सामग्रीं त्यजन्तु

ध्वन्यालोकः — प्रथम उद्योतः — कारिका १

कारिका १

ध्वनेः प्रतिष्ठापनम्

काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्-
तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।
केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं
तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ॥ १।१ ॥

आम्नातः = आख्यातः । ध्वनिसिद्धान्तस्य बीजानि पूर्वाचार्याणां ग्रन्थेषु दृश्यन्ते किन्तु न स्वरूपनिरूपणं भेदनिरूपणं च ।

अभाववादिनः

बुधैः काव्यतत्त्वविद्भिः, काव्यस्यात्मा ध्वनिरिति संज्ञितः, परम्परया यः समाम्नातपूर्वः सम्यक् आसमन्ताद् म्नातः प्रकटितः, तस्य सहृदयजनमनःप्रकाशमानस्याप्यभावमन्ये जगदुः। तदभावादिनां चामी विकल्पाः संभवन्ति ।

ध्वन्यालोके त्रयः मुख्याः प्रतिवादिनः ।

प्रथमः विकल्पः

तत्र केचिदाचक्षीरन् – शब्दार्थशरीरन्तावत्काव्यम् । तत्र च शब्दगताश्चारुत्वहेतवोऽनुप्रासादयः प्रसिद्धा एव । अर्थगताश्चोपमादयः । वर्णसङ्घटनाधर्माश्च ये माधुर्यादयस्तेऽपि प्रतीयन्ते । तदनतिरिक्तवृत्तयो वृत्तयोऽपि याः कैश्चिदुपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवणगोचरम् । रीतयश्च वैदर्भीप्रभृतयः । तद्व्यतिरिक्तः कोऽयं ध्वनिर्नामेति ।

चारुत्वहेतुभूतं सर्वमपि अलङ्कारादिषु अन्तर्भवति । गुणरीतिनां अलङ्कारादिषु अन्तर्भावः । ध्वनिरपि व्यतिरिक्तः पदार्थः नास्ति ।

द्वितीयः विकल्पः (पारम्पारिकाणां)

नास्त्येव ध्वनिः । प्रसिद्धप्रस्थानव्यतिरेकिणः काव्यप्रकारस्य काव्यत्वहानेः सहृदयहृदयाहादिशब्दार्थमयत्वमेव काव्यलक्षणम् । न चोक्तप्रस्थानातिरेकिणो मार्गस्य तत्सम्भवति । न च तत्समयान्तःपातिनः सहृदयान् कांश्चित्परिकल्प्य तत्प्रसिद्ध्या ध्वनौ काव्यव्यपदेशः प्रवर्तितोऽपि सकलविद्वन्मनोग्राहितामवलम्बते ।

परम्परायां ध्वनितत्त्वं न कुत्रापि कीर्तितः, अतः वयं नाङ्गीकुर्मः । ध्वनौ काव्यव्यपदेशः न सम्भवति (सकलविद्वन्मनोग्राहितां नावलम्बते) ।

तृतीयः विकल्पः

न सम्भवत्येव ध्वनिर्नामापूर्वः कश्चित् । कामनीयकमनतिवर्तमानस्य तस्योक्तेष्वेव चारुत्वहेतुष्वन्तर्भावात् । तेषामन्यतमस्यैव वा अपूर्वसमाख्यामात्रकरणे यत्किञ्चन कथनं स्यात् ।

किञ्च वाग्विकल्पानामानन्त्यात्सम्भवत्यपि वा कस्मिंश्चित्काव्यलक्षमविधायिभिः प्रसिद्धैरप्रदर्शते प्रकारलेशे ध्वनिर्ध्विनिरिति यदेतदलीकसहृदयत्वभावनामुकुलितलोचनैर्नृत्यते, तत्र हेतुं न विद्मः । सहस्त्रशो हि महात्मभिरन्यैरलङ्कारप्रकाराः प्रकाशिताः प्रकाश्यन्ते च । न च तेषामेषा दशा श्रूयते ।

ध्वनिः इति चारुत्वेहेतुभूतम् इति अङ्गीकर्तुं शक्यते किन्तु न तत् किञ्चनव्यतिरिक्तं तत्त्वम् । यथा सूत्रैः अनेके शब्दाः व्युत्पादिताः भवन्ति, प्रतिशब्दं नास्ति नूतनं तत्त्वम् । तथैव अत्र मूलं तु चारुहेतुत्वम् । तच्च पूर्वजैः आचार्यैः प्रतिपादितमेव । तत्रैव ध्वनेः अन्तर्भावः क्रियताम् । ध्वनेः अपूर्वता नास्ति ।

