ध्वन्यालोकः — प्रथम उद्योतः — कारिका १३ (ध्वनिलक्षणम्)
मुखपृष्ठम् · ⬆ प्रथम उद्योतः · ← · →
कारिका १३ (ध्वनिलक्षणम्)¶
ध्वनिलक्षणम्¶
एवं वाच्यव्यतिरेकिणो व्यङ्ग्यस्यार्थस्य सद्भावं प्रतिपाद्य प्रकृत उपयोजयन्नाह –
यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ १।१३ ॥
- सद्भावं = सत्ता, प्राधान्यम्/साधुभावम् । (
सद्भावे साधुभावे च (भ०गी० १७।२६)) - उपसर्जनीकृत इत्यत्र च्विप्रत्ययान्तप्रयोगेन ध्वन्यते यत् पूर्वं अनुपसर्जनमिति (परिणामः) ।
- उपसर्जनीकृतस्वार्थौ
- स्वार्थौ
- स्व इति पदमर्थं बोधयति ।
- अर्थ इति पदं शब्दं बोधयति ।
- विग्रहः
- स्वश्च अर्थश्च स्वार्थौ, तौ उपसर्जनीकृतौ याभ्याम्, उपसर्जनीकृतस्वार्थौ ।
- स्वश्च अर्थश्च स्वार्थौ, उपसर्जनीकृतौ स्वार्थौ, उपसर्जनीकृतस्वार्थौ ।
- अत्र वस्तुतया शब्दस्य अर्थस्य च चर्चा । अर्थ आत्मानमुपसर्जनीकरोति अथवा शब्दो वात्मानमुपसर्जनीकरोति, उभौ वा कुरुतः । 'स्वार्थौ' इत्यत्र अर्थः स्वं गौणीकुर्याद् अथवा शब्दोऽर्थं गौणीकुर्यात् ।
- स्वार्थौ
- काव्यविशेषः – काव्यं चासौ विशेषः । काव्यस्य विशेषः ।
- कीदृशः काव्यविशेषः – उपसर्जनीकृतस्वार्थौ व्यङ्क्तः काव्यविशेषः (ध्वनिः) ।
- उपसर्जनीकृतस्वार्थौ इति न निवेशितं चेत् यत्र कुत्रापि व्यञ्जना भासते सर्वत्र काव्यविशेषः (यथा नेत्रहस्तादीनां चेष्टया) ।
लोचनम्
सद्भावमिति । सत्तां साधुभावं प्राधान्यं चेत्यर्थः । द्वयं हि प्रतिपिपादयिषितं । प्रकृत इति लक्षणे । उपयोजयनुपयोगं गमयन् । तमर्थमिति चायमुपयोगः । स्वशब्द आत्मवाची । स्वश्चार्थश्च तौ स्वार्थौ; तौ गुणीकृत्तौ याभ्याम्; यथासंख्येन तेनार्थो गुणीकृतात्मा,शब्दो गुणीकृताभिधेयः । तमर्थमिति । 'सरस्वती स्वादु तदर्थवस्तु' इति यदुक्तं । व्यङ्क्तः द्योतयतः । व्यङ्क्त इति द्विवचनेनदमाह – यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकस्तथाप्यर्थस्यापि सहकारिता न त्रुट्यति, अन्यथा अज्ञातार्थोऽपि शब्दस्तह्यञ्जकः स्यात् । विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारित्वं भवत्येव, विशिष्टशब्दाभिधेयतया विना तस्यार्थस्याव्यञ्जकत्वादिति सर्वत्र शब्दार्थयोरुभयोरपि ध्वननं व्यापारः ।
तेन यद्भट्टनायकेन द्विवचनं दूषितं तद्गजनिमीलिकयैव ।
अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेण ।
- वादः
- व्यङ्क्तः
- कुतः द्विवचनं भोः (इति व्यक्तिविवेककारः)? 'वा' इत्यनेन एकवचनमेव
सिद्ध्यति अतः व्यनक्ति इति स्यात् । यत् उपसर्जनीकृतस्वार्थौ इति प्रयुक्तं
तत्तु विशेषणं विशेष्यं शब्दः अर्थः इति वा स्यात् ।
- [लोचनकारः] लक्षणामूलध्वनौ शब्दः व्यञ्जकः, अर्थः सहकारी । अभिधामूलध्वनौ अर्थः व्यञ्जकः, शब्दः सहकारी । अतः शब्द अर्थश्च द्वाविति भवतः, द्विवचनं युक्तम् । (अन्यच्च, शब्दार्थौ सर्वदा भवत एव, प्रथमं शब्दस्तत एवार्थोत्पत्तिः, शब्दस्य अर्थाश्रयत्वात्) ।
- 'वा' इत्यस्य अन्वयः कथम्?
