सामग्रीं त्यजन्तु

ध्वन्यालोकः — प्रथम उद्योतः — कारिका ४ (प्रतीयमानार्थः)

कारिका ४ (प्रतीयमानार्थः)

प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥ १।४ ॥

महाकवीनां वाणीषु तत् प्रतीयमानं पुनः अन्यदेव वस्त्वस्ति यत् प्रसिद्धावयवातिरिक्तम् अङ्गनासु लावण्यम् इव विभाति

लोचने केचन अंशाः विशदीकृताः –

• पुनः - वाच्यः इति अन्यत्र स्तुतः अर्थः, तस्मात् प्रतीयमानः अर्थः विशिष्यते इत्यर्थम् पुनः इति शब्दप्रयोगः ।
• महाकविः प्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाक् । ↗

• महाकवीनाम् - तेषां प्रबन्धेषु सर्वोऽपि प्रतिपादितः विषयः प्रतीयमानः अर्थेन व्याप्तः ।

• यत्तत् - यत् इति ज्ञातपूर्वः विषयः, तदित्यनेन प्रतीयमानः अर्थः (विधेयः) । तदनुभूयते । चमत्कारसारताप्रकटीकरणार्थम्, अव्यपदेश्यत्वम् (शब्दतः नोच्यते अनुभूयते)
• लावण्यम् - लावण्यम् अवयवसंस्थानाभिव्यङ्ग्यम् अवयवव्यतिरिक्तं धर्मान्तरम् ।
मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा ।
प्रतिभातियदङ्गेषु तल्लावण्यमिहोच्यते ॥

• विभाति - वाच्यात् व्यतिरिक्तं सारभूतं तद्भाति, न ह्यत्यन्तासतः भानमुपपन्नम्, (अनुमानम्प्रतीयमानं सत् भासमानत्वात्, यथा लावण्यमिवाङ्गनासु) । अत्रावधेयं यत् विभाति इति पदं सूचयति यत् सत्तावान् कश्चन अर्थः अत एव भासते ।
• प्रसिद्धावयवातिरिक्तम् - प्रसिद्धम् सर्वप्रतीतत्वम् अलङ्कृतत्वम्,

लोचनम्
अन्यदेव वस्त्विति । पुनश्शब्दो वाच्याद्विशेषद्योतकः । तद्व्यतिरिक्तं सारभूतं चेत्यर्थः । महाकवीनामिति बहुवचनमशेषविषयव्यापकत्वमाह ।

प्रतीयमानं पुनरन्यदेव वाच्याद्वस्त्वस्ति वाणीषु महाकवीनां । यत्तत्सहृदयसुप्रसिद्धं प्रसिद्धेभ्योऽलङ्कृतेभ्यः प्रतीतेभ्योऽवावयवेभ्यो व्यतिरिक्तत्वेन प्रकाशते लावण्यभिवाङ्गनासु । यथा ह्यङ्गनासु लावण्ये पृथङ्निर्वर्ण्यमानं निखिलावयवव्यतिरेकि किमप्यन्यदेव सहृदयलोचनामृतं तत्त्वान्तरं तद्वदेव सोऽर्थः ।

लोचनम्
एतदभिधास्यमानप्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनत्वेनैव महाकविव्यपदेशे भवतीति भावः । यदेवंविधमस्ति तद्भाति । नह्यत्यन्तासतो भानमुपपन्नम्; रजताद्यपि नात्यन्तमसद्भाति । अनेन सत्वप्रयुक्तं तावद्भानमिति भानात्सत्वमवगम्यते । तेन यद्भाति तदस्ति तथेत्युक्तं भवति । तेनायं प्रयोगार्थः–प्रसिद्धं वाच्यं धर्मि, प्रतीयमानेन व्यतिरिक्तेन तद्वत्, तथा भासमानत्वात्लावण्योपेताङ्गनाङ्गवत् । प्रसिद्धशब्दस्य सर्वप्रतीतत्वमलङ्ककृतत्वं चार्थः । यत्तदिति सर्वनामसमुदायश्चमत्कारसारताप्रकटीकरणार्थमव्यपदेश्यत्वमन्योन्यसंवलनाकृतं चाव्यतिरेकभ्रमं दृष्टान्तदार्ष्टान्तिकयोर्दर्शयति । एतच्च किमपीत्यादिना व्याचष्टे । लावण्यं हि नामानयवसंस्थानाभिव्यङ्ग्यमवयवव्यतिरिक्तं धर्मान्तरमेव ।

