सामग्रीं त्यजन्तु

ध्वन्यालोकः — प्रथम उद्योतः — कारिका २

कारिका २

तत्र ध्वनेरेव लक्षयितुमारब्धस्य भूमिकां रचयितुमिदमुच्यते –

योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥ १।२ ॥

काव्यस्य हि ललितोचितसन्निवेशचारुणः शरीरस्येवात्मा साररूपतया स्थितः सहृदयश्लाध्यो योऽर्थस्तस्य वाच्यः प्रतीयमानश्चेति द्वौ भेदौ ।

लोचनम्
ननु 'ध्वनिस्वरूपं ब्रूम' इति प्रतिज्ञाय वाच्यप्रतीयमानाख्यौ द्वौ भेदावर्थस्येति वाच्याभिधाने का सङ्गतिः कारकाया इत्याशङ्क्य सङ्गतिं कर्तुमवतरणिकां करोति तत्रेति । एवं विधेऽभिधेये प्रयोजने च स्थित इत्यर्थः ।

भूमिरिव भूमिका । यथा अपूर्वनिर्माणे चिकीर्षिते पूर्वं भूमिर्विरच्यते, तथा ध्वनिस्वरूपे प्रतीयमानाख्ये निरूपयितव्ये निर्विवादसिद्धवाच्याभिधानं भूमिः । तत्पृष्टेऽधिकप्रतीयमानांशोल्लिङ्गनात् । वाच्येन समशीर्षिकया गणनं तस्याप्यनपह्नवनीयत्वं प्रतिपादयितुं । स्मृतावित्यनेन 'यः समाम्नातपूर्व' इति द्रढयति ।

• वाच्यार्थः गौणः चेत् किमर्थं तस्य समानतया गणनम् (द्वन्द्वसमासे)?
• तस्य अनपह्नवनीयत्वात् (अवश्यमङ्गीकार्यत्वात्) । वाच्यप्रतीयमानाख्यौ इत्यत्र वाच्यपदस्य सन्निवेशः निर्विवादवस्तुस्थापनम् (वाच्यविषये न कस्यापि विप्रतिपत्तिः, ज्ञाततः अज्ञातं प्रति गमनम्) । वाच्यम् इति पूर्वजैः प्रतिपादितम् (यः समाम्नातपूर्वः) ।

लोचनम्
'शब्दार्थशरीरं काव्यम्' इति यदुक्तं, तत्र शरीरग्रहमादेव केनचिदात्मना तदनुप्राणकेन भाव्यमेव । तत्र शब्दस्तावच्छरीरभाग एव सन्निविशते सर्वजनसंवेद्यधर्मत्वात्स्थूलकृशादिवत् । अर्थः पुनः सकलजनसंवेद्यो न भवति । न वाच्यसंवलनाविमोहितहृदयैस्तु तत्पृथग्भावेविप्रतिपद्यते, चार्वाकैरिवात्मपृथग्भावे । अत एव अर्थ इत्येकतयोपक्रस्य सहृदयश्लाध्य इति विशेषणद्वारा हेतुमभिधायापोद्धारद्दशा तस्य द्वौ भेदावंशावित्युक्तम्, न तु द्वावप्यात्मानौ काव्यस्येति ।

• 'शब्दार्थशरीरं काव्यम्' इति अभाववादिनः ।
• शरीरं चेत् शरीरी अथवा जीवतत्त्वमपि अपेक्षितम्!
• शब्द एव शरीरम्, अर्थः इति आत्मा स्वीक्रियते चेत्
• अर्थः तु सर्वस्यापि भवति । लौकिकः वैदिकश्च । पुनश्च वेदाः शब्दप्रधानाः ।
• अत आह सहृदयश्लाघ्यः अर्थः । न स सर्वसंवेद्यः ।

लोचनम्
कारिकाभागगतं काव्यशब्दं व्याकर्तुमाह – काव्यस्य हीति । ललितशब्देन गुणालङ्कारानुग्रहमाह । उचितशब्देन रसविषयमेवौचित्यं भवतीति दर्शयन्रसध्वनेर्जीवितत्वं सूचयति । तदभावे हि किमपेक्षयेदमौचित्यं नाम सर्वत्रौद्धोष्यत इति भावः । योऽर्थ इति यदानुवदन्परेणाप्येतत्तावदभ्युपगतमिति दर्शयति । तस्येत्यादिना तदभ्युपगम एव द्व्यंशत्वे सत्युपपद्यत इति दर्शयति । तेन यदुक्तम् – 'चारुत्वहेतुत्वाद् गुणालङ्कारव्यतिरिक्तो न ध्वनिः' इति, तत्र ध्वनेरात्मस्वरूपत्वाद्धेतुरसिद्ध इति दर्शितं । न ह्यात्मा चारुत्वहेतुर्देहस्येति भवति । अथाप्येवं स्यात्तथापि वाच्येऽनैकान्तिको हेतुः । न ह्यलङ्कार्य एवालङ्कारः, गुणी एव गुणः । एतदर्थमपि वाच्यांशोपक्षेपः । अत एव वक्ष्यति 'वाच्यः प्रसिद्धः' इति ॥२॥

सारः दृश्यताम् ।

सारः

मुख्येयं कारिका । कारिकायां लोचने च विचारिताः विषयाः (अधः प्रदत्तं लोचनं दृश्यताम्) –

• तस्य (=काव्यात्मनः?) द्वौ भेदौ कथम्?
न तथा । तस्य नाम काव्यप्रतिपादितस्य अर्थस्य, तौ वाच्यप्रतीयमानौ । तत्र प्रतीयमानेष्वपि रसध्वनिः एव काव्यात्मा । कुतः पञ्चविधाः अर्थाः अथवा त्रिधा प्रभेदाः ध्वनेः तर्हि । अन्यथा अलङ्कारभूषितं रसध्वनिविरहितं वाक्यं काव्यं न स्यात् (तद्द्वारा एव तेषां काव्यलक्षणे निवेशः) । किन्तु आत्मत्वेन रसध्वनिः एव स्वीक्रियते ।
रसध्वनिः काव्यात्मा चेत् कथं केवलालङ्कारयुक्तं काव्यत्वेन व्यपदेष्टुं शक्यम्? आत्मरहितत्वान् न काव्यं तत्! न तथा, रहविरहितं काव्यम् अपि काव्यत्वेन स्वीक्रियते, तथैवात्र, रसध्वनिव्यतिरिक्तमपि काव्यत्वेन व्यपदेष्टुं शक्यते किन्तु न हि तदुत्तमं काव्यं भवति ।
• ध्वनिः गुणालङ्कारव्यतिरिक्तः न, चारुत्वहेतुत्वात् – अभावादिनाम् कथनस्यास्य द्विधा खण्डनम् ।
• हेत्वाभासः अत्र । चारुत्वहेतुः इति हेतुः प्रतिज्ञायाम् । किन्तु पक्षे (ध्वनौ) हेतोः अविद्यमानत्वात् हेत्वाभासः ।
🤔 ध्वनिः गुणालङ्कारव्यतिरिक्तः न, चारुत्वहेतुत्वाद् इत्यत्र ध्वनिविषये उच्यते न तु ध्वनेः काव्यात्मत्वविषये इति भाति । अन्वयव्यतिरेकाभ्यां द्रष्टव्यम्, हेत्वाभासः कथम् इतोऽपि चिन्तनीयम् (आत्मनि चारुत्वं न भवति न हि अलङ्कार्यः अलङ्कारः इत्यादिकं स्पष्टम्)।
• अनैकान्तिकः हेतुः । वाच्ये अतिव्याप्तिः । (द्वन्द्वसमासत्वात्)
🤔 कथं वाच्ये अतिव्याप्तिः?

graph LR
A["अर्थः"] --> B["वाच्यार्थः"]
A --> C["प्रतीयमानार्थः"]

B --> B1["सर्वजनसंवेद्यः
शरीरभागः/उपायः"]
B1 --> B2["ललितसन्निवेशेन चारुः
गुणालङ्कारानुगुणवर्णविन्यासरूपः"]

C --> D["सहृदयश्लाघ्यः"]
D --> D1["वस्तुध्वनिः"]
D --> D2["अलङ्कारध्वनिः"]
D --> D3["रसध्वनिः"]

D1 --> E1["ललितसन्निवेशेन चारुः
गुणालङ्कारानुगुणवर्णविन्यासरूपः"]
D2 --> E1

D3 --> E2["उचितसन्निवेशेन चारुः
रसानुगुणवर्णसन्निवेशरूपः"]
E2 --> F["काव्यात्मा
मुख्यः उपेयार्थः"]

%% Styling
classDef main fill:#f9f,stroke:#333,stroke-width:2px;
classDef soul fill:#bfb,stroke:#333,stroke-width:2px;
classDef rasa fill:#ffe699,stroke:#d6b656,stroke-width:2px;
class A main;
class D,C,D3 rasa;
class F soul;