तद्गुणः¶
लक्षणम्
स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् ।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ (का०प्र० १०)
तद्गुणः स्वगुणत्यागादत्युत्कृष्टगुणग्रहः । (सा०द० १०)
तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः । (कु०)
किमपि वस्तु स्वस्य सहजं गुणं त्यक्त्वा समीपस्थस्य अत्युत्कृष्टगुणवतः वस्तुनः संसर्गात् तस्य गुणं गृह्णाति ।
उदाहरणानि
पद्मरागायते नासामौक्तिकं तेऽधरत्विषा । (कु०)
नासायाः श्वेतं मौक्तिकम् अधरस्य कान्त्या रक्तं (पद्मरागमणिः इव) भवति ।
सन्दर्भाः¶
- जयत्युपेन्द्रस्स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया — कादम्बरी — मङ्गलाचरणम्, कथाप्रशंसा, कविवंशवर्णनम्