न चावयवानामेव निर्देषता वा भूषणयेगो वा लावण्यम्, पृथङ्निर्वर्ण्यमानकाणादिदोषशून्यशरीरावयवयोगिन्यामप्यलङ्कृतायामपि लावण्यशून्येयमिति, अतथाभूतायामपि कस्याञ्चिल्लावण्यामृतचन्द्रिकेयमिति सहृदयानां व्यवहारात् ।

स ह्यर्थो वाच्यसामर्थ्याक्षिप्तं वस्तुमात्रमलङ्काराःरसादयश्चेत्यनेकप्रभेदप्रभिन्नो दर्शयिष्यते । सर्वोषु च तेषु प्रकारेषु तस्य वाच्यादन्यत्वं ।

वाच्यम् इत्यस्य अर्थः प्रसङ्गानुगुणं भवति । अलङ्कारः अभिधा वेति ।
वाच्यसामर्थ्याक्षिप्तम् – भेदत्रयव्यापकं सामान्यलक्षणम् । (=वस्तुध्वनिः, अलङ्कारध्वनिः, रसध्वनिः) । वाच्यं सर्वथापेक्षितमेव (भूमिः), ततः एव अन्ये (वाच्यार्थभिन्नाः) अर्थाः प्रतीयन्ते ।

वाक्यप्रतीतिः कथं भवति –
अभिहितान्वयवादः (कुमारिलाभट्टः) – अर्थः अभिहितानां शब्दानां द्वारैवागम्यते । शब्दाः स्वं स्वमर्थं बोधयन्ति, ततः अन्वयः । अभिधावृत्तिः पर्याप्ता, अन्या वृत्तिः नाभ्युपगन्तव्या । वाक्यार्थनिमित्तम् इयं वृत्तिः अपर्याप्ता (यतः स्वार्थं बोधयित्वा विरता भवति), अतः तेषां मते अन्वयं सम्पाद्य वाक्यार्थं गमयितुं तात्पर्यवृत्तिः अङ्गीक्रियते । वाक्यार्थः मुख्यः ।
अन्विताभिहितावादः – अभिधाशरवत् (विरता न भवति, अनेकानि कार्याणि करोति यथा शरः नैकानि पत्राणि भिनत्ति), तात्पर्यवृत्तिः नापेक्षिता । पदं केवलं स्वम् अर्थं न बोधयति, अपितु अन्वितं सत् अर्थं बोधयति (प्रसङ्गानुगुणम्), अभिता एव मुख्या अर्थं बोधयितुम् ।

लोचनम्
... तत्र प्रतीयमानस्य तावद्द्वौ भेदौ – लौकिकः, काव्यव्यापारैकगोचरश्चेति । लौकिको यः स्वशब्दवाच्यतां कदाचिदधिशेते, स च विधिनिषेधाद्यनेकप्रकारो वस्तुशब्देनोच्यते । सोऽपिद्विविधः – यः पूर्वं क्वापि वाक्यार्थेऽलङ्कारभावमुपमादिरूपतयान्वभूत्, इदानीं त्वनलङ्काररूप एवान्यत्र गुणीभावाभावात्, स पूर्वप्रत्यभिज्ञानवलादलङ्कारध्वनिरिति व्यपदिश्यते ब्राह्मणश्रमणन्यायेन । तद्रूपताभावेन तूपलक्षितं वस्तुमात्रमुच्यते । मात्रग्रहणेन हि रूपान्तरं निराकृतं । यस्तु स्वप्नेऽपि न स्वश्ब्दवाच्यो न लौकिकव्यवहारपतितः, किं तु शब्दसमर्प्यमाणहृदयसंवादसुन्दर-विभावानुभावसमुचितप्राग्विनिविष्ट-रत्यादिवासनानुराग-सुकुमार-स्वसंविदानन्दचर्वणाव्यापार-रसनीयरूपो रसः, स काव्यव्यापारैकगोचरो रसध्वनिरिति, स च ध्वनिरेवेति, स एव मुख्यतयात्मेति ।