तस्मात्प्रवादमात्रं ध्वनिः । न त्वस्य क्षोदक्षमं तत्त्वं किञ्चिदपि प्रकाशयितुं शक्यं । तथा चान्येन कृत एवात्र श्लोकः -

यस्मिन्नस्ति न वस्तु किञ्चिन मनःप्रह्लादि सालङ्कृति
व्युत्पन्नै रचितं च नैव वचनैर्वक्रोक्तिशून्यं च यत् ।
काव्यं तद्ध्वनिना समन्वितमिति प्रीत्या प्रशंसञ्जडो
नो विद्मोऽभिदधाति किं सुमतिना पृष्टः स्वरूपं ध्वनेः ॥

भाक्ताः

भाक्तमाहुस्तमन्ये । अन्ये तं ध्वनिसंज्ञितं काव्यात्मानं गुणवृत्तिरित्याहुः ।

यद्यपि च ध्वनिशब्दसंकीर्तनेन काव्यलक्षणविधायिभिर्गुणवृत्तिरन्यो वा न कश्चित्प्रकारः प्रकाशितः, तथापि अमुख्यवृत्त्या काव्येषु व्यावहारं दर्शयता ध्वनिमार्गौ मनाक्स्पृष्टोऽपि न लक्षित इति परिक्ल्प्यैवमुक्तम्-'भाक्तमाहुस्तमन्ये' इति ।

लोचनम्
भज्यते सेव्यते पदार्थेन प्रसिद्धतयोत्प्रेक्ष्यते इति भक्तिर्धर्मोऽभिधेयेन सामीप्यादिः । ↗ तत आगतो भाक्तो लाक्षणिकोऽर्थः ।

मुख्यार्थात् भिन्नः सर्वोऽपि अर्थः गौणार्थः । (लक्षणा)

पू०प० – प्राचीनैः ध्वनिः इति लक्षणायाः अर्थे प्रयुक्तः ।
सि० – लाक्षणिकैः प्रयोजनरूपः व्यङ्ग्यार्थः न लक्षितः । रूढीमूलालक्षणया अवबुध्यमानस्य रूढीगतार्थस्य ध्वन्यर्थस्य च सम्बन्धः नास्ति । यथा कुशलः इत्यनेन दक्षः इत्यर्थः लक्षणयैव प्राप्यते (तथैव मण्डपः) । किन्तु प्रयोजनवतीलक्षणयाः प्रतिपादितः अर्थः एव व्यङ्ग्यार्थः भवति (अत्र वक्तुः किञ्चित् प्रयोजनं बोधयितुं विवक्षा वर्तते) ।

व्यङ्ग्यार्थः, व्यञ्जकः, व्यञ्जनव्यापारः इति त्रयाणां कृते ध्वनिः इति पदं प्रयुज्यते । लक्षणायामेव व्यञ्जनायाः अन्तर्भावः न शक्यः ।

भक्तिः / लक्षणा / गुणवृत्तिः
पूर्वाचार्यैः भक्तिः इति पदं प्रयुक्तम् । भक्तिः लक्षणैवेति लोचनकारः (ध्व० १।१४)

उपचारो गुणवृत्तिः लक्षणा। उपचरणमतिशयितो व्यवहार इत्यर्थः। भक्तिः = गुणवृत्तिः = लक्षणा ।

'गुणद्वारेण वर्तनात् गुणवृत्तिः'
श्रुत्या सम्बन्धविरहाद् यत् पदेन पदान्तरम् ।
गुणवृत्तिप्रधानेन युज्यते रूपकं तु तत् ॥
उदा० – 'अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते' । चन्द्रगताह्लादकत्वादयो ये गुणास्तत्सदृशगुणवृत्तिः सन् मुखशब्दः चन्द्रे वर्तते ।
भक्तिः इति लक्षणा । लक्षणया प्रतिपादितः अर्थः भाक्तः । अत्र प्रायेण पूर्वजानां मतभेदः अतः अत्र स्पष्टीकृतः (अन्यथा कोऽर्थः उल्लेखस्य) । लक्षणायाः प्रभेदः गौणीलक्षणाख्यः तस्मात् गुणवृत्तिः नाम गौणीलक्षणैव इति वा स्यात् ।

