्या
• काव्यप्रयोजनम् नीत्युपदेशः (व्युत्पत्तिः)

ध्वन्यालोकः

अयं लक्षणग्रन्थः (लक्ष्यानुसारीणि लक्षणानि भवन्ति ।)। ऐदम्प्रथमतया ध्वनिसिद्धान्तः प्रतिपादितः । (प्रवर्तकाचार्यः - आनन्दवर्धनाचार्यः, मम्मटः इतोऽपि पोषितवान् सिद्धान्तम्, जगन्नाथपण्डितेन खण्डितं तन्मतम्, ततः पुनः परवर्तिसाहित्यकारैः नागेशादिभिः प्रतिष्ठापितः) ।

वादः - कारिकावृत्तिकारयोः समानकर्तृकत्व उत भिन्नकर्तृकत्वम्? लोचनकारः मतम् - समानः कर्ता । अर्वाचीनाः - भिन्नौ कर्तारौ ।

ध्वन्यालोकस्य अवदानम्

• व्यङ्गङ्ग्रार्थयुक्तः अलङ्कारः न ध्वनिकाव्यम् ।
• रसादिध्वनिः रसवदलङ्कारः इत्यनयोः भेदः
• गुणीभूतव्यङ्ग्यकाव्यस्य लक्षणम्, काव्यस्य सौन्दर्यानुगुणं स्तरत्रये विभाजनम्
• वस्तुध्वनिः, अलङ्कारध्वनिः रसध्वनिः इत्यस्य प्रतिपादनम्
• अविवक्षितवाच्य-विवक्षितान्यपरवाच्यभेट्योः प्रतिपादनम्
• गुणानां सङ्ख्यानिर्धारणम् । (गुणाः त्रयः एव इति ऐदम्प्रथमतया उपस्थापितम्)
• गुणालङ्काराणां रसेन सह सम्बन्धः । गुण-रस (संवायः), अलङ्कार-रस (संयोग)
• सदाचारोपदेशः काव्यस्य अन्तिमम् उद्दिष्टम्
सदाचारोपदेशरूपा हि नाटकादिगोष्ठी, विनेयजनहितार्थमेव मुनिभिरवतारिता । (३।३० वृ०)

ध्वनिविरोधिनः

ध्वनिं न सर्वे साहित्यकाराः अङ्गीकुर्वन्ति । जयरथेन १२ विरोधिनः सङ्कीर्तिताः (विमर्शिनी टीकायाम्) । ध्वनिसिद्धान्तः पृथङ् नास्ति, अन्यसिद्धान्तेषु अन्तर्भावः । यत्र अन्तर्भावः तन्मतीयाः विरोधिनः । कस्मिन्/कस्याम् अन्तर्भावः कैः कृतः?

• तात्पर्यशक्तिः । (भट्टीमीमांसकाः)
• अभिधा । (प्राभाकरमीमांसकाः)
• उपादानलक्षणा ।
• लक्षणलक्षणा ।
• स्वार्थानुमानः । (नैयायिकाः)
• परार्थानुमानः । (नैयायिकाः)
• अर्थापत्तिः ।
• श्लेषः ।
• समासोक्तिः ।
• रसः न व्यङ्ग्यः, सः कार्यः । (लोल्लटः) [रसः उत्पद्यते, कार्यः स]
• रसः न व्यङ्ग्यः, सः भोग्यः । (भट्टनायकः) [उत्पत्तिं न स्वीकुर्वन्ति, रसस्य भोज्य-भोजक-सम्बन्धः ।]
• ध्वनिः अनिर्वचनीयः । (लक्षणम् अशक्यम्)

ध्वयालोके प्रतिवादिनः

ध्वयालोके त्रयः मुख्याः प्रतिवादिनः ।

graph TD
%% Node Definitions
Root["ध्वन्यालोके प्रतिवादिनः
ध्वनिविरोधिनां त्रयः पक्षाः"]

P1["१. ध्वनिः नास्ति
अभाववादः"]:::abhavavadi
P2["२. ध्वनेः लक्षणादौ अन्तर्भावः
भाक्तवादः"]:::bhaktavadi
P3["३. ध्वनिरनिर्वचनीयः
अनिर्वचनीयतावादः"]:::alaxaniyatavadi

Reason1["विपर्ययमूलकः
(वस्तुतो स्थितस्यापि अपलापः)"]:::abhavavadi
Reason2["सन्देहमूलकः
(लक्षणादिभिः सह साङ्कर्यम्)"]:::bhaktavadi
Reason3["अज्ञानमूलकः
(वाचामगोचरता)"]:::alaxaniyatavadi

Group1["अभाववादिनः
(प्रतिभाहीनाः / तार्किकसंस्काररहिताः)"]:::abhavavadi
Group2["भाक्तवादिनः
(गुणवृत्ति/लक्षणायाम् अन्तर्भाववादिनः)"]:::bhaktavadi
Group3["अलक्षणीयतावादिनः
(गिरामनभिधेयरूपत्वमन्वानाः)"]:::alaxaniyatavadi

Abhava1["ध्वनिः नास्ति"]:::abhavavadi
Abhava2["पूर्वजैर्न प्रतिपादितः"]:::abhavavadi
Abhava3["गुणालङ्कारव्यतिरिक्तः न"]:::abhavavadi

%% Connections
Root -->|प्रथमः पक्षः| P1
Root -->|द्वितीयः पक्षः| P2
Root -->|तृतीयः पक्षः| P3

P1 --> Reason1 --> Group1
P2 --> Reason2 --> Group2
P3 --> Reason3 --> Group3

Group1 --> Abhava1
Group1 --> Abhava2
Group1 --> Abhava3

%% Styling Definitions with compact padding
classDef abhavavadi fill:#ffebee,stroke:#d32f2f,stroke-width:2px,padding:8px;
classDef bhaktavadi fill:#fffde7,stroke:#fbc02d,stroke-width:2px,padding:8px;
classDef alaxaniyatavadi fill:#e8f5e9,stroke:#388e3c,stroke-width:2px,padding:8px;