- [लोचनकारः] अर्थः शब्दः वा इत्यत्र एवं विवक्षितम् – शब्दार्थौ सर्वथा भवतः एव किन्तु क्वचित् शब्दस्य प्राधान्यम् (लक्षणामूलध्वनौ), क्वचित् अर्थस्य प्राधान्यम् (अभिधामूलध्वनौ) अतः शब्द इत्यनेन शब्दप्रधानशब्दार्थौ इति गृहीतव्यम् ।
विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारित्वं भवत्येव [लोचनम्]– अवधेयं यत् अर्थस्य सहकारितया एव शब्दः स्वीक्रियते, अन्यथा अन्यः कश्चन अर्थः तेनैव शब्देन अन्यमर्थं बोधयितुं समर्थः स्यात्!
- कुतः द्विवचनं भोः (इति व्यक्तिविवेककारः)? 'वा' इत्यनेन एकवचनमेव
सिद्ध्यति अतः व्यनक्ति इति स्यात् । यत् उपसर्जनीकृतस्वार्थौ इति प्रयुक्तं
तत्तु विशेषणं विशेष्यं शब्दः अर्थः इति वा स्यात् ।
- व्यङ्क्तः
- भक्तिः लक्षणा । व्यक्तिः व्यञ्जना ।
लोचनम्
काव्यं च तद्विशेषश्चासौ काव्यस्य वा विशेषः । काव्यग्रहणाद्गुणाङ्कारोपस्कृतशब्दार्थपृष्टपाती
ध्वनिलक्षणऽआत्मेऽत्युक्तं । तेनैतन्निरवकाशं श्रुतार्थापत्तावपि ध्वनिव्यवहारः स्यादिति ।
- शब्दार्थौ गुणालङ्कारौपस्कृतौ स्याताम् (अन्यथा अर्थापत्त्यादिप्रमाणद्वारेण अन्यार्थज्ञायमानत्वात् तत्शब्दस्यापि काव्यत्वं स्यात् । स्थूलो देवदत्तो दिवा न भुङ्क्ते इत्यपि शब्दः काव्यम् स्यात् ।)
अभाववादिभिः (विपर्ययमूलकैः) प्रथमे विकल्पे यत् चारुत्वम् उपपादितं तत् द्विविधं स्वरूपमात्रनिष्ठं (स्वरूपं नाम शौर्यादिकम्) सङ्घटनाश्रितम् (अलङ्कारादिवत् उपकरणम्)।
- शब्दानां चारुत्वम् – स्वरूपमात्रकृतं शब्दालङ्कारेभ्यः सङ्घटनाश्रितं शब्दगुणेभ्यः ।
- अर्थानां चारुत्वम् – स्वरूपमात्रकृतं अर्थालङ्कारेभ्यः सङ्घटनाश्रितं अर्थगुणेभ्यः ।
एतस्य खण्डनार्थम् अधोलिखिता वृत्तिः ।
यत्रार्थो वाच्यविशेषः वाचकविशेषः शब्दो वा तमर्थं व्यङ्क्तः, स काव्यविशेषो ध्वनिरिति । अनेन वाच्यवाचकचारुत्वहेतुभ्य उपमादिभ्योऽनुप्रासादिभ्यश्च विभक्त एव ध्वनेर्विषय इति दर्शितं ।
पूर्वपक्षिणां मते चारुत्वहेतुः शब्दगतचारुत्वम् अर्थगतचारुत्वं च । अत्र शब्दार्थाभ्यां वाच्यवाचकसम्बन्धः । किन्तु कारिकया स्पष्टतयोक्तं यत् ध्वनेः विषयः तु उपमादिभ्यः पृथग् अस्ति यतः तत्र व्यङ्ग्य-व्यञ्जनासम्बन्धः ।