भाक्तः

अभिधाव्यापारजन्यप्रतिपत्तिविषयस्य मुख्यार्थस्य पदान्तरेण साकमन्वयतात्पर्यस्य बाधे, तत्सम्बन्धे, रूढितः प्रयोजनाद्वा, अन्योऽर्थो गुणवृत्तया प्रतीतिविषयो भवति सोऽर्थः भाक्तः । ↗

अनिर्वचनीयतावादिनः

केचित्पुनर्लक्षणकरणशालीनबुद्धयो ध्वनेस्तत्त्वं गिरामगोचरं सहृदयहृदयसंवेद्यमेव समाख्यातवन्तः । (शालीना अप्रगल्भा बुद्धिः येषां ते शालीनबुद्धयः)

अनुबन्धचतुष्टयम् + खण्डनम्

तेनैवंविधासु विमतिषु स्थितासु सहृदयमनःप्रीतये तत्स्वरूपं ब्रूमः ।

• विषयः – तत्स्वरूपम् । ध्वनिस्वरूपम् ।
• प्रयोजनम् – सहृदयमनःप्रीतये । ध्वनितत्त्वज्ञानद्वारा सहृदयमनःप्रीतिः ।
• अधिकारी – ध्वनिस्वरूपजिज्ञासुः ।

तस्य हि ध्वनेः स्वरूपं सकलसत्कविकाव्योपनिषद्भूतमतिरमणीयमणीयसीभिरपि चिरन्तनकाव्यलक्षणविधायिनां बुद्धिभिरनुन्मीलितपूर्वम्, अथ च रामायणमहाभारतप्रभृतिनि लक्ष्ये सर्वत्र प्रसिद्धव्यवहारं लक्षयतां सहृदयानामानन्दो मनसि लभतां प्रतिष्ठामिति प्रकाश्यते ॥१॥

खण्डनम् – (प्रश्नः -- कथम्?)

• सकलसत्कविकाव्योपनिषद्भूतम् = कस्मिंश्चित् प्रकारलेशे ध्वनेः अन्तर्भावस्य निराकरणम् ।
• अतिरमणीयमणीयम् = भाक्तत्त्वनिराकरणम् ।
• अनुन्मीलितपूर्वम् = गुणालङ्कारेषु अन्तर्भावस्य निराकरणम् ।
• प्रसिद्धव्यवहारं लक्षयतां = अनिर्वचनीयतावादस्य निराकरणम् ।

सारः

graph TD
A["ध्वनेः प्रतिज्ञा
(ध्वन्यालोक-प्रथमोद्द्योतः)"] --> B["प्राचीनसम्प्रदायः
(बुधैः समाम्नातपूर्वः)"]
A --> C["विप्रतिपत्तयः
(प्रतिपक्षमतानि)"]
A --> D["अनुबन्धचतुष्टयम्
(सहृदयमनःप्रीत्यादयः)"]

C --> C1_1["अभाववादः
ध्वनिः सर्वथा नास्त्येव"]
C --> C1_2["अभाववादः
प्रसिद्धप्रस्थानव्यतिरेकिणः"]
C --> C1_3["अभाववादः
गुणालङ्कारेषु अन्तर्भावः"]
C --> C2["भाक्तवादः
लक्षणायाम् (भक्तौ) अन्तर्भावः"]
C --> C3["अनिर्वचनीयतावादः
वाचा वक्तुम् अशक्यः (अवाच्यः)"]

K1["सकलसत्कविकाव्योपनिषद्भूतम्"]
K2["अणीयसीभिरपि बुद्धिभिरनुन्मीलितपूर्वम्
उपनिषद्भूतम्"]
K3["अनुन्मूलितपूर्वम्"]
K4["अतिरमणीयम्"]
K5["प्रसिद्धव्यवहारं लक्षयताम्"]

C1_1 -.-|खण्डनम्| K1
C1_2 -.-|खण्डनम्| K2
C1_3 -.-|खण्डनम्| K3
C2 -.-|खण्डनम्| K4
C3 -.-|खण्डनम्| K5

classDef main fill:#f9f,stroke:#333,stroke-width:2px;
classDef sub fill:#e1f5fe,stroke:#0288d1,stroke-width:1.5px;
classDef opponent fill:#ffebee,stroke:#c62828,stroke-width:1.5px;
classDef refute fill:#e8f5e9,stroke:#2e7d32,stroke-width:1.5px;

class A main;
class B,D sub;
class C,C1_1,C1_2,C1_3,C2,C3 opponent;
class K1,K2,K3,K4,K5 refute;