ध्वन्यालोकः — प्रथम उद्योतः — कारिका १४
मुखपृष्ठम् · ⬆ प्रथम उद्योतः · ← · →
कारिका १४¶
मा चैतत्स्याद्भक्तिर्लक्षणं ध्वनेरित्याह –
भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः ।
अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ १।१४ ॥
नैव भक्त्या ध्वनिर्लक्ष्यते । कथम्? अतिव्याप्तेख्याप्तेश्च । तत्रातिव्याप्तिर्ध्वनिव्यतिरिक्तेऽपि विषये भक्तेः सम्भवात् । यत्र हि व्यङ्ग्यकृतं महत्सौष्ठवं नास्ति तत्राप्युपचरितशब्दवृत्त्या प्रसिद्ध्यनुरोधप्रवर्तितव्यवहाराः कवयो दृश्यन्ते । यथा –
परिम्लानं पीनस्तनजघनसङ्गादुभयतः
स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितं ।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् ॥
तथा–
तथा –
तथा –
तथा –
परार्थे यः पीडाभनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वोषामिह खलु विकारोऽप्यभिमतः ।
न सम्प्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्देषोऽसौ न पुनरगुणाया मरुभुवः ॥
इत्यत्रेक्षुपक्षेऽनुभवतिशब्दः । न चैवंविधः कदाचिदपि ध्वनेर्विषयः ।