सामग्रीं त्यजन्तु

ध्वन्यालोकः — प्रथम उद्योतः — कारिका ९-१०

कारिका ९-१०

इदानीं व्यङ्ग्यव्यञ्जकयोः प्राधान्येऽपि यद्वाच्यवाचकावेव प्रथममुपाददते कवयस्तदपि युक्तमेवेत्याह –

आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः ।
तदुपायतया तद्वदर्थे वाच्ये तदादृतः ॥ १।९ ॥

यथा ह्यालोकार्थी सन्नपि दीपशिखायां यत्नवाञ्जनो भवति तदुपायतया । न हि दीपशिकामन्तरेणालोकः सम्भविति । तद्वद्य्वङ्ग्यमर्थं प्रत्याद्दतो जनो वाच्येऽर्थे यत्नवान्भवति । अनेन प्रतिपादकस्य कवेर्व्यङ्ग्यमर्थं प्रति व्यापारो दर्शितः ॥९॥

  • वाच्यार्थस्यापि प्राधान्यम् अस्ति (उपायत्वेन) व्यञ्जनार्थम् अवगन्तुम् अतः कविः वाच्यार्थेऽपि यत्नवान् भवेत्। कुतः? आलोकार्थी यथा दीपशिकायाम् ।
  • घटप्रदीपन्यायः । विद्यमानः अपि घटः दीपप्रकाशरहितः न दृष्टिगोचरः भवति (दीपः घटज्ञाने कारणीभूतः) ।


प्रतिपाद्यस्यापि तं दर्शयितुमाह –

यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥ १।१० ॥

यथा हि पदार्थद्वारेण वाक्यार्थावगमस्तथा वाच्यार्थप्रतीतिपूर्विका व्यङ्ग्यस्यार्थस्य प्रतिपत्तिः ।

  • प्रतिपाद्यः सहृदयः । सहृदयेनापि व्यङ्ग्यार्थं साधयितुं प्रयत्नः वेधेयः ।
  • यथा पदार्थस्य वाक्यार्थस्य च सम्बन्धः (कार्यकारणसम्बन्धः) तथैव वाच्यार्थस्य व्यङ्ग्यार्थस्य च किन्तु यथा वाक्यार्थबोधे जाते पदार्थः न भासते तथा अत्र स्थितिः नास्ति । वाच्यार्थपूर्विका इति पदं प्रधानमत्र – 'द्वारेण' इति न प्रयुक्तम् यतः प्रवेशात् परं द्वारस्य न महत्त्वम् किन्तु अत्र 'पूर्वक' इति पदं प्रयुक्तं (अर्थात् युक्तम्), न तेन प्रतीतेः परं लुप्यते । वाच्यार्थः व्यङ्ग्यार्थः पृथक्तया युगपत् भासेते ।
    • दृष्टान्ते दार्ष्टान्ते च भेदस्य भूयसे वैशद्याय वाच्यार्थपूर्विका इति प्रयुक्तम् (अपरत्र तु पदार्थद्वारेण इति, यतः संस्थिते स्वकर्मणि विरतः भवति पदार्थः, न वाच्यार्थः तथा) ।