रूपकम्¶
लक्षणम्
तद्रूपकमभेदो य उपमानोपमेययोः । (का०प्र० १०)
रूपकं रूपितारोपाद्विषये निरपह्नवे । (सा०द० १०)
विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत् । रूपकम् ... (कु०)
अतिसाम्यात् उपमेये (विषये) उपमानस्य (विषयिणः) अभेदेन आरोपः । उपमेयस्य निषेधः न क्रियते (निरपह्नवे) – एतेन अपह्नुतेः भेदः । उपमायां भेदः स्फुटः, रूपके अभेदः ।
उदाहरणानि
मुखचन्द्रः । अयं राजा साक्षात् परमेश्वरः ।
मुखे चन्द्रत्वस्य, राज्ञि परमेश्वरत्वस्य आरोपः ।
अपारे काव्यसंसारे कविरेव प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥
काव्ये संसारत्वस्य, कवौ प्रजापतित्वस्य आरोपः ।
सन्दर्भाः¶
- मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः — रसगङ्गाधरः — प्रथममाननम् — मङ्गलाचरणम्
- नमामि भर्वोश्चरणाम्बुजद्वयं सशेखरैर्मौखरिभिः कृतार्चनम् — कादम्बरी — मङ्गलाचरणम्, कथाप्रशंसा, कविवंशवर्णनम्
- दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः — कादम्बरी — मङ्गलाचरणम्, कथाप्रशंसा, कविवंशवर्णनम्