ध्वन्यालोकः — प्रथम उद्योतः — कारिका ११-१२
मुखपृष्ठम् · ⬆ प्रथम उद्योतः · ← · →
कारिका ११-१२¶
इदानीं वाच्यार्थप्रतीतिपूर्वकत्वेऽपि तत्प्रतीतेर्व्यङ्ग्यस्यार्थस्य प्राधान्यं यथा न व्यालुप्यते तथा दर्शयति –
स्वसामर्थ्यवशेनैव वाक्यार्थं प्रतिपादयन् ।
यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥ १।११ ॥
तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनां ।
बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ॥ १।१२ ॥
यथा स्वसामर्थ्यवशेनैव वाक्यार्थं प्रकाशयन्नपि पदार्थो व्यापारनिष्पत्तौ न भाव्यते विभक्ततया ।
- सामर्थ्यम् नाम आकाङ्क्षा, योग्यता, सन्निधिः ।
(
आकाङ्क्षायोग्यतासन्निधिमतां पदानां समूहः वाक्यम्) - सहृदयः अवगमनक्रमं न लक्षयति (क्रमं नाम प्रथमं वाच्यार्थस्फुरणं, ततः व्यङ्ग्यार्थप्रतीतिः), तस्य तु पौनपुन्यकाव्यच्छीलनेन अनुक्षणमेव प्रतीयमानार्थः स्फुरति । अयमेव सहृदयस्य बुद्धेः सामर्थ्यं प्रायः मन्तुं शक्यते!
- विभाव्यते इति पदं द्योतयति यत् क्रमः भवति किन्तु न भासते ।
लोचनम्
न व्यालुप्यत इति । प्राधान्यादेव तत्पर्यन्तानुसरणरणरणकत्वरिता मध्ये विश्रान्ति न कुर्वत इति
क्रमस्य सतोऽप्यलक्षणं प्राधान्ये हेतुः । स्वसामर्थ्यमाकाङ्क्षायोग्यतासन्निधयः । विभाव्यत इति ।
विशब्देन विभक्ततोक्ता; विभक्ततया न भाव्यत इत्यर्थः । अनेन विद्यमान एव क्रमो न संवेद्यत
इत्युक्तं । तेन यत्स्फोटाभिप्रायेणासन्नेव क्रम इति व्याचक्षते तत्प्रत्युत विरुद्धमेव । वाच्येऽर्थे
विमुखो विश्रान्तिनिबन्धनं परितोषमलभमान आत्मा हृदयं येषामित्यनेन सचेतसामित्यस्यैवार्थोऽभिव्यक्तः ।
सहृदयानामेव तर्ह्ययं महिमास्तु, न तु काव्यस्यासौ कश्चिदतिशय इत्याशङ्क्याह - अवभासत इति ।
तेनात्र विभक्ततया न भासते, न तु वाच्यस्य सर्वथैवानवभासः । अत एव तृतीयोद्योते
घटप्रदीपदृष्टान्तबलाद्व्यङ्ग्यप्रतीतिकालेऽपि वाच्यप्रतीतिर्न विघटत इति यद्वक्ष्यति तेन सहास्य
ग्रन्थस्य न विरोधः ॥११,१२॥
तृतीयोद्योते घटप्रदीपदृष्टान्तः प्रस्तुतः । तस्यास्याश्च वृत्तेर्नास्ति विरोधः ।