उपजातिः¶
अक्षराणि
११
लक्षणम्
अनन्तरोदीरितलक्ष्मभाजौ ।
पादौ यदीयावुपजातयस्ताः ॥
उदाहरणम्
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ (रघु० २।१)
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।<br/>
पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः॥ (कु० १।१)<br/>
ऽऽ। ऽ ऽ । ।ऽ । ऽऽ ।ऽ ।ऽऽ ॥ ऽ।ऽऽ<br/>
।ऽ। ऽऽ। ।ऽ। ऽ। ऽऽ। ऽऽ। । ऽ।ऽ।
अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनाभिमुख्यम् ॥
ऽऽ ।ऽ ऽ । । ऽ। ऽ॥ ऽ ।ऽऽ ॥ऽ। ऽ।
येषां न विद्या न तपो न दानम्।...
सन्दर्भाः¶
- प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् — ध्वन्यालोकः — प्रथम उद्योतः — कारिका ४ (प्रतीयमानार्थः)