सामग्रीं त्यजन्तु

ध्वन्यालोकः — प्रथम उद्योतः — कारिका ६ (प्रतिभाविशेषः)

कारिका ६ (प्रतिभाविशेषः)

सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् ।
अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥ १।६ ॥

तत्वस्तुतत्त्वं निःष्यन्दमाना महतां कवीनां भारती अलोकसामान्यं प्रतिभाविशेषं परिस्फुरन्तमभिव्यनक्ति । येनास्मिन्नतिविचित्रकविपरम्परावाहिनि संसारे कालिदासप्रभृतयो द्वित्राः पञ्चषा वा महाकवय इति गण्यन्ते ।

प्रतीयमानार्थः कविहृदये कथं जायते इति पूर्वस्यां कारिकायाम् उपस्थापितम् ।
सहृदयानां कथं रसनिष्पत्ति इत्यस्यां कारिकायाम् (सहृदयानामपि हृदयगम्यः रसः) ।

तदर्थवस्तु = रसध्वनिः (काव्यस्यात्मा) ।
सरस्वती = काव्यम् (यथा काव्यप्रकाशमङ्गलाचरणे भारतीति) ।

प्रतिभा – अपूर्ववस्तुनिर्माणक्षमा प्रज्ञा (लोचनम्) ↗, नवनवोन्मेषशालिनी (काव्यमीमांसा) ↗, कारयित्री भावयित्री प्रतिभा (राजशेखरः) ↗, शक्तिः कवित्वबीजरूपसंस्कारविशेषः (मम्मटः) ↗ ।

  • पूर्वविद्यमानस्य अपूर्वतयोपस्थापनम् ।
  • पूर्वमविद्यमानस्योपस्थापनम् ।

कवेः हृदये भावोत्पत्तिः, ततः पदनिबन्धनम् । (आधानोद्धरणे तावत् यावद्दोलायते मनः । पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥)