ध्वन्यालोकः — प्रथम उद्योतः — मङ्गलाचरणम्
मङ्गलाचरणम्¶
आनन्दवर्धनस्य ध्वनिसिद्धान्तः रससिद्धान्तेन प्रभावितः दृश्यते । यथा रसः न कदापि वाच्यः लक्ष्यः वा न भवति, सर्वथा व्यङ्ग्यः एव भवति । आनन्दवर्धनाचार्यः तं व्यङ्ग्यम् अर्थं काव्ये सर्वातिशयेन प्रतिष्ठापयन् ध्वनिसिद्धान्तं विशदीकृतवान् ।
व्याकरणशास्त्रस्य प्रभावः अपि दृश्यते । वैयाकरणानां स्फोटसिद्धान्तम् आश्रित्य ध्वनिसिद्धान्तः प्रतिपादितः (इति मम्मटः) ।
स्वेच्छाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः ।
त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ॥
इति आशीर्वादात्कं मङ्गलाचरणं वृत्तिकारेण लिखितम् ।
- भावः - भक्तिः ।
- ध्वनिकाव्योदाहरणम् ।
- आयासित – घञ्+इतच्? (आयासः अस्य अस्तीति, आयासः अत्र क्लिष्टकान्तिः)
- त्रिविधः ध्वनिः
- रसध्वनिः - वीररसः ।
- अलङ्कारध्वनिः - व्यतिरेकालङ्कारध्वनिः, उत्प्रेक्षालङ्कारध्वनिः, अपह्नुत्यलङ्कारध्वनिः ।
- वस्तुध्वनिः - नखानां सातिशयशक्तिता, व्यतिरिक्तकारणापेक्षाविरहः, जगत्त्रासापसारणोद्यमः, परमकारुणिकत्वम्, बालेन्दुत्वम्, चन्द्रस्य विच्छायत्वम्, नखानाम् आयासाकारित्वम्