लोचनम्
गुणालङ्काराणां वाच्यवाचकभावप्राणत्वात् । अस्य च तन्यव्यङ्ग्यव्यञ्ज्ञ्जकभावसारत्वान्नास्य
तेष्वन्तर्भावः इति । अनन्यत्र भावो विषयशब्दार्थः ।
गुणालङ्काराणाम् अनुप्राणकत्वेन भवन्ति वाच्यवाचकभावः । तथा शब्दार्थानां ध्वनिना सह व्यङ्ग्यव्यञ्जकभावसम्बन्धः ।
काव्यं शरीरम् । गुणालङ्काराः अलङ्कुर्वन्ति शरीरम् । किन्तु ध्वनिः काव्यस्यात्मा ।
विषयः विशेषेण सिनोति बध्नाति इति विषयः । विषयः इति पदप्रयोगः सूचयति यत् ध्वनेः विषयः निश्चितः, अतः वाच्यवाचकेषु अन्तर्भावः न शक्यः ।
पूर्वम् भूमिकारूपेण एतेषां खण्डनं कृतम्, अत्र प्रपञ्चयति । एतद् एव अभ्यासः (सिद्धान्तस्य पुनः पुनः कथनम् - षड्विधलिङ्गतात्पर्यनिर्णयः) ।
अत्र कश्चन न्यायसिद्धान्तः अपि दृश्यते (अनुमानम्) –
- ध्वनिः गुणालङ्कारादिभ्यः न भिन्नः चारुत्वहेतुत्वात्
- यो यो चारुत्वहेतुः स स गुणालङ्करादिभ्यः न भिन्नः (व्याप्तिः)
- यः पदार्थः गुणालङ्कारादिभ्यः भिन्नः स न चारुत्वहेतुः । यथा नित्यानित्यदोषाः । (दुष्टहेतुः)
अनेकान्तिकहेत्वाभासः – गुणालङ्कारादिभ्यः भिन्नाः वृत्तिरीतयः चारुत्वहेतवः ।
यदप्युक्तम् 'प्रसिद्धप्रस्थानातिक्रमिणो मार्गस्य काव्यत्वहानेर्ध्वनिर्नास्ति' इति, तदप्ययुक्तं ।
द्वितीयः विकल्पः¶
अभाववादिभिः (विपर्ययमूलकैः) द्वितीये विकल्पे यदुक्तं तस्य खण्डनं अधोलिखितया वृत्त्या क्रियते ।
यतो लक्षणकृतामेव स केवलं न प्रसिद्धः, लक्ष्ये तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वं ।
लोचनम्
लक्षणकृतामेवेति । लक्षणकाराप्रसिद्धता विरुद्धो हेतुः, ततः एव हि यत्नेन
लक्षणीयता । लक्ष्ये त्वप्रसिद्धत्वमसिद्धो हेतुः ।
ध्वनिर्नाम काव्यप्रकारो नास्ति (पक्षः), प्रसिद्धप्रस्थानातिक्रामित्वात् (हेतुः)
हेतोः अर्थः एवं स्यात् –
- लक्षणकर्तृषु अप्रसिद्धत्वम् (यत्नेन लक्षणीयता) विरुद्धहेतुः ।
- लक्षणं नास्ति अत एव लक्षणं क्रियते खलु! अतो विरुद्धहेतुः ।
- अप्रसिद्धलक्ष्यत्वम् (लक्ष्ये तु परीक्ष्यमाणे स एव सहृदयहृदयाह्लादकारि काव्यतत्त्वम्) असिद्धः हेतुः
- प्रतीतिस्तु वर्तते । असिद्धः हेतुः ।
एवं द्वितीयविकल्पवताम् अपि खण्डनं कृतम् ।