प्रतीयमानः – लौकिकः (अलङ्कारयुक्तः), रसयुक्तः । रसस्य अलौकिकथं कथमिति लोचनकारः सुष्ठु प्रतिपादितवान् (शब्दसमर्प्यमाण...)।

तथा ह्याद्यस्तावत्प्रभेदो वाच्याद्दूरं विभेदवान् । स हि कदाचिद्वाच्ये विधिरूपे प्रतिषेधरूपः । यथा –

भ्रम धार्मिक विस्रब्धः स शुनकोऽद्य मारितस्तेन ।
गोदावरीनदीकूललतागहनवासिना दृप्तसंहेन ॥

भ्रम इत्यनेन विधिः इति वाच्यार्थः, प्रतीयमानस्तु निषेधः । युगपद् अभिधायाः विपरीतार्थद्वयं अङ्गीकर्तुं न शक्यते (क्रमेणापि भवितुं नार्हति यतः वाच्यं स्वम् अर्थं बोधयित्वा विरतं भवति) , अतः व्यञ्जना स्वीकार्याः । यत् पदं प्रयुक्तं तस्य वाक्ये अन्वयः, ततः पुनः विपरीतम् अर्थं तात्पर्यशक्त्याऽपि अवगन्तुं न शक्यते यतः तात्पर्यशक्त्या तु साक्षात् वाच्यार्थः एव लभ्यते । अन्यमते यदि इषुवत् व्यापारः स्वीकरणीयः चेत् लक्षणा अपि तथैव कुतः न स्यात्? किमर्थं सा पृथग्रूपेण अङ्गीकृता? तस्मात् अभिधाद्वारा मा भ्रम इत्यर्थः न भवितुमर्हति (वधतो व्याघातः इव) । अतः अभिधा वाच्यार्थमेव बोधयति। अत्र प्रदर्शितः व्यङ्ग्यार्थः न अभिधया, न लक्षणया, न च तात्पर्यशक्त्या बोधयितुं शक्यते । व्यञ्जनया एव इति अवसितम् ।

क्वचिद्वाच्ये प्रतिषेधरूपे विधिरूपो यथा –

श्वश्रूरत्र (शेते) निमज्जति अत्राहं दिवसकं प्रलोकय ।
मा पथिक रात्र्यन्ध शय्यायामावयोः शयिष्टाः ॥

लोचनम्
...यत्त्वाह भट्टनायकः – 'अहमित्यभिनयविशेषेणात्मदशावेदनाच्छाब्दमेतदपीऽति' । तत्राहमिति शब्दस्य तावन्नायं साक्षादर्थः; काक्वादिसहायस्य च तावति ध्वननमेव व्यापार इति ध्वनेर्भूषणमेतत् । अत्तेति प्रयत्नेनानिभृतसंभोगपरिहारः । ...

भाट्टमतम् अस्ति यत् अभिनयद्वारा वयङ्यार्थः प्रतिपादितः एव, अतः वाच्यार्थः । किन्तु अभिनयेन प्रतिपादितः अर्थः शब्दस्य अर्थः न भवत्येव ।

क्वचिद्वाच्ये विधिरूपेऽनुभयरूपो यथा –

व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि ।
मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ॥

वस्तुध्वनिः । व्रज ।

क्वचिद्वाच्ये प्रतिषेधरूपेऽनुभयरूपो यथा –

प्रार्थये तावत्प्रसीद निवर्तस्य मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ।
अभिसारिकाणां विध्नं करोष्यन्यासामपि हताशे ॥

गुणीभूतव्यङ्ग्यस्य उदाहरणम् । प्रसङ्गत्रयम् । प्रथमः - रसः वाच्यस्य अङ्गभूतः (गोत्रस्खलनम्) । द्वितीयः (सख्याः कथनम्) - व्यभिचारिभावः (वाच्यस्य अङ्गत्वेन । भावस्य प्राधान्यम् अतः प्रेयः इति अलङ्कारः भवति तत्र) । तृतीयार्थः - व्यङ्ग्यः । विधिनिषेधाभ्याम् अतिरिक्तः ।

