ध्वन्यालोकः — प्रथम उद्योतः — कारिका ५ (प्रतीयमानस्य काव्यात्मता)
मुखपृष्ठम् · ⬆ प्रथम उद्योतः · ← · →
कारिका ५ (प्रतीयमानस्य काव्यात्मता)¶
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥ १।५ ॥
विविधवाच्यवाचकरचनाप्रपञ्चचारुणः काव्यस्य स एवार्थः सारभूतः । तथा चादिकवेर्वाल्मीकेः निहतसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः शोक एव श्लोकतया परिणतः ।
शोको हि करुणस्थायिभावः । प्रतीयमानस्य चान्यभेददर्शनेऽपि रसभावमुखेनैवोपलक्षणं प्राधान्यात् ।
प्रतीयमानार्थः काव्यस्यात्मेति बोधयितुं विस्तृतचर्चा । प्राचीनप्रमाणत्वेन रामायणस्य मूलभूतं श्लोकं चोदाहरति ।
- निहतसहचरीविरहकातरक्रौञ्चाक्रन्दजनितः = निहतं सहचरीविरहकातरक्रौञ्चं (उद्दिश्य कृतेन) आक्रन्देन जनितः । (इति निहतसहचरीविरहकातरक्रौञ्चः कथं समस्यते?)
केचन आक्षेपाः –
- शोकस्तु पक्षिणः (करुणरसस्य स्थायिभावः शोकः), कथं महर्षौ शोकः?
- अनुकार्यगतत्वात् (केचन आहुर्यत् शोकः अनुकार्यगत इति) ।
- स्थायिभावः अनुकार्यगतः चेत् सहृदयः कथम् अनुभवेत्?
अनुकार्यः (यथा रामः - पात्रम् । अनुकृतिर्नाटकम्)
अनुकर्ता (यथा नटः - अभिनयं करोति)- अनुमानेन! (अलौकिकत्वात्)
- स्थायिभावः अनुकार्यगतः चेत् सहृदयः कथम् अनुभवेत्?
- अलौकिकत्वात् (साहित्यदर्पणकारः अनुकार्यगतत्वं खण्डयति (
अनुकार्यस्य रत्यादिरुद्बोधो न रसो भवेत्)
रसः सहृदयगत एव भवति न तु अनुकार्यगतः ।(अल्पत्वात्) ।- अनुकार्यगतत्वं नोपपन्नम् ।
- अल्पत्वात् (पारिमित्या) । अनुकार्यगतः भावः सहृदये रसत्वेन न परिणमते ।
- अलौकिकत्वात् । अनुकार्यगतः भावः लौकिकः भवति (स्वजनविरहेणोद्भूतः लौकिकः, नाट्यकाव्यश्रवणप्रतिकूलतया न स्वीकार्यः) । सहृदये तु अलौकिकरसनिष्पत्तिः ।
- अनुकार्यगतत्वं नोपपन्नम् ।
- अनुकार्यगतत्वात् (केचन आहुर्यत् शोकः अनुकार्यगत इति) ।
- तर्हि एवं क्रमेण महर्षेः भावोत्पत्तिः –
| आधारः | क्रौञ्ची | महर्षी वाल्मीकिः |
|---|---|---|
| घटना | व्याधेन क्रौञ्चः मारितः | क्रौञ्च्याः शोकं दृष्टवान् |
| शोकस्य स्वरूपम् | लौकिकशोकः | अलौकिकशोकः |
| शोकस्य कारणम् | स्वजनवियोगः | हृदयसंवादः तन्मयीभावनम् |
| अनुभवस्य स्तरः | स्वजनवियोगेन जातः दुःखानुभवः | परपीडया तादात्म्येन जातः भावानुभवः |
| भावस्य परिणतिः | वैयक्तिकं दुःखम् | काव्यनिर्मितेः प्रेरकः शोकः |
| परिणामः | क्रौञ्च्याः क्रन्दनम् | वाल्मीकेः मुखात् श्लोकरूपवाण्याः आविष्करणम् |
| रसशास्त्रीयं स्वरूपम् | सामान्यः लौकिकः भावः | करुणरसस्य स्थायिभावरूपः शोकः |
रामायणटीकाप्रसङ्गः
रामायणस्य टीकात्रयं प्रसिद्धम् –
- शिरोमणिः
- भूषणम्
- तिलकम्
शिरोमणिः इति टीका अद्भुतम् । प्रकृतश्लोकस्य नानारूपेण भिन्नभिन्नप्रसङ्गे निरूपणम् ।
- कथं मङ्गलाचरणं शापयुक्तम्?
- नैव तथा यतः वाच्यार्थेन वस्तुतया प्रतीयमानार्थः नावगम्यते । अत्र विष्णोः स्तुतिः ।
- मानिषाद = मा (लक्ष्मीः) निषीदति यस्मिन्, मानिषादः (विष्णुः) [मा+निषद्+ड यथा कुम्भकार] । सम्बुद्धौ ।
- क्रौञ्च-क्रौञ्ची-मिथुनं तु लंकापति-मन्दोदरी-युगलम् (रूपकमिति) । तत्र क्रौञ्चपदनिर्दिष्टं रावणम् अवधीः ।
- एवं पौलस्त्यकुलधूमकेतुः त्वं प्रतिष्ठाम् अगमः ।
- एवं चात्र प्रतीयमानार्थे स्तुतिः (वाच्यार्थे तु न तथा) ।
- शिरोमणिटीकाकारः अस्मिन् श्लोके भिन्नभिन्नव्युत्पत्तिं दर्शयति
(प्रतिकाण्डं भिन्नव्युत्पत्तिं प्रतिपाद्य तत्तत्काण्डगतं वर्णयति!!) ।
- बालकाण्डम्
- मानिनां षः (श्रेष्ठः) = मानिष् ।
- (मानिषु गर्वम्) अत्ति (नाशयति) इति अदः ।
- अयोध्याकाण्डम्
- मा (मन् निबन्धनात्मकम्) ... श्रीरामः जनकं वरप्रदानसंशयाविष्टत्वरूपात् बन्धनात् विमोचितवान् ।
- अरण्यकाण्डम्
- अत्र क्रोञ्चः राक्षसरूपः । तेषां नाशः ।
- बालकाण्डम्