तत्तोऽन्यच्चित्रमेवेत्यग्रे दर्शयिष्यामः ।
लोचनम्
यच्च नृतगीतादिकल्पं, तत्काव्यस्य न किञ्चित् । चित्रमिति ।
विस्मयकृद्धृत्त्यादिवशात्, न तु सहृदयाभिलषणीयचमत्कारसाररसनिःष्यन्दमयम्
इत्यर्थः । काव्यानुकारित्वाद्वा, आलेखमात्रत्वाद्वा, कलामात्रत्वाद्वा ।
कवनीयत्वात् काव्यतत्वं ध्वनिः ।
तृतीयः विकल्पः¶
अभाववादिभिः (विपर्ययमूलकैः) तृतीये विकल्पे यदुक्तं तस्य खण्डनं अधः क्रियते ।
यदप्युक्तम् 'कामनीयकमनतिवर्तमानस्य तस्योक्तालङ्कारादिप्रकारेष्वन्तर्भावः' इति, तदप्यसमीचीनम् ।
वाच्यवाचकमात्राश्रयिणि प्रस्थाने व्यङ्ग्यव्यञ्जकसमाश्रयेण व्यवस्थितस्य ध्वनेः कथमन्तर्भावः,
वाच्यवाचकचारुत्वहेतवो हि तस्याङ्गभूताः, स त्वङ्गिरूप एवेति प्रतिपादयिष्यमाणत्वात् ।
परिकरश्लोकश्चात्र –
व्यङ्ग्यव्यञ्जकसम्बन्धनिबन्धनतया ध्वनेः ।
वाच्यवाचकचारुत्वहेत्वन्तःपातिता कुतः ॥
न ध्वनेरर्न्तर्भावोऽलङ्कारेषु¶
ननु यत्र प्रतीयमानस्यार्थस्य वैशद्येनाप्रतीतिः स नाम मा भूद् ध्वनेर्विषयः । यत्र तु प्रतीतिरस्ति, यथा समासोक्त्याक्षेपानुक्तनिमित्तविशेषोक्तिपर्यायोक्तापह्नुतिदीपकसङ्करालङ्कारादौ, ध्वनेरन्तर्भावो भविष्यतीत्यादि निराकर्तुमभिहितम् उपसर्जनीकृतस्वार्थों इति । अर्थो गुणीकृतात्मा, गुणीकृताभिधेयः शब्दो वा यत्रार्थान्तरमभिव्यनक्ति स ध्वनिरिति । तेषु कथं तत्र तस्यान्तर्भावः । व्यङ्ग्यप्राधान्ये हि ध्वनिः । न चैतत्समासोक्त्यादिष्वस्ति ।
समासोक्तिः¶
समासोक्तौ तावत् –
उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥
प्रबद्धानुरागेण चन्द्रमसा चञ्चलनक्षत्रं रात्रिवदनं तेन प्रकारेण (अनुरागातिशयः सन्द्योतितः यथा स्यात् तथा) अवधारितम् । यस्मात् निशया स्नेहाधिक्यात् निःशेषं तमोरूपं वस्त्रम् अग्रे एव स्रस्तम् अपि न लक्षितम् (न ज्ञातम्) ।
इत्यादौ व्यङ्ग्येनानुगतं वाच्यमेव प्राधान्येन प्रतीयते समारोपितनायिकानायकव्यवहारयोर्निशाशशिनोरेव वाक्यार्थत्वात् ।
आक्षेपः¶
आक्षेपेऽपि व्यङ्ग्यविशेषाक्षेपिणोऽपि वाच्यस्यैव चारुत्वं प्राधान्येन वाक्यार्थ आक्षेपोक्तिसामर्थ्यादेव ज्ञायते । तथाहि तत्र शब्दोपारूढो विशेषाभिधानेच्छया प्रतिषेधरूपो य आक्षेपः स एव व्यङ्ग्यविशेषमाक्षिपन्मुख्यं काव्यशरीरम् ।
