सामग्रीं त्यजन्तु

रसगङ्गाधरः — प्रथममाननम् — मङ्गलाचरणम्

मङ्गलाचरणम्

मङ्गलाचरणम्

स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम्
अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी॥१॥

  • स्मृताऽपि = स्मरणमात्रेण ।
    अपि सम्भावनायाम्, सामर्थ्योत्कर्षे ।
  • तरुणातपम् = प्रखरतापम् ।
  • अभङ्गुरतनुत्विषां = अनश्वरशरीरकान्तीनाम् । अभङ्गुरा तनुत्विड् यासां ताः, तासाम् ।
  • वलयिता = परिवेष्टिता । वलय + इतच् ।
  • कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी = कलिन्दपर्वतपुत्रीतीरसुरद्रुमसनाथा
    कलिन्दः पर्वतविशेषः, ततः यमुना प्रभवति ।
    सुरद्रुमः = वृक्षविशेषः । कलिन्दः इति गिरिः, कलिन्दगिरेः नन्दिनी,
    कलिन्दगिरिनन्दिन्याः तटम्, सुरः इति द्रुमः, कलिन्दगिरिनन्दिनीतटे सुरदुर्मः,
    कलिन्दगिरिनन्दिनीतटसुरद्रुमम् आलम्बते इति शीलं यस्याः सा (णिनि) ।
  • मदीयमतिचुम्बिनी = नित्या मद्बुद्धिविषया ।
    मदीया मतिः, मदीयमतिं (पुंवद्भावः) चुम्बति इति शीलं यस्याः (णिनि) ।
  • कादम्बिनी = मेघमाला ।
    कदम्बः = १) पुष्पविशेषः सुगन्धी । २) कदम्बम् = समूहः इति मेदिनी ।
    कादम्बः = कदम्बे (समूहे) भवः इति कादम्बः । (कलहंसः)
    कादम्बिनी = कादम्बाः कलहंसाः सन्ति अस्याम् इति कादम्बिनी । कादम्ब + इनि + ङीष् ।

श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः
काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत्।
देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जैमिनीयं
शेषाङ्कप्राप्तशेषामलभणितिरभूत् सर्वविद्याधरो यः॥२॥

सर्वविद्यानिपुणस्य पेरुभट्टस्य स्तुतिः ।
शेषाङ्कप्राप्त- अत्र शेषवीरेश्वराख्याचार्यः
शेषामलभणिति- अत्र शेषो नाम महाभाष्यकारः पतञ्जलिः, तस्य अमलभणितिः - महाभाष्यम् ।
खण्डदेवाख्याचार्यात् मिमांसाशास्त्रम् अध्यैत ।

पाषाणादपि पीयूषं स्यन्दते यस्य लीलया।
तं वन्दे पेरुभट्टाख्यं लक्ष्मीकान्तं महागुरुम्॥३॥

निमग्नेन क्लेशैर्मननजलधेरन्तरुदरं
मयोन्नीतो लोके ललितरसगङ्गाधरमणिः।
हरन्नन्तर्ध्वान्तं हृदयमधिरूढो गुणवताम्
अलङ्कारान् सर्वानपि गलितगर्वान् रचयतु॥४॥

ध्वान्तम् = अन्धकारः ।

परिष्कुर्वन्त्वर्थान् सहृदयधुरीणाः कतिपये
तथाऽपि क्लेशो मे कथमपि गतार्थो न भविता।
तिमीन्द्राः सङ्‌क्षोभं विदधतु पयोधेः पुनरिमे
किमेतेनायासो भवति विफलो मन्दरगिरेः॥५॥

निर्माय नूतनमुदाहरणानुरूपं
काव्यं मयाऽत्र निहितं न परस्य किञ्चित्।
किं सेव्यते सुमनसां मनसाऽपि गन्धः
कस्तूरिकाजननशक्तिभृता मृगेण॥६॥

मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः।
रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम्॥७॥

मननतरितीर्णविद्यार्णवः = मननमेव तरिः नौः मननतरिः विद्या एव अर्णवः विद्यार्णवः मननतर्या तीर्णः विद्यार्णवः येन सः ।

रसागङ्गाधरनामा संदर्भोऽयं चिरं जयतु।
किञ्च कुलानि कवीनां निसर्गसम्यञ्चि रञ्जयतु॥८॥

विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् ।
निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं विदुः ॥
↗ पञ्चाङ्गानि = विषयः, विशयः, पूर्वपक्षः, उत्तरपक्षः, निर्णयः । = सन्दर्भः ।


श्लोकसूची

श्लोकः छन्दः अलङ्काराः
स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम् अभङ्गुरतनुत्विषां वल… पृथ्वी अतिशयोक्तिः, व्यतिरेकः, अनुप्रासः
श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः काणादीर… मन्दाक्रान्ता —
पाषाणादपि पीयूषं स्यन्दते यस्य लीलया — —
निमग्नेन क्लेशैर्मननजलधेरन्तरुदरं मयोन्नीतो लोके ललितरसगङ्गा… शिखरिणी —
परिष्कुर्वन्त्वर्थान् सहृदयधुरीणाः कतिपये तथाऽपि क्लेशो मे क… शिखरिणी अर्थान्तरन्यासः
निर्माय नूतनमुदाहरणानुरूपं काव्यं मयाऽत्र निहितं न परस्य किञ… वसन्ततिलका अर्थान्तरन्यासः
मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः आर्या रूपकम्
रसागङ्गाधरनामा संदर्भोऽयं चिरं जयतु आर्या —