ध्वन्यालोकः — प्रथम उद्योतः — कारिका ७-८
मुखपृष्ठम् · ⬆ प्रथम उद्योतः · ← · →
कारिका ७-८¶
इदं चापरं प्रतीयमानस्यार्थस्य सद्भावसाधनं प्रमाणम् –
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ १।७ ॥
प्रतीयमानार्थस्य वाच्यार्थस्य सामग्री भिन्ना । शब्दशासनं = व्याकरणम् । अर्थशासनम् = कोषादयः ।
सोऽर्थो यस्मात्केवलं काव्यार्थतत्त्वज्ञैरेव ज्ञायते । यदि च वाच्यरूप एवासावर्थः
स्यात्तद्वाच्यवाटचकरूपपरिज्ञानादेव तत्प्रतीतिः स्यात् । अथ च वाच्यवाचकलक्षणमात्रकृतश्रमाणां
काव्यतत्त्वार्थभावनाविमुखानां स्वरश्रुत्यादिलक्षणमिवाप्रगीतानां गान्धर्वलक्षणविदामगोचर एवासावर्थः ।
एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्य सद्भावं प्रतिपाद्य प्राधान्यं तस्यैवेति दर्शयति –
सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥ १।८ ॥
प्रत्यभिज्ञेयौ – महाकविना शब्दार्थौ प्रत्यभिज्ञेयौ येन प्रतीयमानार्थः (सहृदयस्य कृते) स्फुटं स्यात् । अथवा सहृदयेन प्रत्यभिज्ञेयौ येन प्रतीयमानार्थः अवबुध्येत ।
व्यङ्ग्योऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन, न शब्दमात्रं । तावेव शब्दार्थौ महाकवेः प्रत्यभिज्ञेयौ । व्यङ्ग्यव्यञ्जकाभ्यामेव सुप्रयुक्ताभ्यां महाकवित्वलाभो महाकवीनां, न वाच्यवाचकरचनामात्रेण ।