चारुत्वोत्कर्षनिबन्धना हि वाच्यव्यङ्ग्ययोः प्राधान्यविवक्षा ।
सन्ध्या प्रेमवती दिवसः तस्याः सम्मुखः अस्ति । अहो आश्चर्यम् कीदृशी दैवगतिः तयोः समागमः न भवति । अत्र प्रस्तुतस्य सन्ध्यादिवसयप्रसङ्गे अप्रस्तुतस्य नायकनायिकानुगारस्य आक्षेपः व्यङ्ग्यरूपः ।
अत्र सत्यामपि व्यङ्ग्यप्रतीतौ वाच्यस्यैव चारुत्वमुत्कर्षवदिति तस्यैव प्राधान्यविवक्षा ।
यथा च दीपकापहृत्यादौ व्यङ्ग्यत्वेनोपमायाः प्रतीतावपि प्राधान्येनाविवक्षितत्वान्न तया व्यपदेशस्तद्वदत्रापि द्रष्टव्यम् ।
विशेषोक्तिः¶
अनुक्तनिमित्तायामपि विशेषोक्तौ –
इत्यादौ व्यङ्ग्यस्य प्रकरणसामर्थ्यात्प्रतीतिमात्रं न तु तत्प्रतीतिनिमित्ता काचिच्चारुत्वनिष्पत्तिरिति न प्राधान्यम् ।
पर्यायोक्तिः¶
पर्यायोक्तेऽपि यदि प्राधान्येन व्यङ्ग्यत्वं तद्भवतु नाम तस्य ध्वनावन्तर्भावः । न तु ध्वनेस्तत्रान्तर्भावः । तस्य महाविषयत्वेनाङ्गित्वेन च प्रतिपादयिष्यमाणत्वात् । न पुनः पर्यायो भामहोदाहृतसदृशे व्यङ्ग्यस्यैव प्राधात्यम् । वाच्यस्य तत्रोपसर्जनाभावेनाविवक्षितत्वात् ।
अपह्नुतिदीपकौ¶
अपह्नुतिदीपकयोः पुनर्वाच्यस्य प्राधान्यं व्यङ्ग्यस्य चानुयायित्वं प्रसिद्धमेव ।
सङ्करः¶
सङ्करालङ्कारेऽपि यदलङ्कारोऽलङ्कारान्तरच्छायामनुगृह्णाति, तदा व्ययस्य प्राधान्येनाविवक्षितत्वान्न ध्वनिविषयत्वम् । अलङ्कारद्वयसम्भावनायां तु वाच्यव्यङ्ग्ययोः समं प्राधान्यम् । अथ वाच्योपसर्जनीभावेन व्यङ्ग्यस्य तत्रावस्थानं तदा सोऽपि ध्वनिविषयोऽस्तु, न तु स एव ध्वनिरिति वक्तुं शक्यम् । पर्यायोक्तनिर्दिष्टन्यायात् । अपि च सङ्करालङ्कारेऽपि च क्वचित् सङ्करोक्तिरेव ध्वनिसम्भावनां निराकरोति ।
अप्रस्तुतप्रशंसा¶
अप्रस्तुतप्रशंसायामपि अभिधीयमानस्याप्रस्तुतस्य स्तदाभिधीयमानप्रतीयमानयोः यदा सामान्यविशेषभावान्निमित्तनिमित्तिभावाद्वा प्रतीयमानेन सममेव प्राधान्यम् ।
यदा तावत्सामान्यस्याप्रस्तुतस्याभिधीयमानस्य प्राकरणिकेन विशेषेण प्रतीयमानेन सम्बन्धस्तदा विशेषप्रतीतौ तत्सामान्येनाविनाभावात्सामान्यस्यापि प्राधान्यम् सामान्यनिष्ठत्वं तदापि सामान्यस्य सत्यामपि प्राधान्ये प्राधान्येन । यदापि विशेषस्य सामान्ये सर्वविशेषाणामन्तर्भावाद्विशेषस्यापि प्राधान्यम् ।