क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा –

कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरं ।
सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम् ॥

बोद्धा - वाच्यार्थः - वैयाकरणः । व्यङ्ग्यः - सहृदयः । स्वरूपं प्रकृतिः

अन्ये चैवंप्रकारा वाच्याद्विभेदिनः प्रतीयमानभेदाः प्रतीयमानभेदाः सम्भवन्ति । तेषां दिङ्मात्रमेतत्प्रदर्शितम् । द्वितीयोऽपि प्रभेदो वाच्याद्विभिन्नः सप्रपञ्चमग्रे दर्शायिष्यते । तृतीयस्तु रसादिलक्षणः प्रभेदो वाच्यसामर्थ्याक्षिप्तः प्रकाशते, न तु साक्षाच्छब्दव्यापारविषय इति वाच्याद्विभिन्न एव ।

तथा हि वाच्यत्वं तस्य स्वशब्दनिवेदितत्वेन वा स्यात्विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन्पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः । न च सर्वत्र तेषां स्वशब्धनिवेदितत्वम् । यत्राप्यस्ति तत्, तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैवैषां प्रतीतिः । स्वशब्देन सा केवलमनूद्यते, न तु तत्कृता विषयान्तरे तथा तस्या अदर्शनात् । न हि केवलशृङ्गरादिब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति । यतश्च स्वाभिधानमन्तरेण केवलेभ्योऽपि विभावादिभ्यो विशिष्टेभ्यो रसादीनां प्रतीतिः । केवलाच्च स्वाभिधानादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनां । न स्वभिधेयत्वं कथञ्चित्, इति तृतीयोऽपि प्रभेदो वाच्याद्भिन्न एवेति स्थितं । वाच्येन त्वस्य सहेव प्रतीतिरित्यग्रे दर्शयिष्यते ।

वाच्यद्वारा - वस्तु, अलङ्कार भवितुम् अर्हति । रसस्य वाच्या अभिव्यक्तिः न भवति ।

अन्वयव्यतिरेकद्वारा लोचनकारः दर्शयति - वाच्यात् रसप्रतीतिः न भवति । यत्र रसः अस्ति तत्र वाचार्थः नास्ति, यत्र वाच्यार्थः अस्ति तत्र रसः नास्ति ।

सारः

graph LR
A["प्रतीयमानस्य पृथक्त्वम्"] --> B["अङ्गनासु लावण्यम्
(दृष्टान्तः)"]
A --> C["वाणीषु प्रतीयमानार्थः
(दार्ष्टान्तः)"]

B --> B1["प्रसिद्धावयवाः
(चक्षुर्नासिकादयः)"]
B --> B2["लावण्यम्
(सहृदग्राह्यम्)"]

C --> C1["काव्यस्य अङ्गानि
(शब्दवाच्यार्थगुणालङ्काराः)"]
C --> C2["अतिरिक्तः ध्वन्यात्मा
(प्रतीयमानः अर्थः)"]

%%B2 -.->|"सादृश्यम् (उपमान-उपमेयता)"| C2

%%classDef main fill:#f9f,stroke:#333,stroke-width:2px;
classDef sub fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px;
classDef concept fill:#e8f5e9,stroke:#2e7d32,stroke-width:1.5px;
classDef highlight fill:#fff8e1,stroke:#e65100,stroke-width:1.5px;
classDef main fill:#ffebee,stroke:#c62828,stroke-width:1.5px;

class A main;
class B,C sub;
class B1,C1 highlight;
class B2,C2 concept;

वाच्यसामर्थ्याक्षिप्तम् – भेदत्रयव्यापकं सामान्यलक्षणम् ।

• वस्तुध्वनिः – विधिरूपः (वाच्यार्थः विधिः, भ्रम इति वस्तु), निषेधरूपः (वाच्यार्थः निषेधः, शयिष्टाः)
• अलङ्कारध्वनिः
• रसध्वनिः