सामग्रीं त्यजन्तु

यथासंख्यम्

लक्षणम्

यथासङ्ख्यं क्रमेणैव क्रमिकाणां समन्वयः । (का०प्र० १०)
यथासङ्ख्यमनूद्देश उद्दिष्टानां क्रमेण यत् । (सा०द० १०)

पूर्वम् उद्दिष्टानां पदार्थानां पश्चात् तेनैव क्रमेण अन्वयः (प्रथमस्य प्रथमेन, द्वितीयस्य द्वितीयेन) ।

उदाहरणानि

शत्रुं मित्रं विपत्तिं च जय रञ्जय भञ्जय । (कु०)
शत्रुं जय, मित्रं रञ्जय, विपत्तिं भञ्जय ।

सन्दर्भाः