निमित्तनिमित्तिभावे चायमेव न्यायः ।
यदा तु सारूप्यमात्रवशेनाप्रस्तुतप्रशंसायामप्रकृतप्रकतयोः सम्बन्धस्तदाप्यप्रस्तुतस्य सरूपस्याभिधीयमानस्य प्राधान्येनाविवक्षायां ध्वनावेवान्तःपातः ।
इतरथा त्वलङ्कारान्तरमेव ।
सङ्क्षेपः¶
तदयमत्र सङ्क्षेपः –
व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाच्यालङ्कृतयः स्फुटाः ॥
व्यङ्ग्यस्य्.अ प्रतिभामात्रे वाच्यार्थानुगमेऽपि वा ।
न ध्वनिर्यत्र वा तस्य प्राधान्यं न प्रतीयते ॥
तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यं प्रीत स्थितौ ।
ध्वनेः स एव विषयो मन्तव्यः सङ्करोज्झितः ॥
तस्मान्न ध्वनेरन्यत्रान्तर्भावः ।
अन्याः युक्तयः¶
इतश्च नान्तर्भावः यतः काव्यविशेषोऽङ्गी ध्वनिरिति कथितः । तस्य पुनरङ्गानि, अलङ्कारा गुणा वृत्तयश्चेति प्रतिपादयिष्यन्ते । न चावयव एव पृथग्भूतोऽवयवीति प्रसिद्धः ।
अपृथग्भावे तु तदङ्गत्व तस्य । न तु तत्त्वमेव । यत्रापि वा तत्त्वं तत्रापि ध्वनेर्महाविषयत्वान्न तन्निष्ठत्वमेव ।
सूरिभिः कथितः¶
'सूरिभिः कथितः' इति विद्वदुपज्ञेयमुक्तिः, न तु यथाकथञ्चित्प्रवृत्तेति प्रतिपाद्यते ।
वैयाकरणाः¶
प्रथमे हि विद्वांसो वैयाकरणाः, व्याकरणमूलत्वात्सर्वविद्यानां । ते च श्रूयमाणेषु वर्णेषु ध्वनिरिति व्यवहरन्ति ।
अन्ये विद्वांसः¶
तथैवान्यैस्तन्मतानुसारिभिः सूरिभिः काव्यतत्त्वार्थदर्शिभिर्वाच्यवाचकसम्मिश्रः शब्दात्मा काव्यमिति व्यपदेश्यो व्यपदेश्यो व्यञ्जकत्वसाम्याद्ध्वनिरित्युक्तः ।
सिद्धान्तसमर्थनम्¶
न चैवंविधस्य ध्वनेर्वक्ष्यमाणप्रभेदतद्भेदसङ्कलनया महाविषयस्य यत्प्रकाशनं तदप्रसिद्धालङ्कारविशेषमात्रप्रतिपादनेन तुल्यमिति तद्भावितचेतसां युक्त एव संरम्भः । न च तेषु कथञ्चिदीर्ष्यया कलुषितशेमुषीकत्वमाविष्करणीयं । तदेवं ध्वनेस्तावदभाववादिनः प्रत्युक्ताः ।
ध्वनिभेदौ¶
अस्ति ध्वनिः । स चासावविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्विविधः सामान्येन ।
तत्राद्यस्योदाहरणम् –
द्वितीयस्यापि –